प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १५ सात्त्वतसंहिता
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
सात्त्वतसंहितायाः अध्यायाः


षोडशः परिच्छेदः
नारद उवाच[1]

प्रभुर्मुनीश्वरा भूयश्चादितो वनमालिना ।
सर्वलोकहितार्थं तु यत् तद्वक्ष्याम्यतः परम् ।। 1 ।।
अथ षोडशपरिच्छेदो व्याख्यास्यते। अत्र संकर्षणेन वासुदेवो यत्पृष्टस्तद्वक्ष्यामीत्याह- प्रभुरिति ।। 1 ।।

[1 `उवाच' उ. विहाय कुत्रापि नास्ति।]
सङ्कर्षण उवाच[1]
देव सम्प्रतिपन्ना ये क्रमेऽस्मिन् ब्राह्मणादयः ।
दीक्षणीयाः कथं ते वा[2] एतदिच्छामि वेदितुम् ।। 2 ।।
प्रश्नप्रकारमाह- देवेति ।। 2 ।।
[1 `उवाच' उ. विहाय कुत्रापि नास्ति।]
[2 वै- अ. उ.।]

भगवानुवच[1]
यथाक्रमेणोदितानां वर्णानां श्रृणु लाङ्गलिन् ।
त्रिविधं दीक्षणोपायं संक्षेपात् सर्वसिद्धिदम् ।। 3 ।।
एवं पृष्टो वासुदेवस्त्रिविधदीक्षोपायं श्रृण्वित्याह- यथाक्रमेणेति ।। 3 ।।
[1 `उवाच' उ. विहाय कुत्रापि नास्ति।]

पूर्वोक्तलक्षणो ज्ञात्वा कश्चिद् दृढतरः[1] पुमान् ।
संसारभयभीतस्तु निर्वाणमभिवाञ्छति ।। 4 ।।

वैराग्यधीरचपलश्चिरकालं गुरोर्गृहे ।
संस्थितो दासभावेन खेदोद्वेगविवर्जितः ।। 5 ।।
दीक्षार्थं प्रथमं गुरुकुलवासः कार्य इत्याह- पूर्वोक्तेति द्वाभ्याम् ।। 4-5 ।।
[1 तरम्- मु. अटी. अ. उ.।]

ज्ञात्वा तस्यार्थितां नूनमाहूयाग्रे निवेश्य च ।
कृताकृतं[1] च प्रष्टव्य आ स्मृतेस्तत्क्षणावधि ।। 6 ।।

ज्ञात्वा दोषबलं सम्यक् प्रायश्चित्तैर्यथोदितैः ।
कृच्छ्रातिकृच्छ्रपूर्वैस्तु[2] शोधनीयं प्रयत्नतः ।। 7 ।।
आचार्यस्तद्दोषबलाबले ज्ञात्वा यथोदितैः प्रायश्चित्तैस्तच्छान्तिं कुर्यादित्याह- ज्ञात्वेति द्वाभ्याम् ।। 6-7 ।।
[1 तश्च- अ. उ.।]
[2 स्तच्छो- अ., स्तु छेद- बक.।]

बहूनां परिपीडानामसामर्थ्यात् तु लाङ्गलिन् ।
मनःप्रसादपर्यन्तं कालं वा द्वादशाह्निकम् ।। 8 ।।

नियोक्तव्यो मिते पूतेऽयाचिते नक्तभोजने ।
स्तुतिसम्मार्जनस्नानपुष्पाद्याहरणो[1]द्यमे[2] ।। 9 ।।

आश्रमे वैष्णवानां तु दिव्या[3]द्यायतने विभोः ।
अनिशं भगवद्बिम्बमा[4] पीठादवलोकने ।। 10 ।।
बहुदिनमुपोषणाशक्तौ मनःप्रसादपर्यन्तं द्वादशदिनं वा मिते[5] नक्तभोजने भगवत्स्तोत्रादिसत्कार्येषु च नियोजयेदित्याह- बहूनामिति त्रिभिः। भगवद्बिम्बमापीठादवलोकने आपीठार्न्मोलिपर्यन्तं भगवद्बिम्बदर्शन इत्यर्थः,
आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् ।
[6]पातकान्याशु[7] नश्यन्ति किं पुनस्तूपपातकम्[8] ।। (शा. स्मृ. 2/88)
इति प्रसिद्धेः ।। 8-10 ।।
[1 भरणो- बक. उ.।]
[2 द्यमैः - मु. अटी.।]
[3 व्ये चा - मु. अटी.।]
[4 बिम्बस्या- मु. अटी., द्बीजमा- बक. बख. उ.।]
[5 मितेन- अ. ।]
[6 जपतः पातकान्याशु नश्यन्ति सफलाः क्रियाः- मु.।]
[7 काश्चाशु- मु.।]
[8 पातकाः- मु.।]

अभिजाततनुर्यः प्राग् दुष्कृतैर्मलिनीकृतः ।
साम्प्रतं भगवद्भक्त्या पवित्रीकृतमानसः ।। 11 ।।

अहोरात्रोषितो भूत्वा नखकेशादिलुण्ठितः[1] ।
पञ्चगव्यमथापाद्यं[2] हृदाद्यैः सकुशोदकम् ।। 12 ।।

मन्त्रैस्तद् वासुदेवाद्यैः समावर्त्य[3] चतुश्शतम् ।
एवं दिनचतुष्कं तु स्नापयेत् तेन तं सुधीः ।। 13 ।।

प्रत्यहं चतुरो वाराना प्रभातनिशागमम्[4] ।
ब्रह्मतीर्थं चतुष्कं स[5] त्वापूर्यापूर्य संपिबेत् ।। 14 ।।

क्रमात् संचोदितैर्मन्त्रैः समाचम्यान्तराऽन्तरा ।
अतृप्तमशनं कुर्यादन्ते क्षीराज्यभावितम् ।। 15 ।।

क्षपयेत् फलमूलैर्वा अहोरात्रचतुष्टयम् ।
इति भक्त्या प्रपन्नानामा जीवमपि दुष्कृतात् ।। 16 ।।

कथितं विरतानां च देहशुद्धिकरं परम् ।
ब्रह्मकूर्चसमेतं तु प्रायश्चित्तं मयाऽद्य ते ।। 17 ।।
ब्रह्मकूर्चसहितं प्रायश्चित्तमाह- अभिजाततनुरित्यादिभिः ।। 11-17 ।।
[1 ण्ठितम्- बक. बख. अ., लुर्णितः- उ.।]
[2 पाद्य- बक. बख.।]
[3 तमा- अटी.।]
[4 तान्निशा- अ. उ.।]
[5 तु प्रा- अ. उ.।]

ज्ञात्वा महत्त्वं दोषाणां त्रिविधानां तु वै पुरा ।
सम्भवे सति हेमादिदानं[1] सततमाचरेत् ।। 18 ।।
दोषाधिक्ये हेमदानादिकमपि[2] कार्यमित्याह- ज्ञात्वेति। त्रिविधानां कायिकवाचिकमानसिकानामित्यर्थः[3] ।। 18 ।।
[1 होमादि- अटी.।]
[2 होम- अ.।]
[3 नामपी- मु.।]

पूर्वोक्ताद् विहितात् कालाल्लघुदुष्कृतिना[1] क्रमात् ।
चतुर्थांशेन ह्रासस्तु ब्रह्मकूर्चं पिबेत् ततः ।। 19 ।।
दोषकाले पूर्वोक्तब्रह्मकूर्चप्रायश्चित्तकालस्य चतुर्थांशेन ह्रासं कुर्यादित्याह- पूर्वोक्तादिति। एवं ब्रह्मवर्णस्य सामान्यतः प्रायश्चित्तमुक्तम् ।। 19 ।।
[1 तिनां- अ.।]

कालेन वर्णोत्कर्षेण सह सामान्यमुच्यते ।
प्रायश्चित्तं हि सर्वेषां सर्वकल्मषनाशनम् ।। 20 ।।

उत्तरोत्तरतां बुद्ध्वा प्रथमं दुष्कृतस्य च ।
क्षपयेत्[1] तद् द्विजेन्द्रस्तु मासैर्द्वित्रि[2]चतुर्गुणैः ।। 21 ।।
दोषाधिक्ये तत्रापि द्वित्रिचतुर्गुणमासाभिवृद्धिः कार्येत्याह- कालेनेति द्वाभ्याम्। तद्दुष्कृतं क्षपयेद् नाशयेदित्यर्थः ।। 20-21 ।।
[1 क्षिप- बक. बख. अ. उ.]
[2 द्वित्र- उ.।]

नृपविट्छूद्रजातीय एकैकं वर्धयेत् क्रमात् ।
मासमेका[1]दिकात् कालात् समारभ्य यथाक्रमम्[2] ।। 22 ।।
नृपादीनां द्विगुणत्रिगुणचतुर्गुणक्रमेण प्रायश्चित्ताभिवृद्धिमाह- नृपेति ।। 22 ।।
[1 धिकात्- अ.।]
[2 मात्- बक. बख., समः- उ.।]

दुराचारोऽ[1]पि सर्वाशी कृतघ्नो नास्तिकः पुरा ।
समाश्रयेदादिदेवं श्रद्धया शरणं यदि[2] ।। 23 ।।

निर्दोषं विद्धि तं जन्तुं प्रभावात्[3] परमात्मनः ।
किं पुनर्योऽनुतापार्तः शासनेऽस्मिन् हि संस्थितः ।। 24 ।।

विरतो[4] दुष्कृताच्चैव भक्तिच्छायां समाश्रितः ।
भगवच्छासनोल्लङ्घनपरोऽपि तच्छरणागत्या निर्दोषो भवति। एतच्छासननिष्ठस्य शरणागतस्य निर्दोषत्वं किंपुनर्न्यायसिद्धमित्याह- दुराचार इति सार्धद्वाभ्याम्। कृता[5]कृताद्विरत इत्यनेन सर्वधर्मपरित्यागः सूचितो भवति। भक्तिच्छायां भक्तेश्छायेव छाया यस्यास्तां शरणागतिमित्यर्थः ।। 23-25 ।।
[1 रो हि- बक. बख. अ. उ.।]
[2 स्वयम्- बक. बख. अ. उ.।]
[3 मत्प्रभावात् परार्थतः- अ.।]
[4 तः कुकृ- अ. उ.।]
[5 आकूताद्- मु.।]

एवं संशुद्धदोषाणां बहुजन्मार्जितस्य च[1] ।। 25 ।।

कल्मषस्य विघातार्थं नरसिंहीं महामते ।
कृत्वा वै साम्प्रतं दीक्षां दद्याद् वै मन्त्रपूर्वकम् ।। 26 ।।

आराधनं हि तस्यैव वैभवीयस्य वै विभोः ।
सबाह्याभ्यन्तरं चैव सम्यङ्मासचतुष्टयम् ।। 27 ।।

मासाष्टकं वत्सरं वा बुद्ध्वा भावबलं पुरा ।
ज्ञात्वा भव्याशयानां च प्रसादं पार[2]मेश्वरम् ।। 28 ।।

विभवव्यूहसूक्ष्माख्यां दीक्षां कुर्यादनन्तरम् ।
पूर्वोक्तब्रह्मकूर्चादिप्रायश्चित्तानां इह जन्मनि संपादितदोषमात्रशामकत्वात् प्राग् बहुजन्मार्जितदोषशमनार्थं नृसिंहमन्त्रदीक्षामपि दत्त्वा तेन नृसिंहाराधनं च कारयेत्। तन्मनःपरिशुद्ध्यादिकं तस्मिन् भगवदनुग्रहं च ज्ञात्वा परव्यूहविभवमन्त्रदीक्षां दद्यादित्याह- एवमिति चतुर्भिः ।। 25-29 ।।
[1 तु- उ.।]
[2 परमे- बक. अ. उ.।]

सङ्कर्षण उवाच[1]
परिज्ञेयो हि कैर्लिङ्गैः साधकानामघक्षयात् ।। 29 ।।

सम्यगाराधनान्मन्त्रप्रसादः कमलापते ।
तस्मिन् भगवदनुग्रहो जात इति कथं ज्ञेय इति पृच्छति संकर्षणः - परिज्ञेय इति ।। 29-30 ।।
[1 `उवाच' उ. विहाय कुत्रापि नास्ति।]

श्रीभगवानुवाच[1]
चित्तप्रसादस्त्वतुलस्तेजोवृद्धिरतीव हि ।। 30 ।।

धैर्यमुत्साहसन्तोषा[2]वकार्पण्यादयो गुणाः ।
येषां तेषां हि बोद्धव्यं मन्त्रात्माऽभिमुखः स्थितः ।। 31 ।।

प्रयुक्तिः शान्तिकादीनां कर्मणामचिरादपि ।
प्रयाति यदि साफल्यं विज्ञेयं तेन हेतुना ।। 32 ।।

सम्पन्नः पापदाहश्च प्रसन्नश्चापि मन्त्रराट् ।
ददाति धर्मकामार्थानचिराद् यदि योजितः ।। 33 ।।

अणिमाद्यष्टकं चापि विविधा योगसिद्धयः ।
आत्मसिद्धिसमेताश्च परितुष्टास्तदा[3] स्मृताः ।। 34 ।।
एवं पृष्टस्तज्ज्ञाने हेतूनाह- चित्तप्रसाद इत्यादिभिः ।। 30-34 ।। [1 `उवाच' उ. विहाय कुत्रापि नास्ति.।]
[2 षस्त्व- अ. उ.।]
[3 तुष्टस्तदा स्मृतः- अ. उ.।]

यस्मिन्[1] वै वैभवे रूपे यस्याभिरमते मनः ।
तस्य कल्मषशान्त्यर्थं दीक्षां कुर्याच्च तेन वै ।। 35 ।।

तमाराध्य हि पूर्वोक्तं[2] कालं तमनुयोज्य च ।
योग्यतायाः परीक्षार्थमा शान्तेः सर्ववस्तुषु ।। 36 ।।
एवं नारसिंहमन्त्रेणैव दुरितक्षयार्थदीक्षाराधनादिकं कार्यमिति नियमो नास्ति। वैभवमन्त्रेषु यस्य यस्मिन्नभिरुचिस्तेनैव तत्कार्यमित्याह- यस्मिन्निति सार्धेन। पूर्वोक्तं कालं मासचतुष्टयं मासाष्टकं संवत्सरं वेत्यर्थः[3] ।। 35-36 ।।
[1 `यस्मिन्..... योग्यतायाः' नास्ति- उ.।]
[2 पूर्वोक्त- मु. अटी. बक. बख.।]
[3 चेत्यर्थः- अ.।]

योग्यतायाः परीक्षार्थमा शान्तेः सर्ववस्तुषु ।। 36 ।।

नारसिंहेन वान्येन मन्त्रेणाभिमतेन च ।
दीक्षयाढ[1]ऽऽराधनेनैव होमजापव्रतादिना ।। 37 ।।

कर्मणा केवलेनैव शान्तिकात्यु[2]च्छ्रितेन च ।
विनाऽणिमादिसिद्धिभ्यो बुद्ध्वा पापं क्षयं गतम् ।। 38 ।।

भावयेत् तेन कालेन ततः पद्मदलेक्षण ।
दीक्षितस्य मुमुक्षुत्वेन सर्वविषयेष्वप्याशाविरहे सति शान्तिकादिकर्मणामपि विरहात् तत्तत्सिद्धिलिङ्गानि विना चित्तप्रसादादिलिङ्गैरेव पापक्षयो ज्ञातव्य इत्याह- योग्यताया इति त्रिभिः ।। 36-39 ।।
[1 दीक्षा- बक. बख.।]
[2 काद्यु- उ.।]

सिद्धीनां वैभवीयानां षाड्गुण्यमहिमाप्तये ।। 39 ।।

निश्श्रेयसविभूत्यर्थं ग्राह्यं दीक्षात्रयं वरम्[1] ।
अभ्य[2]र्थितात् सुप्रसन्नात् प्रतिपन्नाच्च देशिकात् ।। 40 ।।
तदनन्तरं गुरुं प्रार्थ्य तत्सकाशात् परव्यूहविभवदीक्षात्रयं ग्राह्यमित्याह- सिद्धीनामिति सार्धेन ।। 39-40 ।।
[1 परम्- बक. बख. अ. उ.।]
[2 अभ्यर्चि- अ.।]

सानुकम्पेन वा तेन स्वयमप्रार्थितेन च ।
कार्यं संशुद्धपापानां भीतानां शरणैषिणाम् ।।
संस्कृतानां हि युक्तानामघक्षालनकर्मणि ।। 41 ।।
अप्रार्थितोऽपि गुरुः स्वयमेव कृपया योग्यानां शिष्याणां दीक्षां कुर्यादित्याह- सानुकम्पेनेति सार्धेन ।। 41 ।।

इति श्रीपाञ्चरात्रे[1] श्रीसात्वतसंहितायामघशान्तिकल्पो[2] नाम षोडशः परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये षोडशः परिच्छेदः ।।
[1 पञ्च- उ.।]
[2 करो- अ. उ.।]