रामायणम्/अयोध्याकाण्डम्/सर्गः ५०
(अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ४९ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ५१ → |
रामायणम्/अयोध्याकाण्डम् |
---|
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥ आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥ निवृत्तवनवासस्त्वामनृणो जगतीपतेः । पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥ ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥ अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः । चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥ तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् । विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥ तथा विलपताम् तेषामतृप्तानाम् च राघवः । अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥ ततो धान्यधनोपेतान् दानशीलजनान् शिवान् । अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥ उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् । तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥ लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥ मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् । राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥ तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् । ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥ आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् । कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥ देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् । नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥ देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् । देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥ जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् । क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥ क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥ देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥ हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् । सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥ क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् । क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥ क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् । नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥ व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् । दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥ देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् । प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥ फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा । शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥ विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् । ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥ समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥ ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः । सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥ अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् । सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥ द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥ लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् । उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥ रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः । रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥ सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् । वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥ तत्र राजा गुहो नाम रामस्य आत्म समः सखा । निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥ स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् । वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥ ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् । सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥ तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् । यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥ ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् । ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् । अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥ स्वागतम् ते महा बाहो तव इयम् अखिला मही । वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥ भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् । शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥ गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥ अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् । पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥ भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् । दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥ अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च । यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् । सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥ कुश चीर अजिन धरम् फल मूल अशनम् च माम् । विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥ अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् । एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥ एते हि दयिता राज्ञः पितुर् दशरथस्य मे । एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥ अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् । गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥ ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् । जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः । सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥ गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् । अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥ तथा शयानस्य ततः अस्य धीमतः । यशस्विनो दाशरथेर् महात्मनः । अदृष्ट दुह्खस्य सुख उचितस्य सा । तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्