रामायणम्/अयोध्याकाण्डम्/सर्गः ५७
← सर्गः ५६ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ५८ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥ कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह । रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥ भरद्वाजाभिगमनम् प्रयागे च सहासनम् । आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥ अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् । अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥ स वनानि सुगन्धीनि सरितः च सराम्सि च । पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥ ततः साय अह्न समये तृतीये अहनि सारथिः । अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥ स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः । सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥ कच्चिन् न सगजा साश्वा सजना सजन अधिपा । राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥ इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः । नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥ सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः । क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥ तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् । अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥ ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः । अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥ शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् । हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥ दान यज्ञ विवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥ किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् । इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥ वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् । राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥ स राज मार्ग मध्येन सुमन्त्रः पिहित आननः । यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥ सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च । कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥ हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥ आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥ ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः । राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥ सह रामेण निर्यातः विना रामम् इह आगतः । सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥ यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् । आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥ सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् । प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥ स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् । पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥ अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च । सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥ स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः । मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥ ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥ सुमित्रया तु सहिता कौसल्या पतितम् पतिम् । उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥ इमम् तस्य महा भाग दूतम् दुष्कर कारिणः । वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥ अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥ देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् । न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥ सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा । धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥ एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि । पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥ ततः तम् अन्तः पुर नादम् उत्थितम् । समीक्ष्य वृद्धाः तरुणाः च मानवाः । स्त्रियः च सर्वा रुरुदुः समन्ततः । पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्