रामायणम्/अयोध्याकाण्डम्/सर्गः ४१
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ४० | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४२ → |
रामायणम्/अयोध्याकाण्डम् |
---|
तस्मिम्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ । आर्तशब्दोऽथ सम्जज्ञे स्त्रीणामन्तह्पुते तदा ॥२-४१-१॥ अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः । यो गतिम् शरणम् च आसीत् स नाथः क्व नु गच्चति ॥२-४१-२॥ न क्रुध्यति अभिशस्तः अपि क्रोधनीयानि वर्जयन् । क्रुद्धान् प्रसादयन् सर्वान् सम दुह्खः क्व गच्चति ॥२-४१-३॥ कौसल्यायाम् महा तेजा यथा मातरि वर्तते । तथा यो वर्तते अस्मासु महात्मा क्व नु गच्चति ॥२-४१-४॥ कैकेय्या क्लिश्यमानेन राज्ञा सम्चोदितः वनम् । परित्राता जनस्य अस्य जगतः क्व नु गच्चति ॥२-४१-५॥ अहो निश्चेतनो राजा जीव लोकस्य सम्प्रियम् । धर्म्यम् सत्य व्रतम् रामम् वन वासो प्रवत्स्यति ॥२-४१-६॥ इति सर्वा महिष्यः ता विवत्साइव धेनवः । रुरुदुः चैव दुह्ख आर्ताः सस्वरम् च विचुक्रुशुः ॥२-४१-७॥ स तम् अन्तः पुरे घोरम् आर्त शब्दम् मही पतिः । पुत्र शोक अभिसम्तप्तः श्रुत्वा च आसीत् सुदुह्खितः ॥२-४१-८॥ न अग्नि होत्राणि अहूयन्त सूर्यः च अन्तर् अधीयत । व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् ॥२-४१-९॥ व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् । पुत्रम् प्रथमजम् लब्ध्वा जननी नाभ्यनन्दत ॥२-४१-१०॥ त्रिशन्कुर् लोहित अन्गः च बृहस्पति बुधाव् अपि । दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥२-४१-११॥ नक्षत्राणि गत अर्चीम्षि ग्रहाः च गत तेजसः । विशाखाः च सधूमाः च नभसि प्रचकाशिरे ॥२-४१-१२॥ कालिकानिलवेगेन महोदधिरिवोत्थितः । रामे वनम् प्रव्रजिते नगरम् प्रचचाल तत् ॥२-४१-१३॥ दिशः पर्याकुलाः सर्वा स्तिमिरेणेव सम्वृताः । न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥२-४१-१४॥ अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् । आहारे वा विहारे वा न कश्चित् अकरोन् मनः ॥२-४१-१५॥ शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् । अयोध्यायाम् जनः सर्वः शुशोच जगतीपतिम् ॥२-४१-१६॥ बाष्प पर्याकुल मुखो राज मार्ग गतः जनः । न हृष्टः लक्ष्यते कश्चित् सर्वः शोक परायणः ॥२-४१-१७॥ न वाति पवनः शीतः न शशी सौम्य दर्शनः । न सूर्यः तपते लोकम् सर्वम् पर्याकुलम् जगत् ॥२-४१-१८॥ अनर्थिनः सुताः स्त्रीणाम् भर्तारः भ्रातरः तथा । सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन् ॥२-४१-१९॥ ये तु रामस्य सुहृदः सर्वे ते मूढ चेतसः । शोक भारेण च आक्रान्ताः शयनम् न जुहुस् तदा ॥२-४१-२०॥ ततः तु अयोध्या रहिता महात्मना । पुरम्दरेण इव मही सपर्वता । चचाल घोरम् भय भार पीडिता । सनाग योध अश्व गणा ननाद च ॥२-४१-२१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥