रामायणम्/अयोध्याकाण्डम्/सर्गः ४०
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ३९ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४१ → |
रामायणम्/अयोध्याकाण्डम् |
---|
अथ रामः च सीता च लक्ष्मणः च कृत अन्जलिः । उपसम्गृह्य राजानम् चक्रुर् दीनाः प्रदक्षिणम् ॥२-४०-१॥ तम् च अपि समनुज्ञाप्य धर्मज्ञः सीतया सह । राघवः शोक सम्मूढो जननीम् अभ्यवादयत् ॥२-४०-२॥ अन्वक्षम् लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् । अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥२-४०-३॥ तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत् । हित कामा महा बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम् ॥२-४०-४॥ सृष्टः त्वम् वन वासाय स्वनुरक्तः सुहृज् जने । रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्चति ॥२-४०-५॥ व्यसनी वा समृद्धो वा गतिर् एष तव अनघ । एष लोके सताम् धर्मः यज् ज्येष्ठ वशगो भवेत् ॥२-४०-६॥ इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम् । दानम् दीक्षा च यज्ञेषु तनु त्यागो मृधेषु च ॥२-४०-७॥ लक्स्मणम् त्वेवम्क्त्वा सा सम्सिद्धम् प्रियराघवम् । सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥२-४०-८॥ रामम् दशरथम् विद्धि माम् विद्धि जनक आत्मजाम् । अयोध्याम् अटवीम् विद्धि गच्च तात यथा सुखम् ॥२-४०-९॥ ततः सुमन्त्रः काकुत्स्थम् प्रान्जलिर् वाक्यम् अब्रवीत् । विनीतः विनयज्ञः च मातलिर् वासवम् यथा ॥२-४०-१०॥ रथम् आरोह भद्रम् ते राज पुत्र महा यशः । क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसि ॥२-४०-११॥ चतुर् दश हि वर्षाणि वस्तव्यानि वने त्वया । तानि उपक्रमितव्यानि यानि देव्या असि चोदितः ॥२-४०-१२॥ तम् रथम् सूर्य सम्काशम् सीता हृष्टेन चेतसा । आरुरोह वर आरोहा कृत्वा अलम्कारम् आत्मनः ॥२-४०-१३॥ तथैव आयुध जातानि भ्रातृभ्याम् कवचानि च । रथ उपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१४॥ वनवासम् हि सम्ख्यय वासाम्स्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥२-४०-१५॥ तथैवायुधजालानि भ्रातृभ्याम् कवचानि च । रथोपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१६॥ सीता तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् । सुमन्त्रः सम्मतान् अश्वान् वायु वेग समान् जवे ॥२-४०-१७॥ प्रयाते तु महा अरण्यम् चिर रात्राय राघवे । बभूव नगरे मूर्च्चा बल मूर्च्चा जनस्य च ॥२-४०-१८॥ तत् समाकुल सम्भ्रान्तम् मत्त सम्कुपित द्विपम् । हय शिन्जित निर्घोषम् पुरम् आसीन् महा स्वनम् ॥२-४०-१९॥ ततः सबाल वृद्धा सा पुरी परम पीडिता । रामम् एव अभिदुद्राव घर्म आर्तः सलिलम् यथा ॥२-४०-२०॥ पार्श्वतः पृष्ठतः च अपि लम्बमानाः तत् उन्मुखाः । बाष्प पूर्ण मुखाः सर्वे तम् ऊचुर् भृश दुह्खिताः ॥२-४०-२१॥ सम्यच्च वाजिनाम् रश्मीन् सूत याहि शनैः शनैः । मुखम् द्रक्ष्यामि रामस्य दुर्दर्शम् नो भविष्यति ॥२-४०-२२॥ आयसम् हृदयम् नूनम् राम मातुर् असम्शयम् । यद् देव गर्भ प्रतिमे वनम् याति न भिद्यते ॥२-४०-२३॥ कृत कृत्या हि वैदेही चाया इव अनुगता पतिम् । न जहाति रता धर्मे मेरुम् अर्क प्रभा यथा ॥२-४०-२४॥ अहो लक्ष्मण सिद्ध अर्थः सतताम् प्रिय वादिनम् । भ्रातरम् देव सम्काशम् यः त्वम् परिचरिष्यसि ॥२-४०-२५॥ महति एषा हि ते सिद्धिर् एष च अभ्युदयो महान् । एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्चसि ॥२-४०-२६॥ एवम् वदन्तः ते सोढुम् न शेकुर् बाष्पम् आगतम् । अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीन चेतनः ॥२-४०-२७॥ अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः । निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात् ॥२-४०-२८॥ शुश्रुवे च अग्रतः स्त्रीनाम् रुदन्तीनाम् महा स्वनः । यथा नादः करेणूनाम् बद्धे महति कुन्जरे ॥२-४०-२९॥ पिता च राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ । परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा ॥२-४०-३०॥ स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः । सूतम् सम्चोदयामास त्वरितम् वाह्यतामिति ॥२-४०-३१॥ रामो याहीति सूतम् तम् तिष्ठेति स जनस्तदा । उभयम् नाशकत्सूतः कर्तुमध्वनि चोदितः ॥२-४०-३२॥ निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः । पतितैरभ्यवहितम् प्रशशाम महीरजः ॥२-४०-३३॥ रुदिताश्रुपरिद्यूनम् हाहाकृतमचेतनम् । प्रयाणे राघवस्यासीत्पुरम् परमपीडितम् ॥२-४०-३४॥ सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् । मीनसम्क्षोभचलितैः सलिलम् पङ्कजैरिव ॥२-४०-३५॥ दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् । निपपातैव दुःखेन हतमूल इव द्रुमः ॥२-४०-३६॥ ततओ हल हला शब्दो जज्ञे रामस्य पृष्ठतः । नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश दुह्खितम् ॥२-४०-३७॥ हा राम इति जनाः केचित् राम माता इति च अपरे । अन्तः पुरम् समृद्धम् च क्रोशन्तम् पर्यदेवयन् ॥२-४०-३८॥ अन्वीक्षमाणो रामः तु विषण्णम् भ्रान्त चेतसम् । राजानम् मातरम् चैव ददर्श अनुगतौ पथि ॥२-४०-३९॥ स बद्ध इव पाशेन किशोरो मातरम् यथा । धर्मपाशेन सम्क्षिप्तः प्रकाशम् नाभुदैक्षत ॥२-४०-४०॥ पदातिनौ च यान अर्हाव् अदुह्ख अर्हौ सुख उचितौ । दृष्ट्वा सम्चोदयाम् आस शीघ्रम् याहि इति सारथिम् ॥२-४०-४१॥ न हि तत् पुरुष व्याघ्रः दुह्खदम् दर्शनम् पितुः । मातुः च सहितुम् शक्तः तोत्र अर्दितैव द्विपः ॥२-४०-४२॥ प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् । बद्धवत्सा यथा धेनू राममाताभ्याधावत ॥२-४०-४३॥ तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् । क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च ॥२-४०-४४॥ रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारि नेत्रजम् । असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥२-४०-४५॥ तिष्ठ इति राजा चुक्रोष याहि याहि इति राघवः । सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा ॥२-४०-४६॥ न अश्रौषम् इति राजानम् उपालब्धो अपि वक्ष्यसि । चिरम् दुह्खस्य पापिष्ठम् इति रामः तम् अब्रवीत् ॥२-४०-४७॥ रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तम् जनम् । व्रजतः अपि हयान् शीघ्रम् चोदयाम् आस सारथिः ॥२-४०-४८॥ न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् । मनसा अपि अश्रु वेगैः च न न्यवर्तत मानुषम् ॥२-४०-४९॥ यम् इच्चेत् पुनर् आयान्तम् न एनम् दूरम् अनुव्रजेत् । इति अमात्या महा राजम् ऊचुर् दशरथम् वचः ॥२-४०-५०॥ तेषाम् वचः सर्व गुण उपपन्नम् । प्रस्विन्न गात्रः प्रविषण्ण रूपः । निशम्य राजा कृपणः सभार्यो । व्यवस्थितः तम् सुतम् ईक्षमाणः ॥२-४०-५१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥