रामायणम्/अयोध्याकाण्डम्/सर्गः ६२
(अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ६१ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ६३ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥ एवम् तु क्रुद्धया राजा राम मात्रा सशोकया । श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥ चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः । अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥ स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् । कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥ तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥ अमनाः तेन शोकेन राम शोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥ दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः । वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥ प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः । वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥ भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा । धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥ सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर । न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥ तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥ स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् । सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥ प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते । याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥ न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥ जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् । पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥ शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् । शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥ शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः । सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥ दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः । यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥ वन वासाय रामस्य पन्च रात्रः अद्य गण्यते । यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥ तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते । अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥ एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः । मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥ तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः । शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्