← अध्यायः ११ सात्त्वतसंहिता
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
सात्त्वतसंहितायाः अध्यायाः


द्वादशः परिच्छेदः
नारद[1] उवाच

एवमाकर्ण्य स त्वेवं[2] मुसली मुनिनायकाः ।
कृताञ्जलिपुटो भूत्वा पप्रच्छ जगतां पतिम् ।। 1 ।।
अथ द्वादशो व्याख्यास्यते। इह संकर्षणो वासुदेवं विभवदेवध्यानं पप्रच्छेत्याह- एवमिति ।। 1 ।।
[1 नारद इत्येव उ. विहाय सर्वत्र।]
[2 त्वेव- मु. अटी. बक. बख.।]


सङ्कर्षण[1] उवाच
यथाक्रमस्थितानां च मन्त्राणां[2] लक्ष्मिनन्दन ।
त्वत्तोऽहं श्रोतुमिच्छामि सर्वेषां[3] ध्यानलक्षणम् ।। 2 ।।
प्रश्नप्रकारमाह- यथाक्रमस्थितानामिति। लक्ष्मीं नन्दयति संतोषयतीति लक्ष्मीनन्दनेति वासुदेवसम्बोधनम् ।। 2 ।।
[1 सङ्कर्षण इत्येव उ. विहाय सर्वत्र।]
[2 सर्वेषां- मु. अटी.।]
[5 मन्त्राणां - मु. अटी.।]

श्रीभगवानुवाच[1]
त्रयाणां मुख्यपूर्वाणां ध्रुवान्तानां पुरोदितम् ।
शेषादीनां[2] च शेषाणामिदानीमवधारय ।। 3 ।।

ध्यानं पातालनिलयपर्यन्तानां यथास्थितम् ।
एवं पृष्टो भगवान् प्रत्याह- त्रयाणामिति सार्धेन। मुख्यपूर्वाणां विशाखयूपादीनामित्यर्थः। त्रयाणां विशाखायूपपद्मनाभध्रुवाणामित्यर्थः। पूर्वं नवमपरिच्छेदे- "विशाखयूपो भगवान् स्वयं विश्वसिसृक्षया" (9/49) इत्यादिभिर्विशाखयूपध्यानम्, "इत्येवमादिः सर्वेषाम्" (9/96) इत्यादिभिः पद्मनाभध्रुवध्यानं च प्रतिपादितमित्यर्थः। शेषाणाम् अवशिष्टानामित्यर्थः। शेषादीनामनन्तादीनां पातालनिलयपर्यन्तानां पातालशाय्यन्तानां षट्त्रिंशद्विभवदेवानामित्यर्थः ।। 3-4 ।।
[1 भगवानित्येव उ. विहाय सर्वत्र।]
[2 नामशे- मु. अटी.।]

एक एव जगन्नाथः स्वरूपाद्यैस्तु शक्तिभिः ।। 4 ।।

नानात्वेनाप्यनन्तो यो भक्तानुग्रहकाम्यया ।
तस्याभिमानिकं रूपं श्रृणु सर्वेश्वरस्य तु ।। 5 ।।
तत्रादावनन्तस्य रूपं श्रृण्वित्याह- एक इति सार्धेन।। 4-5 ।।

तुहिनाचलसंकाशं पूर्णचन्द्रसमाननम् ।
स्वमणिव्य[1]ञ्जितेनैव युक्तं फणगणेन तु ।। 6 ।।

प्रोद्वहन्तं हलं चक्रमपसव्यद्वयेन तु ।
वामहस्तद्वयेनैव शङ्खं मुसलमेव च ।। 7 ।।

नित्यसन्निहिताशेष[2]शक्तिं सर्वज्ञमच्युतम् ।
मनस्यन्तर्मुखानां यत् कर्मिणां पूरयेच्च तत् ।। 8 ।।
तस्य ध्यानप्रकारमाह- तुहिनेति त्रिभिः। शेषकृत्यं[3] भगवत्कैङ्कर्यधुरीणमित्यर्थः। नन्वनेनानन्तस्य भगवदाविष्टत्वमात्रं ज्ञायते, न साक्षादवतारत्वम्, कथं तस्य मुख्यप्रादुर्भावेष्वन्तर्भाव इति चेन्न, भगवदधिष्ठितबद्धचेतनानामेव मुख्येष्वनन्तर्भावात्। अन्तर्मुखानां निजभक्तानां मनसि यद्वाञ्छितमस्ति तत् पूरयेत् प्रयच्छेदित्यर्थः। अनन्तस्थानं तु श्रीविष्णुपुराणे-
आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ।।
तस्य वीर्यं स्वभावं च स्वरूपं रूपमेव च ।
नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ।।
यस्य[4] सा सकला पृथ्वी फणामणिशिखारुणा ।
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ।। (2/5/20-22)
इति ।। 6-8 ।।
[1 रञ्जिते- अ.।]
[2 शेषकृत्यं- अ., शेषवृत्तिं- मु.।]
[3 वृत्तिं- मु.।]
[4 यस्यैषा- मु.।]

शक्तीशोऽप्यथ सञ्चिन्त्यः पुण्डरीकनिभेक्षणः ।
इच्छारूपधरश्चैव सौम्यः प्रहसिताननः ।। 9 ।।

व्यक्तये च फलादीनां भक्तानामनुकम्पया ।
पीडयन् स्वाङ्घ्रियुग्मेन वसुधां च करद्वयम् ।। 10 ।।

युगानुसारिकान्तिश्च चतुर्वक्त्रश्चतुर्भुजः ।
मूर्तचक्रगदाहस्तः [1]अमूर्ताब्जाम्बुजा[2]ङ्कितः ।। 11 ।।

शमं नयति सन्तापं कमलेनेन्दुकान्तिना ।
नानामन्त्रमयीं विद्यां व्यञ्ज[3]यत्यमलात्मनाम् ।। 12 ।।

सम्यग् वाक्पतिना चैव कम्बुना शब्द[4]मूर्तिना ।
आज्ञाप्रतीक्षकेणैव गदाचक्रद्वयेन तु ।। 13 ।।

प्रेरितेन हिनस्त्याशु साधुसन्तापकारिणाम्[5] ।
नारसिंहेन [6]वक्त्रेण भवभीतिविघातकृत् ।। 14 ।।

पुष्णाति सर्वभूतानि वाराहेणामृतात्मना ।
कुरुते पश्चिमस्थेन कापिलेनोपसंहृतिम् ।। 15 ।।

भक्तिश्रद्धापराणां च स्मृतमात्रः सदैव[7] हि ।
हृन्मध्ये गगने भूमौ वह्निमध्ये जलान्तरे ।। 16 ।।

चतुर्णां ब्राह्मणादीनां स्वयमेवानुकम्पया ।
चातुरात्म्येन रूपेण चतुर्धा व्यक्तिमेति च ।। 17 ।।

आत्मतुल्येन देहेन शङ्खपद्माङ्कितेन तु ।
मूर्तिमद्भिर्हलाद्यैस्तु युक्तेन वदनैर्विना ।। 18 ।।

वर्णानुरूपवर्णेन समेनाप्यसमेन तु ।
अन्योन्यानुगतेनैव पूर्वोद्दिष्टेन नान्यथा ।। 19 ।।
अथ शक्त्यात्मध्यानमाह- शक्तीश इत्येकादशभिः। इच्छारूपधरः, वक्ष्यमाणवाहनदेवीभुजास्त्रभेदैर्नानारूपधर इत्यर्थः। अमूर्ताब्जाम्बुजाङ्कितः, अमूर्तः केवलरेखारूपः, अब्जः शङ्खः, अम्बुजं कमलम्, ताभ्यामङ्कितः। एवं शक्तीशावतारो व्यूहाद् विभवाद्वा संभवतीति बोध्यम्। यतोऽस्मिन्नेव परिच्छेदे वक्ष्यति-
चातुरात्म्यसमूहं[8] तु यत्पद्मदलभूस्थितम् ।
तथा विभवदेवानां मध्यात् पद्मदलेक्षण ।।
एकस्त्वनुग्रहार्थं तु शक्त्यात्मा भावितात्मनाम् ।
बिभर्ति बहुभेदोत्थं रूपं सद्वाहनस्थितम् ।। (12/175-176)
इति। अंशावतारत्वमेवोक्तमस्य सहस्रनामभाष्ये- "अथांशावताराः- युगानुसारिकान्तिश्चेति। एवं व्याप्तिनियमनादिशक्तिद्वारा विश्वस्य व्यार्प्तेर्विष्णुः, "सर्वशक्त्यात्मने" (सा. सं. 23/48) इति मन्त्रवत्" (पृ 576) इति। एवं च त्रिमूर्तिष्वयमेकतम इति बोध्यम्, "नारायणावतारो यः शक्तीशो नाम नामतः" (8/19) इति लक्ष्मीतन्त्रोक्तेः ।। 9-19 ।।
[1 स्वेति सार्वत्रिकः पाठः। भाष्यानुरोधी `हस्तो ह्यमू' इति पाठः शोभनः स्यात्.।]
[2 र्ताच्छेति सार्वत्रिकः पाठः.।]
[3 भाव- मु. अटी. ।]
[4 शक्ति- उ.।]
[5 कारिणा- अटी., कारिणः- अ. उ.।]
[6 चक्रेण- अ.।]
[7 समेत्य वै- मु. अटी.।]
[8 हात्तु- मु.।]

प्रलयानलसूर्याभः स्मर्तव्यो मधुसूदनः ।
अष्टबाहुर्विशालां[1]सोऽप्यग्नि[2]ष्टोमकराङ्कितः ।। 20 ।।

शङ्खचक्रधरश्चैव बाणकार्मुकधृक् तथा ।
रजस्तमोभ्यां मूर्ताभ्यां सम्प्रवृत्तिनिवृत्तये ।। 21 ।।

कर्णपीठनिविष्टं च ध्येयं पाणियुगं विभोः ।
अथ मधुसूदनध्यानमाह- प्रलयानलेति सार्धद्वाभ्याम्। अस्यावतारस्य प्रादुर्भावान्तरत्वमुक्तं पौष्करे-
मधुकैटभमाथी च प्रादुर्भावेश्वरस्य च ।
प्रादुर्भावान्तरं विद्धि पद्मनाभस्य वै विभोः ।। (36/214) इति ।
अस्य स्थानमप्युक्तं तत्रैव-
मधुकैटभमाथी च संस्थितः सोऽवनीतले ।।
क्षीरोदकक्षितिक्षेत्रे सुरासुरनिषेविते । (36/343-344)
इति ।। 20-22 ।।
[1 लांशो- मु. अटी. उ.।]
[2 प्यग्नीषोम- उ.।]

विद्याधिदेवं भगवच्चतुर्वक्त्रं चतुर्भुजम् ।। 22 ।।

लम्बकूर्चं[1] जटादण्डकमण्डल्वक्षसूत्रिणम्[2] ।
फुल्लरक्ताम्बुजाभासं श्वेतपद्मकराङ्कितम् ।। 23 ।।
अथ विद्याधिदेवध्यानमाह- विद्याधिदेवमिति सार्धेन। यद्यपि चतुर्वक्त्रमित्यस्य श्रुतीर्वक्त्रेभ्यः प्रोद्गिरन्तमित्यस्य चैककण्ठ्याद् "वेदविदे" (सा. सं. 23/50) इति विद्याधिदेवमन्त्रवर्णलिङ्गाद् उत्तरत्र स्मरेद् ध्यायेदिति पौनरुक्त्यप्रसङ्गासंभवाच्च "श्रुतीर्ऋगाद्या वक्त्रेभ्यः प्रोद्गिरन्तमतः स्मरेत्" (12/24) इति वाक्यस्यापि पूर्वेणान्वयः स्वरसः, तथापि सर्वज्ञैः श्रीमत्पराशरभट्टारकैः सहस्रनामभाष्ये (पृ. 483) तस्य वाक्यस्य कपिलध्यानपरत्वेनोत्तरत्र योजितत्वादस्मादृशैस्तच्चलयितुं न शक्यम्। किञ्च, यद्यप्यस्य विद्याधिदेवस्य चतुर्वक्त्रत्वजटाकमण्डल्वक्षसूत्रधरत्वादिलक्षणानामुक्तत्वादयं विरिञ्चिरिति ज्ञायते, तथापि सहस्रनामभाष्ये (पृ. 183) नियमेन तेषां ब्रह्मादीनां भगवदवतारगणनास्वपरिगणनात्, देवमनुष्यादिवत् सृष्टिप्रकरणेषु सृज्यतया परिगणनात्, प्रत्युत तेषां प्रादुर्भावेभ्यो भेदव्यपदेशात्, प्रादुर्भावविलक्षणेन प्रादुर्भावान्तरशब्देन निर्देशात्, भगवद्विभूतिलेशोद्भवत्वतत्प्रादुर्भावविशेषाधीनप्रवृत्तित्वादिव्यवहाराच्च ब्रह्मणः प्रादुर्भावत्वं निह्नुतम्। किञ्च,
कालो[3] वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ।
विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ।।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः । (9/91-92)
इत्यादिपूर्वोक्तभवोपकरणदेवतावर्ग एव प्रजापतिसमूह इत्यत्र चतुर्मुखस्याप्यन्तर्भावश्चोक्तः। तस्मात् "परमात्मने" (सा. सं. 23/51) इति मन्त्रवर्णलिङ्गाच्च नायं विद्याधिदेवो विरिञ्चिः, अपि तु साक्षात् प्रादुर्भाव इति ज्ञेयम्।
ननु श्रीपौष्करे-
मधुकैटभमाथी च प्रादुर्भावेश्वरस्य च ।
प्रादुर्भावान्तरं विद्धि पद्मनाभस्य तद्विभोः ।। (36/214)
इत्यादिभिर्मधुसूदनादीनामपि प्रादुर्भावान्तरत्वं बहुशः कण्ठरवेणोक्तम्, किं तावता तेषामपि प्रादुर्भावत्वविरोध इति चेन्न, समुच्चितैः पूर्वोक्तैर्हेतुभिश्चतुर्मुखादीनां प्रादुर्भावत्वविरोधात्, मधुसूदनादिषु तथाविधहेतुसमुच्चयस्यानवकाशाच्च ।। 22-23 ।।
[1 कूर्च- मु. अटी., कण्ठ- मु.।]
[2 सूत्रकम्- मु. अ. उ.।]
[3 कालोऽपि- मु.।]

श्रुतीर्ऋगाद्या वक्त्रेभ्यः प्रोद्गिरन्तमतः[1] स्मरेत् ।
निर्धूमाङ्गारवर्णाभं शङ्खपद्माक्षसूत्रिणम्[2] ।। 24 ।।

फु[3]ल्लरक्ताब्जविभवं देवताद्यात्मसूत्रकम् ।
ध्यायेदभयपाणिं तं कपिलं तेजसां निधिम् ।। 25 ।।
अथ कपिलध्यानमाह- श्रुतीरिति द्वाभ्याम्। वक्त्रेभ्य इति पूजायां बहुवचनं बोध्यम्। यद्वा तस्याप्यैच्छिकं चतुर्मुखत्वं वक्तव्यम्। अस्य श्रुतिप्रवर्तकत्वं तु सहस्रनामभाष्य एव प्रतिपादितम् "सत्यवृत्तिस्त्रिविक्रमः। महर्षिः कपिलाचार्यः" (57-58 श्लो. ) इत्यत्र- "ईदृशेन महामहिम्ना वाच्येन विक्रान्तत्रिवेदस्त्रिविक्रमः।"
त्रिरित्येवं त्रयो वेदाः कीर्तिता मुनिसत्तमैः ।
क्रमसे तांस्तथा सर्वान् त्रिविक्रम इति स्मृतः ।।" (पृ. 481-482)
इति, "यथोक्तवेददर्शनान्महर्षिः" (पृ. 482) इति च। अस्य पातालतलवासित्वं सुप्रसिद्धम्। अर्चारूपस्थानं तु श्रीपौष्करे-
प्राक्समुद्रापयाने तु भूभागे शुभलक्षणे ।।
कापिलीं मूर्तिमासाद्य वासुदेवः स्थितः प्रभुः । (36/357-358)
इति प्रतिपादितम् ।। 24-25 ।।
[1 मनु- मु. अटी. बक. बख.।]
[2 सूत्रकम्- उ.।]
[3 पङ्क्तिरेषा न दृश्यते- बख. अ. उ.।]

योऽन्तः सर्वेश्वरो देवः साक्षिभूतो व्यवस्थितः ।
स्फटिकोपलवद् भावान् स्वशक्त्युत्थान् बिभर्ति च ।। 26 ।।

अविद्याविष्कृतानां तु भक्तानां सत्प[1]दाप्तये ।
तमनादिं जगन्नाथं बहिः स्थूलतरात्मनाम्[2] ।। 27 ।।

द्यावापृथिव्योरन्तःस्थं विश्वरूपमनुस्मरेत्[3] ।
अनेकवक्त्राङ्घ्रिकरम् अनेकमकराङ्कितम् ।। 28 ।।

यद्यप्यनेकवदनम् अनेकभुजभूषितम् ।
तथापि वै त्रयस्त्रिंशद् वदनैर्विविधैर्युतम् ।। 29 ।।

चतुरभ्यधिकैर्दिव्यैश्चत्वारिंशन्महाभुजैः ।
ब्रह्मरुद्रेन्द्रदक्षार्कचन्द्रसिद्धास्तथा श्रुतिः[4] ।। 30 ।।

पौरुषस्य तु वक्त्रस्य चोर्ध्ववक्त्रस्थितास्त्वमी ।
पिशाचाग्निमरुच्छैलद्वीप[5]गन्धर्ववारिभिः ।। 31 ।।

वक्त्रैरूर्ध्वस्थितैर्ध्यायेद् दक्षिणं वदनं विभोः ।
पाताल[6]दिङ्महामेघलोकराशिग्रहोत्थितैः ।। 32 ।।

वक्त्रै[7]स्तारासमेतैस्तु ध्यायेद् वक्त्रं तु पश्चिमम् ।
यक्षान्तकाम्बुना[8]गाद्यैर्वसुनक्षत्रगोगणैः ।। 33 ।।

वक्त्रैर्वराहवक्त्रोर्ध्वस्थि[9]तैर्ध्यायेच्च दक्षिणम् ।
पद्माद्यं चातुरात्मीय[10]मस्त्राणां दशकं महत् ।। 34 ।।

प्रोच्छ्रितं हि सुवर्णाद्यं[11] तल्लाञ्छनचतुष्टयम् ।
लोकेशास्त्राष्टकं चैव पुस्तकं चाक्षसूत्रकम् ।। 35 ।।

दर्वी कमण्डलुर्हैमश्चाभयं हि वरान्वितम् ।
दर्भाजिनं ततश्छत्रं सुशुभं चामरं सितम् ।। 36 ।।

स्रुक्स्रुवौ चापि कलशौ वेदिर्वह्निसमन्विता ।
चन्द्रार्कमण्डले पूर्णे नागेन्दो मणिदर्पणः[12] ।। 37 ।।

पुष्पस्रग् व्यजनं दिव्यं विश्वपत्रलता तथा ।
स्मर्तव्यास्तु भुजेष्वस्य विभोः संस्थानकैः समैः ।। 38 ।।

यथोदितक्रमेणैव व्यत्ययो न भवेद् यथा ।
भाभिर्नानाप्रकाराभिर्देहोत्थाभिरिदं जगत् ।। 39 ।।

भासयन्तं जगन्नाथं स्मरेद् हृत्कमलादिषु ।
हंसमूर्तिमथात्मानं ज्ञानयज्ञभुजं स्मरेत् ।। 40 ।।
अथ विश्वरूपध्यानमाह- योऽन्तः सर्वेश्वरो देव इत्यारभ्य स्मरेद् हृत्कमलादिष्वित्यन्तम्। प्राङ्मुखस्य पौरुषस्य वक्त्रस्योर्ध्वे ब्रह्मादिश्रुत्यन्तवक्त्राष्टकम्, दक्षिणस्य नारसिंहवक्त्रस्योर्ध्वे [13]पिशाचादि(वारि)पर्यन्तवक्त्रसप्तकम्, पश्चिमस्य कपिलवक्त्रस्योर्ध्वे पातालादितारान्तवक्त्रसप्तकम्, औत्तरस्य [14]वाराहवक्त्रस्योर्ध्वे [15]यक्षादिगोगणान्तवक्त्रसप्तकम्, आहत्य त्रयस्त्रिंशद्वक्त्राणि ज्ञेयानि। तारासमेतैरित्यत्र ताराशब्देन[16] अश्विन्यादिप्रधाननक्षत्राणि, नक्षत्रशब्देन तदन्यानि नक्षत्राणि ज्ञेयानि, अन्यथा पौनरुक्त्यात्। एवं वारिभिरित्यत्र वारिधिर्विवक्षणीयः। अम्बुशब्देन केवलमुदकं विवक्षणीयम्। नागाद्यैरित्यत्र नागानामाद्यः प्रथमोऽनन्त इत्यर्थः। चातुरात्मीयं वासुदेवादिव्यूहीयमित्यर्थः। पद्माद्यमस्त्राणां दशकं पद्मशङ्खचक्रगदाखङ्ग[17]लाङ्गलमुसलशरशार्ङ्गखेटाख्यमायुधदशकमित्यर्थः। एतेषामायुधानां पूर्वं जाग्रद्व्यूहवासुदेवचतुर्मीर्तिलाञ्छनत्वेनोक्तत्वाच्चातुरात्मीयत्वं सुस्पष्टम्। लोकेशास्त्राष्टकं तु वज्रशक्त्यादिकं प्रसिद्धमीश्वरादिषु (9/116-117) प्रतिपादितं च । विश्वरूपस्थानं तु श्रीपौष्करे-
श्वेतद्वीपे कुरुक्षेत्रे हिमवन्ताचलेऽब्जज ।
वेदिकायामपि तटे विश्वरूपः स्थितः प्रभुः ।। (36/337)
इति ।। 26-40 ।।
[1 सम्पदा- बक. अ. उ.।]
[2 त्मना- अ. उ.।]
[3 मतः- अ. उ.।]
[4 शुचिः- अटी.।]
[5 द्विप- मु. अटी. बक. बख. अ.।]
[6 पाताला- मु. अटी. बक., पातालादिर्म- बख. अ. ।]
[7 वर्णै- मु. अटी. बक. बख.।]
[8 ब्जनाभाद्यैरिति सार्वत्रिकः पाठः ।]
[9 र्ध्वं ध्यायेच्चैवमतः शुभैः - बक. बख. अ. उ.।]
[10 यं मन्त्राणां- अटी.।]
[11 स्वपर्णाद्यं- अ., हिमवर्णाद्यं- उ.।]
[12 णम्- मु. अटी. बख.।]
[13 विशाखादि- मु.।]
[14 वराह- मु.।]
[15 यक्षादिदिक्कोणगणान्त- अ.।]
[16 `ताराशब्देन' नास्ति- अ.।]
[17 `खड्ग' नास्ति- अ.।]

कुन्देन्दुस्निग्धकान्तिं च हेम[1]तुण्डं[2] महातनुम्[3] ।
रजस्तमोऽङ्घ्रिं सत्सत्त्वविग्रहं परमेश्वरम् ।। 41 ।।

धर्माधर्मेक्षणं ध्यायेदग्नीषोमात्मकेन तु ।
दक्षिणोत्तरसंस्थेन पक्षयुग्मेन राजितम् ।। 42 ।।

बहिस्तमेवोदकस्थं तुहिनाचलसन्निभम् ।।
ध्यात्वाऽर्चयेत् तु विधिवद् हंसविग्रहमच्युतम् ।। 43 ।।
अथ हंसध्यानमाह- हंसेति सार्धैस्त्रिभिः। अस्य स्थानं तु श्रीपौष्करे - "सिद्धामरार्चितं[4] विद्धि श्वेतद्वीपे[5] तु हंसराट्" (936/317) इति ।। 40-43 ।।
[1 होम- मु. अटी.।]
[2 कुण्ड - मु. अटी. बक. बख. ।]
[3 ननम्- उ.।]
[4 र्चिता- अ.।]
[5 रूपे- अ. ।]

बहिर्द्रव्यमयस्त्वेकः सामान्येनैकलक्षणः ।
सम्यङ्निर्वर्तितः[1] स्वर्गं पूर्वमृच्छति चार्थिनाम् ।। 44 ।।

अन्तर्वेद्यां चतुर्धा यस्त्वेक एव महामखः ।
तपो[2]यागजपध्यानस्वरूपः शश्वदेव हि ।। 45 ।।

याजिनामपवर्गं तु विदधाति समापनात् ।
तं यज्ञपुरुषं[3] ब्रह्म वासुदेवमजं हरिम् ।। 46 ।।

ध्यायेद् वै सूकारात्मानमञ्जनाद्रिसमप्रभम् ।
यज्ञाङ्गचिह्निताङ्घ्रिं च महाव्याहृतिदंष्ट्रिणम् ।। 47 ।।

भूर्भुवः स्वः शरीरं च शब्दब्रह्मैकमानसम् ।
निर्णुदन्तं प्रपन्नानामविद्यापङ्कमञ्जसा ।। 48 ।।

वैद्येन पोत्रप्रान्तेन त्वक्षयेनामलेन च ।
वासनावासितानां च जीवानां भवशान्तये ।। 49 ।।
अथ वराहध्यानमाह- बहिर्द्रव्यमय[4] इत्यादिभिः। वैद्येन विद्यामयेन। पोत्रप्रान्तेन वराहवक्त्राग्रेणेत्यर्थः। एवं यज्ञाङ्गदेहत्वं विष्णुपुराणेऽपि स्पष्टमुक्तम्-
पादेषु वेदास्तव यूपदंष्ट्र दन्तेषु यज्ञाश्चितयश्च वक्त्रे ।
हुताशजिह्वोऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ।।
विलोचने रात्र्यहनी महात्मन् सर्वात्मदं[5] ब्रह्मपदं शिरस्ते ।
सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ।।
[6]स्रुक्तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्र[7]सन्धे ।
पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन् भगवन् प्रसीद ।। इति ।
(1/4/32-34)
अस्य स्थानं तु श्रीपौष्करे-
"सौकरीयेन रूपेण क्षेत्रे तत्संज्ञके तु वै" (36/319)
इति ।। 44-49 ।।
[1 पङ्क्तित्रयं नास्ति- उ.।]
[2 वपुषं- मु.।]
[3 र्चिता- अ.।]
[4 मधः- म. ।]
[5 श्रयं ब्रह्म परं- मु.।]
[6 स्रक्कुण्ड- अ. मु.।]
[7 शास्त्र- अ. मु.।]

महाविभूतिर्भगवान् पूर्णषाड्गुण्यविग्रहः ।
स्वका[1]च्छान्ततराद् ब्रह्मतत्त्वादादाय चाञ्जलिम् ।। 50 ।।

करोति सेचनं[2] दोषदग्धानां[3] च स्वतेजसा ।
स्थूलरूपेण तमजं बहिराराधनाविधौ ।। 51 ।।

आध्मातं वायुना यद्विन्निर्धूमाङ्गारपर्वतम् ।
ध्यायेत् तद्वन्महादीप्तं वाजिवक्त्रमलाञ्छनम् ।। 52 ।।

बद्धब्रह्माञ्जलिं कस्थं[4] द्रवत्कनकलोचनम् ।
घोणाग्रेणाहरन्तं च त्रैलोक्योत्थं[5] जलेन्धनम् ।। 53 ।।

कृत्वा तद् भस्मसात् सम्यक् [6]स्फूक्कुर्वन्तं मुखेन तु ।
वडवानलध्यानमाह- महाविभूतिरित्यादिभिः। अस्य स्थानं तु श्रीपौष्करे- "अश्वात्मा[7] वडवामुखे[8]" (36/318) इति ।। 50-54 ।।
[1 स्वकराब्जान्तराद्- मु. अटी. बक. बख.।]
[2 वचनं- अ.।]
[3 दधानां- मु. अटी. बक. बख. ।]
[4 लीकस्थं- बक. बख. उ., लीखस्थं- अटी.।]
[5 त्थमलेन्धनम्- मु. अटी.।]
[6 स्फूत्कु- बक. बख. उ.।]
[7 अब्जात्मा- अ.।]
[8 मुखः- अ.।]

धर्मसामान्यममलमनादिनिधनं विभुम् ।। 54 ।।

दुर्लभं यत् प्रबुद्धानां यत्प्रसादधिया[1] विना ।
तस्य स्थूलतरं रूपं श्रृणु तत्प्राप्तये परम् ।। 55 ।।

तुहिनाचलसंकाशं सौम्यवक्त्रं चतुर्भुजम् ।
कामार्थावुद्वहन्तं च शङ्खपद्मच्छलेन तु ।। 56 ।।

साधुमार्गे स्थितानां तु संय[2]च्छन्तं धिया च तौ[3] ।
सिताक्षमालं धर्मं तु वरपाणिमतः स्मरेत् ।। 57 ।।
अथ धर्मध्यानमाह- धर्ममिति सार्धैस्त्रिभिः। तौ कामार्थावित्यर्थः, कामार्थावुद्वहन्तमिति पूर्वोक्तेः। अनेन प्रसिद्धस्यैव धर्मस्य भगवदवतारत्वमिति न भ्रमितव्यम्, तस्य तदुपकरणत्वमात्रात्। तथा च सहस्रनामभाष्ये- "[4]तच्छीलभगवदुपकरत्वाद्धि प्रसिद्धस्यापि धर्मस्य ताच्छील्यमिति, प्रसिद्धोऽपि धर्मोऽस्य सर्वसाधारणोपकरमिति धर्मी" (पृ. 435) इति। किञ्च,
धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् ।
प्रादुर्भूतं हि वै यस्मान्नराद्यं कृष्णपश्चिमम् ।।
सपञ्चकालषट्कर्ममखधर्मैः समन्वितम् ।
जपध्यानसमोपेतमेवं यः पाति सर्वदा ।।
चतुर्मूर्तिमयो विप्र नरो नारायणो हरिः ।
कृष्णसंज्ञश्च भगवान् प्रादुर्भावान्तरं विभोः ।। (36/207-209) इति,
धर्ममूर्तिर्महात्मा वै धर्मारण्ये सुरार्चिते ।
अनुग्रहपरस्त्वास्ते लोकानां लोकपूजितः ।। (36/332)
इति च श्रीपौष्करे सुस्पष्टं प्रतिपादितम् ।। 54-57 ।।
[1 तत्- उ.।]
[2 प्रय- मु. अटी. बक.।]
[3 वतौ- मु. अटी.।]
[4 अत्रत्यं प्रथमं वाक्यं प्रस्तुतस्थले नोपलभ्यते।]

वाङ्मयं निखिलं यस्य वस्तुजातमनश्वरम् ।
शक्तित्वेन स्वभावस्थं चिद्रूपस्यामलद्युतेः ।। 58 ।।

वरवाजिमुखं ध्यायेदथ वागीश्वरं विभुम्[1] ।
सूर्य[2]कान्ताग्निसंकाशमनेकभुजभूषितम् ।। 59 ।।

कमलं चाक्षसूत्रं च वेदिं त्रेताग्निभूषिताम् ।
साज्यधारौ स्रुक्स्रुवौ तु विष्टरं सोमसंयुतम् ।। 60 ।।

दर्भाजिनं मेखलां [3]चाप्यपसव्येषु षट्स्वमी[4] ।
स्मरेद् वामकरेष्वस्य पुस्तकं शङ्खमेव च ।। 61 ।।

दण्डं कमण्डलुं दर्वीमेकस्मिंस्त्रितयं करे ।
पूर्णं ग्राम्यैस्तथारण्यैश्चरुबीजैस्तु पञ्चमे ।। 62 ।।

[5]स्रुङ्मूलफलपत्रैस्तु यज्ञद्रव्यैः सदक्षिणैः ।
सर्वाश्रमोपकरणैर्युक्तं चमसभाजनम् ।। 63 ।।

ध्येयमस्य भुजे षष्ठे वृत्तभू[6]तैर्ऋगादिभिः ।
वेदाङ्गैरुपवेदैस्तु संस्कारैः[7] समखैस्तथा ।। 64 ।।
अथ हयग्रीवध्यानमाह- वाङ्मयमित्यादिभिः। सोमसंयुतं सोमलता[8]न्वितमित्यर्थः। ग्राम्यारण्डबीजभेदास्त्वीश्वर[9]पारमेश्वरयोर्हविःपाकप्रकरणे प्रतिपादिता द्रष्टव्याः। विष्णुपुराणे च -
व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः ।
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलुत्थकाः ।।
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तास्तद्वन्म[10]र्कटका मुने ।।
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ।
(1/6/24-26) इति ।
एतैर्बीजैः पूर्णं पात्रं चतुर्थे, यज्ञद्रव्यैः पूर्णं पात्रं पञ्चमे, आश्रमोपकरणैर्युक्तं चमसभाजनं षष्ठे हस्ते च ध्येयम्। अस्य स्थानं तु श्रीपौष्करे- "कृष्णाश्वेऽश्वरोदेवो क्षितिक्षेत्रे [11]ममार्चिते" (36/321) इति ।। 58-64 ।।
[1 प्रभुम्- बक. बख.।]
[2 कान्ताद्रि- अ. उ.।]
[3 च व्यप- बक. बख.।]
[4 स्वमूः - मु. अटी.।]
[5 स्रङ्- अटी., सृक्- बख.।]
[6 व्रतमूर्त्तै- मु. बक. बख., व्रतभूतैः- अटी.।]
[7 संस्कारः- मु. अटी. बक. बख.।]
[8 तान्वय- अ.।]
[9 ईश्वरे पञ्चविंशेऽध्याये पारमेश्वरे चाष्टादशेऽध्याये.।]
[10 मत्क- अ.।]
[11 क्षमा- मु.।]

विकारवसुधाघारे[1] ह्यभावे तु गुणोदधौ ।
स्वशक्तिभावितं कृत्वा मनःपूर्वं चतुष्टयम् ।। 65 ।।

प्रकृत्यन्तं समास्ते यः सर्वज्ञः पुरुषात्मना ।
निषण्णं भोगि[2]शय्यायां तपनीयरुचिं स्मरेत् ।। 66 ।।

देवमर्णवशाय्याख्यं मूर्तै[3]श्चक्रादिकैर्वृतम् ।
लक्ष्म्या संवाह्यमानं च समाक्रान्तं च निद्रया ।। 67 ।।

वीज्यमानं हि[4] वै प्रीत्या गीयमानं हि विद्यया ।
कूर्मात्मा कूर्मवद्[5] बुद्ध्या ध्यातव्यस्त्वथ लाङ्गलिन् ।। 68 ।।
एकार्णवशायिध्यानमाह- विकारेति सार्धैस्त्रिभिः। मनःपूर्वं चतुष्टयं मनोबुद्ध्यहङ्कारप्रकृतिचतुष्टयमित्यर्थः। अस्य लक्ष्म्यादिशक्ति[6]चतुष्टयान्वितत्वं लक्ष्मीतन्त्रेऽपि प्रतिपादितम्-
अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः ।
स्थिताऽहं परितस्तस्य चतुर्धा रूपमेयुषी[7] ।।
लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी ।। (8/30-31) इति ।
ननु किमयं चतुर्मुखरूपो भगवदवतारः। यतः श्रिविष्णुपुराणे-
एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः ।
भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः ।। (1/3/24)
इति ब्रह्मण एवैकार्णवशायित्वं प्रतिपादितमिति चेन्न, यतो ब्रह्मणोऽप्याधारभूतोऽयमर्णवशाय्यवतारः। ब्रह्मणस्तु तदानीं तन्नाभिकमलशायित्वम्। भोगिशय्यागतवचनं तु "भगवन्नाभिसरोरुहव्यवधानसहम्" (1/2/24) इति विष्णुचित्तीये[8] प्रतिपादितम् ।। 65-68 ।।
[1 रेऽप्य- अ.।]
[2 भोग- अ. उ.।]
[3 मूर्ते- मु. बक. बख..]
[4 चैव- उ.।]
[5 द्देवो- बख., द्देहो- अ.।]
[6 `शक्ति' नास्ति- अ.।]
[7 मीयुषी- अ. मु.।]
[8 विष्णुचित्ताविरचिते विष्णुपुराणव्याख्यान इत्यर्थः.।]

कूर्मात्मा कूर्मवद्[1] बुद्ध्या ध्यातव्यस्त्वथ लाङ्गलिन् ।। 68 ।।

द्रवत्कनकवर्णाभः स्वसामर्थ्याज्जलाश्रयः ।
शक्त्या[2]दिककला[3]द्वन्द्वद्वित[4]याङ्घ्रिः सनातनः[5] ।। 69 ।।

शक्त्या[6]दिककलाढ्यश्च प्रोद्गिरंस्तु श्रितत्रयम्[7] ।
अथ कूर्मध्यानमाह- कूर्मात्मेति द्वाभ्याम्। अस्य स्थानं तु - "रसातले तु कूर्मात्मा" (36/318) इति पौष्करे दर्शितम्। अयं तु निखिलजगदाधारभूतकूर्मावतारः, "भुवनधृते" (23/64) इति मन्त्रवर्णात्, "द्वन्द्वद्वितयाङ्घ्रि" (12/69) इति ध्यानाच्च। केवलकूर्मवक्त्रावतारश्च विद्यते। तथा च पौष्करे-
लवणोदधिपर्यन्ते भूभागे सिद्धसेविते ।
कूर्मवक्त्रश्च भगवान् संस्थितः शङ्खचक्रधृक् ।। (36/322)
इति ।। 68-70 ।।
[1 द्देवो- बख., द्देहो- अ.।]
[2 शान्त्या- अ. उ.।]
[3 `कलाद्वन्द्व....... शक्त्यादिक' नास्ति- उ.।]
[4 द्वितीया- मु. अटी. बक., वितता- अ.।]
[5 इतः परम्- "अनभिव्यक्तवाग्वर्णकदम्बाकृतिविग्रहः। तदुत्थध्वनिसन्तानगोग्रीवो विश्वरूपधृक् ।। वराहमूर्तिर्भगवानथ हृत्कमलान्तरे ।" इत्यधिकं पङ्क्तित्रयं दृश्यते- अ. । एतदनुसारं कूर्मात्मध्यानं पङ्क्तित्रयात्मकं वराहध्यानं च श्लोकपञ्चकात्मकं बोध्यम्।]
[6 ध्यातव्योभयपाणिश्च- अ. ।]
[7 द्वयम्- अटी.।]

अतसीपुष्पसंकाशः शङ्खचक्रगदाधरः ।। 70 ।।

मखोपकरणाङ्गश्च निमग्नोद्धरणक्षमः ।
स्वशक्तिविभवाधारमिच्छाज्ञानक्रियार्चिषम् ।। 71 ।।

नानाविशेषविज्ञानस्फुलिङ्गोर्मिसदोदितम् ।
दारयन्तं[1] स्थितं हार्दमनूनं मोहमुल्बणम् ।। 72 ।।

नदन्नादमनाख्येयं तमजं परमेश्वरम् ।
वराहध्यानमाह- अतसीपुष्पसंकाश इति त्रिभिः। पूर्वोक्तो वराहस्तु साक्षाद् वराहः, अयं नृवराह इति ध्येयम्[2]; "शङ्खचक्रगदाधरः" (12/70) इति ध्यानात्, "कोकामुखे वराहस्तु वाराहे तु नगोत्तमे" (36/324) इति पौष्करे पुनर्वराहस्थानप्रदर्शनाच्च ।। 70-73 ।।
[1 धार- मु. अटी. बक. अ.।]
[2 बोध्यम्- मु.।]

निष्टप्तकनकाभं च ध्यायेद् देवं नृकेसरिम् ।। 73 ।।

ज्वलदग्निस्फुलिङ्गाभिः स्वदेहोत्थाभिरावृतम् ।
रथाङ्गशङ्खधातारं बृहन्मूर्तिं सुभीषणम् ।। 74 ।।

सत्सत्त्वकरज[1]श्रेणीदीप्तेनोभयपाणिना ।
संयच्छन्तं धिया सम्यग् भविनां[2] साभयं वरम् ।। 75 ।।
अथ श्रीनृसिंहध्यानमाह- निष्टप्तेति सार्धद्वाभ्याम्। मूर्तं ब्रह्म साकारं परंब्रह्मेत्यर्थः। ब्रह्ममूर्तिमिति पाठे बृहत्कायमित्यर्थः। सत्सत्त्वकरजश्रेणीदीप्तेनोभयपाणिना साभयं वरं संयच्छन्तं शुद्धसत्त्वमयनखपङ्क्तिविराजिताभ्यां कराभ्यामभयवरदमुद्रान्वितमित्यर्थः । अस्य स्थानं तु श्रीपौष्करे-
नृहरिः कृतशौचे तु उज्जयिन्यामपि द्विज ।
विशाखमूलसंज्ञे तु स्थाने त्वेवं स्थितस्त्रिधा ।। (36/223) इति।
केवलनृसिंहावतारस्थानमपि तत्रैव प्रतिपादितम्- "विन्ध्यारण्ये तु पौष्कर। विज्ञातव्यो मृगेन्द्रात्मा पापहा सर्वदेहिनाम्" (36/318-319) इति ।। 73-75 ।।
[1 श्रेणि- मु. बक. बख.।]
[2 हविनां- अ.।]

अमृताध्मातमेघाभममृताहरणं विभुम् ।
पीताम्बरधरं ध्यायेदेकवक्त्रं चतुर्भुजम् ।। 76 ।।

श्रोणीतटार्पितकरं शङ्खचक्रविभूषितम् ।
मध्यतो दक्षिणेनैव वहन्तं गिरिरूपधृक्[1] ।। 77 ।।

शुद्धज्ञानानुविद्धं च कर्मसम्भवभीतिहम् ।
दिशन्तं[2] स्वधिया सम्यग् भक्तानां भक्तवत्सलम् ।। 78 ।।

मन्था[3]मथित[4]दुग्धाब्धिं क्षोभयित्वा प्रकाशितम् ।
अमृतं क्षुत्तृषादीनां प्रतिपक्षमनामयम् ।। 79 ।।

शुद्धं चानश्वरं भाव्यं मायाख्यार्णवमध्यगम् ।
आत्मामृतमनौपम्यम् आहारध्वंसकर्मणा ।। 80 ।।
अमृताहरणध्यानमाह- अमृतेत्यादिभिः। अस्य स्थानं तु श्रीपौष्करे-
क्षीरोदकक्षितिक्षेत्रे सुरासुरनिषेविते ।
मन्दराद्रिकरो देवो वर्तते देवपूजितः ।।
तत्रैवामृतजिद् देवः संस्थितः सिद्धसेवितः ।
कान्तारूपधरश्चैव सुधाकलशधृक् तथा ।
सिद्धानां च मुनीनां च देवानां मृत्युजित् स्थितः । (36/344-346)
इति ।। 76-80 ।।
[1 धृत्- मु.।]
[2 इतः पूर्वम्- `मध्यतो दक्षिणेनैव' इत्यधिकः पाठः- अ.।]
[3 मया- बक. बख. अ. उ.।]
[4 यथेमं- अ. उ.।]

ध्यायेत् कमलगर्भाभं देवदेवं[1] श्रियः पतिम् ।
कमलालयहेतीशविभूषितकरद्वयम् ।। 81 ।।

द्वयं देवीपरिणये लीलयैब समर्पयन् ।
प्रकाशयन्ननादित्वमात्मनः प्रकृतेः सह ।। 82 ।।

मत्करैरनुविद्धेयं प्रकृतिः प्राकृतैरहम् ।
यतोऽहमाश्रयश्चास्या मूर्तेर्मय्ये[2]तदात्मिका ।। 83 ।।

यामालम्ब्य सुखेनेमं[3] दुस्तरं हि गुणोदधिम् ।
निस्तरन्त्यचिरेणैव व्यक्तं[4] ध्यानपरायणाः ।। 84 ।।
श्रीपतिध्यानमाह- ध्यायेदित्यादिभिः। "प्रकृतिर्जगन्माता लक्ष्मीः" (पृ. 351) इति सहस्रनामभाष्ये व्याख्यातम्।। 81-84 ।।
[1 देवं लक्ष्मीपतिं ततः- अ. उ.।]
[2 र्मध्ये तदा - अटी.।]
[3 नैनं - अ. उ.।]
[4 व्यक्त- मु. बक. बख. अ. उ.।]

मदविह्वलनेत्रं[1] च देवमुद्भिन्नयौवनम् ।
फुल्लरक्ताम्बुजाभासमत्यजन्तं निजां स्मृतिम् ।। 85 ।।

त्रैलोक्यविस्मयकरं कान्ताकृतिधरं स्मरेत् ।
आनन्दामृतसम्पूर्णवदनेनेन्दुकान्तिना ।। 86 ।।

कलशाकृतिरूपेण करस्थेन विराजितम् ।
लीलाकटाक्षवाग्बाणैः सूदयन्तं सुरद्विषः ।। 87 ।।

द्विरेफपटलाक्रान्तसहकारलताकरम् ।
कान्तात्मध्यानमाह- मदविह्वलनेत्रैरिति सार्धैस्त्रिभिः। अस्यावतारस्य लक्ष्मीनारायणोभयात्मकत्वमुक्तं जगज्जनन्या-
यत्तु तन्मोहनं[2] रूपं श्रूयते[3]ऽमृतधारकम् ।।
भवद्भावौ तदा तत्र रूपे तुल्योपलक्षितौ ।
देवैः पुरुषरूपेण स्त्रीरूपेण [4]सुरेतरैः ।।
सह सिद्धं [5]मयीत्येतज्जन्म मे महदद्भुतम् । (8/48-50) इति ।। 85-88 ।।

कलामूर्त्यभिमानात्मा[1] राहुसंज्ञो विभीषणः ।। 88 ।।

मूर्तामूर्तेन रूपेण संग्रसत्यनिशं किल ।
अग्नीषोममयीं मूर्तिं कर्मिणामुपकारिणीम्[2] ।। 89 ।।

योऽन्तःप्राणादिरूपेण चन्द्रादित्यात्मना बहिः ।
स्थितस्तद्विजयेऽध्यक्षः सत्यध्यानरतात्मनाम् ।। 90 ।।

निष्पन्दं[3] बोधभावेन तं तु व्यक्तं स्मरेद् बहिः ।
नीलनीरदवर्णाभं पद्मपत्रनिभेक्षणम् ।। 91 ।।

मध्याह्नभास्कराकारं द्वादशारकरोद्यतम् ।
श्रोणीतटनिविष्टेन वामहस्तेन लीलया ।। 92 ।।

ध्रियमाणं गदां गुर्वीं निषण्णां[4] धरणीतले ।
राहुजिद्ध्यानमाह- कलामूर्तीत्यादिभिः। अस्यापि क्षीरोदकक्षितिक्षेत्र[5]वासित्वमेव बोद्ध्यम्, "सिद्धानां च मुनीनां च देवानां मृत्युजित् स्थितः" (36/346) इति पौष्करोक्तेः ।। 88-93 ।।
[1 नात्म रा-मु. बक. बख.]
[2 रिणाम्- मु. अटी. अ.।]
[3 स्पन्दबोध- बक. बख. अ. उ.।]
[4 निषण्णं- अ. उ.।]
[5 क्षेत्रे- मु.।]

अविद्याख्या च या नेमिः कालचक्रस्य दुर्धरा ।। 93 ।।

[1]सामाधीयं समाश्रित्य विग्रहं विधुनोति च ।
जपयज्ञक्रियादीनां तामसेन बलेन च ।। 94 ।।

ध्यायेत् तत्प्रसरघ्नं च देवं राजोपलद्युतम् ।
विज्ञानरश्मिभिर्दीप्तं सत्सत्त्वगरुडासनम् ।। 95 ।।

नानास्त्ररूपभूतात्म[2]सद्विद्याभुजभूषितम् ।
चक्रं पद्मं[3] गदां बाणमङ्कुशं कुन्तमेव च ।। 96 ।।

षट्सु दक्षिणहस्तेषु शक्तिं[4] पाशौ च कार्मुकम् ।
मुसलं मुद्गरं भीमं खेटकं वामबाहुषु ।। 97 ।।

कालनेमिघ्नध्यानमाह- अविद्याख्येत्यादिभिः ।। 93-97 ।।
[1 समाधीयं- मु. अटी., समाधियं- बक. बख., सामयीयं- अ.।]
[2 तात्मा- अ. उ.।]
[3 खड्गं - बख. अ. उ.।]
[4 शक्तिपाशौ- मु. अटी.।]

देव आम्र[1]दलाभश्च[2] स्मर्तव्यः[3] पारिजातजित् ।
अक्लिष्टकर्मा देवेशस्त्वनेकाद्भुतविक्रमः ।। 98 ।।

प्रबन्धप्रतिपन्नानां भक्तानामपि देहिनाम् ।
यो बोधभूमौ संरूढो ह्यनित्यश्चानुरञ्जकः ।। 99 ।।

न्यग्रोधविटपाकारोऽप्यविद्याबन्धलक्षणः ।
कर्मवृक्षः सुविततो मोहमायाफलावृतः ।। 100 ।।

तदुत्पाटनसिद्ध्यर्थमनुग्राह्यजनं[4] सदा ।
आविश्याऽऽस्तेंऽशमात्रेण कृपया स जगत्प्रभुः ।। 101 ।।

स विवेकात्मना भूत्वा ज्ञानबाहुवितानधृक्[5] ।
ऐश्वर्यधर्मवैराग्यशमास्यश्चितिशक्तिभृत्[6] ।। 102 ।।

आदाय संयमास्त्रौधं नियमास्त्रगणं तथा ।
इन्द्रियादिगणं जित्वा कर्मिणां दोषदो[7] हि यः ।। 103 ।।

यदस्य सुरजिद्रूपं तद् द्वादशभुजं स्मरेत् ।
दिव्यमाल्याम्बरधरं दिव्याभरणभूषितम् ।। 104 ।।

तचुर्वक्त्रं सुनयनं वामोत्सङ्गार्पितप्रियम् ।
खङ्गं चक्रं गदां बाणं मुसलं च तरूत्तमम् ।। 105 ।।

षट्सु दक्षिणहस्तेषु शङ्खमङ्कुशकार्मुके[8] ।
छत्रं च फणभृत्पाशं विभोर्वामभुजेष्वमी ।। 106 ।।

षष्ठेनालिङ्गिता देवी सारविन्देन बाहुना ।
सदं[9](श?स)लग्नकरया देव्या तच्चित्तयाऽनिशम् ।। 107 ।।

संवीज्यमानं विनयाच्चामरेण सितेन तु[10] ।
पारिजातहरध्यानमाह- देव आम्रफलाभ इत्यादिभिः। दोषदो दोषच्छेदक इत्यर्थः। "दो अवखण्डने" (1148 दि.) इति धातोः। अस्य स्थानं तु श्रीपौष्करे-
आसाद्य सूकरक्षेत्रं देवो गरुडवाहनः ।
संस्थितो गरुडारूढः पारिजातकराङ्कितः ।।
सिद्धैः सुरगणैः सार्धं गगने चापि पौष्कर । (36/353-354) इति ।। 98-108 ।।
[1 आमृद- मु. बक. बख.।]
[2 फलाभश्चेति भाष्यानुसारी पाठः.।]
[3 संस्मार्य- बक. बख. अ. उ.।]
[4 ग्राह्यं- बक. बख. उ.।]
[5 कृत्- उ.।]
[6 धृक्- बक. बख. अ. उ.।]
[7 दोषहा- अटी. बक. बख.।]
[8 कम्- बक. बख. अ. उ.।]
[9 तदङ्ग- अ.।]
[10 च- अ., तम्- मु. अटी.।]

लोकनाथं विशालाक्षं सर्वदेवनमस्कृतम् ।। 108 ।।

नरसिंहासनारूढं ध्यायेन्मीलित[1]लोचनम् ।
पद्मासनेनोपविष्टं पद्मगर्भोपमद्युतिम् ।। 109 ।।

करुणाविष्टबुद्धिं च शङ्कपद्मकराङ्कितम् ।
ज्ञानवैराग्यसद्धर्ममार्गत्रयनिदर्शकम् ।। 110 ।।
लोकनाथध्यानमाह- लोकनाथमिति सार्धद्वाभ्याम्। अस्य रूपान्तरं बुद्धावतार इति बोध्यम्,
लोकेश्वरः शान्ततनु[2]र्बौद्धं यस्यापरं वपुः ।
नियन्ता बुद्धिधर्माणां हिंसादोषस्य दूषकः ।। (36/226)
इति पौष्करोक्तेः। अस्य स्थानं तु-
मगधामण्डले विप्र महाबोधधराश्रितः ।
संस्थितो लोकनाथात्मा देवदेवो जनार्दनः ।। (36/359-360)
इति पौष्करे ।। 108-110 ।।
[1 ध्यानोन्मी- बक. बख. अ. उ.।]
[2 तनुः सौद्धं- अ.।]

संस्मरेदथ दत्ताख्यं ज्ञानमूर्तिमलेपकम् ।
मनुष्यमुनिदेवानां समाधिनिरतात्मनाम् ।। 111 ।।

ईषल्लब्धरसानां च ब्रह्ममार्गानुसारिणाम् ।
स्वप्रभानिकरेणैव भासयन्तं च तत्पथम् ।। 112 ।।

मनसा सह वायूनामा[1]कृतिप्रतिषेधकृत् ।
श्रुतीनां[2] मानसानां चाप्याचाराणां तथैव च ।। 113 ।।

वर्णानामाश्रमाणां च परिरक्षक एव हि ।
मानसैकार्णवान्तस्थे निष्कम्पे बुद्धिपादपे ।। 114 ।।

अभिमानलताढ्ये चा[3]प्युपरिस्थमनुस्मरेत् ।
प्रावृड्गिरिरिव श्यामं तेजसा ज्वलनोपमम्[4] ।। 115 ।।

ध्वंसकृद् विघ्नजालस्य निन्द्रालस्य चयस्य यः[5] ।
उत्कृष्टद्विजरूपेण विकसत्पद्मरूपिणा ।। 116 ।।

स एव द्विभुजो ध्येयो दण्डदर्भाक्षसूत्रधृ[6]क्[7] ।
अथ दत्तात्रेयध्यानमाह- संस्मरेदथ दत्ताख्यमित्यादिभिः। संस्मरेदित्यस्य पूर्वेणैवान्वयः ।। 111-117 ।।
[1 मागति- बख. उ.।]
[2 नामागमानां च आचा - अ. उ.।]
[3 तु- उ. अ., त्वप्यु- उ.।]
[4 पमः - मु. अटी.।]
[5 च- अ- उ.।]
[6 धृत्- मु. अटी.।]
[7 श्रुतीनामित्यादिपङ्क्तिपञ्चकमितः परं स्थापितम्- अ.।]

दन्तज्योत्स्नाजिताज्ञानं न्यग्रोधशयनं विभुम् ।। 117 ।।

निषण्णमीषदुत्तानं द्विभुजं शिशुरूपिणम् ।
एवमेव[1] निरस्तास्रं शान्तिनिद्रारसं[2] स्थितम् ।। 118 ।।

अनुज्झितस्वभावं च योगमायाबलेन च ।
त्यजन्तमाहरन्तं च श्वासोच्छ्रवासद्वयेन तु ।। 119 ।।

आब्रह्मभुवनं[3] सर्वं कर्म प्राधानिकं हि यत् ।
न्यग्रोधशयनध्यानमाह- दन्तज्योत्स्नेति त्रिभिः। प्राधानिकं प्राकृतमित्यर्थः। पूर्वोक्त एकार्णवशायी नैमित्तिकप्रलयकर्ता, अयं तु प्राकृतिकप्रलयकर्तेति बोद्ध्यम्। नैमित्तिकप्राकृतिकयोर्लक्षणं तु श्रीविष्णुपुराणे.......
ब्राह्मो नैमित्तिकस्तत्र यच्छेते[4] जगतः पतिः ।
प्रयाति प्रकृतिं[5] चैव ब्रह्माण्डं [6]प्राकृतो लयः ।। (1/7/42)
इति ।। 117-120 ।।
[1 एष एव- अटी. ।]
[2 रस- बक. बख. उ. ।]
[3 भवनं - मु. अटी. बक. ।]
[4 शेतेऽयं जगतीपतिः- मु. ।]
[5 प्राकृते- मु., प्रकृतं- अ. ।]
[6 प्रकृतौ लयम्- मु.। ]

अपौरुषेण रूपेण संवृता[1]वयवात्मना ।। 120 ।।

स्वमायाजलमध्यस्थम् अध्यक्षमथ संस्मरेत् ।
ज्ञानादिगुणवृन्देन पक्षभूतेन भूषितम् ।। 121 ।।

स्वोत्थं सन्निःसृतं ब्रह्म एकश्रृङ्गविराजितम् ।
कल्पावसानसमये वहन्तं चैव चिन्तयेत् ।। 122 ।।

नौरूपां विततां क्षोणीं[2] प्रजापतिगणान्वितम् ।
मुक्ताफलगणेनैव[3] वपुषा निर्मलेन च ।। 123 ।।

अनिमीलितनेत्रः स[4] मीनात्मा भगवानथ ।
अथ मत्स्यावतारध्यानमाह- अपौरुषेणेति चतुर्भिः। [5]नौरूपां तरणिरूपामित्यर्थः। "स्त्रियां नौस्तरणिस्तरिः" (1/10/10) इत्यमरः। तदानीं महालक्ष्मीरेवैवं[6] नौरूपं बिभर्तीति ज्ञेयम्। तथा च लक्ष्मीतन्त्रे-
अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः ।
अनु[7]ग्रहक्रमात् तत्र साऽहं नौरूपधारिणी ।। (8/33-34) इति।
अस्य स्थानं तु पौष्करे- "मत्स्यात्मा भगवानप्सु[8]"(36/398) इति। मीनवक्त्रस्थानमप्युक्तं तत्रैव- "नौबन्धनगिरावेव मीनवक्त्रः स्थितः प्रभुः" (36/321)इति ।। 120-124 ।।
[1 संहृता - अटी.।]
[2 क्षोणिं- मु. अटी. बक. बख.।]
[3 निभे- अ. उ.।]
[4 सन्- बक. बख. अ.।]
[5 ननु रूपान्तराणि- अ.।]
[6 "नौ" इत्येव- अ., नौरूपा- मु.।]
[7 अनुभ्रमामि तं तत्र- मु.।]
[8 वान् विष्णुरप्सु- अ.।]

यो नित्यं भवभीतानां बुधानां कृपया स्वयम् ।। 124 ।।

हृत्स्थो नियति[1]दण्डेन मार्ताण्डायुतसन्निभः ।
जित्वाऽज्ञानबलं भीममिन्द्रियारिगणान्वितम् ।। 125 ।।

संयच्छत्यचिराद् ब्रह्मनन्दनं सस्तुखाय च ।
ध्यायेत् तमेव ह्रस्वाङ्गं श्यामं पद्मदलेक्षणम् ।। 126 ।।

अन्तर्निविष्टभुवनं जटावल्कलभूषितम् ।
छत्रं तद्वामहस्तेऽस्य दण्डमन्यत्र वैष्णवम्[2] ।। 127 ।।
वामनध्यानमाह- यो नित्यमित्यादिभिः। अज्ञानं जित्वा अविद्यामपोह्येत्यर्थः। ब्रह्म नन्दयतीति ब्रह्मनन्दनं ज्ञानमित्यर्थः ।
अस्य स्थानं तु श्रीपौष्करे-
कन्दमाले विवैतस्ते कुलकुक्षौ हिमाचले ।
वामनं खर्वमूर्तिं च वैश्वरूप्येण संस्थितम् । (36/324-325)
इति ।। 124-127 ।।
[1 नियम- उ.।]
[2 वैणवम्- बक. बख.।]

आक्रम्य जाग्रदादित्यः सूर्येन्दुहुतभुक्प्रभाम्[1] ।
तिष्ठत्यनन्तो भगवांस्तुर्याख्यश्चिद्विभूतिधृक्[2] ।। 128 ।।

सम्प्रेरयन्ननिच्छातः स्वपदादमृतप्रभाम् ।
आह्लादजननीं शक्तिं कर्मिणां भावितात्मनाम् ।। 129 ।।

त्रैलोक्यूपरकं ध्यायेत् तमेव हरितद्युतिम् ।
नानामुद्रास्त्रयुक्तेन भुजवृन्देन भूषितम् ।। 130 ।।

खेट[3]केनाङ्घ्रिदण्डेन वहन्तमरिसूदनम् ।
वहन्तं[4] सद्वैजयन्तीं देवानां च जयार्थिनाम् ।। 131 ।।

खड्[5]गचक्रगदादण्डबाणाङ्कुशसमुद्गराः ।
शक्तिः परशुशैलेन्द्रौ दश दक्षभुजेष्वमी ।। 132 ।।

शङ्खतोमरशार्ङ्गं च पाशशूलमहीरुहाः ।
कुलिशं क्षुरिका चैव लाङ्गलं मुसलं महत् ।। 133 ।।

वामहस्तेष्वमी ध्येया अन्ये मुद्रान्विता दश ।
भयविस्मयहृद्[6] वेणीकण्ठग्रहणलक्षणाः ।। 134 ।।

ध्येया मुद्रा विभोः पञ्च सव्ये तु करपञ्चके ।
वराख्यां भूतिसंज्ञां च युक्ताख्यां साभयां तु वै ।। 135 ।।

गोपनीं दक्षहस्तेषु तत्संख्येषु च संस्मरेत् ।
त्रिविक्रमध्यानमाह- आक्रम्येत्यादिभिः। आह्लादजननीं शक्तिं गङ्गामित्यर्थः। तथा च लक्ष्मीतन्त्रे-
त्रैविक्रमाह्वयो[7] विष्णोरवतारः परः स्मृतः ।।
आह्लादजननी गङ्गा तत्पादात् प्रभवाम्यहम् । (8/34-35) इति । अस्य स्थानं तु श्रीपौष्करे-
मध्यदेशे तु गङ्गायाः कुरुक्षेत्रे तु पौष्कर ।।
यामुनं कूलमासाद्य प्रादुर्भावान्तरं महत् ।
स्थितं त्रिविक्रमाख्यं यस्त्रैलोक्याक्रान्तविग्रहः ।। (36/325-326) इति ।। 128-136 ।।
[1 भान्- बख., प्रभः- अ.।]
[2 धृत्- मु. अटी.।]
[3 खे गतेना- बक. बख. उ.।]
[4 द्युसिन्धुं- अ. उ.।]
[5 खङ्गं चक्रं गदां दण्डं बाणं मुसलमुद्गरान्- अ.।]
[6 मृद्- मु. अटी. बक. बख.।]
[7 त्रैविक्रमोदयो- मु.।]

जगत्सूत्रं सहाक्षैस्तु येनोक्तममितात्मनाम्[1] ।। 136 ।।

गुणषट्कस्वरूपेण पूर्वोक्ताकृतिभिर्विना ।
स्मर्तव्यः स चतुर्धा वै लाञ्छनास्त्रविवर्जितः ।। 137 ।।

सर्दवा परिरक्षन्तु जपपूर्वं चतुष्टयम् ।
योगक्रियात[2]पोऽन्तं च सद्विभूत्यपवर्गदम्[3] ।। 138 ।।

नराद्यः कृष्णनिष्ठश्च पृथगेकत्र चेच्छया ।
नरं तत्र प्रवालाभमर्धोन्मीलितलोचनम् ।। 139 ।।

अन्तर्निविष्टभावं च शब्दब्रह्मैकमानसम्[4] ।
पदो[5]पलक्षणं मन्त्रं लपमानमलक्षितम् ।। 140 ।।

स्फाटिकेनाक्षसूत्रेण करस्थेन च शोभितम् ।
गणयन्नक्षसूत्रीयानावर्तान् वामपाणिना ।। 141 ।।

अथ नारायणं देवं ध्यायेत् कुमुदपाण्डरम्[6] ।
बद्धब्रह्माञ्जलिं शान्तं हृत्पद्मार्पितमानसम् ।। 142 ।।

युञ्जनं च स्वमात्मानं परस्मिन्नव्यये पदे ।
कमण्डलुधरं ध्यायेत् काञ्चनाभमतो हरिम् ।। 143 ।।

विष्टराविष्टपाणिं च क्रियाकाण्डप्रदर्शकम् ।
पठन्तमनिशं शास्त्रं पञ्चरात्रपुरस्सरम् ।। 144 ।।

कृष्णमिन्दीवरश्याममूर्ध्वबाहुं जटाधरम् ।
पादेनैकेन तिष्ठन्तमाहनन्तं च मारुतम् ।। 145 ।।

एक[7]त्रिषड्द्विषड्रात्राद्यतिकृच्छ्रपरायणम् ।
पक्षमासोपवासांश्च दिशन्तमनुचिन्तयेत् ।। 146 ।।

कृष्णाजिनोत्तरीयाश्च सर्वे काषायधारिणः ।
ब्रह्मलिङ्गधराः सर्वे सर्वे ब्रह्मपरायणाः ।। 147 ।।

मुख्य[8]र्मकपरिक्रान्ताः साधूनां प्रेरणाय च ।
कालानुकालमाश्रित्य सर्वे सर्वपरायणाः ।। 148 ।।
अथ नरादीनां चतुर्णां ध्यानमाह- जगत्सूत्रमित्यादिभिः। जप-योग-क्रिया-तपः-परिरक्षकत्वं नर-नारायण-हरि-कृष्णानां क्रमेण बोध्यम्। एषां स्थानानि तु-
नरसंज्ञो जगन्नाथः सिद्धैः संपूजितेषु च ।
भूभागेषु च रम्येषु नित्यं संनिहितः स्थितः ।।
गिरौ गोवर्धनाख्ये तु देवः सर्वेश्वरो हरिः ।
संस्थितः पूजिते स्थाने गवां[9] निष्क्रमणेषु च ।।
(पौ. सं. 36/333-336)
[1 मसितात्मना- अ. उ.।]
[2 तपोऽन्ते- अटी.।]
[3 वर्गदः- बक. उ.।]
[4 मासनम्- बक. बख.।]
[5 यदोम- बक. बख., यदोप- मु. अटी.।]
[6 पाण्डु- मु. अटी.।]
[7 एकरात्रद्विषड्रात्रा- उ.।]
[8 पङ्क्तिद्वयं नास्ति- अ.।]
[9 भवान्निष्क्र- अ. म.।]

असङ्गशक्त्या भगवान् सत्कुठाराभिधानया ।
छिनत्ति बद्धमूलान् यः कर्मवृक्षांस्तु कर्मिणाम् ।। 149 ।।

तमेव द्विभुजं ध्यायेदुदयादित्यवर्चसम् ।
कृष्णैणचर्मवसनं सत्कुठारकराङ्कितम् ।। 150 ।।

दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ।
विवेकशरजालेन शमं नयति योगिनाम् ।। 151 ।।

ध्येयः स एव विश्वात्मा सतोयजलदप्रभः ।
रक्तराजीवनयनो धनुश्शरकराङ्कितः ।। 152 ।।
परशुरामध्यानमाह- असङ्गशक्त्येति द्वाभ्याम्। अस्य स्थानं तु-
नगोत्तमे महेन्द्राख्ये परश्वथकरो द्विजः ।
रामसंज्ञश्च भगवान् संस्थितः क्षत्रियान्तकः ।। इति ।। 149-150 ।।
(पौ. सं. 36/327)
श्रीरामध्यानमाह- दशेन्द्रियाननमिति द्वाभ्याम्। अस्य स्थानं तु-
धराधरे चित्रकूटे रक्षःक्षयकरो महान् ।
संस्थितश्चापरो रामः पद्मपत्रायतेक्षणः ।। (पौ. सं. 36/328) इति ।। 149-152 ।।

वाग्वेदमण्डलं[1] यो वै स्वरूपद्युतिलक्षणम् ।
स्वयं [2]स्वोत्थं विभजति त्रिधा पश्यन्तिपूर्वकम् ।। 153 ।।

बोधमारुतहृत्पूर्व[3]स्थानेष्वभ्युदितं क्रमात् ।
स्मर्तव्यः सोऽपि भगवानतसीकुसुमद्युतिः ।। 154 ।।

वहन् वै वामहस्तेन सर्वशास्त्रार्थपुस्त[4]कम् ।
दक्षिणेन तु शास्त्रार्थमादिशंश्च याथास्थितम् ।। 155 ।।

युगानु[5]सारिबोधानामखेदजननाय च ।
विभजंस्तु चतुर्धा वै वेदमेकं त्रिकालवित् ।। 156 ।।

अथ वेदव्यासध्यानमाह- वाग्वेदमण्डलमित्यादिभिः। स्वरूपद्युतिलक्षणम्, अन्तःस्थितज्योतिः स्वरूपमित्यर्थः, "स्वरूपज्योतिरेवान्तर्भावयन् संस्थितं हृदि" (34/63) इति पौष्करोक्तेः। केवलशान्तरूपमिति यावत्। वाग्वेदमण्डलं शब्दब्रह्मेत्यर्थः। पश्यन्तीपूर्वकं त्रिधा विभजति पश्यन्ती-मध्यमा-वैखरीभेदैस्त्रेधा विभक्तं करोतीत्यर्थः। एताः[6] शब्दब्रह्मणोऽवस्थाः सुव्यक्तमुक्ता लक्ष्मीतन्त्रे-
बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते ।
उद्यच्चब्दोदयः शक्तेः प्रथमः शान्ततात्मनः ।।
स नाद इति विख्यातो वाच्यतामसृणस्तदा ।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ।।
(बि[7]बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ।।)
पश्यन्ती नाम साऽवस्था मम दिव्या महोदया ।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ।।
मध्यमा सा दशा तत्र संस्कारयति सङ्गतिम् ।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ।।
चतुर्थस्तु य उन्मेषः शक्तेर्माध्य[8]मिकात् परः ।
वैखरी नाम साऽवस्था वर्णवाक्य[9]स्फुटोदया ।।
अस्ति शक्तिः क्रियात्मा मे बोधरूपाऽनु[10]सारिणी ।
सा प्राणयति नादादिं शक्त्युन्मेषपरम्पराम् ।।
शान्तरूपा।ञथ पश्यन्ती मध्यमा वैखरी तथा[11] । (18/22-29) इति।
बोधमारुतहृत्पूर्वस्थानेष्वभ्युदितं क्रमादिति पश्यन्त्याद्यवस्थात्रयस्य विशेषणं बोध्यम्,
वैखरी शब्दनिष्पत्तिर्मध्यमा बुद्धिसंयुता ।
द्योतितार्था च पश्चन्ती सूक्ष्मा वागनपायिनी ।। इत्युक्तेः ।। 153-156 ।।
[1 वाग्देवममलं- मु. अटी. बक. अ. उ.।]
[2 स्वार्थं- अ., खोत्थं- उ.।]
[3 हृत्पद्य- उ.।]
[4 दुस्तरम्- उ.।]
[]5 सारी- अ. उ.।
[6 एतच्छब्द- अ. ।]
[7 उभयोर्मातृकयोर्न दृश्यते पङ्क्तिरेषा।]
[8 र्मध्यात्मिका परा- अ. मु. ।]
[9 वाक्- संस्फुटोदयः- अ. म.।]
[10 नुयायिनी- मु., नुशाधिनी-मु.।]
[11 तदा- मु.।]

दानधर्मरतानां च यागयज्ञानुयाजिनाम् ।
तपःस्वाध्याय[1]सक्तानां[2] मुक्तानां वै पुनर्भवात् ।। 157 ।।

संरक्षणाय योग्यत्वविज्ञानव्यक्तयेऽपि च ।
समुदेति जगन्नाथस्तेषां हृत्कमलावने[3] ।। 158 ।।

मनोवाजिममाक्रम्य त्वादायात्मगुणायुधान्[4] ।
नूनमुत्पा[5]टयत्याशु जन्मान्तरशतोत्थितम् ।। 159 ।।

वैषयं वासनाजालं शुद्ध[6]विज्ञानसिद्धये ।
ध्यायेद् वराश्वगं तं वै तनुत्रावृतविग्रहम् ।। 160 ।।

सितोष्णीषललाटं च नातिदीर्घजटाधरम् ।
द्रवत्कनकवर्णाभम् इषुधिद्वयमध्यगम् ।। 161 ।।

शरचापकरव्यग्रं[7] खङ्गकुन्तकुठारिणम्[8] ।
यज्ञाध्ययनदानानि[9] परिरक्षन्तमेव हि ।। 162 ।।

शातयन्तमर्व[10]र्णांश्चाप्यधर्मनिरतात्मनः[11] ।
अथ कल्किध्यानमाह- दानधर्मरतानां चेत्यादिभिः। अस्य स्थानं तु श्रीपौष्करे-
कल्की विष्णुश्च भगवान् स्तूयमानो द्विजैः स्थितः ।
समासाद्य विपाशां च नदीं नियतमानसः ।। (36/331)
इति ।। 157-163 ।।
[1 रक्तानां- अटी.।]
[2 नाममुक्तानां- अ.।]
[3 सने- अ. ।]
[4 युतान्- मु. अटी. बक. बख.।]
[5 त्पाद- मु. अटी. बक. बख. अ.।]
[6 नाशयत्यात्म- मु. अटी. बक. बख. अ. ।]
[7 करं- अ. उ.।]
[8 रिणाम्- मु.।]
[9 दानादि- मु. अटी.बक . बख. अ.।]
[10 मवर्णानाम- बक. बख. अ. उ.।]
[11 त्मनाम्- बक. बख. अ. उ. अटी.। अस्मिन् पाठेऽधर्मनिरतात्मनामवर्णान् परीवादान् शातयन्तमित्यर्थः, "अवर्णाक्षेपनिर्वादपरीवादापवादवत्" (1/6/13) इत्यमरकोशात्। मूलस्थस्य पाठस्याधर्मनिरतात्मनो वर्माश्रमाचारहीनान् शातयन्तमित्यर्थः, वर्णाश्रमव्यवस्थायै हि कल्क्यवतारः प्रवर्तते ।]

सर्वतत्त्वाश्रयं तत्त्वं सर्वशक्तिमयं विभुम् ।। 163 ।।

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
आधारं[1] भुवनानां च ध्यातव्यस्तदधः[2] स्तितः ।। 164 ।।

अनन्तशयनारूढः[3] कल्पान्तहुतभुक्[4]प्रभः ।
ज्वलज्ज्वालावलीयुक्तो[5] ज्वलनांशुक[6]वेष्टितः[7] ।। 165 ।।

चक्राद्यायुधवृन्देन मूर्तेन परिवारितः[8] ।
स्थिताङ्घ्रिदेशतो लक्ष्मीश्चिन्ता दक्षिणतो विभोः ।। 166 ।।

मूर्धदेशगता निद्रा पुष्टिस्तद्वामतः स्थिता ।
पातालशयनध्यानमाह- सर्वतत्त्वाश्रयमित्यादिभिः। पद्मनाभपातालशाय्येकार्णवशायिन्यग्रोधशायिनां स्थानानि श्रीपौष्करे प्रतिपादितानि-
क्षीरोदधौ पद्मनाभः शेषाहिशयनो हरिः ।
स्थितो नाभ्यब्जसंभूतो यस्माच्चैव[9] पितामहः ।।
चतुर्धा रूपमाश्रित्य विश्वेऽस्मिन् सैव वर्तते ।
हिताय सर्वलोकानां [10]यथा तदवधारय ।।
आसाद्य शयनं ब्रह्मन् पातालतलसंस्थितः ।
वटमादाय चाग्नेयं योऽन्ते संहरते जगत् ।।
वटमूलं समाश्रित्य प्रयागे सुरपूजिते ।
जगदेकार्णवं कृत्वा दिव्यमासाद्य पादपम् ।।
संतिष्ठते स भगवान् तस्मिंस्तीरे क्षितौ द्विज ।
न्यग्रोधशयनं[11] चैव ध्यायेद् दिव्यगतिप्रदम् ।। (36/338-342)
अस्यैवं शक्तिचतुष्टयान्वितत्वं लक्ष्मीतन्त्रेऽप्युक्तम्-
अनन्तशयनो नाम योऽवतारो हरेरहम् ।।
स्थिता चतुर्दिशं तस्य चातुरात्म्ययुपेयुषी ।
लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता ।। (8/35-36) इति ।। 163-167 ।।
[1 निःशेष- बक. बख. अ. उ.।]
[2 व्यं तदधः स्थितम्- बक. बख. अ. उ.।]
[3 रूढम्- बक. बख. अ. उ.।]
[4 प्रभुः- मु., प्रभुम्- बक. बख. अ. उ.।]
[5 युक्तम्- बक. बख. अ. उ.।]
[6 ङ्कुश- अ.।]
[7 तम्- बक. बख. अ. उ.।]
[8 तम्- बक. बख. अ. उ.।]
[9 च्चेदं- अ. मु.।]
[10 यथावद- मु.।]
[11 शायिनं- मु.।]

प्रधानदेवताध्यानमिदमुक्तं समासतः ।। 167 ।।

यज्ज्ञात्वा विनिवर्तन्ते जन्ममृत्युजरारुजः ।
नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ।। 168 ।।

तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे ।
ललाटे [1]चासंपट्टे तु पृष्ठे पाणितलद्वये ।। 169 ।।

तनूरुहचये मूर्ध्नि कर्मिणां प्रतिपत्तये ।
फलकथनेन सहोक्तमर्थं निगमयति- प्रधानेति। एषां विभवदेवानामुक्तक्रमेण हस्तादिषु तत्तन्मूर्तिज्ञापकायुधादिलाञ्छनराहित्येऽपि तेषामङ्घ्रिललाटादिषु लाञ्छनमस्ति, तत्सावधानं परीक्षितव्यमित्याह- नास्त्रैरिति द्वाभ्याम्। इदं श्लोकद्वयमीश्वर-(3/182-183) - पारमेश्वर (10/93-95) योरपि विमानार्चनप्रकरणे प्रतिपादितम्। किन्तु तयोः केषुचित् कोशेषु- "अस्त्रैर्वस्त्रैर्ध्वजैर्येषाम्" इति [2]नकारो न दृश्यते। तल्लेखकप्रमादकृतम्, मूलविरुद्धत्वात्। यद्वा ईश्वरव्याख्याने तत्पाठस्यापि गतिर्दर्शितैव। पारमेश्वरव्याख्याने- "अङ्घ्रिगोचरे स्थित्यासनादिना, ललाटे नेत्रत्रयादिना, अंसपट्टे भुजभेदेन, पृष्ठे शर[3]चक्रादिना" इत्यादिक्रमेण व्याख्यातम्। तदसंगतम्, लाच्छनशब्दस्य चक्रादिपरत्वेनैव सार्वत्रिकप्रसिद्धेः। उत्तरश्लोक एव "न जहात्यच्युतं लिङ्गम्" (12/171) इति कण्ठरवेणात्र वक्ष्यमाणत्वाच्च ।। 167-170 ।।
[1 चाङ्ग- मु. बक. बख. अ. उ.।]
[2 नकरो- अ., नाकरो- मु.।]
[3 शिरश्च- अ.।]

अपि संसारिणो जन्तोः स्वभावाद् वैष्णवस्य च ।। 170 ।।

न जहात्यच्युतं लिङ्गं किं पुनर्विभवाकृतेः ।
सर्वेषां कामचारित्वं यदुक्तं वै मया पुरा ।। 171 ।।

तदङ्घ्रिभुजवर्णास्यबृहन्मध्याणुलक्षणम् ।
एकाद्यनेकसंख्यं च दृश्यं सर्वत्र सर्वदा ।। 172 ।।
उक्तमर्थं किंपुनर्न्यायेन द्रढयति- अपीति। जन्तोरिति, विभवाकृतेरिति च कर्मणि षष्ठी। केवलवैष्णवजनस्यैव सामुद्रिकलक्षणपरीक्षणकाले हस्ताद्यवयवेषु चक्रादिलाञ्छनं दृश्यते। साक्षाद्विष्णोर्विभवावतारस्य तथा लाञ्छ(नस्त्वेकः? ने कुतः) संदेह इति भावः। उक्तानां विभवदेवानां सर्वेषामपि "कृष्णरूपाण्यसंख्यानि" इतिवद् भुजवर्णायुधादिभिरसंख्यातकामरूपधरत्वमाह- सर्वेषामिति सार्धेन ।। 170-172 ।।

न त्वन्यरूपता कार्या करणं[1] कामरूपता[2] ।
यस्मादस्ति पृथग्भूतो व्यापारो विश्वमन्दिरे ।। 173 ।।

देवानां स्थितिसंहारसृष्टिकाले स्वकः स्वकः ।
सत्येवं नियमे सिद्धे तथापि भगवद्वशात् ।। 174 ।।

चातुरात्म्यसमूहात् तु यत्पद्मदलभूस्थितम् ।
तथा विभवदेवानां मध्यात् पद्मदलेक्षण ।। 175 ।।

एकस्त्वनुग्रहार्थं तु शक्त्यात्मा भावितात्मनाम् ।
बिभर्ति बहुभेदोत्थं रूपं सद्वाहनस्थितम् ।। 176 ।।
एवं सर्वेषां कामरूपवत्तापि नहि मूर्तिविपरीतज्ञानजननी, तत्तन्मूर्तिनिर्णायकविजातीयस्वस्वव्यापारसत्त्वादित्याह- न त्विति सार्धेन। यद्यप्येवं [3]सर्वेषां कामरूपधरत्वनियमः सिद्धः, तथापि सर्वे [4]देवा युगपत् कामरूपधरा न भवन्ति, जाग्रद्व्यूहवासुदेवादीनां मध्ये पद्मनाभादिविभवदेवानां मध्ये वा एको जगद्रक्षणार्थं वक्त्रभुजास्त्रशक्तिवाहनभेदैर्बहुधा रूपं बिभ्रन्[5] शक्त्यात्मसंज्ञां भजतीत्याह- सत्येवमिति सार्धद्वाभ्याम्। यत्पद्मदलभूस्थितं जाग्रद्व्यूहसं(ज्ञां?ज्ञं) चातुरात्म्यमित्यर्थः,
तत्पत्रमध्ये भगवान् जाग्रत्संज्ञे पदे त्वथ[6] ।
यष्टव्यो भावनीयश्च यथा तदधुनोच्यते ।। (5/4)
इति जाग्रद्व्यूहस्य हि पद्मदलभूस्थितत्वमुक्तम् ।। 173-176 ।।
[1 कारणं- मु. अटी. बक. बख.।]
[2 ताम्- मु. अटी. बक. बख.।]
[3 `सर्वेषां' नास्ति- अ.।]
[4 वेदा- अ.।]
[5 बिभ्रत् सन्- मु.।]
[6 त्वधः- अ.।]

यदनुस्मरणाद् ध्यानादर्चनादचिरात् पुमान् ।
प्राप्नोति मनसोऽभीष्टं तन्मे निगदतः श्रृणु ।। 177 ।।

सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ।
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा ।। 178 ।।

आचाङ्घ्रिगोचरात् सर्वो यस्य देहस्तु पौरुषः ।
द्विभुजस्तुहिनाभश्च स सत्यः प्राणदैवतम्[1] ।। 179 ।।

सुपर्णः पद्मरागाभो निर्मलः स्वर्णलोचनः ।
गरुडः काञ्चनाभस्तु कुटिलभ्र्वरुणेक्षणः ।। 180 ।।

केकराक्षस्तु तार्क्ष्यो वै प्रावृड्जलदसन्निभः ।
द्रवत्कनकनेत्रस्तु शबलाभश्च[2] पञ्चमः ।। 181 ।।

चतुर्भुजाः सुपर्णाद्याः सौम्यरूपास्त्वनाकुलाः[3] ।
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः ।। 182 ।।

लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैस्तु भूषिताः ।
कुटिलभ्रूसुवृत्ताक्षा[4] वक्त्रतुण्डाः स्मिताननाः ।। 183 ।।

अपानादिसमीराणामाधिपत्येन संस्थिताः ।
महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः ।। 184 ।।

आधेयचरणाधःस्थः सव्य आद्यस्य वै करः ।
दक्षिणश्चाक्षसूत्रेण सुसितेन च भासितः ।। 185 ।।

एवमेव सुपर्णस्य परिज्ञेयं भुजद्वयम् ।
नाभ्युद्देशेऽपरो[5] वाम उत्तानस्तु सविस्मयः[6] ।। 186 ।।

पुष्पस्तबकसम्पूर्ण ऊर्ध्ववक्त्रस्तु दक्षिणः ।
गरुडस्य द्वयं विद्धि हृद्देशेऽञ्जलिरूपिणम् ।। 187 ।।

तत्रैव सम्पुटाकारं चतुर्थस्य करद्वयम् ।
दक्षिणेऽमृतकुम्भस्तु वामे तु विषमः फणी ।। 188 ।।

पञ्चमस्य द्वयं शेषं त्रयाणां च द्वयोः समम् ।
आधेयचरणाक्रान्तो यदि वै दक्षिणः करः ।। 189 ।।

सञ्चारो विहितो वामे त्वक्षसूत्रस्य वै तदा ।
आधेयचरणाधःस्थं यस्य पाणितलद्वयम् ।। 190 ।।

निरस्तसूत्रं तं विद्धि वाहनं भगवन्मयम् ।

अथ प्रसक्तस्य वाहनस्य भेदान् तल्लक्षणं चाह- यदनुस्मरणादित्यादिभिर्भगवन्मयमित्यन्तैः। आ चाङ्घ्रिगोचरात् चरणादारभ्य यस्य सर्वो देहः पौरुषः समस्तोऽपि कायः पुरुषाकृतिरित्यर्थः। प्राणदैवतं प्राणाधिपतिरित्यर्थः। केकराक्षः केकरे वक्रे अक्षिणी यस्य स तथोक्तः। "बलिरः केकरे[7]" (2/6/49) इत्यमरः। केकरपदेनैव वक्राक्षत्वे सिद्धेऽप्यत्र पृथगक्षिपदनिर्देशात् केकरशब्दस्य वक्रमात्रपरत्वं बोध्यम् ।
पारमेश्वरव्याख्याने तु - "केकराक्षो भगवद्ध्यानवशादर्धोन्मीलितलोचनः" इति लिखितम् । तद्विचारणीयम्। शबलाभः चित्रवर्णाभ इत्यर्थः। आद्यस्य सत्यस्य सव्यः करो वामहस्तः। आधेयचरणाधस्थः आधेयस्य निजस्कन्धाधिरूढस्य भगवतः पादपद्माधः स्थित इत्यर्थः। दक्षिणस्तु अक्षसूत्रेण भासितः। अत्र चकारद्वयेन कदाचिद्वामहस्तस्याप्यक्षसूत्रभासितत्वम्, दक्षिणस्याप्याधेयचरणा(धः)स्थितत्वं च संभवतीत्यर्थः सूच्यते-
आधेयचरणाक्रान्तो यदि वै दक्षिणः करः ।
संचारो विहितो वामे त्वक्षसूत्रस्य वै तदा ।। (12/189-190)
इत्युक्तेः। [8]ननु-
स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ।
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ।।
(ई. सं. 8/48; पा. सं 8/47-48)
इतीश्वरपारमेश्वरोक्तेः करद्वयेऽप्यक्षसूत्रधारणं स्यात्, किन्तु दक्षिणहस्ते भगवच्चरणाक्रान्ते सति तदा वामहस्तस्थितस्याक्षसूत्रस्य संचारो गणनार्थँ संचालनं स्यादित्यर्थः सरस इति चेन्न,
आधेयचरणाधःस्थं यस्य पाणितलद्वयम् ।
निरस्तसूत्रं तं विद्धि वाहनं भगवन्मयम् ।। (12/190-191)

इति वचनविरोधात्। भ(ग?) वदुक्तार्थे सिद्धे निरस्तसूत्रसंचारं तं विद्धीति वचनं(कथं) प्रवर्तेत। स्वस्वाङ्गुष्ठद्वयप्रोक्तगणित्रोभयपाणिनेत्यत्रापि पुष्पाञ्जलिप्रकरणादङ्गुष्ठद्वयप्रोतमेकमेवाक्षसूत्रमिति ज्ञायते। यद्वा दक्षिणे वामे वाऽङ्गुष्ठेऽक्षसूत्रं धार्यमिति ज्ञापनार्थमङ्गुष्ठद्वयमप्युक्तमिति ज्ञेयम्।
सुपर्णस्य भुजद्वयं मुख्यहस्तद्वयमेवमेव सत्योक्तलक्षणमेवेत्यर्थः। अपरो वामः पाश्चात्त्यो वामहस्तः सविस्मयः, विस्मयमुद्रान्वित इत्यर्थः। दक्षिणः पाश्चात्‌त्यो दक्षिणहस्तस्तु पुष्पस्तबकसंपूर्णः, मन्दारपुष्पस्तबकान्वित इत्यर्थः। ऊर्ध्ववक्त्र उत्तानश्चेत्यर्थः। तथा चेश्वरपारमेश्वरयोः-
सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ।
मन्दारपुष्पस्तबकं दधद् विस्मयमुद्रिकाम् ।। इति ।
(ई. सं. 8/49; पा. सं. 8/48-49)
गरुडस्य द्वयं पश्चात्करद्वयमित्यर्थः। चतुर्थस्य करद्वयं तार्क्ष्यस्य पश्चात्करद्वयमित्यर्थः। पञ्चमस्य विहगेश्वरस्य दक्षिणे पश्चाद्दक्षिणकरे। वामे पश्चाद्वामकर इत्यर्थः। त्रयाणां गरुडतार्क्ष्यविहगेश्वराणाम्। शेषं द्वयमवशिष्टं मुख्यहस्तद्वयम्। द्वयोः समं सत्यसुपर्णयोः समम्, तन्मुख्यहस्तयोः सदृशमिति यावत्।
ननु गरुडस्य द्वयमित्याद्युक्तमेव मुख्यहस्तद्वयं स्यात्। त्रयाणां शेषं पश्चात्करद्वयं द्वयोः सुपर्णपश्चात्करयोः सदृशमित्यर्थः सरस इति चेन्न, तथाऽर्थवर्णने तत्तत्स्कन्धाधिरूढभगवच्चरणारविन्दयोराधारासिद्धेः, "पञ्चमो विहगेश्वरः। दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम्" (ई. सं. 8/51; पा. सं. 8/50-51) इतीश्वरपारमेश्वरोपबृंहणविरोधाच्च।
ननु किं तर्हि मूलोपबृंहणयोः सर्वत्रैकार्थ्यं संभवति? अत्र भवदुक्तरीत्या विरोधे परिहृतेऽपि,
तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ।
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः ।।
कद्रूं तथाऽमृतं कुम्भम् (ई. सं. 8/50-51; पा. सं. 8/49-50)
इति वचनम्,
स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ।
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ।।
(ई. सं. 8/48; पा. सं 8/47-48)
इति वचनं च मूलविरुद्धं भवति। तत्र का गतिरिति चेत्, सत्यम्। उपबृंहणवचनविरोधेऽपि न प्रत्यवायः। तथाहि- तत्र सत्यादीनां प्रधानपक्षीश्वरपरिवारत्वदशाप्रकरणाद् भगवद्वाहनत्वस्य तदानीमप्राप्तत्वाच्च सर्वेषामपि मुख्यहस्ताभ्यां पुष्पाञ्जलिधरत्वमेवोक्तम्, सुपर्णविहगेश्वरयोर्मूलानुसारेणैव सामञ्जस्यात्। पश्चात्कराभ्यां पुष्पस्तबकविस्मयमुद्रिकाधारणं सुधाकुम्भफणीश्वरधारणं चोक्तम्। गरुडतार्क्ष्ययोस्तु मुख्यहस्ताभ्यामेव पुष्पाञ्जलिधारणस्योक्तत्वात् पुनः पश्चात्कराभ्यामञ्जलिपुटधारण[9]स्यासामञ्जस्यात् सुपर्ण[10]विहगेश्वरोक्तलाञ्छनयोरेवाभ्यां व्यत्ययेन धारणमुक्तमिति ज्ञेयम्। भगवद्वाहनत्वदशायां [11]सत्यादीनां ध्यानं तु यथामूलं विलिखितमीश्वरे[12] ।। 177-191 ।।

[1 दैवतः- बक.।]
[2 भस्तु- अ. उ.।]
[3 नीला- अ.।]
[4 क्षपत्र- मु.।]
[5 द्देशपरो- मु. अटी.।]
[6 इतः परम् `आधेयचरणाधःस्थः' इति श्लोकार्धस्य पुनरावृत्तिरत्र दृश्यते- मु. अटी. बक. बख.।]
[7 केकरः- अ.।]
[8 `ननु' नास्ति- अ. ।]
[9 वारण- अ.।]
[10 सुवर्ण- अ.।]
[11 स्यादीनां तु - अ.।]
[12 अष्टामाध्यायेऽस्मिन्नेव प्रकरणे ।]

अनुग्रहपरस्त्वास्ते पक्षिपक्षाब्जविष्यरे ।। 191 ।।

स्वेतजोनिजसामर्थ्यमसूर[1]कवरान्विते ।
पद्मा[2]सनादिना चैव केवलं वा श्रियान्वितः ।। 192 ।।

सुव्यक्तावयवस्थित्या विद्धि तं गरुडासनम्।
एवमुक्तलक्षणे वाहने भगवदवस्थानक्रममाह- अनुग्रहेति द्वाभ्याम्। स्वतेजोनिजसामर्थ्यमेव मसूरक[3]वरमास्तरणोत्तमं तेनान्विते ।। 191-193 ।।
[1 संसूचककरान्वितः- मु. अटी.।]
[2 पङ्क्त्योर्विपर्यस्तः पाठः - अटी.।]
[3 रवमुमास्तरेणोक्तमन्तेना- अ.।]

मेढ्भूः सोदराऽस्यैव गोपिता वेगगामिना ।। 193 ।।

वीर्यपातात् स्वशिरसा गच्छतश्चाण्डजेन तु ।
भगवन्मेढ्रप्रदेशस्य पक्षीश्वरशिरसा गोपने प्रयोजनमाह- मेढ्रभूरिति। सोदरा उदरसहितेत्यर्थः। वीर्यपातादिति ल्यब्लोपे पञ्चमी। अण्डजेन पक्षिणा गरुडेनेत्यर्थः ।। 193-194 ।।

लोकान्तराणां कार्यार्थं वात्सल्याद् ध्यायिनामपि ।। 194 ।।

प्रत्यक्षदर्शनार्थं तु स्मृतो गरुडवाहनः ।
भगवतो गरुडारोहणप्रयोजनमाह- लोकेति ।। 194-195 ।।

तस्माद् भगवतो विष्णोरेवंरूपधरस्य तु ।। 195 ।।

समाहूतस्य सिद्ध्यर्थमासीनां[1] संस्मरेत् स्थितिम्[2] ।
साधकेन तत्तत्फलसिद्ध्यर्थं भगवदासनभेदः स्मर्तव्य इत्याह- तस्मादिति ।। 195-196 ।।
[1 नं- मु. ना- बक. बख.।]
[2 स्थितिः - बक. बख.।]

उपसंहृतवामाङ्घ्रिः कञ्जस्थो वा खगस्थितः ।। 196 ।।

वाममिच्छाफलानां यो ध्वंसयत्यन्यचिन्तितम् ।
आजानोर्दक्षिणस्यैवमविक्षिप्तः स्मृतोऽच्युतः ।। 197 ।।

आमोक्षात् सर्वसिद्धीनां दक्षिणोऽध्यायिनां भवेत् ।
सर्वमेव ऋजुस्थित्या संस्थितश्चार्थिना स्मृतम्[1] ।। 198 ।।

स्वस्तिकाद्यैर्भवत्येवं[2] किन्तु ते वाहनं विना ।
विहिताः पीठकह्लारसिंहासनगतस्य च ।। 199 ।।
आकुञ्चितवामपादो भगवाननिष्टं निवारयतीत्याह- उपसंहृतेति। वामं प्रतिकूलमित्यर्थः। कुञ्चितदक्षिणाङ्घ्रिस्त्विष्टं प्रापयतीत्याह- आमोक्षादिति। दक्षिण उदार इत्यर्थः। तदुभयं विना ऋजुस्थितो भगवाननिष्टनिवारमिष्टप्रदानं च सर्वं करोतीत्याह- सर्वमित्यर्धेन। एवं स्वस्तिकाद्यासनभेदा वाहनं विना पीठाधिरूढस्यापि संभवन्तीत्याह- स्वस्तिकाद्यैरिति ।। 196-199 ।।
[1 स्मृतः - मु. अटी.।]
[2 त्येव- मु. अटी.।]

विहगाधिपतिश्चात्र योगैश्वर्याद् बिभर्ति च ।
सवक्त्रं भुजवृन्दं तु नागेन्द्रास्त्रवरान्वितम् ।। 200 ।।

विभोराज्ञावशेनैव तुष्ट्यर्थं वा स्वयं विभोः ।
जगज्जयोदयार्थं तु शान्तये शरणैषिणाम् ।। 201 ।।

विभिन्नेन च रूपेण नानालोकान्तरेषु च ।
अनिरुद्धगतिर्वीरो विचरत्येक एव हि ।। 202 ।।
स्वाधिरूढशक्तीश इव पक्षीशोऽपि तदाज्ञया निखिलजगत्संरक्षणार्थं वक्त्रभुजायुधादिभिर्विविधस्वरूपः स्वयमेक एव सर्वत्र विचरतीत्याह- विहगाधिपतिरितित्रिभिः ।। 200-202 ।।

तदारूढस्य यद् रूपं शक्तीशस्य च सम्प्रति[1] ।
अनेकभेदभिन्नं तु निबोध गदतो मम ।। 203 ।।
शक्तीशस्य रूपभेदान् शृण्वित्याह- तदारूढस्येति ।। 203 ।।
[1 साम्प्रतम् अटी. उ.।]

संयच्छन्तं सदा शान्तिं भविनां दक्षिणेन तु ।
प्रोद्वहन्तं च वामेन शङ्खं पूर्वोक्तक्षणम् ।। 204 ।।

द्विभुजस्य त्विदं रूपं शक्तीशस्य तु केवलम् ।
रूपेणानेन च पुनः षोढा समुपयाति[1] च ।। 205 ।।

सह कान्तागणेनैव त्वेकाद्येन पृथक् पृथक् ।
प्राग्वल्लक्ष्म्या समेतं यत्तदेकं रूपमैश्वरम् ।। 206 ।।

श्रीपुष्ट्योरथ मध्यस्थं द्वितीयं परिकीर्तितम् ।
पूर्वं केवलं द्विभुजरूपं तस्य लक्ष्म्यादिभिः षोढा भेदांश्चाह- संयच्छन्तमित्यादिभिः ।। 204-207 ।।
[1 यान्ति- मु. अटी.।]

श्रियादिमायानिष्ठेन चतुष्केणावृतं[1] परम् ।। 207 ।।

शुद्ध्या[2]दिकेन षट्केन चतुर्थं विद्धि संवृतम्[3] ।
पुष्ट्यन्तेन श्रियाद्येन त्वष्टकेन तु पञ्चमम् ।। 208 ।।

लक्ष्म्याद्येन द्विषट्केन षष्ठं विद्धि समन्वितम् ।
[4]श्रीदेवी कीर्तिदेवी च जयादेवी हलायुध ।। 209 ।।

चतुर्थी भगवन्माया विश्वस्यास्य निबन्धनी ।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्त्यपराजिते[5] ।। 210 ।।

प्रकृतिः सुन्दरी षट्कमित्युक्तं सर्वसिद्धिदम् ।
लक्ष्मीः शब्दनिधिः सर्वकामदा प्रीतिवर्धनी ।। 211 ।।

यशस्करी शान्तिदा च तुष्टिदा पुष्टिदाष्टकम् ।
द्विषट्कं वैभवे योगे देवीनां कीर्तिदं हि यत् ।। 212 ।।
श्रियादिचतुष्टयस्य शुद्ध्यादिषट्कस्य लक्ष्म्याद्यष्टकस्य च नामधेयान्याह- श्रियेति (त्रिभिः? पञ्चभिः)। शब्दनिधिः सरस्वतीत्यर्थः ।। 207-212 ।।
[1 ष्केण वृतं- मु. अटी. बक. बख.।]
[2 मध्यादिकोण- अटी. ।]
[3 साम्प्रतम्- मु. अटी.।]
[4 श्रिया विमलकीर्तिर्जयलक्ष्मीर्जलाशयः- बक., श्रिया विमलकीर्तिर्वै लक्ष्मीर्हलायुधः- अ. उ.।]
[5 मुक्तिं चेत्य - मु. अटी.।]

लक्ष्म्याद्यं तच्च बोद्धव्यं भेदेऽस्मिन् पारमेश्वरे ।
पुनश्चतुर्भुजस्यैवं विज्ञेयं भेदसप्तकम् ।। 213 ।।
लक्ष्म्यादिद्विषट्कं पूर्वं नवमपरिच्छेद (9/85) एवोक्तं द्रष्टव्यमित्याह- द्विषट्कमिति। वैभवे योगे विभवदेवताकथनप्रकरण इत्यर्थः।
नन्वेवं व्याख्यानं सात्वतोपबृंहणलक्ष्मीतन्त्रविरुद्धम्, यतस्तत्र-
एकधा द्विचतुर्धा च षोढा चैव तथाष्टधा ।
पुनर्द्वादशधा चैव तत्र नामानि मे श्रृणु ।।
श्रीर्नाम द्विभुजस्याहम[1]ङ्कस्था वरवर्णिनी ।
तस्यैवोभयतो रूपे श्रीश्च पुष्टिश्च वासव ।।
चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा ।
मयेति कृत्वा रूपाणि भुज्येऽहं[2] तेन विष्णुना ।।
तस्यैव कोणषट्कस्था षोढाऽहं शृणु नाम च ।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव ।।
तथाऽपराजिता चैव षष्ठी तु प्रकृतिः परा ।
तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता ।।
लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी ।
यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी ।।
[3]कोणद्विषट्के तस्यैव स्थिता द्वादशधाऽस्म्यहम् ।
श्रीश्च [4]वागीश्वरी कान्तिः क्रियाशक्तिविभूतयः ।।
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च । (8/20-27)
इति श्रीसात्वताष्टमपरिच्छेदोक्तं (8/31-32) लक्ष्मीवागीश्वर्यादिद्विषट्कमेव प्रतिपादितम्, अतो वैभवयोग इत्यत्रापि विभोरयं वैभव इति भगवत्संबन्धिनि व्रतार्चन इत्येवार्थो वर्णनीय इति चेन्न, सत्यं तन्नायं भवद्दोषः, किन्तु लक्ष्मीतन्त्रलेखकदोषः। यसस्तेन "लक्ष्मीः पुष्टिर्दया निद्रा" (9/85) इत्यादिश्लोकस्थाने प्रमादात् "श्रीश्च वागीश्वरी कान्तिः" (8/31-32) इत्यादिश्लोको विलिखितः। यद्यपि तदेव भवता समर्थितम्, तथापि त्रयोदशपरिच्छेदे ध्यानप्रकरणे (13/36-43) नवमपरिच्छेदोक्तलक्ष्मीपुष्ट्यादिद्विषट्कस्यैव कण्ठरवेण वक्ष्यमाणत्वान्न भवतोऽभिमतं सिद्ध्यति।
ननु च लक्ष्मीतन्त्रकोशेषु सर्वत्राप्येकरूपः पाठः परिदृश्यते, कथं तस्य प्रामादिकत्वमिति चेन्न, प्रथमकोशानुसारेण सर्वत्रापि प्रामादिकस्यैव प्रसृतत्वात्। यथा पारमेश्वरकोशेषु सर्वत्राप्यावरणदेवतालक्षणाध्याये- "कुन्दावदातं कमलम् (6/259) इत्यादिप्रसिद्धकमलध्यानश्लोक एव "कुन्दावदातं मुसलम्" इति मुसलध्यानपरत्वेन विलिखितः प्रामादिकः परिदृश्यते, तथाऽयमपीति ज्ञेयम् ।
ननु कुन्दावदातं कमलमिति कुत्र प्रसिद्धमिति चेत्, पारमेश्वरार्चनाध्याय (6/249) एव पश्यतु भवान् ।
ननु च किं तावता, कमलमुसलयोरेक एव ध्यानश्लोकः स्यादिति चेत्, किं मुसलकिसलयमपेक्षसे। यतः कमलमुसलादीनां प्रत्येकं ध्यानश्लोकानत्रैव [5]वक्ष्यति। एतदनुसारेणैव पारमेश्वरे समस्तायुधध्यानश्लोका विलिखिताः ।
ननु[6] पारमेश्वरोक्तं न प्रामादिकम्, अपि तु संहिताकारस्यैवाभिमतम्। तथाहि पौष्करे- "शिशिरास्त्रकरं स्मरेत्" (4/155) इति सोमस्य शिशिरम्[7], "दण्डहस्तं प्रजापतिम्" (4/158) इति प्रजापतेर्मुसलं[8] च प्रतिपादितम्। जयाख्ये (7/84-87) तु - सोमस्य मुद्गरं प्रजापतेः कमलं च प्रतिपादितम्। उभयत्राऽप्यायुधध्यानमुक्तम्। तदेव पारमेश्वरे शिशिरकमलयोः प्रतिपादितमिति चेत्, मर्मज्ञोऽसि। तथापि शिशिरमुद्गरयोः पर्यायत्वबुद्ध्या कदाचित् [9]तथा ध्यानकथनं संभवेत्। तथा कमलमुसलयोरभेदबुद्धेरवतरणासंभवात्। तल्लेखकप्रमाकृतमेव। अथवा जयाख्योक्तपक्षान्तरज्ञापनार्थं मुद्गरध्यानश्लोके शिशिरपदप्रक्षेपश्चैवमेव बोध्यः। एवं चोभयथापि प्रामादिकत्वं सिद्धम्। अलं प्रसक्तानुप्रसक्त्या। प्रकृतमनुसरामः ।। 212-213 ।।
[1 मङ्ग- अ. मु.।]
[2 भुज्येयं- अ. मु.।]
[3 केशषट्के कृत- अ., केशषट्के तु- मु.।]
[4 कामे- मु.।]
[5 त्रयोदशे परिच्छेदे।]
[6 ननु च- मु.।]
[7 शीलं- अ.।]
[8 र्महदं च - अ.।]
[9 तदा- अ.।]

पुनश्चतुर्भुजस्यैवं विज्ञेयं भेदसप्तकम् ।। 213 ।।

किन्तु वै शङ्कचक्रे द्वे वामहस्ते[1] द्वयेन तु ।
जगत्यस्मिन् हियच्छन्तं शान्तिमाद्येन शाश्वतीम् ।। 214 ।।

प्रोद्वहन्तं द्वितीयेन त्वपसव्यने वै गदाम् ।
चतुर्भुजस्यापि द्विभुजवत् केवलरूपमेकम्, लक्ष्म्यादिभिः सहितं रूपं षोढा चाहत्य सप्तधा रूपं ज्ञेयमित्याह- पुन[2]रित्यर्धेन। चतुर्भुजस्य लाञ्छनचतुष्टयधारणक्रमाह- किन्त्विति सार्धेन[3]। शान्तिं यच्छन्तमित्यनेनैव कमलधारणं सूचितं हि भवति,. "शमं नयति संतापं कमलेनेन्दुकान्तिना" (12/12) इति पूर्वं शक्त्यात्मलक्षणोक्तेः ।। 213-215 ।।

भूयः करचतुष्केण पूर्वोक्तेन क्रमेण तु ।। 215 ।।

चतुर्णामब्जपूर्वाणामन्योन्यत्वेन धारणात् ।
धत्ते द्वादशधा रूपं निःशक्तिकं[1] च केवलम् ।। 216 ।।
एषां कमलादीनां परस्परव्यत्यस्तधारणेन चतुर्भुजरूपं द्वादशधा संभवतीत्याह- भूय इति सार्धेन। द्वादशधा पद्मादिधारणक्रमस्तु मुख्यदक्षिणहस्तमारभ्य मुख्यवाम[2]करान्तम्- 1. पद्मगदाचक्रशङ्खाः, 2. पद्मशङ्खचक्रगदाः, 3. पद्मगदाशङ्खचक्राणि, 4. पद्मचक्रशङ्खगदाः, 5. पद्मचक्रगदाशङ्खाः, 6. पद्मशङ्खगदाचक्राणि, 7. शङ्खगदाचक्रपद्मानि, 8. शङ्खपद्मचक्रगदाः, 9. शङ्खचक्रगदापद्मानि, 10. शङ्खपद्मगदाचक्राणि, 11. शङ्खगदापद्मचक्राणि, 12. शङ्खचक्रपद्मगदाश्च क्रमेण ज्ञेयाः ।। 215-216 ।।
[1 क्तीकं- अ.।]
[2 मुखं- अ.।]

पुनर्द्वादशकं तच्च सह शक्ति[1]चयेन तु ।
स्थितमेकाधिकेनैव षोढा कमललोचन ।। 217 ।।

एवं चतुर्भुजेनैव वपुषा बहुधा स्थितः ।
इदमेकैकं रूपं पुनः प्रत्येकं लक्ष्म्यादिशक्तिभेदैः षोढा भवतीत्याह- पुनर्द्वादशकमिति सार्धेन। शक्ति(द्व?च)येन देवीसमूहेनेत्यर्थः। अत्र चयेनेति जात्येकवचनम्, द्विकचतुष्कषट्काष्टकद्विषट्कभेदभिन्नानां शक्तिसमूहानामुक्तत्वात्। एकाधिकेन लक्ष्म्याधिकेनेत्यर्थः। "प्राग्वल्लक्ष्म्या समेतं यत्तदेकं रूपमैश्वरम्" (12/206) इति पूर्वोक्तेः। समूहस्यानेकात्मकत्वादेकाधिकेनेति शक्ति(द्व?च)यस्य पृथग्विशेषणमुक्तमिति ज्ञेयम्। एवं चतुर्भुजेनैव वपुषा बहुधा स्थितः। केवलरूपैर्द्वादशभिर्लक्ष्म्यादिशक्तिसहितैर्द्विसप्ततिरूपैराहत्य चतुरशीतिरूपभेदैरन्वित इत्यर्थः ।। 217-218 ।।
[1 शक्तिद्वयेनेति सार्वत्रिकः पाठः.।]

सप्तधा षड्भुजाद्येन भुजाधिक्येन वै पुनः ।। 218 ।।

स्थितस्त्वनेकधा देवो यथा तदवधारय ।
पुनः षड्भु(जाः?जाद्यान्) अष्टादशभुजान्तान् सप्तरूपभेदान् शृण्वित्याह- सप्तधेति ।। 218-219 ।।

षड्बाहुरष्टबाहुश्च दशद्वादशबाहुधृक्[1] ।। 219 ।।

द्विसप्तषोडशकरस्तथाष्टादशभूषितः[2] ।
केवलादिश्च सर्वेषां प्राग्वद् भेदस्तु सप्तधा ।। 220 ।।
षड्भुजादीनां सप्तानामपि प्राग्वत् केवलत्वेन सशक्तिकत्वेन च सप्तधा भेदाः संभवन्तीत्याह- षड्बाहुरिति सार्धेन ।। 219-220 ।।
[1 धृत्- मु., भाक्- अटी.।]
[2 भेदतः- अटी.।]

तन्मे श्रृणु यथावस्थमस्त्रविन्यासचिह्नितम् ।
षड्भुजो दक्षिणैर्धत्ते निस्त्रिंशं कमलं गदाम् ।। 221 ।।

सशरं कार्मुकं शङ्खं वामैरस्त्रोत्तमं त्रिभिः ।
गदामुसलचक्रासीनष्टबाहुस्तु दक्षिणैः ।। 222 ।।

शङ्खमङ्कुशपाशौ च वामैस्तु सशरं धनुः ।
खड्गबाणगदापद्मशक्तियुक्तास्तु दक्षिणाः ।। 223 ।।

दशबाहोर्धनुश्शङ्खचक्रखड्गाश्च साभयाः ।
षण्णां दक्षिणहस्तानां द्विषट्कभुजभूषितः ।। 224 ।।

सन्धत्ते कमलं खड्[1]गचक्रबाणगदाङ्कुशान् ।
शङ्खपाशाभयान् शक्तिं सव्यानां मुसलं धनुः ।। 225 ।।

चतुर्दशभुजो धत्ते वामे तु भुजसप्तके ।
शङ्खं गदाङ्कुशौ[2] पाशं मुसलं मुद्गरं हलम् ।। 226 ।।

दण्डाब्जकुलिशान्[3] चक्रं खड्गशक्तिपरश्वधान् ।
बिभृयात् षोडशभुजो मुख्यहस्तैः समुद्गरान् ।। 227 ।।

अभयं कमलं खड्गं शक्तिदण्डवराङ्कुशान्[4] ।
शङ्खचक्रगदावज्रपाशलाङ्गलकार्मुकान् ।। 228 ।।

वरं कराष्टकेनैव धत्ते सव्येन विश्वजित् ।
पद्मखड्गगदावज्रचक्रबाणवराङ्कुशान् ।। 229 ।।

दण्डं दक्षिणहस्तैस्तु धत्तेऽष्टादशबाहुधृक्[5] ।
शङ्खाभयौ[6] हलं शक्तिं मुद्गरं मुसलं धनुः ।। 230 ।।

कुठारमतुलं पाशं विभुर्वामभुजैरमून् ।
बिभर्ति दुष्टशान्त्यर्थं साधूनां पालनाय च ।। 231 ।।
षड्भुजादीनां आयुधभेदानाह- तन्मे शृणु यथावस्थमित्यारभ्य साधूनां पालनाय चेत्यन्तम् ।। 221-231 ।।
[1 खड्गं- अ.।]
[2 ङ्कुशं- बख. अ. उ.।]
[3 शम्- उ.।]
[4 शरा- अ. उ.।]
[5 धृत्- मु. अटी.।]
[6 भयं- उ.।]

भूयो विशेषरूपाणि त्वेता[1]न्येव विशेषतः ।
स्ववक्त्रद्वयमात्रेण नयत्यमितविक्रमः ।। 232 ।।
उक्तान्येतानि रूपाणि पुनर्वक्त्रद्वयमात्रेण विशेषत्वं प्रापयतीत्याह- भूय इति[2] ।। 232 ।।
[1 एता- उ.।]
[2 इति सार्धेन- मु.।]

सिंहतेजोऽसहिष्णूनां पितृयाणरता[1]त्मनाम् ।
अङ्गनादिकसंसारभीतानां वै हिताय च ।। 233 ।।

आमृते[2] वै ग्रहे[3] भागे तैजसे नित्यदक्षिणे ।
वामददक्षिणवक्त्राभ्यां कुर्याद् वै व्यत्ययं प्रभुः ।। 234 ।।

वृद्धयेऽपि च शान्त्यर्थं तेजसः पद्मलोचन[4] ।
दक्षिणोत्तरवक्त्रयोर्व्यत्यासभेदमाह- सिंहेति[5] [6]सार्धद्वाभ्याम्। स्वदक्षिणभागस्यैव तेजोमयत्वात् पुनस्तत्रातितेजोमयं सिंहवक्त्रमप्यस्ति चेत्, उपासकास्तदुभयं तेजः संमिलितं सोढुं न शक्नुवन्तीति तेषां मुमुक्षूणामुपासकानां हितार्थं तेजोमयं सिंहवक्त्रममृतम(यैः?ये) स्ववामभागे, वराहमुखं तैजसे दक्षिणभागे च प्राप्नोतीति भावः ।। 233-235 ।।
[1 गता- बक., तरा- बख.।]
[2 अमृते- मु. अटी. बक. बख.।]
[3 ग्रहैर्भोगैस्तै- मु.।]
[4 चनः- अ. उ.।]
[5 सिंहस्येति- अ.।]
[6 `सार्ध' नास्ति- मु.।]

हेतुनानेन[1] भगवान् बहिरन्तर्गतेन वै ।। 235 ।।

अग्नीषोमौ समीकृत्य त्वास्ते साधारणात्मना[2] ।
एवं मुखद्वयव्यत्ययेन हेतुना समीकृततेजोऽमृतमयविग्रहः सन् सर्वसेव्यो भवतीत्याह- हेतुनेति ।। 235-236 ।।
[1 तेन- अ. उ.।]
[2 त्मनाम्- मु. बक. बख. उ.।]

व्यक्तं[1] वागीशवक्त्रं तु नीत्वैवं शिरसोपरि ।। 236 ।।

पञ्चवक्त्रेण वपुषा त्वामूलाद् यात्यनेकधा ।
शब्दब्रह्मरतानां च ध्यायिनामात्मसिद्धये ।। 237 ।।
शब्दब्रह्मासक्तोपासकानुग्रहार्थमूर्ध्वचतुर्मुखमध्ये हयग्रीववक्त्रं च बिभर्तीत्याह- व्यक्तमिति सार्धेन ।। 236-237 ।।
[1 व्यक्तिमिति सार्वत्रिकः पाठः .।]

आ पातालाच्च सर्वेषां लोकानां पूरणाय च ।
नानावपुर्धरो भूयस्त्वे[1]कैकेनैष याति च ।। 238 ।।

भेदेन रूपमाश्रित्य दशधा च सितादिकम् ।
वर्णभेदं चाह- आपातालादिति सार्धेन। पातालादिसमस्तलोकेषु स्वयमेव गत्वा संरक्षितुमिच्छारूपधर एष भगवान् एकैकेन भेदेन भुजास्त्रशक्तिवक्त्रभेदेनैकैकं रूपमाश्रित्य दशधा सितादिकं च याति। "युगानुसारिकान्तिश्च" (12/11) इति पूर्वोक्तक्रमेण तत्तद्युगानुसारिण्याऽवस्थया सितरक्तादिवर्णभेदं च प्राप्नोतीत्यर्थः। एवं च पूर्वोक्तैर्भुजवक्त्रवर्णैः शक्तीशस्याशीत्युत्तरचतुःशताधिकसहस्ररूपभेदा भवन्तीति ज्ञेयम् ।। 238-239 ।।
[1 स्त्वधिके- मु. अटी. बक. बख.।]

विना वक्त्रैर्नृसिंहाद्यः सर्वज्ञमहिमान्वितः[1] ।। 239 ।।

बिभर्ति रूपाण्येतानि त्वनिरुद्धस्तु तार्क्ष्यकम्[2] ।
एवमाक्रम्य गरुडं प्रद्युम्नो बिभृयात्तनुम्[3] ।। 240 ।।

नानात्वमपि[4] चाभ्येति सङ्कर्षणः सुपर्णगः ।
देवः सत्योपरि स्थित्वा विश्वात्मा यात्यनेकधा ।। 241 ।।

सुरसिद्धमनुष्यादिभूतानां दुःखशान्तये ।
अथ "चातुरात्म्यसमूहात्तु यत्पद्मदलभूस्थितम्" (12/175) इत्याद्युक्तप्रकारेण वासुदेवादीनां मध्येऽन्यतमस्य शक्त्यात्मत्वे तस्य नृसिंहादिवक्त्रद्वयं विना भुजास्त्रशक्तिभेदान्वितत्वं सर्वं प्राग्वदेव, वाहनं तु सत्यादिक्रमेण विभिन्नमित्याह- विना वक्त्रैरिति त्रिभिः ।। 239-242 ।।
[1 न्वितम्- बक.।]
[2 तार्क्ष्यकः - बक. बख. अ. ।]
[3 तनुः- मु. अ.।]
[4 मभि चात्येति- मु. अटी.।]

चतुर्णां योनिजा वर्णास्ते तु मूर्त्यन्तरेषु च ।। 242 ।।
वासुदेवाद्युक्तं शुक्लादिवर्णचतुष्टयं शक्त्यात्ममूर्त्यन्तरेष्वपि संभवतीत्याह- चतुर्णामित्यर्धेन ।। 242 ।।

चतुर्भुजस्यादिमूर्तेर्विष्णोर्मूर्त्यन्तरस्य च ।
वर्णलाञ्छनतुल्यत्वे भेदकृत् तद्[1]ध्वजद्वयम् ।। 243 ।।
चतुर्भुजस्य वासुदेवस्य तथाविधशक्त्यात्ममूर्तेश्च वर्णलाञ्छनतुल्यत्वेन मूर्तिसंदेहे प्राप्ते तत्तद्ध्वजद्वयं तत्तन्मूर्तिभेदज्ञानजनकं भवतीत्याह- चतुर्भुजस्येति ।। 243 ।।
[1 सद्- अटी., स- मु. बक. बख. अ. उ.।]

अपसव्यस्थितेनैव तत्तालाख्यध्वजेन तु ।
स्वरूपभेद[1]माप्नोति स्वमूर्तिः सह सर्वदा ।। 244 ।।
सर्वत्रैवं तद्दक्षिणभागस्थध्वजेन तन्मूर्तिभेदो ज्ञेय इत्याह- अपसव्येति ।। 244 ।।
[1 मिद- मु. अटी. बक. बख.।]

यस्मात् कार्यवशेनैव मूर्तीनामपि पाणिगाः ।
चतुःपद्मादयोऽमूर्ता मूर्ताः शान्तास्तथोद्यताः ।। 245 ।।
तत्र हेतुमा- यस्मादिति। वासुदेवादीनां हस्तस्थितपद्मादिलाञ्छनानि प्रकृतकार्यानुसारेण कदाचित् शान्तरूपमङ्गीकृत्यामूर्तानि भवन्ति, कदाचिदिच्छा[1]रूपमङ्गीकृत्य मूर्तीभूतानि भवन्ति। तस्माल्लाञ्छनैर्भेदो न ज्ञायते, तत्तद्ध्वजेनैव तत्तन्मूर्तिभेदो ज्ञातव्य इत्यर्थः ।। 245 ।।
[1 दितर- मु.।]

इति श्रीपाञ्चरात्रे[1] श्रीसात्वतसंहितायां विभवदेवताध्यानं नाम द्वादशः परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये द्वादशः परिच्छेदः ।।
[1 पञ्च- उ.।]