रामायणम्/अयोध्याकाण्डम्/सर्गः ३६
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे षट्त्रिंशः सर्गः ॥२-३६॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ३५ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३७ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततः सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया । सबाष्पम् अतिनिह्श्वस्य जगाद इदम् पुनः पुनः ॥२-३६-१॥ सूत रत्न सुसम्पूर्णा चतुर् विध बला चमूः । रागवस्य अनुयात्रा अर्थम् क्षिप्रम् प्रतिविधीयताम् ॥२-३६-२॥ रूप आजीवा च शालिन्यो वणिजः च महा धनाः । शोभयन्तु कुमारस्य वाहिनीम् सुप्रसारिताः ॥२-३६-३॥ ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः । तेषाम् बहु विधम् दत्त्वा तान् अपि अत्र नियोजय ॥२-३६-४॥ आयुधानि च मुख्यानि नागराः शकटानि च । अनुगच्छन्तु काकुत्थ्सम् व्याधाश्चारण्यगोचराः ॥२-३६-५॥ निघ्नन् मृगान् कुन्जरामः च पिबमः च आरण्यकम् मधु । नदीः च विविधाः पश्यन् न राज्यम् सम्स्मरिष्यति ॥२-३६-६॥ धान्य कोशः च यः कश्चित् धन कोशः च मामकः । तौ रामम् अनुगच्चेताम् वसन्तम् निर्जने वने ॥२-३६-७॥ यजन् पुण्येषु देशेषु विसृजमः च आप्त दक्षिणाः । ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने ॥२-३६-८॥ भरतः च महा बाहुर् अयोध्याम् पालयिष्यति । सर्व कामैः पुनः श्रीमान् रामः सम्साध्यताम् इति ॥२-३६-९॥ एवम् ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् । मुखम् च अपि अगमात् शेषम् स्वरः च अपि न्यरुध्यत ॥२-३६-१०॥ सा विषण्णा च सम्त्रस्ता कैकेयी वाक्यम् अब्रवीत् । राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥२-३६-११॥ राज्यम् गत जनम् साधो पीत मण्डाम् सुराम् इव । निरास्वाद्यतमम् शून्यम् भरतः न अभिपत्स्यते ॥२-३६-१२॥ कैकेय्याम् मुक्त लज्जायाम् वदन्त्याम् अतिदारुणम् । राजा दशरथो वाक्यम् उवाच आयत लोचनाम् ॥२-३६-१३॥ वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते । अनार्ये कृत्यमार्ब्धम् किम् न पूर्वमुपारुधः ॥२-३६-१४॥ तस्यैतत्क्रोधसम्युक्तमुक्तम् श्रुत्वा वराङ्गना । कैकेयी द्वि गुणम् क्रुद्धा राजानम् इदम् अब्रवीत् ॥२-३६-१५॥ तव एव वम्शे सगरः ज्येष्ठम् पुत्रम् उपारुधत् । असमन्जैति ख्यातम् तथा अयम् गन्तुम् अर्हति ॥२-३६-१६॥ एवम् उक्तः धिग् इति एव राजा दशरथो अब्रवीत् । व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत ॥२-३६-१७॥ तत्र वृद्धो महा मात्रः सिद्ध अर्थो नाम नामतः । शुचिर् बहु मतः राज्ञः कैकेयीम् इदम् अब्रवीत् ॥२-३६-१८॥ असमन्जो गृहीत्वा तु क्रीडितः पथि दारकान् । सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः ॥२-३६-१९॥ तम् दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् । असमन्जम् वृषीण्व एकम् अस्मान् वा राष्ट्र वर्धन ॥२-३६-२०॥ तान् उवाच ततः राजा किम् निमित्तम् इदम् भयम् । ताः च अपि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयो अब्रुवन् ॥२-३६-२१॥ क्रीडितः तु एष नः पुत्रान् बालान् उद्भ्रान्त चेतनः । सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते ॥२-३६-२२॥ स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नर अधिप । तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय चिकीर्षया ॥२-३६-२३॥ तम् यानम् श्रीघ्रमारोप्य सभार्यम् सपरिच्छदम् । यावज्जीवम् विवास्योऽयमिति स्वानन्वशात् पिता ॥२-३६-२४॥ स फालपिटकम् गृह्य गिरिदुर्गान्यलोडयत् । दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥२-३६-२५॥ इति एवम् अत्यजद् राजा सगरः वै सुधार्मिकः । रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते ॥२-३६-२६॥ न हि कम्चन पश्यामो राघवस्यागुणम् वयम् । दुर्लभो यस्य निरयः श्शाङ्कस्येव कल्मषम् ॥२-३६-२७॥ अथवा देवि दोषम् त्वं कंचित्पश्यसि राघवे । तमद्य ब्रूहि तत्वैन तदा रोमो विवास्यताम् ॥२-३६-२८॥ अदुष्टस्य हि सम्त्यागः सत्पथे निरतस्य च । निर्दहे दपि शक्रस्य द्युतिम् धर्मनिरोधनात् ॥२-३६-२९॥ तदलम् देवि रामस्य श्रिया विहतया त्वया । लोकतोऽप् हि ते रक्ष्यः परिवादः शुभानने ॥२-३६-३०॥ श्रुत्वा तु सिद्ध अर्थ वचो राजा श्रान्ततर स्वनः । शोक उपहतया वाचा कैकेयीम् इदम् अब्रवीत् ॥२-३६-३१॥ एतद्वचो नेच्छ्सि पापवृत्ते । हितम् न जानासि ममात्मनो वा । आस्थाय मार्गम् कृपणम् कुचेष्टा । चेष्टा हि ते साधुपदादपेता ॥२-३६-३२॥ अनुव्रजिष्याम्य् अहम् अद्य रामम् । राज्यम् परित्यज्य सुखम् धनम् च । सह एव राज्ञा भरतेन च त्वम् । यथा सुखम् भुन्क्ष्व चिराय राज्यम् ॥२-३६-३३॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्त्रिंशः सर्गः ॥२-३६॥