रामायणम्/अयोध्याकाण्डम्/सर्गः ७४
(अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ७३ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ७५ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥ ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा । रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥ राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि । परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥ किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः । ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥ भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् । कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥ यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा । सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥ त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः । अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥ मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके । न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥ कौसल्या च सुमित्रा च याः च अन्या मम मातरः । दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥ न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः । राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥ यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः । वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥ यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते । भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥ कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये । कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥ किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् । ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥ अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते । तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥ अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता । वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥ ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले । रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥ अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥ इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् । सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥ निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् । आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥ ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् । इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥ भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् । कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥ एवम् उक्ता तु सुरभिः सुर राजेन धीमता । पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥ शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप । अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥ एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ । अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥ मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ । यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥ यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् । ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥ सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया । श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥ यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् । किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥ एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता । तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥ अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् । वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥ आनाययित्वा तनयम् कौसल्याया महा द्युतिम् । स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥ न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् । शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥ सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश । रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥ अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥ इति नागैव अरण्ये तोमर अन्कुश चोदितः । पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥ सम्रक्त नेत्रः शिथिल अम्बरः तदा । विधूत सर्व आभरणः परम्तपः । बभूव भूमौ पतितः नृप आत्मजः । शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्