रामायणम्/अयोध्याकाण्डम्/सर्गः १७
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः १६ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १८ → |
रामायणम्/अयोध्याकाण्डम् |
---|
स रामः रथम् आस्थाय सम्प्रह्Rष्ट सुह्Rज् जनः । पताकाध्वजसंपन्नं महार्हगुरुधूपितम् ॥२-१७-१॥ अपश्यन् नगरम् श्रीमान् नाना जन समाकुलम् । स ग्Rहैः अभ्र सम्काशैः पाण्डुरैः उपशोभितम् ॥२-१७-२॥ राज मार्गम् ययौ रामः मध्येन अगरु धूपितम् । चन्दनानाम् च मुख्यानामगुरूणाम् च सम्चयैः ॥२-१७-३॥ उत्तमानाम् च गन्धानां क्षौमकौशाम्बरस्य च । अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥२-१७-४॥ शोभमानम् असम्बाधम् तम् राज पथम् उत्तमम् । सम्व्Rतम् विविधैः पण्यैः भक्ष्यैः उच्च अवचैः अपि ॥२-१७-५॥ ददर्श तं राजपथं दिवि देवपथम् यथा । दध्यक्षतहविर्लाजैर्धूपैरगुरुचम्दनैः ॥२-१७-६॥ नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् । आशीर् वादान् बहून् श्Rण्वन् सुह्Rद्भिः समुदीरितान् ॥२-१७-७॥ यथा अर्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ । पितामहैः आचरितम् तथैव प्रपितामहैः ॥२-१७-८॥ अद्य उपादाय तम् मार्गम् अभिषिक्तः अनुपालय । यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥२-१७-९॥ ततः सुखतरम् सर्वे रामे वत्स्याम राजनि । अलमद्य हि भुक्तेन परम अर्थैः अलम् च नः ॥२-१७-१०॥ यथा पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम् । ततः हि न प्रियतरम् न अन्यत् किम्चित् भविष्यति ॥२-१७-११॥ यथा अभिषेको रामस्य राज्येन अमित तेजसः । एताः च अन्याः च सुह्Rदाम् उदासीनः कथाः शुभाः ॥२-१७-१२॥ आत्म सम्पूजनीः श्Rण्वन् ययौ रामः महा पथम् । न हि तस्मान् मनः कश्चिच् चक्षुषी वा नर उत्तमात् ॥२-१७-१३॥ नरः शक्नोति अपाक्रष्टुम् अतिक्रान्ते अपि राघवे । यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥२-१७-१४॥ निन्दतः सर्वलोकेषु स्वात्माप्येनम् विगर्हते । सर्वेषाम् स हि धर्म आत्मा वर्णानाम् कुरुते दयाम् ॥२-१७-१५॥ चतुर्णाम् हि वयह्स्थानाम् तेन ते तम् अनुव्रताः । चत्पुष्पथान् देवपथाम्श्चैत्यान्यायतनानि च ॥२-१७-१६॥ प्रदक्षिणम् परिहरन् जगाम नृपतेस्सुतः । स राज कुलम् आसाद्य महा इन्द्र भवन उपमम् ॥२-१७-१७॥ प्रासादश्पङ्गैर्विविधैः कैलासशिखरोपमैः । आवारयद्भि र्गनं विमानैरिव पाण्डुरैः ॥२-१७-१८॥ वर्धमानगृहैश्चापि रत्न जालपरिष्कृतैः । तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ॥२-१७-१९॥ राज पुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् । स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥२-१७-२०॥ पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः । स सर्वाः समतिक्रम्य कक्ष्या दशरथ आत्मजः ॥२-१७-२१॥ सम्निवर्त्य जनम् सर्वम् शुद्ध अन्तः पुरम् अभ्यगात् । तस्मिन् प्रविष्टे पितुर् अन्तिकम् तदा । जनः स सर्वो मुदितः न्Rप आत्मजे । प्रतीक्षते तस्य पुनः स्म निर्गमम् । यथा उदयम् चन्द्रमसः सरित् पतिः ॥२-१७-२२॥ ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तदशःसर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥