← अध्यायः ४ सात्त्वतसंहिता
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →
सात्त्वतसंहितायाः अध्यायाः


पञ्चमः परिच्छेदः
नारद उवाच[1]

अथ विप्रवरा भूयः प्राह सर्वेश्वरो हरिः ।
व्यामोहविनिवृत्त्यर्थं भविनां सीरिणः[2] स्फुटम् ।। 1 ।।
अथ पञ्चमो व्याख्यास्यते। अत्र पुनर्जाग्रद्व्यूहलक्षणमाह[3] - अथेति। भविनां संसारिणां व्यामोहविनिवृत्त्यर्थम्। सीरिणः संकर्षणस्य प्राहेत्यन्वयः ।। 1 ।।
[1 नारद इत्येव उ. विहाय सर्वत्र पाठः।]
[2 सीरिणे- सार्वत्रिकः पाठः।]
[3 माहेत्याह- म.।]

श्रीभगवानुवाच
अनन्तसरसि क्षार्णे विश्रान्तं यन्महामते ।
अकाराक्षरमूलं तु नित्यं सर्वाश्रयाम्बुजम् ।। 2 ।।

आकाराक्षरनालं तु शेष[1]सर्वार्णपल्लवम् ।
दिगष्टकं समाश्रित्य यत्तत्[2] तिष्ठति चक्रवत् ।। 3 ।।

तत्पत्रमध्ये भगवान् जाग्रत्सं[3]ज्ञपदे त्वधः[4] ।
यष्टव्यो भावनीयश्च यथा तदधुनोच्यते ।। 4 ।।
हृदयकमलस्य वर्णमयत्वनिरूपणपूर्वकं जाग्रत्पदसंज्ञे तत्पत्रे जाग्रद्व्यूहार्चनं कार्यमित्याह- अनन्तसरसि। महासरोवर इत्यर्थः। अत्र क्षकारस्य जगदुत्पत्तिहेतुभूतब्रह्मशक्तिपञ्चकप्राथमिकत्वात् सरोवरत्वं ज्ञेयम्। तदुक्तं लक्ष्मीतन्त्रे-
क्षादि शान्तं सुरेशान शक्त्युन्मेषविशेषितम् ।।
[5]क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया ।
वासुदेवाख्यया होऽभूत् साख्यः सङ्कर्षणोदयः ।।
प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया ।
ता एताः शक्तयः पञ्च [6]पञ्चब्रह्मात्मिकाः पराः ।।
स्फूर्तयो[7] मदभिन्नास्ता जगदुत्पत्तिहेतवः ।
ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः ।। (19/30-33) इति।
एवमेव-
अनुत्तरं स्वसंवेद्यं[8] चिद्रूपं मम शाश्वतम् ।
[9]वाक्तत्त्वं तदकारात्मा सर्ववाङ्मयसंभवः । (19/2-3)
इति लक्ष्मीप्रोक्तवैभवस्याकारस्य मूलत्वमपि सयुक्तिकं बोध्यम्। "तदेवानन्दरूपेण द्वितीयः स्वर इष्यते" (लक्ष्मी. 19/3) इत्युक्तस्याकारस्य नालत्वमप्युचितम्। शेष[10]सर्वार्णपल्लवं शेषाणि पूर्वोक्तावशिष्टानि सर्वाणि यानि वर्णानि इकारादीनि तान्येव पल्लवानि दलानि यस्य तत् तथोक्तम्। अत्र सर्वशब्दस्य प्रायिकत्वमङ्गीकृत्य इकारादिसकारान्तानामेव वर्णानां दलत्वं वाच्यम्। [11]यतस्तृतीयपरिच्छेदे- [12]"हवर्णकर्णिकायां तु सुषुप्त्याख्यपदे त्वधः"[13] (3/2) इति हकारस्य कर्णिकात्वमुक्तम्। यत् कमलं दिगष्टकं समाश्रित्य स्वदलैः सर्वदिशः समाश्रित्य चक्रवद् वर्तुलाकारेण तिष्ठति, तत्पत्रमध्ये भगवान् यष्टव्यो भावनीयश्च। जाग्रत्संज्ञपदे अध इति च पदद्वयं पत्रमध्यस्य विशेषणम्। हृदयकमलाकाशस्य तुर्यापदत्वम्, तत्कर्णिकास्थानस्य सुषुप्तिपदत्वम्, केसरस्थानस्य स्वप्नपदत्वम्, तदधःस्थितस्य पत्रस्थानस्य जाग्रत्पदत्वं च सुव्यक्तम् ।। 2-4 ।।
[1 सर्वर्ण- मु. उ.।]
[2 यत्तु ति- अ. उ.।]
[3 संज्ञे पदे- मु. अटी.।]
[4 त्वथ- मु. बक. बख. अ.।]
[5 क्षमि- अ. म.]
[6 ब्राह्मा ब्रह्ममयाः- अ. म.।]
[7 स्मूर्तयो- अ.।]
[8 द्यमचिद्रूपमशा- अ.।]
[9 तत्तत्वं- अ.।]
[10 सर्वाणि- अ.।]
[11 यत्तृ- अ.।]
[12 हकार- अ.।]
[13 त्व थ- अ.।]

परं प्रणवबीजेन सम्पूर्णं स्वेन तेजसा ।
स्थितं[1] स्वकर्णिकोर्ध्वाच्च केसरान्तं निरीक्ष्य च ।। 5 ।।

ततः प्रणवपूर्वात् तु ब्रह्मबीजचतुष्टयात् ।
कदम्बपुष्पसदृशा[2]न्मरीचिशतसङ्कुलात् ।। 6 ।।

दिक्क्रमेणोदितं[3] ध्यायेद् विभोर्मूर्तिं[4]चतुष्टयम् ।
सुव्यक्तलक्षणं मान्त्रं विभावेनावृतं बहिः ।। 7 ।।

स्फुलिङ्गकणतुल्येन समुद्भूतेन वै परात् ।
वाचकान्त[5]र्निविष्टेन व्यक्ततामागतेन च ।। 8 ।।
आदौ तत्कर्णिकोर्ध्वात् केसरान्तं स्थितं तेजःपरिपूर्णं परं जाग्रद्व्यूहकारणं भगवन्तं तद्वाचकप्रणवबीजेनावलोक्य त्त्तस्तत्परितः प्रागादिषु वासुदेवादिमूर्तिचतुष्टयं समुत्पन्नं [6]पश्येदित्याह- परमिति चतुर्भिः। ब्रह्मबीजचतुष्टयात् श ष स हात्मकाद् वर्णचतुष्टयादित्यर्थः।
शादिक्षान्तं तु विज्ञेयं विशुद्धं ब्रह्मपञ्चकम् ।।
शषसहोऽनिरुद्धाद्या विज्ञेयास्त्रिदशेश्वर । (19/16-17)
इति लक्ष्मीतन्त्रवचनात्। अथवा वक्ष्यमाणाद् वासुदेवादिबीजचतुष्टयादित्यर्थः। सुव्यक्तलक्षणमित्यनेन केवलगुणमात्रलक्ष्यतयाऽगोचरसुषुप्तिव्यूहापेक्षया स्वप्नव्यूहस्य स्वप्नप्रत्यक्षवदीषद्व्यक्तत्वम्, तदपेक्षयाऽस्य जाग्रद्व्यूहस्य जागरप्रत्यक्षवत् सुव्यक्तत्वमुक्तं भवति ।। 5-8 ।।
[1 स्थितस्व- मु. अटी.।]
[2 सदृशं म- मु. अटी. बक. बख.।]
[3 णादितो- मु.।]
[4 र्तेश्चतु- मु. बक. बख.।]
[5 कान्तनि- मु. अटी, कान्तं नि- अ. उ.।]
[6 पश्येत्याह- म.।]

तत्राद्यं भगवद्रूपं हिमकुन्देन्दुकान्तिमत् ।
चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षतम् ।। 9 ।।

पीतकौशेयवसनं सुवर्णध्वजशोभितम् ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ।। 10 ।।

विद्याकोशस्तु वामेन संगृहीतश्च शङ्खराट् ।
पृष्ठगे ह्यपरस्मिंस्तु[1] प्रोद्यतो[2] दक्षिणे त्व(रि?सिः[3]) ।। 11 ।।

तथाविधे गदा वामे निषण्णा वसुधातले ।
सिन्दूरशिखराकारमेकवक्त्रं चतुर्भुजम् ।। 12 ।।

अतसीपुष्पसङ्का[4]शवासोभृत् ताललाञ्छितम् ।
मुख्येन पाणियुग्मेन तुल्यमाद्यस्य वै विभोः ।। 13 ।।

सीरं चक्रं च हस्तेऽस्य मुसलं तु गदा करे ।
प्रावृण्णिशासमुदितखद्योतचयदीधितिम् ।। 14 ।।

रत्नकौशेयवसनं मकरध्वजशोभितम् ।
एकवक्त्रं चतुर्बाहुं तृतीयं[5] परमेश्वरम् ।। 15 ।।

मुख्यहस्तद्वयं चास्य प्राग्वद् ध्येयं महामते ।
वामे परस्मिन् शाङ्ग[6] च दक्षिणे बाणपञ्चकम् ।। 16 ।।

अञ्जनाद्रिप्रतीकाशं सुसिता[7]म्बरवेष्टितम्[8] ।
चतुर्भुजं विशालाक्षं मृगलाञ्छनभूषितम् ।। 17 ।।

आदिवत् पाणियुगलमाद्यमस्यापि कीर्तितम् ।
दक्षिणादिक्रमेणाथ द्वाभ्यां वै खङ्गखेटकौ ।। 18 ।।
वासुदेवादीनां विशेषलक्षणान्याह- तत्राद्यमित्यादिभिः ।। 9-18 ।।
[1 श्च- मु. अटी.।]
[2 प्रोद्यतं- बक. बख. अ. उ.।]
[3 त्वरी- मु., त्वरि- अटी., त्वपि- अ., त्वरम्- उ.।]
[4 संकाशं- बख. अटी.।]
[5 द्वितीयं- अ. उ.।]
[6 पीता- अ.।]
[7 शोभितम्- अटी.।]
[8 णाधः- अटी.।]

वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः ।
शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि ।। 19 ।।

किरीटमुकुटै[1] रम्यैर्हारकेयूरनूपुरैः ।
ललाटतिलकैश्चित्रैः स्फुरन्मकर[2]कुण्डलैः ।। 20 ।।

स्रग्वरैर्विविधैर्माल्यैः कर्पूराद्यैर्विलेपनैः ।
रम्यैरलङ्कृताश्चैव भावनीयाः सदैव हि ।। 21 ।।
सामान्यलक्षणमाह- वनमालाधरा इति त्रिभिः ।। 19-21 ।।
[1 मकुटैः- अटी.।]
[2 न्मकुट- अटी.।]

पुनरप्यययोगेन प्रागुदङ्मध्यमे दले ।
सितकृष्णेन वपुषा [1]चानिरुद्धं स्मरेत् प्रभुम् ।। 22 ।।

उदक्पश्चिममध्यस्थे प्रद्युम्नं भावयेच्छदे ।
रूपेण कृष्णपीतेन [2]ह्यप्ययावसरे तु वै ।। 23 ।।

प्रत्यग्दक्षिणमध्यस्थे पीतरक्तवपुर्धरम् ।
स्मरेत् सङ्कर्षणं देवं प्रतिस्रोतः क्रियाविधौ ।। 24 ।।

मध्ये प्राग्दक्षिणस्यां च सितरक्तेत तेजसा ।
वासुदेवो जगन्नाथो भावनीयो महामते ।। 25 ।।

अतिशुद्धाशयत्वेन स्फटिकोपलवद् विभुः ।
स्थानभेदं समासाद्य स च कान्तिद्वयात्तु वै ।। 26 ।।

गृह्णाति शबलं रूपमुपसंहारलक्षणम् ।
क्रमशोऽथ चतुर्णां वै वक्ष्ये मन्त्रगणं श्रृणु ।। 27 ।।
ईशानाद्याग्नेयान्तमप्यधःक्रमेण स्थितानां तेषां शबलरूपमाह- पुनरित्यादिभिः ।। 22-27 ।।

[1 अनि- अ., षाऽनिरुद्धं सं- उ.।]
[2 अप्य- अ. उ.।]

अक्षान्तर्गतमादाय नाभेः पूर्वमतः परम् ।
भि(?न्नं) नाभिद्वितीयेन नेमिपूर्वमतः[1] परम् ।। 28 ।।

नाभिपञ्चमसंयुक्तं दशमात्[2] प्रथमं ततः ।
तृतीयं च द्वितीयं च नेमेरादाय चाङ्कयेत् ।। 29 ।।

नाभिद्वितीयबीजेन नवमादपरं ततः ।
तदधो विनियोक्तव्यं द्वितीयं द्वादशात्तु [3]यत् ।। 30 ।।

पञ्चमेनाथ वै नाभेर्युक्तं कुर्यादनन्तरम् ।
अष्टमादपरं शुद्धं नेमिपूर्वं तथाविधम् ।। 31 ।।

युक्तं नाभिद्वितीयेन द्वितीयं नेमिमण्डलात् ।
भूयस्तत्केवलं दद्यात् पदं योगेश्वराय वै ।। 32 ।।

तदन्ते चक्रिणेशब्दमथ नेमेर्यदष्टकम् ।
पश्चिमेनान्वितं नाभेस्तदन्ते विनिवेश्य च ।। 33 ।।

शुद्धमेकादशात् पूर्वमाद्यं तदनु चाष्टमात्[4] ।
नेमेस्तृतीयेना[5]क्रान्तं ध्वजायाथ पदं न्यसेत् ।। 34 ।।

भिन्नमेकादशात् पूर्वं नाभितुर्येण वै ततः ।
अष्टमादपरं शुद्धं पञ्चमं नेमिमण्डलात् ।। 35 ।।

[6]द्वितीयं स्वरसंयुक्तं ससेऽथ द्व्यक्षरं पदम् ।
वासुदेवाय तदनु सनमस्कं पदं भवेत् ।। 36 ।।

षट्त्रिंशदक्षरो मन्त्रो भेदस्तस्याधुनोच्यते ।
पदमेकादशार्णं तु प्रथमं परिकीर्तितम् ।। 37 ।।

पञ्चाक्षरं द्वितीयं तु तृतीयं त्र्यक्षरं स्मृतम् ।
षडक्षरं चतुर्थं तु पञ्चार्णं पञ्चमं तु वै ।। 38 ।।

षष्ठं सप्ताक्षरं विद्धि पदं पदविदांवर ।
प्रणवान्ते त्वथादाय द्वितीयं नाभिमण्डलात् ।। 39 ।।
ततस्तन्मन्त्रानाह- क्रमशोऽथ [7]चतुर्णामित्यादिभिः ।
[8]अक्षान्तर्गतमादायेत्यारभ्य पदं पदविदांवरेत्यन्तम् ॐ अमाधुरायाद्भुतमयाय योगेश्वराय चक्रिणे सुपर्णध्वजाय पीतवाससे वासुदेवाय नम इति षट्त्रिंशदक्षरो (क्षमा?मन्त्रः) समुद्धृतो भवति ।। 27-39 ।।
[1 मनन्तरम्- अ. उ.।]
[2 नवमात्- अ. उ.।]
[3 वै- मु. अटी।]
[4 र्यथाष्ट- अटी.।]
[5 क्रान्त- मु. अटी. अ. उ.।]
[6 द्वितीय- मु अटी. बक.।]
[7 चतुर्णामिति- अ.।]
[8 अत्राक्षा- म.।]

चतुर्दशेन वै नाभेर्युक्तं नेम्यष्टकं ततः ।
द्वितीयं दशमाच्छुद्धमथ भूयः[1] समाहरेत् ।। 40 ।।

तदधो नवमादन्तं[2] नाभेस्तुर्यादिनान्वितम् ।
एकादशस्वराक्रान्तं द्वितीयं दशमात् ततः ।। 41 ।।

बाह्यादथाष्टमं नाभेर्युक्तं पञ्चदशेन तु ।
केवलं पञ्चमं नेमेर्द्वितीयं चाष्टमात् ततः ।। 42 ।।

नेमेस्तृतीयेनाक्रान्तं वर्णमेतत् समाहरेत् ।
युक्तं नाभेस्तृतीयेन प्रागरात् प्रथमं तु वै ।। 43 ।।

द्वितीयं दशमाद्वर्णं नाभेरेकादशाङ्कितम् ।
पञ्चाक्षरं पदं दद्यात् तदन्ते तालकेतवे ।। 44 ।।

भूयस्तदवसाने तु पञ्चार्णं नीलवाससे ।
प्रथमात् प्रथमं चाथ द्वितीयं[4] स्वरसंयुतम् ।। 45 ।।

केवलं नेमिपूर्वं तु चाद्यमेकादशात् ततः ।
बहिष्ठेभ्यश्चतुर्थं तु द्वाभ्यां नाभेः परं न्यसेत् ।। 46 ।।

द्वितीयं केवलं बाह्यात् सङ्कर्षणाय वै पदम् ।
तृतीयं प्रथमं नेमेरादायाकारसंयुतम् ।। 47 ।।

द्वितीयमपि वै बाह्याच्छुद्धं तदनु वै नमः ।
षट्त्रिंशाक्षरसंयुक्तस्त्वयं मन्त्रो महामते ।। 48 ।।

षड्वर्णं पदमस्याद्यं पञ्चार्णं तदनन्तरम् ।
दशाक्षरं तृतीयं तु त्रीणि पञ्चाक्षराण्यतः ।। 49 ।।
प्रणवान्ते त्वथादायेत्यारभ्य त्रीणि पञ्चाक्षराण्यत इत्यन्तम् ॐ आं सौनन्दकिने संवर्तकिने तालकेतवे नीलवाससे कामपालाय संकर्षणाय रामाय नम इति षट्त्रिंशदक्षरमन्त्रः समुद्धृतः ।। 39-49 ।।
[1 यस्त- बक. बख. अ. उ.।]
[2 न्तर्ना- अ.।]
[3 भितृ- उ.।]
[4 यस्वर- मु. अटी.।]
[5 आद्य- उ.।]
[6 केवलं द्वितयं- अ. उ.।]

अथादायाक्षगं[1] बीजं नाभेः पञ्चदशात् ततः ।
शार्ङ्गधृते पदं दद्याच्चतुर्वर्णमतः परम् ।। 50 ।।

नेमिपूर्वमथादाय[2] प्रागरात् प्रथमं ततः ।
तृतीयं च बहिष्ठेभ्यः पदं त्र्यर्णं ध्वजाय वै ।। 51 ।।

तत[3]स्तृतीयं बाह्यात् तु प्रथमात् प्रथमं ततः ।
तदधो विनियोक्तव्यं द्वितीयं वर्णमष्टमात् ।। 52 ।।

द्वितीयस्वरसंयुक्तमथ बाह्यात् तु पञ्चमम् ।
अष्टमं तु तदुद्देशात् केवलं पुनरेव तत् ।। 53 ।।

नाभेरेकादशाक्रान्तं षडक्षरमतः परम् ।
पदं सनत्कुमाराय पञ्चाक्षरमनन्तरम् ।। 54 ।।

पदं जगत्प्रियायेति प्रद्युम्नाय नमस्ततः ।
चतुस्त्रिंशाक्षरः सोऽयं मन्त्रः श्रृणु पदान्यपि ।। 55 ।।

आद्यं ष़डक्षरं ज्ञेयं द्वितीयं तद्वदेव हि ।
पञ्चाक्षरं तृतीयं तु चतुर्थं तु षडक्षरम् ।। 56 ।।

पञ्चार्णं पञ्चमं विद्धि षड्वर्णं षष्ठमेव हि ।
अक्षस्थं षोडशं नाभेर्द्वितीयं दशमात्तु वै ।। 57 ।।
अथादायाक्षगं बीजमित्यारभ्य ष़ड्वर्णं षष्ठमेव हीत्यन्तम् ॐ अं [4]शार्ङ्गधृते मकरध्वजाय रक्तवाससे सनत्कुमाराय जगत्प्रियाय प्रद्युम्नाय नम इति चतुस्त्रिंशदक्षरः समुद्धृतः ।। 50-57 ।।
[1 क्षरं- उ. अटी.।]
[2 र्वं तदा- अ.।]
[3 अथ तृ- बक. बख. अ. उ.।]
[4 शारं चक्रधृते- अ.।]

केवलं ह्यथ तेनैव [1]चाक्रान्तं नवमात् परम् ।
अथादाय च तस्यान्ते प्रथमात् प्रथमं[2] परात् ।। 58 ।।

युक्तं नाभिद्वितीयेन वर्णमेकं[3] महामते ।
वर्णद्वयं पदस्यादौ तदेवान्तेऽस्य वै पुनः ।। 59 ।।

अथ द्वितीयं नवमात् प्रथमात् प्रथमं ततः ।
तृतीय[4]मथ वै नेमेर्द्वितीय[5]स्वरसंयुतम् ।। 60 ।।

द्वितीयं केवलं बाह्यात् सप्तमं नाभिमण्डलात् ।
अथ षष्ठेन वै नेमेराक्रान्तं[6] द्वितीयं न्यसेत् ।। 61 ।।

प्राग्वर्णं दशमान्नेमेः पञ्चमस्योर्ध्वगं त्वथ ।
चतुर्थादपरं वर्णं द्वितीयं नेमिमण्डलात् ।। 62 ।।

द्वाभ्यां नाभिद्वितीयं तु[7] योजयेत् तदनन्तरम् ।
दशमादपरं वर्णं तृतीयस्वरसंयुतम् ।। 63 ।।

तृतीयमथ वै नेमेर्नाभिपञ्चमसंयुतम् ।
द्वितीयस्वरसंयुक्तं द्वितीयं [8]नवमादरात् ।। 64 ।।

अस्यैवाधो नियोक्तव्यं दशमात् प्रथमं हि यत् ।
शुद्धं नेमिद्वितीयं तु पदं त्वसितवाससे ।। 65 ।।

विष्वक्सेनाय तदनु नमस्कारसमन्वितम् ।
द्वात्रिंशार्णो ह्ययं मन्त्रः पदभेदेन वै पुनः ।। 66 ।।

एकाधिकस्तु भवति पदान्यथ निबोध मे ।
द्व्यक्षरं तु पदं पूर्वं द्वितीयं तु[9] नवाक्षरम् ।। 67 ।।

त्रीणि पञ्चाक्षराण्यन्यत् षष्ठं सप्ताक्षरं स्मृतम् ।
अप्ययावसरे प्राप्ते स्मरणे चार्यने[10] विभोः ।। 68 ।।

अक्षस्थं षोडशं नाभेरित्यारभ्य षष्ठं सप्ताक्षरं स्मृतमित्यन्तम् ॐ अः नन्दकानन्दकराय ॠश्यध्वजायानिरुद्धायासितवाससे विष्वक्सेनाय नम इति द्वात्रिंशदक्षरो मन्त्रः समुद्धृतः ।। 57-68 ।।
[1 आ- अ. उ.।]
[2 मं च - अ. उ.।]
[3 मेतन्म- अ. उ.।]
[4 द्वितीय- अटी.।]
[5 तीयं- अ. उ.।]
[6 न्तद्वितयं- अ. अटी.।]
[7 तं- अ.।]
[8 तु तवा- बक. बख.।]
[9 त्वष्टवर्णकम्- बख.।]
[10 वार्चने- अ. उ.।]

श्रृणु मन्त्रचतुष्कं तु पुनरन्यत् समासतः ।
आद्यमेकादशाद् वर्णं पञ्चमस्वरसंयुतम् ।। 69 ।।

युक्तं स्वरेण तेनैव तृतीयं नेमिमण्डलात् ।
द्वितीयस्वरसंयुक्तमथ बाह्यात् तु सप्तमम् ।। 70 ।।

द्वितीयं केवलं नेमेराद्यन्ते प्रणवो नमः ।
शुद्धं त्वथाष्टमं बाह्याद् द्वितीयमथ चाष्टमात् ।। 71 ।।

अथो नेमिद्वितीयेन युक्त नाभ्यपरेण तु ।
केवलं[1] द्वितीयं[2] बाह्या[3]न्नमस्कारमतः परम् ।। 72 ।।

अथाक्षगं नाभिपूर्वं[4] द्वितीयं [5]त्रितयादरात् ।
तदधो द्वितयं[6] द्वितीयं बाह्यान्नाभिपञ्चमसंयुतम् ।। 73 ।।

अथ नाभिद्वितीयेन युक्तं यत् परमाष्टमात्[7] ।।
द्वितीयं[8] केवलं बाह्यान्नमस्कारं[9] ततः परम् ।। 74 ।।

अक्षस्थबीजं तदनु द्वितीयं द्वादशादरात् ।
द्वितीयात् प्रथमं चाथ पञ्चमं नेमिमण्डलात् ।। 75 ।।

केवलं त्रितयं ह्येतद् द्वितीयं च तथाष्टमात् ।
एकादशस्वराक्रान्तं वासुदेवाय वै नमः ।। 76 ।।

सप्ताक्षरस्तु प्राङ्मन्त्रो द्वितीयस्तु षडक्षरः ।
पूर्वतुल्यस्तृतीयस्तु चतुर्थो द्वादशाक्षरः ।। 77 ।।

पदभेदविनिर्मुक्तमेतन्मन्त्रचतुष्टयम् ।
गोपनीयं प्रयत्नेन विधिज्ञैः सिद्धिमीप्सुभिः ।। 78 ।।

एवं ज्ञात्वाऽमृतमयैर्भोगैस्तोष्यश्च पूर्ववत् ।
वैभवीयैर्वृतो देवैश्चतुर्मूतिरधोक्षजः ।। 79 ।।
अथाप्ययक्रमेण व्यूहार्चने मन्त्रचतुष्टयमाह- अप्ययावसर इत्यादिभिः। तथा च ॐ पुरुषाय नमः, ॐ सत्याय नमः, ॐ अच्युताय नमः, ॐ भगवते वासुदेवाय नम इत्यनिरुद्धादिवासुदेवान्तमन्त्रचतुष्कमुक्तं भवति ।। 68-79 ।।
[1 केवल- मु. अटी.।]
[2 द्वितयं- अटी.।]
[3 ह्यात् प्राग्वदाद्यन्तभूषितम्- अ. उ.।]
[4 र्वाद् द्वि- अ.।]
[5 तृतीया- मु. बक. बख.।]
[6 द्वितीयं- बक. बख.।]
[7 मष्ट- बक. बख.।]
[8 केवलं द्वितीयं- बक. बख.।]
[9 रमतः- बख.।]

चतुरङ्गादयं चक्राच्चातुरात्म्यस्य वै [1]विभोः ।
इति मन्त्रगणः प्रोक्तः सरहस्यः समासतः ।। 80 ।।
एतावदन्तमुक्तमर्थं निगमयति- चतुरङ्गादिति। चतुरङ्गाद् नाभ्यरनेमिप्रधिसंज्ञाङ्गचतुष्टयविशिष्टादित्यर्थः ।। 80 ।।
[1 प्रभोः- अटी.।]

अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ।
सर्वक्रियाविनिर्मुक्तमुत्तमं[1] परमार्थतः ।। 81 ।।

चाचुरात्म्यं तदाद्यं वै शुद्धसंविन्मयं महत् ।
वह्न्यर्केन्दुसहस्राभमानन्दा[2]स्पदलक्षणम् ।। 82 ।।
तुर्यव्यूहलक्षणमाह- अभेदेनेति सार्धेन ।। 81-82 ।।
[1 ममूर्तं- अ. उ.।]
[2 न्दस्पन्द- अ. उ.।]

बीजं सर्वक्रियाणां यद्[1] विकल्पानां यदास्पदम् ।
चातुरात्म्यं तु तद् विद्धि द्वितीयममलेक्षण[2] ।। 83 ।।
सुषुप्तिव्यूहलक्षणमाह- वह्न्यर्केति सार्धेन ।। 82-83 ।।
[1 च वि- अटी.।।]
[2 क्षणम्- मु.।]

नित्यं नित्याकृतिधरं तेजसा सूर्यवर्चसम् ।
भिन्नं सितादिभेदेन [1]चोर्ध्वाधः संस्थितेन च ।। 84 ।।

कैवल्यभोगफलदं भवबीजक्षयङ्करम् ।
चातुरात्म्यं तृतीयं तु सुधासन्दोहसुन्दरम् ।। 85 ।।
स्वप्नव्यूहलक्षणमाह- नित्यमिति द्वाभ्याम् ।। 84-85 ।।
[1 ऊर्ध्वा- अ. उ.।]

स्थित्युत्पत्तिप्रलयकृत् सर्वोपकरणान्वितम् ।
प्रकृतिं स्वामधिष्ठाय समुदेत्यस्तमेति च ।। 86 ।।

चतुर्थं विद्धि तद् यस्य विश्वं तिष्ठति शासनात् ।
धत्ते सितादिकं रूपं चतुर्धा यत् कृते युगे ।। 87 ।।

रक्ताद्यं सितनिष्ठं च त्रेतायां हि महामते ।
पीतं कृष्णं सितं रक्तं सम्प्राप्ते द्वापरे युगे ।। 88 ।।

कलौ कृष्णं सितं रक्तं पीतं चानुक्रमेण तु ।
युगसन्ध्याचतुष्के तु बिभर्ति परमेश्वरः ।। 89 ।।

विभिन्नमूर्तिसामान्यं रूपं यत् तन्निबोध मे ।
सितरक्तं कृतान्ते तु रक्तपीतमतः परम् ।। 90 ।।

पीतकृष्णं च तदनु कृष्णशुक्लमनन्तरम् ।
भेदः प्रागुदितैर्ज्ञेय आयुधाम्बरलाञ्छनैः ।। 91 ।।

समत्वादन्यथा[1] केन विभागोऽत्रावधार्यते ।
[2]युगाद्बदिनरात्र्य[3]र्धप्रहराणां क्रमेण तु ।। 92 ।।
जाग्रद्व्यूहलक्षणं तस्य युगभेदेन वर्णभेदं चाह- स्थित्युत्पत्ती[4]त्यादिभिर्विभागोऽत्रावधार्यत इत्यन्तैः। लक्ष्मीतन्त्रेऽप्येवमेवोपबृंहितानि व्यूहलक्षणानि-
वह्न्यर्केन्दुसहस्राभमानन्दा[5]स्पदलक्षणम् ।।
बीजं सर्वक्रियाणां तद् विकल्पानां तदास्पदम् ।
सौषुप्तं चातुरात्म्यं तत् प्रथमं विद्धि वासव ।।
अथ स्वापपदे[6][7] ह्येवं विभज्यात्मानमात्मना ।
देवः प्रागादिभेदेन वासुदेवादिरूपतः ।।
समासव्यासभेदेन गुणानां पुरुषोत्तमः ।
सितरक्तसुवर्णाभ्रसदृशैः परमाद्भुतैः ।।
आदिमूर्तिसमै रूपैश्चतुर्धा [8]ह्यवतिष्ठते ।
कैवल्यभोगफलदं भवबीजक्षयङ्करम् ।।
चातुरात्म्यं द्वितीयं तत् सुधासंदोहसुन्दरम् ।
अथ जाग्रत्पदे देवः सितरक्तादिभेदितैः[9] ।।
चतुर्भुजैरुदाराङ्गैः शङ्खचक्रादिचिह्नितैः ।
नानाध्वजविचित्राङ्गैर्वासुदेवादिसंज्ञितैः ।।
व्यूहैः [10]संप्रविभज्यास्ते विभुर्नाम स्वलीलया ।
जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् ।।
स्थित्युत्पत्तिप्रलय[11]कृत् सर्वोपकरणान्वितम् ।
सर्वं[12] तच्चिन्तयेत्तस्य[13] विश्वं तिष्ठति शासने ।।
त्रिविधं चातुरात्म्यं तु सुषुत्प्यादिपदत्रिके ।
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ।। इति 86-92 ।।
(10/20-27, 40-42)
[1 थाङ्केन- मु. बक. बख.।]
[2 युगपद्दिन्- बख. अ. उ.।]
[3 त्र्युत्थ- अ. उ.।]
[4 त्पत्त्या- अ.।]
[5 नन्दस्पन्द- म.।]
[6 स्वाप्ने- मु.।]
[7 देऽप्येवं- मु.।]
[8 व्यव- मु.।]
[9 भेदतः- मु.।]
[10 संविभ- अ. म.।]
[11 यादि- अ.म. ।]
[12 दिव्यं- मु.।]
[13 द्यस्य- मु.।]

विभागकल्पनं[1] कृत्वा नित्यमालक्ष्य वै प्रभुम् ।
देहेऽस्मिन् मूर्ध्नि हृदये नाभौ तु तदधः पुनः ।। 93 ।।

तस्मादामूर्धपादान्तं भूतये मुक्तयेऽन्यथा ।
ग्रीवांसजानुगुल्फेषु स्मरेत् [2]सन्ध्युक्तलक्षणम् ।। 94 ।।

सृष्टिसंहारयोगेन यः स याति परां गतिम् ।
इत्येकमूर्तेर्व्यूहानां विभवस्याखिलस्य च ।। 95 ।।
वासुदेवादीनां स्मरणस्य कालभेदान् साधकशरीरे [3]स्थानभेदांश्चाह- युगाब्देति त्रिभिः। आलक्ष्य ध्यात्वेत्यर्थः। भूतये ऐश्वर्याय। मुक्तये मोक्षाय। एवं च धामचतुष्टयं मूर्धादिचतुःस्थानेषु क्रमेण वासुदेवादी(नां?न्) स्मरतामैहिकं लौकिकं फलम्, पुनः प्रातिलोम्येन नाभेरध[4]स्तादारभ्य मूर्धान्तं स्थानचतुष्टयेऽनिरुद्धादिवासुदेवान्तान् स्मरतां मूर्तिरूपं फलं च सिध्यतीति भावः। [5]सन्ध्युक्तलक्षणं युगसन्धिभेदेन गृहीतसितरक्तादिशबलरूपं वासुदेवादिचतुष्टयमित्यर्थः ।। 92-95 ।।
[1 नां- अ. उ.।]
[2 संयुक्त- अटी.।]
[3 भेदं चाह-अ.।]
[4 धःस्था- अ.।]
[5 संयुक्त- अ.।]
 
अवतारस्तथा ध्यानमर्चनं मन्त्रपूर्वकम् ।
स्वपदस्थानभेदेन प्रोक्तमेकसमाधिना ।। 96 ।।
उक्तमर्थं निगमयति- इतीति सार्धेन। एकमूर्तेः परात्मरवासुदेवस्य व्यूहानां विभवस्य वासुदेवादीनां तुर्याद्यवस्थाभेदस्येत्यर्थः ।। 95-96 ।।

विशेषोऽप्यथ भेदाख्यस्त्ववतारपुरस्सरः[1] ।
[2]भावस्थितिविधौ चैव सर्वेषामधुनोच्यते ।। 97 ।।
एतेषां विशेष उच्यत इत्याह- विशेष इति ।। 97 ।।
[1 स्सरम्- अ. उ.।]
[2 भावः- मु. बक. बख.।]

षाड्गुण्यमादिदेवाद्यं चातुरात्म्यमलाञ्छनम् ।
सृष्टये त्रितयं ह्येतत् सामर्थ्यं पारमेश्वरम् ।। 98 ।।

लोली[1] भूतमभेदेन स्मरेत् तुर्यात्मना पुरा ।
नित्योदितं च सुपदे स्थितमस्पन्दलक्षणम् ।। 99 ।।
विशेषमाह- षाड्गुण्यमिति द्वाभ्याम्। पारमेश्वरं सामर्थ्यं सामर्थ्यशक्तिरूपम्, एतत्त्रितयं सुषुप्त्यादिव्यूहत्रयम्, सृष्टये सृष्ट्यर्थं लोलभूतं स्मरेत्। अस्पन्दलक्षणम् अलोलभूतम्, नित्योदितं परात् परं भगवन्तमेव तुर्यात्मना तुर्यव्यूहरूपेण, अभिन्नं स्मरेदित्यर्थः ।। 98-99 ।।
[1 लोलभूतमिति भाष्यकारसंमतः पाठः।]

अथार्चितुं यमिच्छेत्तु विशेषव्यक्तिलक्षणम् ।
सङ्कल्प्य[1] तं स्व[2]बुद्ध्या तु तत्कालसमनन्तरम् ।। 100 ।।

[3]ध्रुवा सामर्थ्यशक्ति[4]र्यै स्पन्दतामेति च स्वयम् ।
सूतेऽग्निकणवन्मन्त्रं यत्र मन्त्री कृतास्पदः ।। 101 ।।

तमागतमिवाकाशात्[5] तारकं कर्णिकान्तरे ।
भावयेदथ तन्मध्यादाराध्यमुदितं स्मरेत् ।। 102 ।।

आदिमूर्तिस्वरूपेण चतुर्मूर्तिमयेन वा ।
पृथक्त्वेन चतुर्मूर्तेरेकैकाकृतिनाऽप्यथ ।। 103 ।।

अथवा वैभवीयेन नानाकृत्यात्मना तु वै ।
अङ्गसंङ्घं तदीयं च न्यसेत् पद्मदलाश्रितम् ।। 104 ।।

परिवारं बहिः पद्मात् स्वकं[6] यो यस्य विद्यते ।
सशक्तिकस्य मन्त्रस्य दिक्क्रमेण[7] हृदादि यत् ।। 105 ।।
अर्चनार्थं भगवदवतरणक्रममाह- अथेति सार्धैः पञ्चभिः[8]। यः साधको विशेषव्यक्तिलक्षणं परव्यूहविभवाख्यतत्तन्मूर्तिविशिष्टं भगवन्तमर्चितुमिच्छेत्, तं साधकं स्वबुद्ध्या संकल्प्य स्वाभिमुखं ज्ञात्वा तत्कालसमनन्तरं [9]तदिच्छानन्तरमेव सामर्थ्यशक्तिः स्वयमेव स्पन्दतामेति। मन्त्री साधकः, यत्र कृतास्पदः, यन्मन्त्रमिच्छति तन्मन्त्रमग्निकणवत् सूते च। तत्स्पन्दनमात्रेणाऽग्नेः स्फुलिङ्गवन्मन्त्रः समुद्भूतो भवतीति भावः। तन्मन्त्रमाकाशात् तारकमिव कर्णिकान्तरे हृत्कमलकर्णिकामध्ये आगतं भावयेत्। तन्मध्यात् मन्त्रमध्यात्, आराध्यं मन्त्रनाथम्, आदिमूर्तिस्वरूपेण परवासुदेवरूपेण। यद्वा चतुर्मूर्तेर्व्यूहस्य पृथक्त्वेन, एकैकाकृतिना केवलमेकैकमूर्तिरूपेण, आहोस्विन्नानाकृत्यात्मना वैभवीयेन रूपेण पद्मनाभादिभेदेन, उदितम् उत्पन्नं स्मरेत् ।। 100-105 ।।
[1 ल्पितं- अटी.।]
[2 सु- उ.।]
[3 विद्धि- बक. बख. अ. उ., धृत्वा- अटी.।]
[4 क्तिं वै- अटी.।]
[5 दारक्तं- उ.।]
[6 स्वयं- अ.उ.।]
[7 क्रमेण हृदयादि- बक. बख.।]
[8 श्चतुर्भिः- म.।]
[9 ततश्चा- अ.।]

न्यसेत् केसरजालस्थं पत्र[1]मध्ये तु शक्तयः ।
निःशक्तिको निरङ्गो यो मन्त्रनाथस्तु केवलः ।। 106 ।।

शब्दमात्रेण [2]तं भूयो दलजालगतं[3] यजेत् ।
इत्येवमन्तर्यागस्तु देवस्य परमात्मनः[4] ।। 107 ।।
(निः? स)शक्तिकस्य मन्त्रस्य प्रागादिदलेषु हृदयाद्यङ्गमन्त्रन्यासं कमलाद् बहिस्तत्तत्परिवारन्यासं चाह- सशक्तिकस्येति[5]। एवं दलेषु लक्ष्म्यादिशक्तिन्यासनियमस्य प्रायिकत्वं बोध्यम्। यतोऽत्रैव त्रयोदशे परिच्छेदे-
षट्कं केसरजालस्थं तत्र प्राक् पश्चिमे द्वयम् ।
द्वयं द्वयं सौम्ययाम्ये ता[6] सां वामकरेषु च ।। (13/52-53)
इति केसरस्थानेऽपि शक्त्यवस्थानमुक्तम्। सप्तदशपरिच्छेदेऽपि-
नेमिभागे श्रियं देवीं पुष्टिमुत्तरतो न्यसेत् ।
पृष्ठदेशे स्थितां निद्रामग्रभागे सरस्वतीम् ।। (17/70)
इति कमलाद् बहिरपि शक्तिन्यास उक्तः। किञ्च, सात्वतोपबृंहणे ईश्वरे पारमेश्वरे च- "देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे" (ई. सं. 4/79; पा. सं. 6/249) इति कर्णिकायामपि देवस्य पार्श्वद्वये शक्त्यर्चनमुक्तम् ।। 105-106 ।।
निःशक्तिकत्वनिरङ्गकत्वोभयविशिष्टस्य भगवतस्तु केवलमन्त्रमात्रेण भागस्थानेऽप्यर्चनमाह- निःशक्तिक[7] इति ।। 106-107 ।।

[1 पद्म- बक. बख.।]
[2 तद्- मु. अटी. बक. बख.।]
[3 जात- मु. अटी.।]
[4 चतुरा- अ. उ.।]
[5 कस्येति द्वाभ्याम्- अ. म.।]
[6 तेषां - अ. म.।]
[7 `निःशक्तिक इति' नास्ति- अ.।]

समासेनोदितः सम्यगथ मूर्तेर्यजेद् बहिः ।
वेद्यां पुराहृतैर्भोगैर्बिम्बे वा[1] चक्रपङ्कजे ।। 108 ।।
उक्तमर्थं निगमयति- इतीति ।। 107-108 ।।
[1 वाचक- अ. उ.।]

हेमादिद्रव्यजनिते चक्रे वा केवलाम्बुजे ।
भद्रपीठभुवो मध्ये सुश्लक्ष्णे केवले तु वा ।। 109 ।।

ध्यात्वा ध्यात्वा स्वमन्त्रेण ह्यप[1]वर्गफलाप्तये ।
सम[2]र्चनीयं विधिवच्छ्रुद्धाभक्तिपुरस्सरम् ।। 110 ।।
बहिर्यागस्तानान्याह- वेद्यामित्यादिभिः ।। 108-110 ।।
[1 अप- अ. उ.।]
[2 नास्त्येषा पङ्क्तिः- अ. उ.।]

इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां
पञ्चमः परिच्छेदः ।।

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमला[1]र्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये पञ्चमः परिच्छेदः ।।
[1 कमलसेवा- अ.।]