प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ९ सात्त्वतसंहिता
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
सात्त्वतसंहितायाः अध्यायाः


दशमः परिच्छेदः
नारद[1] उवाच

अथ लाङ्गलिना विप्रा[2]श्चोदितः परमेश्वरः ।
यत् तदाकर्ण्यतामद्य चेतसा संयतेन तु ।। 1 ।।
अथ दशमो व्याख्यास्यते। पुनः संकर्षणेन वासुदेवो यत्पृष्टस्तच्छृणुध्वमिति नारदो मुनीनाह- अथेति ।। 1 ।।

[1 `उवाच' उ. विहाय कुत्रापि नास्ति।]
[2 विप्रचो- बक. बख.।]

सङ्कर्षण उवाच[1]
मण्डलेऽग्नौ बहिर्नाथ जलमध्ये त्व[2]याऽर्चनम् ।
नोक्तं विभवदेवानां व्यक्तं कृत्वा तदादिश ।। 2 ।।
संकर्षणो बाह्ययागं पृच्छति- मण्डल इति ।। 2 ।।
[1 `उवाच' उ. विहाय कुत्रापि नास्ति।]
[2 त्वथा- बख.।]

भगवानुवाच[1]
सुलक्षणे तु भूभागे समे पूर्वोक्त[2]लक्षणे ।
तत्र मण्डलमालेख्य सर्वेषामेकमर्चने ।। 3 ।।

चतुरश्रं चतुर्द्वारं पीठाद्यवयवान्वितम् ।
षट्[3]त्रिंशद्दलपद्मेन मध्यतश्चाप्यलङ्कृतम् ।। 4 ।।

वितानध्वजसंवीत[4] किङ्किणीदर्पणान्वितम् ।
तोरणव्यजनच्छत्रचामरस्रग्विमण्डितम् ।। 5 ।।

उक्तानुक्तमशेषं तु कृत्वा पूर्वोक्तलक्षणम् ।
वासुदेवस्तमुपदिशन् पूर्वं षट्त्रिंशद्दलपद्मगर्भितवक्ष्यमाणपीठाद्यवयवान्वितमण्डललेखनं यागमण्डलालङ्करणं च कार्यमित्याह- सुलक्षण इति सार्धैस्त्रिभिः ।। 3-6 ।।

[1 `उवाच' उ. विहाय कुत्रापि नास्ति।]
[2 त्तरप्लवे- अ. उ.।]
[3 पङ्क्तित्रयं नास्ति- अ.।]
[4 सद्वस्त्र - बक. बख. उ.।]

ततस्तु करयोर्न्यस्य विग्रहे बीजमैश्वरम् ।। 6 ।।

समालम्ब्य च तादात्म्यमभिमानं[1] सुनिश्चलम् ।
बद्ध्वा [2]च वैभवीं मुद्रां स्पृशेत् सर्वाङ्गकं[3] तया ।। 7 ।।

समुच्चार्य धिया सर्वं मन्त्रग्रामं क्रमस्थितम् ।
सर्वदेवमयं देहमेवं स्मृत्वा[4] स्वकं पुरा ।। 8 ।।
अथ करयोर्देहे च विशाखयूपबीजन्यासम्, विशाखयूपोऽहमिति तत्तादात्म्यावलम्बनम्, वक्ष्यमाण(10/41-44)वैभवमुद्रया सर्वाङ्गस्पर्शम्, पद्मनाभाद्यष्टत्रिंशन्मन्त्रोच्चारणपूर्वकं स्वदेहस्य सर्वमन्त्रमयत्वापादनं चाह- तत इति सार्धद्वाभ्याम्। ऐश्वरं बीजं विशाखयूपबीजमित्यर्थः। नमिति यावत्। विशाखयूपतादात्म्याश्रितस्य पुनः पद्मनाभादिसर्वदेवमयविग्रहत्वम्।
आमूर्धतोऽङ्घ्रिपर्यन्तं तदीयं गात्रमण्डलम् ।
रत्नवद् वैभवीयैस्तु बीजैर्भाव्यमलङ्कृतम् । (9/58-59)
इति पूर्वोक्तप्रकारेण बोध्यम् ।। 6-8 ।।
[1 महि- मु. अटी. ।]
[2 तु- बक. बख.।]
[3 ङ्गिकं तथा- बक. बख. उ.।]
[4 कृत्वा- बख. अ. उ.।]

अन्तश्चक्र[1]निविष्टं तु संस्मरेद् भद्रपीठवत् ।
मण्डलं देवताधारं चक्रमन्त्रेण तद् यजेत् ।। 9 ।।
मण्डले भद्रपीठवदन्तर्लीनचक्रराजस्मरणं तदर्चनं चाह- अन्तरिति ।। 9 ।।
[1 श्चक्रं- अ. उ.।]

ततस्तु[1] सर्वमन्त्राणां विन्यासं तत्र चेतसा[2] ।
समाचरेद् यथायोगं पुष्पदानपुरस्सरम् ।। 10 ।।
तस्मिन् मण्डले प्रत्येकं पुष्पदानपूर्वकं मन्त्राणां न्यासमाह- तत इति ।। 10 ।।
[1 पङ्क्तित्रयं नास्ति- उ.।]
[2 चेतसः- अ.। ]

ध्रुवात्मा भगवान् मध्ये कर्णिकायामतः[1] क्रमात् ।
दिक्चक्रमभिवीक्षन्तं प्राग्दलादादितो न्यसेत् ।। 11 ।।

पातालशायिपर्यन्तमनन्ताद्यं महामते ।
न्यसेत् कमलबाह्ये तु ईशाद् वह्निपदावधि ।। 12 ।।

चतुष्टयं किरीटाद्यं मन्त्राणां पूर्वचोदितम् ।
उदग्दक्षिण आप्याद्ये पैठीये दिक्चतुष्टये ।। 13 ।।

द्वन्द्वद्वयं तु लक्ष्म्याद्यं विनिवे[2]श्यं यथाक्रमम् ।
तत्रैव चेश[3]कोणात् तु यावद्वायुपदावधि ।। 14 ।।

द्वयं द्वयं क्षमाद्यं[4] च मत्यन्तं सन्नि[5]वेश्य च ।
बहिः पीठस्य निकटे [6]चाग्रतो वै पतत्रिराट् ।। 15 ।।

चक्रात् कमलपर्यन्तं चतुष्कं शाङ्करात् पदात् ।
वायुकोणा[7]वधेर्यावत् पीठबाह्ये तु योजयेत् ।। 16 ।।

सौम्ययाम्याप्यपूर्वाशावस्थितं[8] च द्वयं द्वयम् ।।
लाङ्गलाद्यं परश्वन्तमष्टकं तद्वदेव हि ।। 17 ।।

याम्यसौम्याप्यपूर्वाशागतं दद्याच्चतुष्टयम् ।
पाशाद्यं वज्रपर्यन्तं शक्ति[9]कोणचतुष्टये ।। 18 ।।

आ ईशकोणनिकटात् पदात् तन्निकटे स्थितम् ।
प्रदक्षिणक्रमेणैव पदं यावद् द्वितीयकम् ।। 19 ।।

कालादीनां च विन्यासः[10] कार्यश्चानुक्रमेण तु ।
यज्ञान्तानां महाबुद्धे षोडशानां यथास्थितम् ।। 20 ।।

क्रमात् पूर्वोत्तरे कोणे न्यसेद् दक्षिणपश्चिमे ।
विद्याऽविद्याद्वयं यद् वै स्वपदस्थेऽग्निमारुते ।। 21 ।।

चन्द्रादित्यावुदग्याम्ये द्वारयोर्विनिवेश्य च ।
प्रत्यग्द्वारगतं तोयं प्राग्द्वारे विन्यसेद्[11] धराम् ।। 22 ।।

चतुर्णामथ कोणानामव्यक्तं मण्डलाद् बहिः ।
संयजेद् भवनाम्ना वैयस्मान्नान्यो भवः[12]स्मृतः ।। 23 ।।

ततः [13]कामात्मतत्त्वानां दशकं सिद्धतां गतम् ।
भगवत्तुल्यसामर्थ्यं सर्वज्ञा[14]दिगुणैर्युतम्[15] ।। 24 ।।

वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेण तु ।
भवसन्ता[16]रकत्वेन मण्डलस्य बहिर्न्यसेत् ।। 25 ।।

उपेन्द्रः पूर्वदिग्भागे दक्षिणे दुरतिक्रमः ।
महाहृदः[17] पश्चिमे तु वसुरेतास्तथोत्तरे ।। 26 ।।

न्यस्य[18]स्तेजो धराख्यस्तु पूर्वदक्षिणमध्यगः ।
नैर्ऋते तु महाकर्मा त्वग्राह्यः पश्चिमोत्तरे ।। 27 ।।

पूर्वोक्तरे वर्धमानः साक्षी गगनगोचरे ।
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ।। 28 ।।

तेषां बहिः [19]स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् ।
स्वमरीचिगणेनैव भासयन्तं निवेश्य च ।। 29 ।।
मण्डले ध्रुवादीनां स्थानान्याह- ध्रुवात्मेति प्रक्रम्य भासयन्तं निवेश्य चेत्यन्तम्। तथा च प्रयोगः- कर्णिकामध्ये ध्रुवं प्रागादिषट्त्रिंशद्दलेषु दिङ्मण्डलमभिवीक्षतोऽनन्तादीन् पातालशयनान्तान् षट्त्रिंशद् देवान् तद्बहिरैशान्यादिवायव्यन्तकोणचतुष्टये किरीटश्रीवत्सकौस्तुभवनमालाः, ततः पीठे उत्तरदिशि लक्ष्मीम्, दक्षिणदिशि पुष्टिम्, पश्चिमदिशि दयाम्, पूर्वदिशि निद्राम्, ईशानकोणे क्षमां[20] क्षान्तिं च, आग्नेयकोणे सरस्वतीं धृतिं च, नैर्ऋतकोणे मैत्रीं रतिं च, वायव्यकोणे तुष्टिं मतिं च, तद्बहिः पीठसमीपे पुरतो गडरुम्, पीठाद् बहिरैशान्यादिवायव्यान्तकोणचतुष्टये क्रमेण चक्रशङ्खगदापद्मानि, सौम्यदिशि पाशम्, याम्यदिश्यङ्कुशम्, वारुणदिशि मुद्गरम्, पूर्वदिशि वज्रम्, कोष्टचतुष्टये शक्तिम्, ईशानकोणसमीपस्थपदादारभ्य तत्समीपस्थद्वितीयपदपर्यन्तमर्धशोभापूर्णशोभास्थितनीलोत्पलरक्तोत्पलाख्यषोडशपदेषु प्रादक्षिण्येन कालादियज्ञान्तं भवोपकरणदेवताषोडशकम्, ईशानकोणे विद्याम्, नैर्ऋतकोणेऽविद्याम्, अग्निकोणेऽग्निम्, वायुकोणे वायुम्, उत्तरद्वारे चन्द्रम्, दक्षिणद्वारे सूर्यम्, पश्चिमद्वारे तोयम्, पूर्वद्वारे वसुधां च, मण्डलाद् बहिःकोणेषु प्रकृतिम्, तद्बहिः पूर्वादिदिक्षु विदिक्षु ऊर्ध्वमधश्च उपेन्द्रादिसिद्धदशकं च, तद्बहिः सर्वदिक्षु चक्रराजं च न्यसेत् ।। 11-29 ।।

[1 मधः- अ.।]
[2 वेश्य- बख. उ.।]
[3 वेश- मु. अटी., शेष- बक.।]
[4 क्षामा- मु.।]
[5 विनि- बख.।]
[6 उग्रतो- अ. उ.।]
[7 धि या- अ. उ.।]
[8 `वस्थितं..... पूर्वाशा' नास्ति- बक. बख.।]
[9 शक्तिं- मु. अटी.।]
[10 साः कार्या- अ.।]
[11 दराम्- बक. मु., दरान्- अटी.।]
[12 भवत्- बख.।]
[13 कर्मान्त- अ., कर्मात्म- उ.।]
[14 सार्वज्ञ्या- मु. अटी.।]
[15 र्वृतम्- उ.।]
[16 सन्धा- अ.।]
[17 ह्लादः- अ.।]
[18 न्यस्य ते- बक.।]
[19 तन्त्रेण- उ.।]
[20 कान्तिं- मु.।]

न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन च ।
निरीक्षणादिशुद्धेन अर्घ्य[1]स्रक्चन्दनादिना ।। 30 ।।

यथा[2]क्रमेणोदितानामादिदेवं यजेत् ततः ।
उपरिष्टात् तु सर्वेषां स्वपदस्थं तु पूर्ववत् ।। 31 ।।

एवं मण्डलदेवतान्यासानन्तरं तेषां यथाक्रममर्चनम्, मध्ये उपरिष्टात् पद्मनाभार्चनं च कार्यमित्याह- न्यस्येति द्वाभ्याम्। निरीक्षणादिशुद्धेनेत्यत्रादिशब्देन दहनाप्यायनादिकं संगृह्यते ।। 30-31 ।।
[1 अर्घ्यं- बक. बख.।]
[2 अर्घ्य- अटी.।]

प्राग्वत् सुसंस्कृते कुण्डे ततः संस्कृत्य पावकम् ।
तन्मध्ये सर्वमन्त्राणां न्यासं कुर्याच्च यागवत् ।। 32 ।।


प्राक् समित्सप्तकेनैवं[1] तर्पयेद् वै यथाक्रमम् ।
मन्त्र[2]पूतं हि निश्शेषं हवनान्तं सकृत् सकृत् ।। 33 ।।

भवन्ति सम्मुखा मन्त्राः साधकस्याग्निमध्यगाः ।
सन्तर्प्याथ तथा कुर्यात् सहस्रशतसंख्यया ।। 34 ।।

एकैकस्य तु वै होमं तिलैराज्यसमन्वितैः ।
दद्यात् पूर्णाहुतिं पश्चात् सर्वेषां तर्पणे कृते ।। 35 ।।

पुनरप्यर्चनं कुर्यादेत्य वै मण्डलान्तरे ।
यथाक्रमेण सर्वेषां पुष्पधूपैस्तु केवलैः ।। 36 ।।

सकृद् ध्यानसमेतं तु चतुर्धाप्यथवाष्टधा ।
क्रमात् समस्तमन्त्राणां परावर्तनमाचरेत् ।। 37 ।।

सुशुभेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ।
ततोऽर्घ्यकुसुमैर्गन्धैः[3] पूरयित्वा कराञ्जलिम् ।। 38 ।।

सर्वदेवमयं मन्त्रं स्मृत्वोच्चार्य च तं क्षिपेत् ।
सर्वत्र सर्वदानेन क्रमेणेष्ट्वा च भक्तितः ।। 39 ।।

प्रदर्श्य सर्वमन्त्राणामेकां मुद्रां च वैभवीम् ।
प्रणवेन सहस्रांशुसन्निभां सर्वसिद्धिदाम् ।। 40 ।।
अथैतेषां वह्निमध्ये संतर्पणप्रकारं पुनर्मण्डलार्चनपूर्वकजपयज्ञविधिं पुष्पाञ्जलिसमर्पणपूर्वकमुद्रादर्शनं चाह- प्राग्वत् सुसंस्कृते कुण्ड इत्यादिभिः ।। 32-40 ।।
[1 नैव- अ.।]
[2 तत्र व्रतं- अ.।]
[3 गण्डैः- बक.।]

श्लेष्य[1] पाणितले [2]द्वे प्राङ्नम्रं[3] कुर्याल्लतागणम् ।
विविक्तमन्तरीकृत्य सहाङ्गुष्ठद्वयेन तु ।। 41 ।।

मणिबन्धद्वयं कुर्यात् सुलग्नमति[4]निश्चलम् ।
करयुग्मं सगर्भं[5] तु सन्धार्य स्वधिया चलम् ।। 42 ।।

ऊरुमध्य[6]निषण्णे तु कुर्याद् वै बाहुकूर्परे ।
गुप्तं कृत्वा प्रयत्नेन बन्धमस्याः समाचरेत् ।। 43 ।।

सर्वदा[7] सर्वसिद्धीनामाप्तये त्वमलेक्षण ।
वैभवमुद्रालक्षणमाह- श्लेष्येति सार्धैस्त्रिभिः। द्वे पाणितले संश्लिष्य अङ्गुलिगणं नम्रं कृत्वा अङ्गुष्ठद्वयेन सह विविक्तमन्तरीकृत्य मणिबन्धद्वयं सुसंलग्न(मि?म)तिनिश्चलं कृत्वा सगर्भं करयुग्मं तु स्वधिया चलं संधार्य बाहुकूर्परे ऊरुमध्यनिषण्णे ऊरुमध्ये[8] निषण्णे स(ति ? ती) कुर्यात्। सर्वेषां विभवदेवानां साधारणीयं मुद्रा ।। 41-44 ।।
[1 श्लेष्ये- अ.।]
[2 द्वै- मु. ।]
[3 विप्रामभ्रं- अ., चेप्रान्न- उ.।]
[4 मिति- अटी.।]
[5 सुगर्तं- अ.।]
[6 मध्ये- मु. बक. बख. उ.।]
[7 सर्वथा - मु.।]
[8 `ऊरुमध्ये निषण्णे' नास्ति- मु.।]

तीर्थमध्ये स्वहृत्पद्मे बिम्बे वेद्यां स्थले तु वा ।। 44 ।।

वह्निगर्भे तु निर्धूमे नित्यमस्मिंश्चतुष्टये ।
मन्त्राणामर्चनं कुर्यात् सिद्ध्यर्थमपि मुक्तये ।। 45 ।।
प्रत्यहं तीर्थादिस्थान[1]चतुष्टये भगवदर्चनं कार्यमित्याह- तीर्थेति सार्धेन। वेद्यां बिम्बं विना केवलभद्रपीठ इत्यर्थः। स्थले मण्डल इत्यर्थः ।। 44-45 ।।
[1 स्नानादिचतु- अ.।]

सजलाञ्जलिपूरैस्तु तीर्थेऽथ हृदयाम्बुजे ।
भावनामृतजैर्भोगैर्मूर्तैरर्घ्यादिकैर्बहिः ।। 46 ।।

समित्सप्तकपूर्वैस्तु सा[1]ज्यैर्वह्निगतं तिलैः ।
तत्तत्स्थानोचितार्चन[2]द्रव्य[3]भेदानाह- सजलेति सार्धेन। एवं सजलाञ्जलिभिस्तीर्थमध्ये भगवदर्चनं जयाख्येऽपि विशदमुपपादितम्-
आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च ।
मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ।।
तर्पयेदुदकेनैव विष्वक्सेनावसानकम् ।
स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् ।। (9/55-56)
इत्यादिभिः। एवं पारमेश्वरोऽपि करशुद्धिसमोपेतमित्यादिभिरष्टभिः श्लोकैर्जलमध्यार्चनक्रमो विस्तरेणोक्तः। वस्तुतस्तु पारमेश्वरोक्तरीत्या जलमध्येऽर्चनात् पूर्वमेव करशुद्धिप्राणायामभूतमुद्धिमन्त्रन्यासभगवत्तादात्म्यावलम्बनानुष्ठानमुचितम्। बिम्बार्चनप्रकरणे मानसार्चनात् पूर्वं तदनुष्ठानोक्तिस्त्वौदकस्नानाद्यशक्त्या तीर्थमध्ये भगवदर्चनमकृतवद्विषयेति बोध्यम्।
ननु "नित्यमस्मिंश्चतुष्टये। मन्त्राणामर्चनं कुर्यात्" (10/45) इत्युक्त्या जलमध्येऽर्चनं कृतवतैव मानसार्चनादिकं कार्यमिति चेन्न,
यावज्जीवं यथाशक्ति संस्थितो यत्र कुत्रचित् ।
स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ।।
द्रव्यैः पुष्पाम्बुपूर्वैस्तु तदभावात् तु वै हृदि ।
मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ।।
(17/126-127)
इत्यशक्तानां हृदयादिस्थानेष्वन्यतमममात्रार्चनस्यापि वक्ष्यमाणत्वात्। किञ्च, पारमेश्वरे तीर्थमध्यार्चनं मानसार्चनं च होमान्तमुक्तम्। सात्वतनिष्ठैस्तु जपयज्ञान्तमेव कार्यम्। यतोऽत्र सप्तदशे परिच्छेदे-
ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ।।
पूजयित्वा जपान्तं चाप्यवतार्य बहिर्यजेत् । (17/42-43)
इति जपान्तमेव वक्ष्यति ।। 46-47 ।।
[1 याज्यै- मु. अटी. उ.।]
[2 र्चना- अ.।]
[3 भेदेनाह- मु.।]

पूजयित्वा यथान्यायं प्रत्येकस्मिन् पदे क्रमात् ।। 47 ।।

संन्यासं सञ्चयं वापि कृत्वा सम्यक् कृतस्य वै ।
मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ।। 48 ।।
एवं तीर्थमध्यादिपदेषु क्रमेण भगवन्तमभ्यर्च्य तत्तदर्चनानन्तरं निष्कामश्चेत् कृतस्य कर्मणः परित्यागं कुर्यात्, सकामश्चेत् तदार्जनं कुर्यात्। उभयत्रापि पूर्वोक्तमुद्राबन्धं कुर्यादित्याह- पूजयित्वेति सार्धेन ।
ननु फलान्तरसंपादककर्मणां निष्कामत्याज्यत्वमुचितम्, प्राधान्येन मोक्षसंपादकभगवदाराधनकर्मणोऽपि त्याज्य[1]त्वं कथमुक्तमिति चेन्न, सिद्धोपायनिष्ठैर्भगवदाराधनकर्मणोऽपि स्वयं प्रयोजनतयाऽनुष्ठेयत्वात् ।। 47-48 ।।
[1 `त्याज्यत्वं..... कर्मणोऽपि' नास्ति- मु.।]

फलार्थं प्रसवं येन नैति संन्यासकारिणाम् ।
फलपर्यवसानं च कालमागमचोदितम् ।। 49 ।।

हर्तुं[1] नो युज्यते येन सिद्धाद्यैस्तु[2] फलार्थिनाम्[3] ।
कालानुकालमुद्राणां यो बन्धः परिचोदितः ।। 50 ।।
ननु संचितकर्मणामुपरि मुद्राबन्धः समुचितः। संन्यस्तकर्मणामुपरि मुद्राबन्धेन किं प्रयोजनमित्याशङ्कायामुभयत्रापि सार्थक्यमाह- फलार्थमिति[4] सार्धेन। येन मुद्राबन्धेन हेतुना संन्यासकारिण्यां कर्मत्यागिनां फलार्थं प्रसवं पुष्पमेव नैति नोत्पद्यत इत्यर्थः। फलार्थिनां कर्मसंचितवतां तु शास्त्रोक्तफलानुभवकालपर्यन्तं येन मुद्राबन्धेन हेतुना सिद्धाद्यैरन्यैर्हर्तुं नो युज्यते। यथा जतुमुद्रितधनग्रन्थेर्धनमनपहार्यं भवति, तथा कर्माप्यन्यैरनपहार्यं भवतीति भावः ।। 49-50 ।।
[1 `भर्तुर्नो' इति सार्वत्रिकः पाठः।]
[2 थैस्तु- मु. बक.।]
[3 र्थिना- उ.।]
[4 `फलार्थमिति सार्धेन' नास्ति - अ.।]

उक्तप्रयोजनादन्यः स विघ्नविनिवृत्तये ।
मुद्रं कर्मात्मतत्त्वानां[1] ददत्यमलयाजिनाम् ।। 51 ।।
एवं पूजानन्तरकालीनमुद्राया उक्तं प्रयोजनं संभवति, पूजामध्यकालेषूक्तानां कर्मणां किं प्रयोजनमित्याकाङ्क्षायां विघ्ननिवृत्तिरूपं फलमाह- कालेति ।। 51 ।।
[1 कर्मार्थ- अ.।]

मुद्रं कर्मात्मतत्त्वानां[1] ददत्यमलयाजिनाम् ।। 51 ।।

द्रावयित्री[2] च दोषाणां बाह्याभ्यन्तरचारिणाम् ।
तेन मुद्रा समाख्याता कृतस्यापि च मुद्रणात् ।। 52 ।।
एतदुभयप्रयोजनानुसारेण मुद्राशब्दनिर्वचनमाह- मुदमिति सार्धेन। अमलयाजिनां शुद्धयाजिनामित्यर्थः। कर्मात्मतत्त्वानां यजनादिकर्मनिष्ठचेतनानामित्यर्थः। दोषाणामिति कर्मणि षष्ठी। एवं च मुद्राशब्दे मुदित्यत्र ददातीति शेषः। द्रेत्यत्र दोषानिति शेषः। पूजामध्यकालीनमुद्राणां प्रयोजनानुसारीदं निर्वचनम्। मु(द्राणां? द्रणाद्) मुद्रेति निर्वचनं तु पूजानन्तरकालीनमुद्राया इति ज्ञेयम् ।। 51-52 ।।
[1 कर्मार्थ- अ.।]
[2 यन्ती- बख., यन्ति- उ.।]

तस्मात् स्वाभाविकं कृत्वा बद्धं वा मानसं पुरा ।
स्वेन स्वेन तु मन्त्रेण स्मरेद्[1] व्याप्तिं सदैव हि ।। 53 ।।
कायिकं मानसिकं वा मुद्राबन्धं कृत्वा तत्र तत्तन्मन्त्रव्याप्तिं स्मरेदित्याह- तस्मादिति। मानसार्चने मानसिको मुद्राबन्धः, बाह्यार्चने कायिक इति विवेकः ।। 53 ।।
[1 स्मरेत् प्राप्तं [द्व्याप्तं] - मु., स्मरेदाप्तं- बक., स्मरेद्व्याप्तं- बख. उ., स्वरैर्व्याप्तं- अ.।]

चैतन्येनानुविद्धो यः शाखासंघश्च यद्यपि ।
तत्रापि मन्त्रोऽत्राध्यक्षस्तत्कार्यं सम्प्रयच्छति ।। 54 ।।
केवलचैतन्यानुविद्धाङ्गुलिगणस्यैवं विघ्ननिवृत्त्यादिफलप्रदानसामर्थ्यं मन्त्राधिष्ठितत्वात् संभवतीत्याह- चैतन्येनेति ।। 54 ।।

एवं कृते ततः कुर्यान्मन्त्राणां मण्डलान्तरात् ।
पूर्ववच्चोपसंहारमेकस्मिन् गगनस्थिते[1] ।। 55 ।।

स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ।
विश्रान्तं भावयेद्[2] देवं स्वभावेन समन्वितम् ।। 56 ।।
मण्डलस्थदेवानामुपसंहारक्रममाह- एवमिति द्वाभ्याम्। एकस्मिन् गगनस्थिते पद्मनाभ इत्यर्थः। परात्मना निष्कलरूपेणेत्यर्थः। स्वसंविद्गगने नादान्त[3]र्गगन इत्यर्थः।। 55-56 ।।
[1 गगने- बख. अ. उ.।]
[2 येदेवं - बख. अ. ।]
[3 नादान्तगगन- मु.।]

द्विजातेर्दत्तशिष्टस्य पुष्पपत्रादिकस्य च ।
विहितश्चाम्भसि त्यागो विष्वक्सेनार्चने कृते[1] ।। 57 ।।
कारिप्रदानाद्यवशिष्टनैवेद्यपत्रपुष्पफलादीनां विष्वक्सेनार्चनानन्तरं जलमध्ये प्रक्षेपमाह- द्विजातेरिति ।। 57 ।।
[1 नादृते- मु.।]

धर्तव्यं न चिरं चाग्रे यत्पुरा विनिवेदितम् ।
नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते ।। 58 ।।
तत्र हेतुमाह- धर्तव्यमिति। यद्यस्मात् कारणात् पुरा निवेदितं मन्त्रमूर्तीनां नैवेद्यं भगवन्निवेदितहविरादिकं किञ्चित् पुष्पफलादृते स्वप्राशनोपयुक्तं किञ्चिद् भागं विनाऽन्यत् सर्वं चिरं बहुकालं न[1] धार्यम्। शीघ्रं जलमध्ये प्रक्षेप्तव्यमित्यर्थः। इयमेवार्थं सुस्पष्टं वक्ष्यति सप्तदशे परिच्छेदे च-
ततो विसर्जनं कुर्यादुपसंहृत्य चाखिलम् ।
विनिक्षिप्याम्भसो मध्ये पत्रपुष्पफलादि यत् ।।
निष्कामः पावनार्थं तु स्तोकमुद्धृत्य वै पुरा ।
संधार्य मन्त्रपूतं प्राक् तमश्नीयाच्च मौनवान् ।। (17/145-146) इति।
ननु स्तोकमुद्धृत्य वै पुरेत्यत्र किं विष्वक्सेनार्चनात् पूर्वमेव स्तोकोद्धरणम्, अथवा तदर्चनान्तरं जलप्रक्षेपात् पू(र्वं वेत्या? र्वमि)काङ्क्षायां तत्पक्षद्वयमप्युपपन्नमिति ज्ञेयम्। यतः पारमेश्वरे-
स्वप्राशनार्थमेकांशं स्थापयित्वा निरीक्षितम् ।
शेषाशनाभिधानस्य गणेशस्यार्चनाय वै ।
भागमेकं तु संस्थाप्य भागेनान्येन तोषयेत् ।
ब्राह्मणादीन् शुभाचारान् भक्तान् ग्रामाधिवासिनः ।।
इति विष्वक्सेनार्चनात् पूर्वमेव स्वप्राशनार्थभागोद्धरणमुक्तम्। तत्रैव महाहविः- प्रकरणे तु-
प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ।।
जलजानां नीरगाणां जन्तूनां तृप्तयेऽथवा ।
जले किञ्चिद्विनिक्षिप्य शेषमन्नं तदग्रतः ।।
तद्भक्तानां द्विजातीनां निरतानां स्वकर्मसु ।
(पा. सं. 18/405-407)
इति तन्निवेदितस्वीकारोऽप्युक्तः। अत एव सच्चरित्ररक्षायाम्- "विष्वक्सेननिवेदिते च विकल्पभेदास्तत्तत्संहितानुसारेण प्रयोगपद्धतिरत्नावल्यादिषु भोजराजादिभिः स्थापिता द्रष्टव्याः" (पृ. 117) इत्युक्तम् ।। 58 ।।
[1 `न' नास्ति- अ.।]

इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवता[1]र्चनं नाम दशमः[2] परिच्छेदः।।

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये दशमः परिच्छेदः ।।
[1 देवा- अ.।]
[2 `दशमः' नास्ति- उ.।]