रामायणम्/अयोध्याकाण्डम्/सर्गः १६
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः १५ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १७ → |
रामायणम्/अयोध्याकाण्डम् |
---|
स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् । प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥ प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः । अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥ तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् । ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥ ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः । सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥ प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः । तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥ ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः । सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥ प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः । तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥ तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् । दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥ वराह रुधिर आभेण शुचिना च सुगन्धिना । अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥ स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया । उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥ तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा । ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥ प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने । राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥ कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति । महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥ एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः । ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥ देवि देवः च देवी च समागम्य मद् अन्तरे । मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥ लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा । सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥ सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी । जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥ दिष्ट्या खलु महाराजो महिष्या प्रियया सह । सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥ यादृशी परिषत् तत्र तादृशो दूताअगतः । ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥ हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः । सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥ पति सम्मानिता सीता भर्तारम् असित ईक्षणा । आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥ राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् । कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥ दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् । कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥ पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः । वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥ अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः । निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥ पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः । लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥ अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः । स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥ ततः पावक सम्काशम् आरुरोह रथ उत्तमम् । वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥ मेघनादमसम्बाधम् मणिहेमविभूशितम् । मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥ करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः । हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥ प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया । स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥ निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः । चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥ जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः । ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥ तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः । ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥ अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः । अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥ खड्गचापधराः शूरा जग्मुराशम्सवो जनाः । ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥ सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि । हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥ कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः । रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥ वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे । नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥ पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् । सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥ अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् । तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥ रोहिणीव शशाङ्केन रामसम्योगमाप या । इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥ शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः । स राघवः तत्र कथा प्रलापम् । शुश्राव लोकस्य समागतस्य । आत्म अधिकारा विविधाः च वाचः । प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥ एष श्रियम् गच्चति राघवो अद्य। राज प्रसादात् विपुलाम् गमिष्यन् । एते वयम् सर्व समृद्ध कामा। येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥ लाभो जनस्य अस्य यद् एष सर्वम् । प्रपत्स्यते राष्ट्रम् इदम् चिराय । स घोषवद्भिः च हयैः सनागैः । पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥ स घोषवद्भिश्च हयैः सनागैः । पुरस्सरैः स्वस्तिकसूतमागधैः । महीयमानः प्रवरैः च वादकैः । अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥ करेणु मातन्ग रथ अश्व सम्कुलम् । महा जन ओघैः परिपूर्ण चत्वरम् । पभूतरत्नम् बहुपण्यसम्चयम् । ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥ ॥ इति श्रिमद् Rअमयने षोडश सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥