रामायणम्/अयोध्याकाण्डम्/सर्गः ५
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ४ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ६ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥
सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने । पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥२-५-१॥ गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन । श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२-५-२॥ तथेति च स राजानमुक्त्वा वेदविदां वरः । स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥ उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः । ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः ॥२-५-४॥ स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् । तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः ॥२-५-५॥ तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः । मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥ अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः । ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥२-५-७॥ सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च । प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि । उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः । पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥ इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् । मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥२-५-११॥ ततो यथावद्रामेण स राज्ञो गुरुरर्चितः । अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् ॥२-५-१२॥ सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः । सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥ हृष्टनारीनरयुतं रामवेश्म तदा बबौ । यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः ॥२-५-१४॥ स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् । निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥ बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः । बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥२-५-१६॥ जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा । बभूव राजमार्गस्य सागरस्येव निस्वनः ॥२-५-१७॥ सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी । आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥२-५-१८॥ तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः । रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः ॥२-५-१९॥ प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् । उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥२-५-२०॥ एवं तं जनसंबाधं राजमार्गं पुरोहितः । व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥२-५-२१॥ सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः । समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः । पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥२-५-२३॥ तेन चैव तदा तुल्यं सहासीनाः सभासदः । आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥ गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् । विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥ तमग्र्यवेष्प्रमदाजनाकुलं । महेन्द्रवेश्मप्रतिमं निवेशनम् । विदीपयंश्चारु विवेश पार्थिवः । शशीव तारागणसंकुलं नभः ॥२-५-२६॥ ॥ इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे पन्चम सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥