रामायणम्/अयोध्याकाण्डम्/सर्गः ४६
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥२-४६॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ४५ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४७ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः । सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥ इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् । वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥ पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः । यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥ अद्य अयोध्या तु नगरी राज धानी पितुर् मम । सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥ अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः । त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥ पितरम् चानुशोचामि मातरम् च यशस्विनीम् । अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥ भरतः खलु धर्म आत्मा पितरम् मातरम् च मे । धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥ भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः । न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥ त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् । अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥ अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् । एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥ एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः । अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥ सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते । प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥ उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् । रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥ ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् । रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥ सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः । कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥ जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः । सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥ गो कुल आकुल तीरायाः तमसायाः विदूरतः । अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥ उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च । अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥ अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि । वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥ यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने । अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥ यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु । रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥ अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः । स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥ पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः । न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥ अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् । रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥ अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः । गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥ सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः । योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥ अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर । त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥ तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः । शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥ स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् । प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥ मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः । उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥ मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः । यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥ रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः । प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥ तौ सम्प्रयुक्तम् तु रथम् समासित्थौ । तदा ससीतौ रघवम्शवर्धनौ । प्रचोदयामास ततस्तुरम्गमान् । स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥ ततः समास्थाय रथम् महारथःससारथिर्धाशरथिर्वनम् ययौ । उदङ्मुखम् तम् तु रथम् चकार स । प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥२-४६॥