प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३ सात्त्वतसंहिता
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
सात्त्वतसंहितायाः अध्यायाः


चतुर्दशः परिच्छेदः
नारद[1] उवाच[2]

अखण्डनाय नित्यस्य तथा नैमित्तिकस्य च ।
कर्मणश्चोदयामास हली विष्णुं मुनीश्वराः ।। 1 ।।
अथ चतुर्दशः[3] परिच्छेदो व्याख्यास्यते। इह नित्यनैमित्तिककर्मणामखण्ड[4]नावहं कर्म संकर्षणो वासुदेवं पृच्छतीत्याह- अखण्डनायेति ।। 1 ।।
[1 भगवान्- मु. अटी., नारदः- बक. बख.।]
[2 उवाच- उ. विहाय कुत्रापि नास्ति।]
[3 र्दशपरि- मु.।]
[4 खण्डाना- अ.।]

सङ्कर्षण[1] उवाच
यैराजीवावधिं कालं नित्यमाराधनं प्रति ।
धीः कृता पुण्डरीकाक्ष[2] श्रद्धापूतेन चेतसा ।। 2 ।।

तेषामाकस्मिकाल्लोपाद् भोगानामप्यसम्भवात् ।
यः[3] स्यात् तस्योपशमनं ज्ञातुमिच्छामि साम्प्रतम् ।। 3 ।।
प्रश्नप्रकारमाह- यैरिति द्वाभ्याम्। तेषां भागवतानाम्, आकस्मिकाल्लोपाद् अबुद्धिपूर्वकादाह्निकव्रतादिलोपादित्यर्थः। भोगानामसंभवाद् औपचारिकादीनां लोपादित्यर्थः। यः स्याद् यो दोषः संभवेदित्यर्थः। तस्योपशमनं ज्ञातुमिच्छामीति [4]प्रश्नः ।। 2-3 ।।

[1 नास्ति- मु. अटी.।]
[2 काक्षे- बख.।]
[3 यत् स्या- मु. अटी., यस्य- बक. बख. अ.।]
[4 प्रश्नम्- मु.।]

श्रीभगवानुवाच[1]
लो[2]भ[3]बुद्धिं विना यस्य भोगानामप्यसम्भवः ।
सामर्थ्येन विना यस्य कृच्छ्रादीनां परिच्युतिः ।। 4 ।।

ज्वरादिव्याधिदोषेण जातो[4] यस्याह्निकक्षयः ।
चातुर्मास्यस्य[5] चा[6]प्राप्तिर्यस्य स्वातन्त्र्यतो विना ।। 5 ।।

तस्य तस्य महाबुद्धे श्रृणु यद्विहितं हितम् ।
सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम् ।। 6 ।।

हृदयङ्ग[7]मसंज्ञानामन्तं च हविषा प्लुतम् ।
औपचारिकभोगानां बीजानि विहितानि वै ।। 7 ।।
एवं पृष्टो वासुदेवस्तांस्तान् दोषहेतून् स्वयमपि विविच्य तत्तदुपशामकानाहलो[8]भबुद्धिमित्यादिभिः। लोभबुद्धिं विना द्रव्यलोभं विना। अनुपपत्तिविनाशादिति भावः। यस्य पुरुषस्य यत्पुरुषकर्तृक इत्यर्थः। भोगानाम् औपचारिकसांस्पर्शिकाभ्यवहारिकाणाम्, असम्भवो लोपः संभवति। स्तातन्त्र्यतो विना पारतन्त्र्याद्यस्य पुरुषस्य चातुर्मास्यस्य व्रतस्य चाप्राप्तिर्लोपः संभवति, तस्य तस्य पुरुषस्य यद्धितं प्रायश्चित्तरूपं हितं विहितं शास्त्रचोदितं तच्छृण्वित्यर्थः[9] सांस्पर्शिकानां भोगानां स्रक्चन्दनादीनाम्, मात्रावित्तं प्रत्यहं पूजाकाले दीयमानं सहिरण्यशालितण्डुलतिलादिकम्, पूरणं भोगलोपदोषजनितच्छिद्रपूरकमित्यर्थः। हृदयंगमसंज्ञानाम् आभ्यवहारिकाणाम्, हविषाप्लुतम् आज्याक्तमन्नं पूरकम्। औपचारिकभोगानां छत्रचामरादीनाम्, विविधानि बीजानि मात्रार्थं कल्पितानि मुद्गादीनि पूरकाणि ।। 4-7 ।।
[1 उवाच- उ. विहाय कुत्रापि नास्ति।]
[2 पङ्क्तित्रयं नास्ति- उ.।]
[3 लोप- बक. बख. अ.।]
[4 जातं यस्याह्निकं क्षयम्- बक. बख. अ.।]
[5 यस्य- अ. उ.।]
[6 वेति सार्वत्रिकः पाठः।]
[7 हृदङ्गमं च - बक. बख.।]
[8 लोप- मु.।]
[9 र्थः संबन्धः- मु.।]

कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ।
विशेषार्चनसंयुक्तश्चातुर्मास्यस्तु[1] संयमः ।। 8 ।।

सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ।
शमं नयति भक्तानां सर्वदा लोपमाह्निकम् ।। 9 ।।
एवं भोगलोपप्रायश्चित्तमुक्त्वा कृच्छ्रादिलोपप्रायश्चित्तं दर्शयति- कृच्छ्रचान्द्रायणादीनामिति। कृच्छ्रचान्द्रायणादीनां व्रतानां विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः अष्टमपरिच्छेदोक्तचातुर्मास्यव्रतनियमः[2] पूरकः। अथ क्रमप्राप्तमाह्निकलोपप्रायश्चित्तं दर्शयति- मुक्ताहारोपमं चित्रं शुभं सौत्रं[3] क्षौमादिसूत्रकृतं प्रतिसरं पवित्राख्यं भूषणं भक्तानामाह्निकं लोपम् आह्निकलोपजन्यं दोषं शमं नयति शान्तिं प्रापयतीत्यर्थः। चातुर्मास्यव्रतलोपस्यापीदं प्रायश्चित्तमिति ज्ञेयम्, तस्याह्निकेष्वेवान्तर्भूतत्वात्। अत एव तस्य प्रत्येकं प्रायश्चित्तानुक्तेः। एवं च मन्त्रलोपक्रियालोपद्रव्यलोपादि[4]संभवे हि कृच्छ्रचान्द्रायणादिव्रतान्यनुष्ठीयन्ते। तेषामपि पूरकश्चातुर्मास्यव्रतः[5], तस्यापि पूरकं पवित्रारोपणम्। अतोऽस्य सर्वप्रायश्चित्तत्वमुक्तं भवति। तथा च वक्ष्यति कण्ठ[6]रवेण-
तपोदानव्रतानां च विहितस्याह्निकस्य च ।
निःशेषयागभोगानां कृत्वा संपूरणक्रियाम् ।। (15/1) इति ।। 8-9 ।।
[1 सस्य संयमम्- बक. बख. उ.।]
[2 मपू- अ.।]
[3 सूत्रं- अ. मु.।]
[4 लोभादि- मु.।]
[5 व्रतम्- अ.।]
[6 कण्ठी- अ.।]

तच्च मासचतुष्कस्य मध्ये कुर्याच्छुभे दिने ।
आषाढपञ्चदश्यास्तु यावद् वै कार्तिकस्य च ।। 10 ।।

सम्पू[1]र्णचन्द्रदिवसं तं कालं चान्द्रमन्तिमम् ।
आ कर्कटकसंक्रान्तेस्तुलाभोग[2]क्षयावधि[3] ।। 11 ।।

कालं[4] तं चाष्टपक्षं तु[5] सौरं मध्यमसंज्ञितम् ।
एकादश्यादि [6]चान्तो यश्चातुर्मास्योपलक्षितः ।। 12 ।।

कालं तं वैष्णवं विद्धि तूत्तमं[7] सर्वसिद्धिदम् ।
अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ।। 13 ।।
तस्मादस्य विधानं विस्तरेण दर्शयन् प्रथमं तदनुष्ठानकालमाह- तच्चेत्यादिभिः। आषाढपञ्चदश्या आषाढ[8]पूर्णमा[9]सीमारभ्य कार्तिकस्य मासस्य सम्पूर्णचन्द्रदिवसं पौर्णमासीति यावत्। तावन्तं कालं चान्द्रं चान्द्रमानसंज्ञम् अन्तिमम् अधमं सन्तं विद्धि। [10]आ कर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि सूर्यस्य कर्कटकप्रवेशमारभ्य तुलाधिष्ठानभोगावसानपर्यन्तम्। अथवा तुलायां तुलामासे ये भोगाः शालिव्रीह्यादीनां फलानि तेषां क्षयावधि तल्लवनसंग्रहणपर्यन्तमित्यर्थः। यद्वा तुलामासस्याभोगो विस्तारस्तदवसानपर्यन्तमित्यर्थः। अष्टपक्षम् अष्टौ पक्षा यस्य तं तथोक्तं कालं सौरं सौरमानसंज्ञं मध्यमं विद्धि। चातुर्मास्योपलक्षित एकादश्यादि चान्तो यः काल आषाढशुक्लैकादशीमारभ्य कार्तिकशुक्लैकादश्यन्तं मासचतुष्टयात्मक[11] इत्यर्थः। तं कालं वैष्णवं वैष्णवमानसंज्ञम्, [12]उत्तमं तं विद्धि। पारमेश्वरव्याख्याने- "एकादश्यादि चान्तो य इत्यत्र एकादश्यामादिरारम्भस्तत्र तीर्थँ वा" इति विलिखितम् तद्विचारणीयम् ।। 10-13 ।।
[1 सम्पूर्णश्चन्द्रदिवसः स कालश्चान्द्र उच्यते- मु. अटी.।]
[2 भागक्षया - मु. अटी., भोगक्रिया- बक.।]
[3 इतः परम्- "पवित्रारोपणे चान्द्रं त्वधमं परिकीर्तितम्" इति श्लोकार्धः प्रायः सर्वेषु कोशेषु दृश्यते। एष च भाष्यकारेण न व्याख्यातः, न च दृश्यत ईश्वरपारमेश्वरयोरिति न मूले स्थाप्यते, पूर्वश्लोकेनैव गतार्थत्वात्।]
[4 कालः स चाष्टपक्षस्तु सौरो मध्यमसंज्ञितः- मु. अटी.।]
[5 च - बख. अ. उ.।]
[6 निशान्त इति सार्वत्रिकः पाठः।]
[7 उत्तमं- बक. बख. अ.।]
[8 पूरण- मु.।]
[9 मास- अ.।]
[10 `आ' नास्ति- अ., आकस्मिक- मु.।]
[11 त्मकमि- अ.।]
[12 उत्तमं.....तं- मु.।]

अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ।। 13 ।।

निर्वाहणीयोऽप्यपरः कालश्चान्द्रायणादिना ।
उत्त[1]मकालालाभेऽधमादिकाले वेदमनुष्ठेयमित्याह- अप्राप्तेरिति।। 13-14 ।।
[1 उक्त- अ.।]

सम्पाद्यं चैव तन्मध्ये विधिवद् यागपूरकम्[1] ।। 14 ।।

दिनत्रये तु पूर्वोक्ते पूर्णि[2]माद्युपलक्षिते ।
सोपवासैः क्रियापूर्वं कर्म प्रातिसरीयकम् ।। 15 ।।
उत्तमकालेष्वन्यतमे दिनत्रये पवित्रारोपणं कार्यमित्याह- संपाद्यमिति। संपाद्यं कर्तव्यमित्यर्थः। तन्मध्ये उत्तमादिकालत्रयमध्ये, यागपूरकं भगवदाराधनच्छिद्र[3]पूरकमित्यर्थः। पौर्णिमाद्युपलक्षिते पौर्णमास्या एकादश्या संक्रान्त्या वाऽन्वित इत्यर्थः। प्राति[4]सरीयकं पावित्रकमित्यर्थः ।। 14-15 ।।
[1 पूर्व- मु. अटी. उ.।]
[2 पौर्णिमेति भाष्यानुसारी पाठः।]
[3 `द्रपू' इत्यक्षरद्वयं त्रुटितम्- अ.।]
[4 प्रातिसर्यकमित्युभयमातृकापाठः । स च छन्दोभङ्गदोषदुष्टः।]

दशम्यामर्चनं कृत्वा हुत्वाग्निं च निशामुखे ।
आनिमन्त्र्य च देवेशं धूपं दत्वाऽर्घ्यपूर्वकम् ।। 16 ।।

निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ।
तथापि भक्त्या तृप्तोऽहं त्वां यजाम्यात्मसिद्धये ।। 17 ।।

निवेद्य मुखवासादीनित्युक्त्वा दन्तधावनम् ।
सम्पूज्याथ सुगन्धैस्तु सितसूत्रसमूहजम्[1] ।। 18 ।।

शुभं प्रतिसरं त्वेकं तत्तुल्यानि बहूनि वा ।
कुङ्कुमाद्यैर्यथाशोभं[2] रञ्जयित्वा स्वशक्तितः ।। 19 ।।

जाम्बूनदमयैः पुष्पैर्नानारत्नोपशोभितैः ।
सनालैर्भूषणीयं च रम्यैर्वा रजतोत्थितैः ।। 20 ।।

धूपि[3]तेऽभिनवे भाण्डे कृत्वाच्छाद्या[4]स्तरेण तु ।
प्रणवेनार्चयित्वा तु संस्थाप्य पुरतो विभोः ।। 21 ।।

देवागारं बहिश्चान्तर्मन्दिरं यागसंज्ञितम्[5] ।
संवेष्ट्य सितसूत्रेण चतुर्धा तद्गुणेन तु ।। 22 ।।

ततो।भ्यर्थ्य समूहं तु पञ्चकालपरायणम्[6] ।
षट्कर्मनिरतं चापि यतिवृन्दं तु वैष्णवम् ।। 23 ।।

समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ।
सन्निधानमतः कार्यं मदनुग्रहकाम्यया ।। 24 ।।

स्नानाद्यमेकादश्यां वै सविशेषं समाचरेत्[7] ।
ह्रवनान्तं क्रियाकाण्डं जपस्तुतिपरस्ततः[8] ।। 25 ।।

आराध्यस्याग्रतः स्थित्वा जागरेण नयेन्निशाम् ।
अथ दशम्येकादश्योः कर्तव्यं पवित्र[9]दिवसाख्यं कर्माह- दशम्यामित्यारभ्य जागरेण नयेन्निशामित्यन्तम्। अर्चनं कृत्वा कुम्भमण्डलबिम्बेषु यथाविधि संपूज्येत्यर्थः। अग्निं च हुत्वा अग्नौ च देवं संतर्प्येत्यर्थः। एवमधिवासदिनादिषु चतुःस्थानार्चनस्येश्वरपारमेश्वरादिषु[10] प्रतिपादितत्वात्। यद्वाऽर्चनं कृत्वेत्यत्र केवलबिम्बार्चनमेव विवक्षितम्,
यदा तु केवलं[11] बिम्बे पवित्रारोपणं भवेत् ।।
तदा स्याद् बिम्बकस्यैव[12] अधिवासोक्तपूजनम् ।
तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले ।। (12/478-479)
इति पारमेश्वरोक्तेः। इत्थं दिनद्वयेऽप्यधिवासकरणाशक्तस्यैकादश्यामेवाधिवासनम्, तत्राप्यशक्तस्य सद्योऽधिवासनम्, अधिवासात् पूर्वमङ्गुरार्पणं रक्षाबन्धनं चोक्तमीश्वरे-
पूर्वं दशम्येकादश्योः कुर्यात् कर्माधिवासनम् ।
एकादश्यां वानुकल्पे अधिवासनमाचरेत् ।।
सद्योऽधिवासं द्वादश्यां कुर्याद्वा शक्त्यभावतः ।
अधिवासदिनात् पूर्वदिने कृत्वाङ्कुरार्पणम् ।।
अधिवासदिने कुर्याद् रक्षाबन्धं च दिशिकः । (14/167-169) इति। एवमेवोक्तं पारमेश्वरेऽपि-
प्राक्सप्त(मे) दिने कृत्वा प्राग्वदङ्कुररोपणम् ।
प्राग्वत् कृत्वाधिवासं तु पुरस्ताद् वासरद्वये ।। (12/475) इति।
द्रव्याभावो द्विजश्रेष्ठ! अशक्तिर्यदि वा भवेत् ।
सद्योऽधिवासं द्वादश्यां कृत्वा [13]शक्त्यनुसारतः ।। (12/498-499) इति।
अधिवासदिने चतुःस्थानार्चनानन्तरम् "आनिमन्त्र्य च देवेशम्" (14/16) इत्यत्रैकैकं पवित्रं समर्पणीयम्। तथा चोक्तमीश्वरे पारमेश्वरे च -
प्रणम्य देवदेवेशं ततस्त्वेकं पवित्रकम् ।
दहनाप्यायसंशुद्धं प्रोक्षितं चार्घ्यवारिणा ।।
वासितं गन्धधूपाभ्यां चतुःस्थानस्थितस्य च ।
निवेद्य च क्रमेणैव धूपं दत्वाऽर्घ्यपूर्वकम् ।। इति ।
(ई. सं. 14/180-181; पा. सं. 12/261-262)
पवित्रनिर्माणप्रकरणेऽपि-
चतुःस्थानावतीर्णस्य विभोरामन्त्रणाय वै[14] ।
पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम् ।। इति ।
(ई. सं. 14.112-113; पा. सं. 12/141-142)
अत्र पवित्राणां तन्तुसंख्याग्रन्थिकल्पनगर्भरचनादिकं नोक्तमपीश्वरपारमेश्वराद्युक्तं ग्राह्यम्। अथवा-
यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया ।
निशारोचनया वापि पवित्राणां च धातुना ।।
केनचिद् ग्रन्थयो विप्रा[14] विधिवत् परिरञ्जयेत् ।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ।।
(ई. सं. 14/267-268; पा. सं. 12/500-501)
इतीश्वरपारमेश्वरयोर्लघुपक्षस्याप्युक्तत्वात् तन्तुग्रन्थिनियमादीनामन्यतो ग्रहणाभावेऽपि न प्रत्यवायः[15]।
ननु यथे[15]च्छाग्रन्थिकल्पनस्यापि मूलेऽनुक्तत्वात् तदपि वाऽन्यत्र ग्राह्यं खल्विति चेन्न, "मुक्ताहारोपमम्" (14/9) इत्यनेनैव ग्रन्थिकल्पनसिद्धेः। "संवेष्ट्य सितसूत्रेण चतुर्धा तद्गुणेन तु" (14/22) इत्यत्र तद्गुणेन चतुर्गुणेनेत्यर्थः,
चतुर्गुणेन संवेष्ट्य[16] ह्यन्तराद् यागमन्दिरम्[17]।
प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन् ।। (12/269-270)
इति पारमेश्वरस्पष्टो[18]क्तेः ।। 16-26 ।।
[1 हनम्- मु. अटी.।]
[2 योगं- मु. अटी.।]
[3 धूषिते- मु. घुषिते- अटी.।]
[4 च्छान्या- मु., चान्या- अटी.।]
[5 मन्दिरम्- मु. अटी.।]
[6 यणः- बक.।]
[7 समर्चयेत्- अ.।]
[8 परः स्मृतः- बक. बख. अ. उ.।]
[9 पवित्रादिवसाख्यं- मु.।]
[10 ईश्वरे चतुर्दशाध्याये पारमेश्वरे च द्वादशाध्याये विषयोऽयं द्रष्टव्यः।]
[11 केवले- मु.।]
[12 गस्यैव- मु.।]
[13 शक्त्या तु कारयेत्- मु.।]
[14 च- मु.।]
[15 विप्र- पा. ।]
[16 इतः परम्- "ननु यथेच्छाग्रन्थिकल्पनस्यापि मूलोक्तत्वात् तन्तुग्रन्थिनियमादीनामन्यतो ग्रहणाभावेऽपि न प्रत्यवायः" इति द्विरावृत्तिप्रायः पाठो दृश्यते- अ.।]
[17 यथेच्छ- मु.।]
[18 ष्ट्याभ्य- मु.।]
[19 मण्डपम्- मु.।]
[20 श्वरे- मु.।]

पुनरभ्यर्च्य देवेशं प्रभाते विधिपूर्वकम् ।। 26 ।।

भूषयेद् भूषणेनैव त्वामूर्ध्नः प्रणवेन तु[1] ।
यथारूपैश्च बहुभिर्ब्रूयाद् बद्धाञ्जलिस्त्विदम् ।। 27 ।।

नावलेपान्न मोहाच्च कर्मत्यागो मया कृतः ।
त्वमेव सर्वं जानासि सर्वेशं[2] हृदये स्थितः ।। 28 ।।

यथाशक्त्या त्वनिच्छातस्तत्रापि परमेश्वर ।
तन्निमित्तमिदं कर्म कृतं त्वत्प्रीतये मया ।। 29 ।।

एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान्[3] ।
भगवत्प्रतिपत्त्या तु शक्त्या प्रावरणैर्धनैः ।। 30 ।।

तथा प्रतिसरान्तैस्तु ब्रह्मचारीन्[4] यतीन् गुरून् ।
तर्पयित्वाऽथ चान्नेन पूतेन विविधेन तु ।। 31 ।।

क्षान्त्वाऽनुव्रज्य नैवेद्यपूर्वं कुर्याच्च भोजनम् ।
अथ द्वादश्यां प्रातर्नित्यार्चनचतुःस्थानार्चनपूर्वकं पवित्रसमर्पणम्, हविर्निवेदनाद्यनन्तरं नावलेपादिति श्लोकद्वयेन प्रार्थनम्, भगवत्प्रतिपत्त्या चतुर्णां कारिणां ब्रह्मचार्यादीनां भागवतानां च पवित्रसमर्पणहविर्भोजनान्तमर्चनमपराधक्षमापणादिकं स्वानुयागं चाह- पुनरभ्यर्च्य देवेशमित्यादिभिः। प्रावरणैर्वस्त्रैरित्यर्थः।। 26-32 ।।
[1 च- अ. उ.।]
[2 सर्वेषां - मु. अटी.।]
[3 पञ्च- अ. उ.।]
[4 चारि- मु. अटी.।]

अपरेऽहनि संन्यासमाचरेद् विधिपूर्वकम् ।। 32 ।।

अपनीय तु माल्यादीन् प्रदद्याद् वा[1] दिने दिने ।
नो याति म्लानतां यावच्चतुर्थेऽहनि वा त्यजेत् ।। 33 ।।
तदपरेद्युरेव पवित्रविसर्जनमाह- अपरेऽहनीत्यर्धेन ।
अथवा पुष्पाणामेव प्रत्यहं[2] विसर्जनं कुर्वन् पवित्राणां विसर्जनं तु चतुर्थेऽहनि विशेषेण कारिपूजन[3]पूर्वकं कुर्यादित्याह- अपनीयेति सार्धेन। एतदूर्ध्वमपि पवित्रस्थापनमुक्तमीश्वरपारमेश्वरयोः-
एकरात्रं त्रिरात्रं वा [4]पञ्च वा सप्तरात्रकम् ।
पवित्रकं स्थापयित्वा ततः संन्यासमाचरेत् ।।
अथवीर्चा[5] गतं विप्र[6] तावत्संस्थाप्य भूषणम् ।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ।। इति ।
(ई. सं. 14/250-251; पा. सं. 12/446-447)
अन्ये च बहवो विशेषो अत्रापेक्षिता ईश्वरादिषु[7] द्रष्टव्याः ।। 32-33 ।।
[1 वै- मु. अटी.।]
[2 प्रत्यङ्गं- मु.।]
[3 पूजा- मु.।]
[4 सप्तरात्रं तु वा द्विज- पा.।]
[5 वार्च- अ., वार्चन- मु.।]
[6 विप्राः- ई.।]
[7 ईश्वरे चतुर्दशाध्याये पारमेश्वरे च द्वादशाध्याये।]

विशेषयागपूर्वं तु कारिभ्योऽवसरे स्वके ।
एवं कृते सति तदा[1] सिद्धिर्भवति शाश्वती ।।
सर्वथा[2]ऽऽराधकानां तु चेतसोऽभीप्सितं तथा[3] ।। 34 ।।
एतत्फलमाह- एवमिति ।। 34 ।।
[1 सदा- अ.।]
[2 सर्वार्था- बक. उ.।]
[3 तदा- बक. बख. अ. उ.।]

इति श्रीपाञ्चरात्रे[1] श्रीसात्वतसंहितायां पवित्रारोपण[2]विधिर्नाम चतुर्दशः परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये चतुर्दशः परिच्छेदः ।।
[1 पञ्च- अ. उ.।]
[2 रोहणं नाम- अ. उ.।]