रामायणम्/अयोध्याकाण्डम्/सर्गः २३
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः २२ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः २४ → |
रामायणम्/अयोध्याकाण्डम् |
---|
इति ब्रुवति रामे तु लक्ष्मणो अधः शिरा मुहुः । श्रुत्वा मध्यम् जगाम इव मनसा दुह्ख हर्षयोह् ॥२-२३-१॥ तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोर् मध्ये नर ऋषभ । निशश्वास महा सर्पो बिलस्यैव रोषितः ॥२-२३-२॥ तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी सहितम् तदा । बभौ क्रुद्धस्य सिम्हस्य मुखस्य सदृशम् मुखम् ॥२-२३-३॥ अग्रहः तम् विधुन्वम्स् तु हस्ती हस्तम् इवात्मनः । तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरः धराम् ॥२-२३-४॥ अग्र अक्ष्णा वीक्षमाणः तु तिर्यग् भ्रातरम् अब्रवीत् । अस्थाने सम्भ्रमः यस्य जातः वै सुमहान् अयम् ॥२-२३-५॥ धर्म दोष प्रसन्गेन लोकस्य अनतिशन्कया । कथम् हि एतत् असम्भ्रान्तः त्वद् विधो वक्तुम् अर्हति ॥२-२३-६॥ यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय ऋषभः । किम् नाम कृपणम् दैवम् अशक्तम् अभिशम्सति । पापयोस् तु कथम् नाम तयोह् शन्का न विद्यते ॥२-२३-७॥ सन्ति धर्म उपधाः श्लक्ष्णा धर्मात्मन् किम् न बुध्यसे ॥२-२३-८॥ तयोस्सुचरितम् स्वार्थम् शाठ्यात् परिजिहीर्षतोः । यदि नैवम् व्यवसितम् स्याद्धि प्राग्रेव राघव । तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥२-२३-९॥ लोक विद्विष्टम् आरब्धम् त्वद् अन्यस्य अभिषेचनम् । नोत्सहे सहितुम् वीर तत्र मे क्षन्तुमर्हसि ॥२-२३-१०॥ येन इयम् आगता द्वैधम् तव बुद्धिर् मही पते । स हि धर्मः मम द्वेष्यः प्रसन्गात् यस्य मुह्यसि ॥२-२३-११॥ कथम् त्वम् कर्मणा शक्तः कैकेयीवशवर्तिनः । करिष्यसि पितुर्वाक्यमधर्मिष्ठम् विगर्हितम् ॥२-२३-१२॥ यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् । तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते ॥२-२३-१३॥ मन्साऽपि कथम् कामम् कुर्यास्त्वम् कामवृत्तयोः । तयोस्त्वहितयोर्नित्यम् शत्र्वोः पित्रभिधानयोः ॥२-२३-१४॥ यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् । तथा प्युपेक्षणीयम् ते न मे तदपि रोचते ॥२-२३-१५॥ विक्लवो वीर्य हीनो यः स दैवम् अनुवर्तते । वीराः सम्भावित आत्मानो न दैवम् पर्युपासते ॥२-२३-१६॥ दैवम् पुरुष कारेण यः समर्थः प्रबाधितुम् । न दैवेन विपन्न अर्थः पुरुषः सो अवसीदति ॥२-२३-१७॥ द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च । दैव मानुषयोः अद्य व्यक्ता व्यक्तिर् भविष्यति ॥२-२३-१८॥ अद्य मत् पौरुष हतम् दैवम् द्रक्ष्यन्ति वै जनाः । यद् दैवात् आहतम् ते अद्य द्Rष्टम् राज्य अभिषेचनम् ॥२-२३-१९॥ अत्यन्कुशम् इव उद्दामम् गजम् मद बल उद्धतम् । प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये ॥२-२३-२०॥ लोक पालाः समस्ताः ते न अद्य राम अभिषेचनम् । न च क्Rत्स्नाः त्रयो लोका विहन्युः किम् पुनः पिता ॥२-२३-२१॥ यैः विवासः तव अरण्ये मिथो राजन् समर्थितः । अरण्ये तु विवत्स्यन्ति चतुर् दश समाः तथा ॥२-२३-२२॥ अहम् तदा आशाम् चेत्स्यामि पितुस् तस्याः च या तव । अभिषेक विघातेन पुत्र राज्याय वर्तते ॥२-२३-२३॥ मद् बलेन विरुद्धाय न स्यात् दैव बलम् तथा । प्रभविष्यति दुह्खाय यथा उग्रम् पौरुषम् मम ॥२-२३-२४॥ ऊर्ध्वम् वर्ष सहस्र अन्ते प्रजा पाल्यम् अनन्तरम् । आर्य पुत्राः करिष्यन्ति वन वासम् गते त्वयि ॥२-२३-२५॥ पूर्व राज Rषि व्Rत्त्या हि वन वासो विधीयते । प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥२-२३-२६॥ स चेद् राजनि अनेक अग्रे राज्य विभ्रम शन्कया । न एवम् इच्चसि धर्मात्मन् राज्यम् राम त्वम् आत्मनि ॥२-२३-२७॥ प्रतिजाने च ते वीर मा भूवम् वीर लोक भाक् । राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम् ॥२-२३-२८॥ मन्गलैः अभिषिन्चस्व तत्र त्वम् व्याप्Rतः भव । अहम् एको मही पालान् अलम् वारयितुम् बलात् ॥२-२३-२९॥ न शोभ अर्थाव् इमौ बाहू न धनुर् भूषणाय मे । न असिरा बन्धन अर्थाय न शराः स्तम्भ हेतवः ॥२-२३-३०॥ अमित्र दमन अर्थम् मे सर्वम् एतच् चतुष्टयम् । न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुर् मतः मम ॥२-२३-३१॥ असिना तीक्ष्ण धारेण विद्युच् चलित वर्चसा । प्रग्Rहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये ॥२-२३-३२॥ खड्ग निष्पेष निष्पिष्टैः गहना दुश्चरा च मे । हस्ति अश्व नर हस्त ऊरु शिरोभिर् भविता मही ॥२-२३-३३॥ खड्ग धारा हता मे अद्य दीप्यमानाइव अद्रयः । पतिष्यन्ति द्विपा भूमौ मेघाइव सविद्युतः ॥२-२३-३४॥ बद्ध गोधा अन्गुलि त्राणे प्रगृहीत शर आसने । कथम् पुरुष मानी स्यात् पुरुषाणाम् मयि स्थिते ॥२-२३-३५॥ बहुभिः च एकम् अत्यस्यन्न् एकेन च बहून् जनान् । विनियोक्ष्याम्य् अहम् बाणान् नृ वाजि गज मर्मसु ॥२-२३-३६॥ अद्य मे अस्त्र प्रभावस्य प्रभावः प्रभविष्यति । राज्ञः च अप्रभुताम् कर्तुम् प्रभुत्वम् च तव प्रभो ॥२-२३-३७॥ अद्य चन्दन सारस्य केयूरा मोक्षणस्य च । वसूनाम् च विमोक्षस्य सुह्Rदाम् पालनस्य च ॥२-२३-३८॥ अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः । अभिषेचन विघ्नस्य कर्तृउणाम् ते निवारणे ॥२-२३-३९॥ ब्रवीहि को अद्य एव मया वियुज्यताम् । तव असुह्Rद् प्राण यशः सुह्Rज् जनैः । यथा तव इयम् वसुधा वशे भवेत् । तथा एव माम् शाधि तव अस्मि किम्करः ॥२-२३-४०॥ विम्Rज्य बाष्पम् परिसान्त्व्य च असकृत् । स लक्ष्मणम् राघव वम्श वर्धनः । उवाच पित्र्ये वचने व्यवस्थितम् । निबोध माम् एष हि सौम्य सत् पथः ॥२-२३-४१॥ ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥