रामायणम्/अयोध्याकाण्डम्/सर्गः २५
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः २४ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः २६ → |
रामायणम्/अयोध्याकाण्डम् |
---|
सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि । चकार माता रामस्य मन्गलानि मनस्विनी ॥२-२५-१॥ न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम । श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥२-२५-२॥ यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च । सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥२-२५-३॥ येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च । ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥२-२५-४॥ यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥२-२५-५॥ पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा । सत्येन च महाबाहो चिरम् जीवाभिरक्षितः ॥२-२५-६॥ समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥२-२५-७॥ पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम । स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥२-२५-८॥ स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा । ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥२-२५-९॥ ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः । दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥२-२५-१०॥ स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः । स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥२-२५-११॥ सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः । याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥२-२५-१२॥ स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः । शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥२-२५-१३॥ द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च । नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥२-२५-१४॥ अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् । ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥२-२५-१५॥ कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते । महा वनानि चरतः मुनि वेषस्य धीमतः ॥२-२५-१६॥ तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा । राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥२-२५-१७॥ क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् । प्लवगा वृश्चिका दम्शा मशकाः चैव कानने ॥२-२५-१८॥ सरी सृपाः च कीटाः च मा भूवन् गहने तव । महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥२-२५-१९॥ महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक । नृ माम्स भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥२-२५-२०॥ मा च त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह । आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥२-२५-२१॥ सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक । स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥२-२५-२२॥ सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः । गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२-२५-२३॥ पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् । अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥२-२५-२४॥ उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन । सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥२-२५-२५॥ ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् । इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥२-२५-२६॥ स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना । ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥२-२५-२७॥ हावयामास विधिना राममङ्गलकारणात् । घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥२-२५-२८॥ उपसम्पादयामास कौसल्या पमाङ्गना । उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥२-२५-२९॥ हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् । मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥२-२५-३०॥ वाचयामास रामस्य वने स्वस्त्ययनक्रियाः । ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥२-२५-३१॥ दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् । यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥२-२५-३२॥ वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् । यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥२-२५-३३॥ अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् । अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥२-२५-३४॥ अदितिर्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् । तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥२-२५-३५॥ यदासीन्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् । ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥२-२५-३६॥ मम्गLआनि महाबाहो दिशन्तु शुभवङ्गLआः । इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥२-२५-३७॥ गन्दाम्श्चापि समालभ्य राममायतलो चना । ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥२-२५-३८॥ चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च । उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥२-२५-३९॥ वाङ्मात्रेण न भावेन वाचा सम्सज्जमानया । आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥२-२५-४०॥ अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् । अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥२-२५-४१॥ पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि । प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥२-२५-४२॥ द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् । भद्रासनगतम् राम वनवासादिहागतम् ॥२-२५-४३॥ द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः । मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥२-२५-४४॥ पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः । मया अर्चिता देव गणाः शिव आदयो । महर्षयो भूत महा असुर उरगाः । अभिप्रयातस्य वनम् चिराय ते। हितानि कान्क्षन्तु दिशः च राघव ॥२-२५-४५॥ इति इव च अश्रु प्रतिपूर्ण लोचना। समाप्य च स्वस्त्ययनम् यथा विधि । प्रदक्षिणम् चैव चकार राघवम् । पुनः पुनः च अपि निपीड्य सस्वजे ॥२-२५-४६॥ तथा तु देव्या स कृत प्रदक्षिणो । निपीड्य मातुः चरणौ पुनः पुनः । जगाम सीता निलयम् महा यशाः । स राघवः प्रज्वलितः स्वया श्रिया ॥२-२५-४७॥ ॥ इति रामयने अयोध्य कान्द पन्चविम्सः सर्ग ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥