रामायणम्/अयोध्याकाण्डम्/सर्गः ५४
(अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ५३ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ५५ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥ ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् । विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥ यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते । जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥ ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् । अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥ यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् । निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥ प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् । अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥ नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् । तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥ दारूणि परिभिन्नानि वनजैः उपजीविभिः । भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥ धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे । गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥ रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः । गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥ ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ । सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥ स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् । सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥ हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः । रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥ न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः । पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥ भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा । माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥ पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः । अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥ पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् । धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥ तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥ नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥ मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः । रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥ प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् । भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥ चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् । श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥ अवकाशो विविक्तः अयम् महा नद्योह् समागमे । पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥ एवम् उक्तः तु वचनम् भरद्वाजेन राघवः । प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥ भगवन्न् इताअसन्नः पौर जानपदो जनः । सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥ आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः । अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥ एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् । रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥ एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः । राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥ दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि । महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥ गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः । चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥ यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥ ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् । तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥ प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् । इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥ स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् । सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥ तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥ सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥ प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् । उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥ शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे । उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥ रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् । मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥ वासमौपयिकम् मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥ मयूरनादाभिरुतो गजराजनिषेवितः । गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥ पुण्यश्च रमणीयश्च बहुमूलफलायुतः । तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥ विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव । सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥ चरतः सीतया सार्धम् नन्दिष्यति मनस्तव । प्रहृष्ट कोयष्टिक कोकिल स्वनैः । र्विनादितम् तम् वसुधा धरम् शिवम् । मृगैः च मत्तैः बहुभिः च कुन्जरैः । सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्