रामायणम्/अयोध्याकाण्डम्/सर्गः ७०
(अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः ६९ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ७१ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥ भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः । प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥ समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः । राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥ पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥ इमानि च महार्हाणि वस्त्राण्Yआभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥ अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते । दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥ प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने । दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥ कच्चित् सुकुशली राजा पिता दशरथो मम । कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥ आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी । अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥ कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥ आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी । अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥ एवम् उक्ताः तु ते दूता भरतेन महात्मना । ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥ कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि । श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥ भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत । आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥ एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः । दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥ राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः । पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥ भरतेन एवम् उक्तः तु नृपो मातामहः तदा । तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥ गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया । मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥ पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः । तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥ तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च । अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥ रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च । सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥ तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् । ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥ ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् । खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥ अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् । दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥ स मातामहम् आपृच्च्य मातुलम् च युधा जितम् । रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥ बभूव ह्यस्य हृदते चिन्ता सुमहती तदा । त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥ स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् । प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥ अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः । ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥ स माता महमापृच्च्य मातुलम् च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥ रथान् मण्डल चक्रामः च योजयित्वा परः शतम् । उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥ बलेन गुप्तः भरतः महात्मा । सह आर्यकस्य आत्म समैः अमात्यैः । आदाय शत्रुघ्नम् अपेत शत्रुर् । गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्