प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २१ सात्त्वतसंहिता
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →
सात्त्वतसंहितायाः अध्यायाः


(1)द्वाविंशः परिच्छेदः
सङ्कर्षण उवाच(2)
लक्षणं ज्ञातुमिच्छामि चतुर्णां(3) देव साम्प्रतम्।
विज्ञातव्यास्तु कैर्लिङ्गैर्भेदस्तेषां तु किं कृतः।। 1 ।।
अथ द्वाविंशः परिच्छेदो व्याख्यास्यते। इह पूर्वं परिच्छेदान्ते सूचितानां सामयिकादीनां चतुर्णां लक्षणं पृच्छति संकर्षणः---लक्षणमिति।। 1 ।।
(1.एकविंशतिमः---अ.।) (2.`उवाच' नास्ति--मु. अटी.।) (3. वर्णानां--उ.।)
श्रीभगवानुवाच(4)
यः श्रीमान् श्रद्दधानस्तु मतिमान् सुदृढव्रतः।
सत्यवाग् भगवद्भक्तो मिताशी सङ्गवर्जितः।। 2 ।।
गुर्वाराधननिष्ठस्तु स्थिरबुद्धिरतन्द्रितः।
सद्वैष्णवकुले जातः सुसंस्कारैः सुसंस्कृतः।। 3 ।।
पुरा मापितृभ्यां तु नीतः सद्योग्यतापदम्(5)।
विमुक्तसङ्करो दान्तः परत्र भयशङ्कितः।। 4 ।।
साधुसङ्गसमाकाङ्क्षी(6) शास्त्रार्थास्वादलम्पटः।
तत्सञ्चयव्यसनवान् धार्मिकाणां पथि स्थितः।। 5 ।।
शुभकर्मरतो नित्यमदीनः सत्त्ववान्(7) क्षमी।
धीरो दयापरश्चैव साधूनामुपकारकृत्।। 6 ।।
निर्मलाम्बरधारी च विमलाङ्गः सदैव हि।
प्रियभाषी प्रसन्नास्यः परद्रव्येष्वलोलुपः।। 7 ।।
परदारस्पृहामुक्तः सद्विवेकपदाश्रितः।
क्षत्रविट्शूद्रजातीयो मद्यमांसेष्वलम्पटः।। 8 ।।
शौचस्वाध्यायनिरतः सन्तुष्टः सततोद्यतः(8)।
(9) उच्छिष्टवर्जनपरश्चक्रतप्ततनुः सदा।। 9 ।।
(10)मानमात्सर्यकार्पण्यपरित्यागपरो महान्।
दैवे पित्र्ये सदोद्युक्तो दम्भाचारविवर्जितः।। 10 ।।
निः शेषाणामकर्मण्यद्रव्याणां परिहारकृत्।
मातुर्जनकनिष्ठानां सद्बन्धूनां च वत्सलः।। 11 ।।
उक्तनिर्वाहकश्चा(11) भीर्नित्यं नीचासनप्रियः।
सर्वेषामूर्ध्वतो नित्यं स्थितिकामपरायणः।। 12 ।।
वंशोद्धारैकरतया(12) सुधियाऽलङ्कृतः सदा।
गुरुप्रसादादन्यत्र स्वगृहे वा गुरोर्गृहे।। 13 ।।
लब्धदर्शनमात्रो वै मन्त्रमूर्तेस्तु मण्डले।
गुरुदृग्वीक्षणेनैव प्रोक्षणेनेव(13) संस्कृतः।। 14 ।।
बुद्ध्यते तावता चैव कृतार्थोऽस्मीति साम्प्रतम्।
ततः प्रभृतिकालाच्च सुप्रसन्नाच्च(14) देशिकात्।। 15 ।।
पाठपूर्वं हि शास्त्रार्थमभ्यर्थयति योऽनिशम्।
श्रुत्वा विचारयत्यर्थानेकान्ते विजने स्थितः।। 16 ।।
नाभिमानपदं याति सुसम्पूर्णोऽपि(15) चोदितः।
शिक्षयत्यथ नान्येषां (16) लुब्धः स्वार्थस्य सिद्धये।। 17 ।।
नोद्‌ग्रायहति शास्त्रार्थमभ्यर्थयति(17) योऽनिशम्।
न विक्रियामवाप्नोति ह्याक्षिप्तेऽप्यथ संसदि(18)।। 18 ।।
न मन्यते(19) तदा सम्यग् विजेष्यामीति वादिनः।
कुण्डमण्डलमुद्रास्त्रपीठबिम्बालयेषु च।। 19 ।।
समन्त्रेषु च बुद्धिस्थं नित्यं कुर्याच्च संग्रहम्(20)।
अयनादिषु कालेषु प्रत्यहं त्वस्य सम्भवात्।। 20 ।।
देवमर्चापयेत् कुर्यात् स्वयं वा मान्त्रमर्चनम्।
गुर्वादिष्टो गुरूणां च कुर्यात् पादाभिवन्दनम्।। 21 ।।
कार्या तेषां न जिज्ञासा यया यान्त्यप्रसन्नताम्।
प्रसाद्य विधिवत् पृच्छेदबुद्धमथ विस्मृतम्।। 22 ।।
विज्ञातमथवा(21) ज्ञातमाचार्यैः परिचोदितः।
क्लृप्तां(22) तेषां स्वकां मुद्रां गुप्तां कृत्वा प्रकाशयेत्(23) ।। 23 ।।
संस्कृतश्रुतपाठाभ्यां स्वगुरुं प्रार्थयेत् ततः।
भगवद्यागपूर्वं तु पुत्रकाख्यं परं पदम्।। 24 ।।
असन्निधानात् स्वगुरोः प्रार्थयेत् तत्प्रतिष्ठितम्(24)।
तदभावात् तु वै चान्यं क्रमात् सद्वैष्णवो हि यः।। 25 ।।
नान्यदर्शनसंस्थं तु गुरोर्यस्मादवैष्णवात्।
कर्मतन्त्रं समन्त्रं च द्रव्यसामान्यजं(25) फलम्।। 26 ।।
नूनं वैफल्यमायाति तस्मात् तं परिवर्जयेत्।
द्रव्यमन्त्रक्रियाभावभेदात् फलमनश्वरम्।। 27 ।।
जायते कर्मिणां शश्वदभेदाद् वै ह्यकर्मिणाम्(26)।
(27) सर्वत्र समबुद्धीनामात्मन्यभिरतात्मनाम्।। 28 ।।
लोकाचारवियुक्तानां यज्ञविग्रहिणां तु वै।
ज्ञात्वैवं सह वै यस्य सम्बन्धः सफलो भवेत्।। 29 ।।
सर्वदा स उपास्तव्य इहामुष्मिकसिद्धये।
लिङ्गैरेतैः परिज्ञेयः सहजोत्थैरकृत्रिमैः।। 30 ।।
आचार्यैः समयी नाम शिष्यो जात्या चतुर्विधः।
एवं पुत्रकपूर्वो ये परिज्ञेयास्तु ते त्रयः।। 31 ।।
एवं पृष्टो वासुदेवः पूर्वं समयिलक्षणमाह--यः श्रीमानित्यारभ्य शिष्योजात्या चतुर्विध इत्यन्तम्। एवं च यथोक्तलक्षणविशिष्टो दीक्षोक्तरीत्या नेत्रबन्धविमोचनपूर्वकं लब्धमण्डलदर्शनमात्रः शास्त्रार्थग्रहणशीलोऽयनादिविशेषेष्वेव भगवदर्चनपरो यः स समयीति ज्ञेयः।। 2--31 ।।
(4.`उवाच' नास्ति--मु. अटी.।) (5. परम्--बक. बख.।) (6.मसाकाङ्क्षी--मु. अटी.।)(7.सत्य--बक. बख. अ.।) (8.त्थितः--अ.।) (9.उत्कृष्टमध्यमन्यूनतपः--बक. बख. अ. उ.।)(10.मनोवाग्‌दृष्ट--बक. बख. अ. उ.।) (11.स्त्यागी--उ.।) (12.द्धारणभूतायाः--बक., द्धरण--उ.,भूताय--अ.।)(13.नैव--अ. उ.।) (14.सुप्रश्नाच्च सु--बख., सुप्रसन्नांश्च देशिकान्--अ.।)(15.र्णे तु--बख.।) (16.यल्लुब्धं स्वार्थ--बख.,यल्लब्धं स्वार्थ--अ., यल्लब्धं स्वात्म--उ.।) (17. `भ्यार्थयति योऽनिशम्। न विक्रियामवाप्नोति ह्या' नास्ति--अ. उ.।) (18.शंसति--उ.।) (19.मन्येत कदा---बख. अ. उ.।)(20. ग्रहे--बख.।) (21.मपि च--बख.।) (22. कृत्वा--बख., कस्त्वं--अ., अस्त्वं--उ.।) (23.प्रशान्त--अ., प्रशात--उ.।)(24.स प्रति--उ.।) (25.संघातजं--मु. अटी.।)(26.द्वैश्य---मु. अटी. बक. बख.।) (27. सर्वतः उ.।)
पुत्रकस्य विशेषलक्षणान्याह--विज्ञाता गुरुणा यस्येत्यारभ्य स्वपुत्रादधिकः सदेत्यन्तम्। एवं च सम्यग् गृहीतशास्त्रार्थः पुत्रपदार्होऽयमिति गुरुणा ज्ञातः। मण्डलोपरि प्रक्षेपितपुष्पाञ्चलिकस्तदा प्रभृत्यत्राच्युतमर्चयेति गुरुणानुज्ञातो बिम्बे मण्डलेऽप्सु वा प्रत्यहं ध्यानन्यासवह्नितर्पणानि विना मन्त्रमात्रार्चनपरः शास्त्रार्थपर्यालोचनादिशीलो यः स पुत्रक इति ज्ञेयः।। 32--41 ।।
किन्तु तस्य(1) विशेषो यस्तमिदानीं निबोधतु।
पूर्वोक्तानि समयिलक्षणानि पुत्रकादिषु त्रिष्वपि समानानि। तद्विशेषांस्तूपरिवक्ष्यामीत्याह--एवमिति।। 32 ।।
(1.यस्य--अ. उ.।)
विज्ञाता गुरुणा यस्य विनियोगात् कृतार्थता।। 32 ।।
स्वल्पमध्योत्तमाद्येन शिक्षितेनागमेन च।
तस्यानुग्रहबुद्ध्या तु आहूतस्याच्युतालये(2)।। 33 ।।
कृत्वा निरीक्षणाद्यं च देवधाम्नि (3) तु क्षेपयेत्।
तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाक्षताञ्जलिः(4) ।। 34 ।।
ततः प्रभृति कालाच्च ध्यानं न्यासादिकं विना।
पूजनं मन्त्रमात्रेण वह्नितर्पणवर्जितम्।। 35 ।।
योग्यतापदसिद्ध्यर्थं दत्तं बिम्बेऽप्य वा स्थले।
सामान्यविधिना चोक्तो गुरुणा चार्चयाच्युतम्(5)।। 36 ।।
स तथेति तदुक्तं च (6) मत्वाऽऽस्ते(7) मुदितः(8) सदा।
आलोचयंस्तु शास्त्रार्थं स्वमुद्रामुद्रितं(9) तु वै।। 37 ।।
शक्त्या निरीक्षमाणं च योगक्षेमादिकं गुरोः।
तदाराधननिष्ठस्तु तच्चित्तस्तत्परायणः।। 38 ।।
समाक्षिप्तस्तदादेशान्मन्त्रमुद्राद्वयं विना।
कीर्त्यर्थं स्वगुरोर्ब्रूयात ज्ञातं शास्त्रार्थमुत्तमम्।। 39 ।।
विचार्य स्वधिया सम्यग् वैष्णवानां हि संसदि।
(10)यथा नैति जनानां च मध्ये मात्सर्यभूमिताम्।। 40 ।।
स शिष्यः पुत्रको नाम स्वपुत्रादधिकः सदा।
पुत्रकस्य विशेषलक्षणान्याह--विज्ञाता गुरुणा यस्येत्यारभ्य स्वपुत्रादधिकः सदेत्यन्तम्। एवं च सम्यग् गृहीतशास्त्रार्थः पुत्रपदार्होऽयमिति गुरुणा ज्ञातः। मण्डलोपरि प्रक्षेपितपुष्पाञ्चलिकस्तदा प्रभृत्यत्राच्युतमर्चयेति गुरुणानुज्ञातो बिम्बे मण्डलेऽप्सु वा प्रत्यहं ध्यानन्यासवह्नितर्पणानि विना मन्त्रमात्रार्चनपरः शास्त्रार्थपर्यालोचनादिशीलो यः स पुत्रक इति ज्ञेयः।। 32--41 ।।
(2.आभू--मु. अटी.।) (3.वदेत् स्वयम्--मु. अटी.।) (4. हिता-बख. अ. उ.।) (5.त्रार्चना--अ., त्रार्चया--उ.।) (6.`च मत्वाऽऽस्ते" क्षेमादिक' नास्ति--उ.।) (7.मत्त--मु. अटी.।) (8.तस्तदा---अ.।) (9.तस्तु--अ.।)(10. यथाभ्येति--उ.।)
साधकाख्ये विशेषो यस्तमिदानीं निबोध(1) मे।। 41 ।।
पूर्ववल्लब्धदीक्षस्तु मन्त्राराधनतत्परः।
स्नानादिनाऽखिलेनैव देवभूतेन कर्मणा।। 42 ।।
सिद्धये स्वात्मनश्चैव न(2) लोकाराधनाय च।
वने वायतनोद्देशे स्वगृहे वा मनोरमे।। 43 ।।
मन्त्रसेवार्घ्यदानं च कुर्यान्मन्त्रव्रतं महत्।
परमः पालनीयश्च तेनैष(3) समयः सदा।। 44 ।।
यदतीव च संलब्धं यच्छक्त्यानन्दमात्मनि(4)।
तदाश्चर्यं न वक्तव्यं पूजापूर्वं गुरोर्विना।। 45 ।।
आत्मीयमुद्रासंयुक्तो नित्योद्युक्तः स्वकर्मणि।
श्रद्धया यः स बोद्धव्यः साधको भगवन्मयः।। 46 ।।
अथ साधकलक्षणमाह--साधकाख्ये विशेषो य इत्यारभ्य साधको भगवन्मयइत्यन्तम्। एवं च यावन्तं पूर्वोक्तदीक्षया संस्कृत आयतने वने भवने वा यथाविधिध्यानन्यासादिभिः सह मन्त्रार्चनं कुर्वन् जपादिभिस्तत्साधनपरो यः स साधक इति बोध्यः।। 41--46 ।।
(1.धतु--अ.।) (2.लोकानां साधनाय--मु. अटी.।) (3.तेनैव--मु. अटी.)(4.त्मनः--अ.।)
लिङ्गैः पूर्वोदितैर्युक्तस्त्वभियुक्तो(1) विशेषतः।
अनुग्रहार्थं गुरुणा भक्तानां विनियोजितः।। 47 ।।
पदानि पदमन्त्राणां सार्थकानि च वेत्ति यः।
वाच्यवाचकभावेन साङ्गानङ्गवशेन (2) वा(3)।। 48 ।।
करविग्रहकह्लारचक्रन्यासार्थमेव च।
समेन विषमेणैव सकृच्चित्रादिकेन(4) च।। 49 ।।
तेषामर्थवशाच्चैव विनियोगं हि वस्तुषु।
ध्यानदैवतविज्ञानाद् व्यापकत्वं तु चाध्वनि।। 50 ।।
निर्लिङ्गं देवतानां च शब्दब्रह्मत्वमेव हि।
यथावदनुजानाति स्ववर्णैः प्रागुदीरितम्।। 51 ।।
साङ्कर्यमागमानां च वेत्ति वाक्यवशात् तु यः।
तत्र वै त्रिविधं वाक्यं दिव्यं च मुनिभाषितम्।। 52 ।।
पौरुषं चारविन्दाक्ष(5) तद्भदमवधारय।
यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम्(6)।। 53 ।।
तत्पारमेश्वरं वाक्यमाज्ञासिद्धं च(7) मोक्षदम्।
प्रशंसकं वै(8) सिद्धीनां संप्रवर्तकमप्यथ।। 54 ।।
सर्वेषां रञ्जकं गूढं निश्चयीकरणक्षमम्।
मुनिवाक्यं तु तद्विद्धि निश्चयीकरणक्षमम्।। 55 ।।
अनर्थकमसम्बद्धमल्पार्थं शब्दडम्बरम्।
अनिर्वाहकमाद्योक्तेर्वाक्यं तत्पौरुषं स्मृतम्।। 56 ।।
हेयं चानर्थसिद्धीनामाकरं(9) नरकावहम्।
प्रसिद्धार्थानुवादं यत् संगतार्थं(10) विलक्षणम्।। 57 ।।
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत्।
एवमादेयवाक्योत्थ आगमो यो महामते।। 58 ।।
सन्मार्गदर्शनं (11) कृत्स्नं विधिवादं च विद्धि तम्।
तत्प्रामाण्यात् तु यत्किञ्चित् समभ्यूह्य यथार्थतः।। 59 ।।
पूर्वापराविरोधेन निर्वाहयति सर्वदा।
भक्तानां चोदितस्त्वेवं पदवाक्यप्रमाणवित्।। 60 ।।
स्वमुद्रालङ्कृतश्चापि यः सदा चक्रधृक् चरेत्।
स देशिको निबोद्धव्यः सर्वैः सामयिकैर्गुणैः(12)।। 61 ।।
अथाचार्यलक्षणमाह---लिङ्गैः पूर्वोदितैर्युक्त इत्यारभ्य सर्वैः सामयिकैर्गुणैरित्यन्तम्। अथ प्रसङ्गात् शास्त्रसङ्करभेदं दिव्यादिभेदैरागमत्रैविध्यमपि दर्शितम्। तत्र मुनिभाषितस्यापि सात्त्विकादिभेदैस्त्रैविध्यमैश्वर(1/47-63)-पारमेश्वरा(10/347-374) दिषूपबृंहितं ग्राह्यम्। एतत्साङ्कर्याविचारः श्रीपञ्चरात्ररक्षायां बहुशः प्रतिपादितो द्रष्टव्यः। " अनिर्वाहकमाद्योक्तेरिति दिव्यमुनिभाषितयोर्विरुद्धार्थत्वमुच्यते। असंबद्धमिति पूर्वापरविरुद्धत्वम्" पृ.(29) इति पौरुषवाक्यलक्षणप्रकरणोक्तं पदद्वयमपि तत्रैव व्याख्यातम्। एवं च पूर्वोक्तलक्षणैर्युक्तो व्रतादिभिः सिद्धमन्त्र आचार्याभिषेकेनाभिषिक्तः पदमन्त्राद्यर्थज्ञानसंपन्नो यः स आचार्य इति बोध्यः।
ननु "पूर्ववल्लब्धदीक्षः" (22/42) इति साधकस्य। " लिङ्गैः पूर्वोदितैर्युक्तः" (22/47) इत्याचार्यस्य च प्राप्तदीक्षत्वमुक्तं भवति, समयिपुत्रकयोस्तु तन्नास्ति, तथापि तयोर्मन्त्रमात्रार्चने कथमधिकारः सिद्ध्यति? दीक्षाकालमन्तरा तयोर्मन्त्रः कदा प्राप्त इति चेत्, मध्ये (13)(कमनीया?किमनया) शङ्कया, वचनात् प्रवृत्तिः वचनान्निवृत्तिः। अदीक्षितानामर्चना (न) धिकारप्रतिपादकानि वचनानि तु मुद्रान्याससहितार्चनाधिकारनिषेधपराणि बोद्ध्यानि। मन्त्रस्तु मण्डलदर्शनानन्तरं शास्त्राभ्याससमय एव संगृह्यते।। 47--61 ।।
(1.षिक्तो--अ. उ.।)(2. साङ्गनाङ्ग--मु. अटी.।) (3.च-उ.।)(4.सकृद् द्वि--उ.।)(5.त्वर--अ. उ.)(6.स्मृतम्--मु. अटी.।) (7.हि--मु. अटी. बक.।) (8.हि-मु. अटी. बक.)।(9.स्यादर्थ--अ.।)(10.`संगतार्थ....यत्किञ्चित्' नास्ति--उ.।) (11.समार्ग--बक. बख.।)(12.सामयिकादिकैः---बख. अ. उ., सामयिकैर्गुणैः--अटिं।)(13.ह्येक--अ.।)
वेदयत्यन्यथात्मानं(1) (2) योऽन्यस्मिन् योजितं पदे।
कृत्वापेक्षां तु हृदये स यादि नरकेऽधमः।। 62 ।।
नो भाजनं स्यात् सिद्धीनां क्रमत्यागे कृते सति।
समयिपुत्राद्यवरपदस्थोऽपि(3) प्रतिष्ठापेक्षया साधकाचार्यपदारूढत्वेनात्मानं वेदयति, तस्य महत्तरं दोषमाह---वेदयतीति सार्धेन।। 62--63 ।।
(1.चोद--उ.।) (2.योऽयमन्यो जितः--बक. बख., मयाऽस्मिन् योजितः--अ., योऽस्मिन् संयोजितः परे--उ.।) (3. समयी पुत्रावर--अ.।)
स्वमाचारं(1) स्वकां जातिं स्वगोत्रं स्वगुरोर्गृहम्।। 64 ।।
एवं स्वाचारजातिगोत्रादिगोपनेऽपि पातित्यं संभवतीत्याह---एवमिति सार्धेन। प्राङ्निषिद्धेन मन्त्रमुद्रादिनेत्यर्थः,
समाक्षिप्तस्तदादेशान्मन्त्रमुद्राद्वयं विना।
कीर्त्यर्थं स्वगुरोर्ब्रूयाद् ज्ञातं शास्त्रार्थमुत्तमम्।। (22/39)
इत्यादिभिस्तेषां प्रकाशन(स्य) निषिद्धत्वात्। अतस्त्वहङ्कारादुत्कृष्टत्वकथनं च न कार्यम्।। 63--64 ।।
 (1.स्वपदम्, गोपायति, स्वमाचारमिति पङ्‌क्तित्रयक्रमः---अटी.।)
तस्माच्छ्रेयोऽर्थिना नित्यं नाभिमानं न तत्क्षयात्(2)।
अधरोत्तरता सम्यग् आचर्तव्या च कुत्रचित्।। 65 ।।
वास्तविकार्थकथनं श्रेयस्करमित्याह--तस्मादिति।। 65 ।।
(2.तत्क्षणात्--उ.।)
सङ्कर्षण(3) उवाच(4)
मुद्राचतुष्टयं देव कीदृग्लक्षणलक्षितम्।
ज्ञायते यत्परिज्ञानाद् देशिकान्तं चतुष्टयम्।। 66 ।।
पूर्वोक्तसमयिपुत्रकादिज्ञापकतत्तन्मुद्राचतुष्टयलक्षणं पृच्छति संकर्षणः--मुद्रेति।। 66 ।।
(3. `सङ्कर्षण'नास्ति---उ.।) (4.`उवाच' अ. विहाय कुत्रापि नास्ति।)
श्रीभगवानुवाच(5)
यत्पूर्वं नृहरेः प्रोक्तं शिरोमुद्रादिपञ्चकम्।
तदङ्गुष्ठविनिर्मुक्तं विद्धि न्यूनाङ्गुलैः क्रमात्।।
चतुष्टयं चतुर्णां तु गुर्वन्तानां यथास्थितम्।। 67 ।।
इति श्रीपाञ्चात्रे(6) श्रीसात्वतसंहितायामधिकारिमुद्राभेदविधिर्नाम(7) (8)
द्वाविंशः(9) परिच्छेदः।।
एवं पृष्टो वासुदेवः पूर्वं नृसिंहकल्पोक्त(16/102) शिखामुद्रादिचतुष्टयमेव समयिपुत्रका(णां? दीनां) मुद्राचतुष्टयमित्याह---यदिति सार्धेन।। 67 ।।
(5. भगवान्---मु. अटी. बक. बख.।)(6.पञ्च--बख. अ. उ.।) (7.चतुर्विधशिष्याचार्यलक्षणं नाम--बक.।)(8.`नाम' नास्ति--बख. अ. उ.।) (9.द्वाविंशतिः--बख., द्वाविंशतितमः--उ., एकविंशतितमः--अ.।)
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते।
सात्वततन्त्रभाष्ये द्वाविंशः परिच्छेदः।।


*****************--------------