रामायणम्/अयोध्याकाण्डम्/सर्गः १३
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः १२ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १४ → |
रामायणम्/अयोध्याकाण्डम् |
---|
अतत् अर्हम् महा राजम् शयानम् अतथा उचितम् । ययातिम् इव पुण्य अन्ते देव लोकात् परिच्युतम् ॥२-१३-१॥ अनर्थ रूपा सिद्ध अर्थाअभीता भय दर्शिनी । पुनर् आकारयाम् आस तम् एव वरम् अन्गना ॥२-१३-२॥ त्वम् कत्थसे महा राज सत्य वादी द्Rढ व्रतः । मम च इमम् वरम् कस्मात् विधारयितुम् इच्चसि ॥२-१३-३॥ एवम् उक्तः तु कैकेय्या राजा दश रथः तदा । प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव ॥२-१३-४॥ म्Rते मयि गते रामे वनम् मनुज पुम्गवे । हन्त अनार्ये मम अमित्रे रामः प्रव्राजितः वनम् ॥२-१३-५॥ स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरह्म् । प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥२-१३-६॥ कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया । यदि सत्यम् ब्रवीम्य् एतत् तत् असत्यम् भविष्यति ॥२-१३-७॥ अपुत्रेण मया पुत्रः श्रमेण महता महान् । रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥२-१३-८॥ शूर्श्च कृतविद्यश्च जितक्रोधः क्षमापरः । कथं कमलपत्राक्षो मया रामो विवास्यते ॥२-१३-९॥ कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् । अभिराममहं रामम् प्रेषयिष्यामि दण्डकान् ॥२-१३-१०॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च । दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥२-१३-११॥ यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् । अदुःखार्हस्य रामस्य ततः सुखमवाप्नु याम् ॥२-१३-१२॥ नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् । किम् विप्रियेण कैकेयि प्रियं योजयसे मम ॥२-१३-१३॥ अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे । तथा विलपतः तस्य परिभ्रमित चेतसः ॥२-१३-१४॥ अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत । सा त्रि यामा तथा आर्तस्य चन्द्र मण्डल मण्डिता ॥२-१३-१५॥ राज्ञो विलपमानस्य न व्यभासत शर्वरी । तथैव उष्णम् विनिह्श्वस्य व्Rद्धो दशरथो न्Rपः ॥२-१३-१६॥ विललाप आर्तवद् दुह्खम् गगन आसक्त लोचनः । न प्रभातम् त्वया इच्चामि मया अयम् रचितः अन्जलिः ॥२-१३-१७॥ अथवा गम्यताम् शीघ्रम् न अहम् इच्चामि निर्घ्Rणाम् । अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥२-१३-१८॥ न्Rशम्साम् कैकेयीम् द्रष्टुम् यत् क्Rते व्यसनम् महत् । एवम् उक्त्वा ततः राजा कैकेयीम् सम्यत अन्जलिः ॥२-१३-१९॥ प्रसादयाम् आस पुनः कैकेयीम् च इदम् अब्रवीत् । साधु व्Rत्तस्य दीनस्य त्वद् गतस्य गत आयुषः ॥२-१३-२०॥ प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः । शून्येन खलु सुश्रोणि मया इदम् समुदाह्Rतम् ॥२-१३-२१॥ कुरु साधु प्रसादम् मे बाले सह्Rदया हि असि । प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२-१३-२२॥ लभतामसितापाङ्गे यशः परमवाप्नुहि । मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२-१३-२३॥ प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे । विशुद्ध भावस्य सु दुष्ट भावा । दीनस्य ताम्राश्रुकलस्य राज्ञः । श्रुत्वा विचित्रम् करुणम् विलापम् । भर्तुर् न्Rशम्सा न चकार वाक्यम् ॥२-१३-२४॥ ततः स राजा पुनर् एव मूर्चितः । प्रियाम् अतुष्टाम् प्रतिकूल भाषिणीम् । समीक्ष्य पुत्रस्य विवासनम् प्रति । क्षितौ विसम्ज्ञो निपपात दुह्खितः ॥२-१३-२५॥ इतीव राज्ञो व्य्थितस्य सा निशा । जगाम घोरं स्वसतो मनस्विनः । विबोध्यमानः प्रतिबोधनं तदा । निवारयामास स राजसत्तमः ॥२-१३-२६॥ ॥ इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे त्रयोदशःसर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥