← अध्यायः १७ सात्त्वतसंहिता
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
सात्त्वतसंहितायाः अध्यायाः


अष्टादशः परिच्छेदः
नारद उवाच[1]

एवमुक्ते सति पुनः कामपालो मुनीश्वराः ।
उवाचेदं हरिं वाक्यं लोकानुग्रहकाम्यया ।। 1 ।।
अथाष्टादशः परिच्छेदो व्याख्यास्यते। संकर्षणः पृच्छतीत्याह- एवमिति ।। 1 ।।
[1 `उवाच' नास्ति- मु. अटी.।]

सङ्कर्षण उवाच[1]
सम्प्राप्तप्रत्ययानां च द्विजातीनां च साम्प्रतम् ।
सम्यक् प्रक्षीणपापानामारूढानामिह क्रमे ।। 2 ।।

दीक्षात्रयस्य भगवन् ज्ञातुमिच्छामि निर्णयम् ।
यत्प्राप्य भगवद्भक्तः कृतकृत्योऽचिराद् भवेत् ।। 3 ।।
प्रश्नप्रकारमाह- सम्प्राप्तेति द्वाभ्याम् ।। 2-3 ।।
[1 `उवाच' नास्ति- मु. अटी.।]

श्रीभगवानुवाच[1]
शुभेऽनुकूले नक्षत्रे तिथौ लग्ने ग्रहे[2]क्षिते ।
भक्तानामधिवासार्थं क्ष्मापरिग्रहमाचरेत् ।। 4 ।।

पुण्ये देशेऽनुकूले च मनोज्ञे साधुसेविते ।
मृद्वारिफलपुष्पाढ्ये समित्कुशसमन्विते ।। 5 ।।

गोसस्यशालिसुभगे क्षुद्रप्राणिविवर्जिते ।
तत्र वर्णानुरूपां क्ष्मां गच्छेत् पूर्वोक्तलक्षणाम् ।। 6 ।।

सर्वदोषविनिर्मुक्तां सत्पक्षिमृगसेविताम् ।
या शुभायतनोद्देशै[3]र्मठैर्गोष्ठापणैर्गृहैः ।। 7 ।।

तोयाशयाश्रमैः क्षेत्रैः सद्वृत्तैरन्तरीकृता ।
जलौघभयनिर्मुक्ता बलाद् भुक्ता च सज्जनैः ।। 8 ।।

वनैरुपवनैर्ग्रमैर्नगराङ्गैः समावृता ।
अलाभे सति लाभे वा स्वभूमेर्ब्राह्मणादिषु ।। 9 ।।

स्वमन्त्रेणार्चनात् स्वत्वं कुर्याद् वर्णव्यपेक्षया ।
उद्धतां कृतखातां च ज्ञात्वा दोषोज्झितां पुरा ।। 10 ।।

शुभमृत्पूरितां कृत्वा लघ्वश्मभिरथान्तरा ।
ततस्त्वाकुट्टयेत् पश्चात् पञ्चगव्येन सेचयेत् ।। 11 ।।

युक्तां हेमादिसद्रत्नैः समीकृत्योपलिप्य च ।
तत्रार्चनं विभोः कुर्याद् ध्यानान्तं चैव पूर्ववत् ।। 12 ।।

भूतानां बलिदानं च सुरभीणां च तर्पणम् ।
द्विजानां दक्षिणान्तं वै ततस्तत्र समापयेत् ।। 13 ।।

प्राग्दिक्षु सिद्धिपूर्वं तु मण्टपं मण्डनान्वितम् ।
सुस्तम्भद्वितयेनैव कोणगेनोपशोभितम् ।। 14 ।।

पार्थिवेन च पीठेन मध्यगेन विराजितम् ।
विस्तरात्तु द्विजादीनां शूद्रान्तानां समं स्मृतम् ।। 15 ।।

अष्टाश्रमथवा वृत्तं तुर्याश्रं सोपपीठकम् ।
अष्टाङ्गुलात् समुत्सेधादेकापायेन लक्षितम् ।। 16 ।।

स्वोन्नत्यर्थेनोपपीठं सर्वेषां परिकल्पयेत् ।
विस्तारमुपपीठानां पीठोच्छ्रायाद् द्विसंगुणम्[4] ।। 17 ।।

उपपीठस्य संलग्ना तन्मानेन तु चोन्नता ।
आप्यदिक् साग्रहस्ता च सम्पाद्याऽऽसनपिण्डिका ।। 18 ।।

नैवेद्यमुपपीठे तु विनिवेद्य निधाय च ।
तस्य दक्षिणदिग्भागे त्वन्तर्गमनसंयुतम् ।। 19 ।।

विविक्तलोचनोपेतं पिण्डिकाकुण्डभूषितम् ।
सुक[5]वाटार्गलोपेतं कुर्याद् हवनमण्टपम् ।। 20 ।।

उपलिप्यास्त्रजप्तेन वारिणा गोमयेन तु ।
विधिवच्छोभनं कुर्यादित्येवं मण्टपद्वयम् ।। 21 ।।

विहितो वित्तविरहादधिवासो द्विजालये ।
शिष्यैर्वाऽऽचार्यभवने तत्र कुर्यात् परिग्रहम् ।। 22 ।।

प्राग्वदर्चनपूर्वं तु भूततर्पणपश्चिमम् ।
ओदनं दधिलाजाज्यं[6] मधुतोयपरिप्लुतम् ।। 23 ।।

भूततर्पणमित्युक्तं तद्विना तत्र तेऽनिशम्[7] ।
सन्तिष्ठन्ते बहिः क्रुद्धाः काङ्क्षमाणाः परं वधम् ।। 24 ।।

अतश्च विहितं यत्नात् स्थाने क्षेत्रे कृते सति ।
निर्विघ्नसिद्धये दद्याद् बलिं सर्वत्र सर्वदा ।। 25 ।।
एवं पृष्टो वासुदेवः प्रथमं क्ष्मापरिग्रहपूर्वकं दीक्षामण्ड[8]पनिर्माणप्रकारमाह- शुभेऽनुकूले नक्षत्र इत्यारभ्य बलिं सर्वत्र सर्वदेत्यन्तम् ।। 4-25 ।।
[1 `उवाच' नास्ति- मु. अटी.।]
[2 गुहे- मु.।]
[3 शे मठगो- बक. बख.।]
[4 द्विगुणं समम्- बक. बख.।]
[5 सत्क- बक., सक- बख.।]
[6 जाज्य- मु. अटी.।]
[7 तेऽनिशाम्- मु., ते निशाम्- अटी.।]
[8 `मण्डपनिर्माण' नास्ति- अ.।]

कृत्वैवं मङ्गलार्थं तु [1]दीर्घं घण्टारवं शुभम् ।
स्वपदात् प्राग्वदुत्थाप्य प्रोच्चार्य प्रणवं महत् ।। 26 ।।

प्रवेशयेत् ततस्तस्मिन् लाजान् सिद्धार्थकान् शुभान् ।
फलानि श्रीफलादीनि चन्दनादीनि रोचनाम् ।। 27 ।।

श्वेतपूर्वाः सुमनस[2]स्तन्महीरुहमञ्जरीम् ।
साग्रान् हरितदर्भांश्च सर्वरत्नानि काञ्चनम् ।। 28 ।।

सर्वौषधीत्वगेलाद्यं सुगन्धिनिचयं शुभम् ।
पद्मकं शङ्खपुष्पं च विष्णुक्रान्ता[3] च कुन्दरम् ।। 29 ।।

सप्त सप्त च धान्यानि बीजानि च समानि षट् ।
शालिश्यामाकनीवारतण्डुलं भूरिसंस्कृतम् ।। 30 ।।

गोसम्भवानि वै पञ्च पात्रेष्वौदुम्बरेषु च ।
तत् स्राववर्जितान्यानि तान्येव सुबहून्यपि ।। 31 ।।

प्रतिक्षणोपयोगार्थं भाण्डेष्वपि नवेषु च ।
पाद्याचमनकार्यार्थं दध्यन्न[4]विनिवेदने ।। 32 ।।

हेमाद्युत्थानि पात्राणि मृदुपर्णपुटानि वा ।
पाण्डराणि[5] दुकूलानि वस्त्रयुग्मद्वयं नवम् ।। 33 ।।

उपवीतं सोत्तरीयं सुसिते धौतवाससी ।
कौशेयानि पवित्राणि कङ्कणं साङ्गुलीयकम् ।। 34 ।।

स्फाटिकं चाक्षसूत्रं च पत्राक्षं तु गणित्रयकम्[6] ।
पञ्चलोहमयं चक्रं सशङ्खं द्वादशारकम् ।। 35 ।।

कुतपं योगपट्टं च नेत्रवस्त्रं मृगाजिनम् ।
ब्रु[7] सीकाशांशुकं पट्टं पादुके च उपानहौ ।। 36 ।।

दण्डं प्रतिग्रहं छत्रं पूर्णगोधूमकाष्ट[8]कम् ।
चतुर्वर्णानि माल्यानि सुन्दरं पावनं लघु ।। 37 ।।

नीलशाद्वलसम्मिश्रं हरितं पत्रसंचयम् ।
गुग्गुलं मृष्टधूपं च दीपतैलं च वर्तयः ।। 38 ।।

दर्पणं धूपपात्रं च घण्टामर्घ्यादिपात्रकम् ।
रजांसि करणीयुग्मं [9]पालिकां घटिकां सिताम् ।। 39 ।।

पञ्चाङ्गलं तु सुदृढं हेमाद्यं कुशपञ्चकम् ।
अलक्तरञ्जितं सूत्रं सुसितं[10] कर्तरी क्षुरम् ।। 40 ।।

काण्डान्यष्टौ तु साग्राणि बर्हिपक्षान्वितानि च ।
प्रोन्नतानि स्थिराग्राणि लोहमृत्का[11]ष्ठजानि वा ।। 41 ।।

रञ्जितानि सुधाद्यैस्तु तदाधाराणि यानि च ।
कुल्लिकान्यम्बुकुम्भानि भृङ्गारं करवीं शुभाम् ।। 42 ।।

अकालमूलनिर्गर्भं[12] साधारं कलशं तथा ।
स्थालीं कमण्डलुं दर्वीं तत्पिधानं तु चुल्लिकाम्[13] ।। 43 ।।

भद्रपीठं चतुष्पादं चतुरश्रायतं नवम् ।
मात्रावित्तं सताम्बूलं दन्तधावनसञ्चयम् ।। 44 ।।

शुष्कगोमयसंयुक्तामरणिं चाग्निजं[14] मणिम् ।
पालाशदूर्वासमिधः[15] साग्राः परिधयस्तु वै ।। 45 ।।

प्रभूतमिन्धनं शुष्कमाज्याक्तं तिलतण्डुलम् ।
प्रागुक्तं स्रुक्स्रुवाद्यं च होमोपकरणं च यत् ।। 46 ।।

सर्वं पक्ष्मकपर्यन्तं बृहत्पात्रद्वयान्वितम् ।
पूर्वोक्तानां च भोगानां मध्याद् यः[16] स्थण्डिलार्चने ।। 47 ।।

संयाति चाङ्गभावं तद् ज्ञात्वा सर्वं प्रवेशयेत् ।
सम्भारार्जनमाह- कृत्वैवमित्यादिभिः। सप्त सप्त च धान्यानि ग्राम्यारण्यभेदभिन्नानीश्वरपारमेश्वरयोर्हविःपाकप्रकरणोक्तानि (ई. सं. 25/58-59; पा. सं. 18/134-136) ज्ञेयानि। अस्मिन्नवसरेऽङ्कुरप्रतिसरावीश्वरोक्तौ (21/75) ग्राह्यौ, अत्रापि सम्भारवर्गे "[17]पालिकां घटिकाम्" (18/39) इत्युक्तत्वात् ।। 26-48 ।।
[1 दीर्घघण्टारवोपमम्- - बक. बख.।]
[2 नसः सन्म- मु. अटी.।]
[3 क्रान्तां च कुन्दकम्- बक. बख.।]
[4 दध्यन्नं विनिवेदयेत्- मु. अटी. ।]
[5 पाण्‍डु- अटी.।]
[6 गुणि- मु., गुणा- अटी.।]
[7 ब्रूसिका- अटी., ब्रुसिकां शाटकं- बक. बख.।]
[8 माषजे- बक. बख.।]
[9 शालिकां- मु. अटी.।]
[10 सुशिता- मु. अटी.।]
[11 हृत्- मु. अटी.।]
[12 निर्गभं- मु., निर्द्दाभं- बक. बख.।]
[13 पुल्लि- बक. बख.।]
[14 चाग्निभं- अटी.।]
[15 पूर्वाः- बक. बख.।]
[16 द्यत्- मु.।]
[17 पालिकायां- अ. मु.।]

अनुग्रहधियाऽऽचार्यो भक्तानां भविनां[1] विभोः ।। 48 ।।

दिव्यभोगो[2]पलिप्सूनां निःश्रेयसपदार्थिनाम् ।
प्रत्येकैकं हि यद्[3] गाङ्गे वर्धयेद् द्रव्यमूर्तिना ।। 49 ।।

नित्येनाव्यक्ततत्त्वेन सन्मन्त्रब्रह्मणा[4] सह ।
सार्थं[5] सर्ष्यादिकं दद्यान्मन्त्रव्यूहं यथागमम् ।। 50 ।।

फलदं स्यात् सकामानामकामानां हि मोक्षदम् ।
शिष्याणां बहुत्वे प्रत्येकं यागद्रव्याणा(मप्य?मपि) वृद्धिमाह- अनुग्रहधियेति त्रिभिः ।। 48-51 ।।
[1 भाविनां- मु. ।]
[2 भोगफले- बक. बख.।]
[3 या- बक. बख. ।]
[4 ब्राह्मणा- बक. बख.।]
[5 स्वात्मकर्म द्रुमद्रव्यं मन्त्र- बक. बख.।]

ससहायस्ततस्तत्र[1] प्राग्वत् स्नात्वा कृताह्निकः ।। 51 ।।

सम्प्रविश्याप्यदिक्संस्थः प्राङ्मुखः प्रविशेत् ततः ।
पद्मासनादिना मार्गे चर्मण्या[2]चामपूर्वकम् ।। 52 ।।
अथ स्नानाह्निकादिपूर्वकं स्वासनोपवेशनमाह- ससहाय इति। ससहायः सपरिचारक इत्यर्थः। मार्गे चर्मणि एणाजिन इत्यर्थः ।। 51-52 ।।
[1 सह साध्यः- मु. बक. बख.।]
[2 ण्यास्यात् प्रपू- बक. बख.।]

कुर्याद् यदधिकारेण मन्त्रेणानुग्रहं शिशोः ।
तेनाङ्गसहितेनैव सर्वं कर्म समाचरेत् ।। 53 ।।
येन मन्त्रेण दीक्षा क्रियते, तेनैवाङ्गसहितेन सर्वकर्माचरणमाह- कुर्यादिति ।। 53 ।।

समस्तैर्वैभवैर्मन्त्रैः कार्यो वाऽनुग्रहो यदि ।
सर्वाराधनदानार्थं वा[1] द्विषट्काप्तये तदा ।। 54 ।।

विशाखयूपमन्त्रेण कुर्यात् तद्धारणाद्वयम् ।
तद्बीजेन तनुं व्याप्य प्राग्वत् तदभिमन्त्रितैः ।। 55 ।।

पुराहृतैर्यथाशक्ति मण्डलं[2] च समाचरेत् ।

सर्वाराधनादियोग्यतासिद्ध्यर्थं समस्तैरपि वैभवमन्त्रैर्युगपदेव दीक्षाप्रकरणे समस्तविभवदेवानामपि कारणभूतस्य विशाखयूपस्य मन्त्रेण दहनाप्यायनाख्यधारणद्वयात्मकभूतशुद्ध्यनुष्ठानं पूर्वोक्तेन विशाखयूपबीजेनैव स्वशरीरे व्यापकन्यासं तदभिमन्त्रितैरेव सितादिरागैर्मण्डलपूरणं चाह- समस्तेति सार्धद्वाभ्याम् ।। 54-56 ।।
[1 वषट्कारा- बक.।]
[2 मण्डनं- मु. अटी.।]

प्राक् समालभनैर्वस्त्रैः कटकाद्यङ्गुलीयकैः ।। 56 ।।

सितोष्णीषेण महता सितमाल्येन वै सह ।
मुखवासैः सताम्बूलैर्ललाटतिलकेन च ।। 57 ।।

कृत्वा शुभेन शारीरं योगपट्टेन संस्थितम् ।
आदौ स्वस्य गन्धाद्यलङ्करणादिकमाह- प्रागिति द्वाभ्याम् ।। 56-58 ।।

हृत्पुण्डरीकमध्ये तु संन्यसेद् बीजमैश्वरम् ।। 58 ।।

करयोः पद्मनाभीयं ध्रुवाख्यमथ विग्रहे ।
शेषैरालभ्य पादान्तमामूर्ध्नश्चापि पूर्ववत् ।। 59 ।।

हस्तयोर्विग्रहे साङ्गं विन्यसेद् बीजमैश्वरम् ।
मुद्रावसानं कृत्वैवं[1] सम्यक् तदनु चाहरेत् ।। 60 ।।

पाणिभ्यां शङ्खचक्रे द्वे स्वमन्त्रेणाभिमन्त्रिते ।
भूत्वा तदात्मना पश्चात्ते निधाय धरातले ।। 61 ।।

अवलोक्याखिलं तत्स्थं प्रवर्तेताथ कर्मणि ।
हृदये विशाखयूपबीजन्यासं करयोः पद्मनाभबीजन्यासं शरीरे ध्रुवबीजन्यासमवशिष्टैरनन्तादिषट्त्रिंशद्बीजैरामूर्ध्नः पादान्तमभिमर्शनं पुनर्हस्तयोर्विग्रहे च विशाखयूपबीजेन षडङ्गन्यासं विभवमुद्रादर्शनं हस्ताभ्यां शङ्खचक्रादानं तन्मन्त्राभ्यां तयोरभिमन्त्रणं स्वस्य तादाम्त्यमावलम्बनादिकमखिलसम्भाराणामपि चक्रशङ्खान्तर्गतत्वेनावलोकनपूर्वकं कर्मप्रारम्भं चाह- हृत्पुण्डरीकेति चतुर्भिः ।। 58-62 ।।
[1 कृत्वैव- मु. अटी.।।]

अस्त्राभिमन्त्रितं कृत्वा [1]कर्म भृङ्गान्तरे स्थितम् ।। 62 ।।

तेनोपलिप्य सम्मार्ज्य यागस्थानं निघृष्य च ।
तद्ब्रह्माख्यावधौ[2] भूयस्तेजसो[3] हि विवृद्धये ।। 63 ।।

हेमपूर्वाणि रत्नानि बीजानि विनिवेश्य च ।
गालितेनाम्भसाऽऽपूर्य ततः पात्रचतुष्टयम् ।। 64 ।।
यागगेहशोधनालङ्करणमाह- अस्त्राभिमन्त्रितमिति द्वाभ्याम् ।। 62-64 ।।
[1 कर्मागारा- बक. बख.।]
[2 ख्य वयो- बक. बख.।]
[3 सोऽभिवि- बख. अटी.।]

गालितेनाम्भसाऽपूर्य ततः पात्रचतुष्टयम् ।। 64 ।।

एकस्मिन् चन्दनादीनि पूर्वं सिद्धार्थकानि च ।
साक्षतानि कुशाग्राणि तण्डुलानि तिलांस्तु वै ।। 65 ।।

सरत्नानुत्तमान् धातून् सफलान् विनिवेशयेत् ।
द्वितीये दधिमध्वाज्यक्षिरबिन्दुचतुष्टयम् ।। 66 ।।

कुशाग्रेण सबाह्लीकं सपुष्पं [1]तिलतण्डुलम् ।
दूर्वां [2]सविष्णुक्रान्तां च श्यामाकं शङ्खपुष्पिकाम् ।। 67 ।।

पद्मकं च तृतीये तु कुन्दरेणु[3]समन्वितम् ।
त्वगेलाद्यचयं सर्वं सकर्पूरं च चन्दनम् ।। 68 ।।

विनिक्षिप्य चतुर्थे तु द्रव्यं सर्वमिदं शुभम् ।
हृन्मन्त्रेण चतुर्णां तु कुर्याद् वै द्रव्ययोजनम् ।। 69 ।।

सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु ।
सषडङ्गेन तेनैव कुर्यात् पुष्पादिनाऽर्चनम् ।। 70 ।।

यथाक्रमेण सर्वेषां ध्येयं सर्वं सुधोपमम् ।
अर्घ्यादिपरिकल्पनक्रममाह- गालितेनेत्यादिभिः। पात्रचतुष्टयम् अर्घ्यद्वितीयार्घ्यपाद्याचमनपात्रचतुष्टयमित्यर्थः। एकस्मिन् प्रधानार्घ्ये। चन्दनादीनीत्यत्रादिपदेन कर्पूरकुङ्कुमे ग्राह्ये, "चन्दनं शशिबाह्लीकौ (6/42) इति पारमेश्वरे विवृतत्वात्। सिद्धार्थक श्वेतसर्षपः। साक्षतानि शोभनाक्षतसहितानि। पारमेश्वरव्याख्याने तु क्षतिरहितानीति कुशाग्रविशेषणं कृतम्। उत्तमान् धातून् सुवर्णरजतताम्रान्। तथा विवृतं पारमेश्वरे- "काञ्चनं रजतं ताम्रम्" (6/43) इति। सफलान् कदल्यादि- फलान्वितानित्यर्थः। तथा च पारमेश्वरे- "कदलीफलपूर्वाणि प्रधानार्घ्ये विनिक्षिपेत्" (6/43) इति। सबाह्लीकं सकुङ्कुमम्। विष्णुक्रान्ता प्रसिद्धा। श्यामाकः मुनिप्रियः। श्याम[4] अरिशि, "शामाको नीलपुष्पः[5] स्यात् स्मयाकश्च मुनिप्रियः" (3/8/58) इति वैजयन्ती।शङ्खपुष्पं कर्णाटभाषायां विषप्रहरी। पद्मकं वैद्यग्रन्थे प्रसिद्धम्। कुन्दरेणुः कुन्देन सहिता रेणुः, कुन्दो नाम वालुक्याख्यस्तृणविशेषः। "वालुकं चाथ वालुक्यं मुकुन्दः कुन्दकुन्दरू" (अ. 2/4/121) इति नैघण्टुकाः[6]। कर्णाटभाषायां कर्णिकेय हल्लु[7]। रेणुर्नाम रेणुका, तथैव प्रसिद्धो गन्धद्रव्यविशेषः। "हरेणू[8] रेणुका कौन्ती" (2/4/120) इत्यमरः। अथवा "कुन्दरेण समन्वितः" इति पाठे कुन्दरः पूर्वोक्तः कुन्द एव। वस्तुतस्तु तथैव पाठः सरसः। पूर्वं सम्भारार्जनप्रकरणे "विष्णुक्रान्ता च कुन्दरम्" ((18/120) इत्यमरः। अथवा "कुन्दरेण समन्वितः" इति पाठे कुन्दरः पूर्वोक्तः कुन्द एव। वस्तुतस्तु तथैव पाठः सरसः। पूर्वं सम्भारार्जनप्रकरणे "विष्णुक्रान्ता च कुन्दरम्" (18/29) इति कुन्दमात्रस्योक्तत्वात्, रेणुकाया अनुक्तत्वाच्च। त्वगेलाद्यचयं त्वग् लवङ्गः, "त्वक्पत्रमुत्कटं भृङ्गम्" (2/4/134) इत्यमरः। एला प्रसिद्धा। तदाद्यानां द्रव्याणां चयं समूहम्। अत्राद्यशब्देन तक्कोलजातिफले ग्राह्ये। तथोक्तं पारमेश्वरे- "एलालवङ्गतक्कोलैः सह जातीफलानि च" (6/46) इति। एषामर्घ्यादीनां स्थाननियमादिकं षष्ठपरिच्छेदे (6/9-11) प्रदर्शितम्। दहनाप्यायनादिकं तु नृसिंहकल्पपरिच्छेदे (17/17-27) प्रदर्शितम्। तत्सर्वं संगृहेश्वरादिषु[9] सुव्यक्तमुक्तं द्रष्टव्यम्।। 64-71 ।।
[1 सित-मु. अटी.।]
[2 च वि- बख.।]
[3 कुन्दरेण- मु. अटी. बक. बख.।]
[4 षडङ्गेन च - मु.।]
[5 शामेधरिशि- मु.।]
[6 पुष्पा स्यान्मायाकच- अ. मु.।]
[7 नैखण्डुकाः- अ.।]
[8 हुब्लु- मु.।]
[9 हरेणु- अ.मु.।]
[10 ईश्वरे तृतीयाध्याये पारमेश्वरे च षष्ठाध्याये विषयोऽयं द्रष्टव्यः।]

आवाहने सन्निधाने सन्निरोधे तथार्चने ।। 71 ।।

विसर्जनेऽर्घ्यदानं[1] तु प्राक्पात्रा[2]न्नित्यमाचरेत् ।
तदम्भसा चार्हणं तु तथैव परिषेचनम् ।। 72 ।।

कुर्यात् प्रणयनादानं[3] प्रीणनं प्रीतिकर्म च ।
प्रधानार्घ्यस्य विनियोगमाह- आवाहन इति। प्रणयनादानं प्रणयनं पात्रान्तरे सेचनम्, तत्पूर्वकमादानं ग्रहणम्। तच्च "तर्पणं संप्रतिष्ठाप्य वासितं चार्घ्यवारिणा" (6/376) इति पारमेश्वराद्युक्तप्रकरणेषूपयुक्तं ज्ञेयम् ।। 71-73 ।।
[1 दानान्तं- अटी.।]
[2 पात्रं नित्य- बक. बख.।]
[3 यनं दानं- मु. अटी.।]

प्रोक्षणं सर्ववस्तूनाम् अन्यस्मादुदकेन तु ।। 73 ।।

आरम्भे सर्वकार्याणां तत्समाप्तौ [1]तथैव हि ।
न्यू[2]नाधिकानां शान्त्यै[3] तु ज्ञान[4]व्यत्ययशान्तये ।। 74 ।।

कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मना विभोः ।
कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ।। 75 ।।

सम्पूजने च भूतानां गुर्वीदीनां महामते ।
दक्षशिष्यात्मपूजार्थमुक्तानुक्तार्चनं प्रति ।। 76 ।।
द्वितीयार्घ्यविनियोगमाह- अन्यस्मादित्यारभ्योक्तानुक्तार्चनं प्रतीत्यन्तम्। न्यूनाधिकानां कार्याणामित्यनुषङ्गः। एवं च सर्वकार्येष्वपि समाहितस्यापि कर्मज्ञानवैपरीत्याद् दोषः संभवत्येव। तच्छान्त्यर्थं सर्वकार्याणामारम्भेऽवसाने च भगवते सकृत् सकृत् समर्पणीयमिति भावः ।
कुम्भोपकुम्भकुण्डानां कुम्भस्य महाकुम्भस्य ये उपकुम्भास्तेषां कुण्डस्य चेत्यर्थः। यद्वा कुम्भा महाकुम्भस्य प्रागादिषु स्थापिताः कलशाः, उपकुम्भाः शान्तिकादिषूक्त[5]प्रकारेण तदुपरि स्थापिताः कलशा इत्यर्थः। मन्त्रास्त्रकलशार्चने मन्त्राणामुपकुम्भेषु कुण्डमेखलास्थितकूर्चादिषु च संस्थितवासुदेवादिमन्त्राणामस्त्रकलशस्य[6] चार्चन इत्यर्थः। महाकुम्भस्थायार्घ्यदानं तु प्रधानार्घ्यजलेनैवेति ज्ञेयम्। भूतानां संपूजने कुमुदाद्यर्चन इत्यर्थः। "संपूजने च भोगानाम्" (6/115) इति पाठान्तरमुक्तं पारमेश्वरे, तथैव विवृतं तद्व्याख्याकारैरपि। गुर्वादीनामित्यत्र दक्षशिष्यात्मपूजार्थमित्यत्र च तत्तद्विग्रहविन्यस्तमन्त्रार्चनविषयमिति बोध्यम्। उक्तानुक्तार्चनं प्रतीति संक्षेपेणोक्तम्।
विशदीकृतमीश्वरपारमेश्वराभ्याम्-
दक्षशिष्यात्मपूजार्थं[7] द्वार्स्थानामर्चनं प्रति ।
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा ।।
लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् ।
मण्डलावरणस्थानां देवानां चाऽर्चने तथा ।।
मुद्राबन्धे कराभ्युक्षं[8] तदर्चा[9] क्षालनं तथा ।
जप[10]कालेऽक्षसूत्रस्य कुर्यात् [11]तत्क्षालनं तथा ।। इति ।। 73-76 ।।
(ई. सं. 3/94-96; पा. सं. 6/115-118)

[1 सदैव- बख.।]
[2 ऊना- मु. अटी. बक.।]
[3 साम्ये- मु. अटी.।]
[4 ज्ञातव्यं त्वघ- मु. अटी.।]
[5 षूक्ते प्रकरणे- अ.।]
[6 शस्यार्चने- अ.।]
[7 र्थमुक्तानुक्तार्चनं- अ. मु.।]
[8 भ्युक्षां- पा., सुक्षिं- ई.।]
[9 तदर्था- अ. मु.।]
[10 नास्त्येषा पङ्क्तिः- ई.।]
[11 तत्पूजनं- पा.।]

पाद्यदानं तृतीयात् तु नित्यं पात्रात् समाचरेत् ।
चतुर्थात् तु यथाकालं दद्यादाचमनं ततः ।। 77 ।।

पाद्यविनियोगमाह- पाद्यदानमित्यर्धेन ।
आचमनविनियोगमाह- चतुर्थादित्यर्धेन ।। 77 ।।

मुख्यार्घ्यवारिणा प्रोक्ष्य पृथग् भाण्डस्थितं पुरा ।
पञ्चगव्यं ततः प्राग्वत् कल्पनीयं हृदादिकैः ।। 78 ।।
कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्र्य च ।
मुख्यार्घ्यवारिणा पञ्चगव्यप्रोक्षणं तत्संयोजनं चाह- मुख्येति सार्धेन। आद्येन हृन्मन्त्रेणेत्यर्थः ।। 78-79 ।।

अथ पाणिद्वयेनैव अग्नीषोमात्मकेन च ।। 79 ।।

योग्यतापदवीं नीत्वा प्रोक्षयेद् यत् पराहृतम् ।
साम्भसा तेन वै सर्वं विष्टराग्रगतैः कुशैः ।। 80 ।।
सर्वोपकरणानां दहनाप्यायनमुद्रादर्शनपूर्वकं पञ्चगव्यप्रोक्षणमाह- अथेति सार्धेन। तेन पञ्चगव्येनेत्यर्थः ।। 79-80 ।।

सर्वबीजानि धान्यानि सिद्धार्थकयुतान्यथ[1] ।
कृत्वास्त्रपरिजप्तानि ध्यात्वा चास्त्रसमानि च ।। 81 ।।

विघ्नोपशान्तये वेगाद्[2] दशदिक्षु विनिक्षिपेत् ।
संहृत्य बर्हिकूर्चेन प्राच्यां दिशि निधाय वै ।। 82 ।।

तद् गर्भीकृत्य संलिख्य हेतिराट् चन्दनादिना ।
विघ्नोपशमनार्थं दशदिक्ष्वस्त्राभिमन्त्रितबीजधान्यश्वेतसर्षपविक्षेपादिकमाह- सर्वबीजानीति सार्धद्वाभ्याम्। हेतिराड् हेतिराजं चक्रमित्यर्थः। विभक्तिनियमश्छान्दसः ।। 81-83 ।।
[1 नि च- बक. बख.।]
[2 योगाद्- बक. बख.।]

करकं[1] कुम्भसंयुक्तमलङ्कृत्य यथा[2] पुरा ।। 83 ।।

भोगैः प्रावरणान्तैश्च मूर्तीभूतौ[3] विचिन्त्य च ।
तद्देवताशरीरं तु पश्येदम्बरवच्छुभम् ।। 84 ।।

विशाखयूपं तन्मध्ये समावाह्य यजेत् ततः ।
क्रमान्मुद्रावसानं तु तस्य दक्षिणदिग्गतम् ।। 85 ।।

अस्त्रविग्रहरूपं च स्मृत्वा कुरबकं तु तत् ।
अस्त्रमन्त्रं तु तन्मध्ये ध्यात्वाऽभ्यर्च्य यथाविधि ।। 86 ।।

ध्वंसयन्तं च विघ्नानां कालं कर्मावसानकम्[4] ।
इदमभ्य[5]र्थयेद् विद्वीन्[6] सास्त्रो बद्धाञ्जलिस्थितः ।। 87 ।।

यागालयं हि विश्वेश गृहाण रचितं मया ।
आ समाप्तेर्भज[7] विभो क्रियाङ्गानां च सन्निधिम् ।। 88 ।।

ततोऽ[8]स्त्रोदकधारां चाप्यच्छिन्नां [9]भित्तिकां नयेत् ।
प्राद[10]क्षिण्येन प्राग्भागात् तत्पदान्तं च संस्मरेत् ।। 89 ।।

तन्निधायाऽथ कुम्भेन सह कुर्यात् प्रदक्षिणम् ।
अर्घ्यदानं तयोः कृत्वा प्राग्भागे चा[11]धरोर्ध्वगम् ।। 90 ।।

पूजितं वाससाच्छन्नं चक्रमन्त्राभिमन्त्रितम् ।
निदध्याद् भद्रपीठं तु तत्राधारगतं न्यसेत् ।। 91 ।।

सास्त्रं हि मन्त्रकलशमर्चयित्वा प्रणम्य च ।
दिगीश्वरगणं[12] दिक्षु पूर्वोक्तं विन्यसेत् ततः ।। 92 ।।

ततः[13] समर्चनं तेषां कृत्वाऽस्त्रेण हृदा सह ।
प्रणवेन स्वनाम्ना च नमस्कारानुगेन वै ।। 93 ।।

तोरणध्वजपूर्वाणां कार्यमर्घ्यादिनार्चनम् ।
ततो [14]हवनभूमध्ये ध्यात्वा पीठं पुरोदितम् ।। 94 ।।

तत्रार्चनं विभोः कुर्यात् पूर्वोक्तेन क्रमेण तु ।
पूर्णान्तं तर्पणं कुर्यात्[15] प्राग्वत् [16]कुण्डेऽथ पूजिते ।। 95 ।।

अथ कुम्भमण्डलाग्निषु भगवदर्चनक्रममाह- करकं कुम्भसंयुक्तमित्यारभ्य प्राग्वत् कुम्भेऽथ पूजित इत्यन्तम्। यथापुरमलङ्कृत्य, "प्राप्तानुज्ञोऽथ कलशमादाय शुभलक्षणम्" (17/57) इत्यादिसप्तदशपरिच्छेदोक्तप्रकारेणालङ्कृत्येत्यर्थः। एवमेवोक्तं जयाख्येऽपि दीक्षापटले-
अथादाय दृढं शुभ्रमेकरूपं च निर्व्रणम् ।।
कलशं मृण्मयं रम्यं सौवर्णं वाऽथ राजतम् ।
रत्नहाटकसद्गन्धपुष्पसर्वौषधीयुतम् ।।
शु[17]भिपादपशाखाढ्यं पट्टस्रक्कण्ठभूषणम् ।
गालितोदकसंपूर्णं वारिधारान्वितं शुभम् ।।
चन्दनाद्युपलिप्तं च परितेश्चार्घ्यचर्चितम् । (16/95-98) इति।
प्रावरणान्तैर्भोगैर्वस्त्रान्तैरुपचारैरित्यर्थः। मूर्तीभूतौ विचिन्त्य कुम्भकरकौ मन्त्रनाथसुदर्शनयोः शरीरत्वेन ध्यात्वेत्यर्थः, "तद्देवताशरीरं तु पश्ये[18]दमलवर्चसम्" (ई. सं. 11/195; पा. सं. 12/224) इतीश्वरपारमेश्वरोक्तेः। विचिन्त्य चेत्यत्र चकारेण पूर्वं महाकुम्भमध्ये भगवदर्चनमपि सूचितं भवति। अन्यथा- "इदमभ्यर्थयेद् देवं सास्त्रं बद्धाञ्जलिस्थितः" (18/87) इत्युक्तिविरोधात्। तथा चेश्वरपारमेश्वरयोः-
कुम्भमध्ये विभोः प्राग्वदासनं परिकल्प्य च ।।
तन्मध्ये पुण्डरीकाक्षं समावाह्य विधानतः ।
संनिधिं सन्निरोधादि भोगयागावसानकम् ।।
पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् ।
अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि ।।
ध्वंसयन्तं च विघ्नानां जालं कर्मावसानकम् । इति ।
(ई. सं. 11/118-121; पा. सं. 12/227-229)
जयाख्ये (16/102) ईशानदिशि महाकुम्भस्थापनमुक्तम्। अतस्त्वेतत्पक्षद्वयमपीश्वरपारमेश्वरयोर्महोत्सवप्रकरणे पवित्रोत्सवप्रकरणे च प्रदर्शितम्-
प्रादक्षिण्येन[19] प्राग्भागात् तत्पादान्तं च तत् स्मरेत् ।।
अथवेशानदिग्भागात् तत्पादान्तं द्विजोत्तमाः[20] । इति।
(ई. सं. 11/124-125; पा. सं. 12/232)
अत्र तन्निधायाथ कुम्भेन सह कुर्यात् प्रदक्षिणमिति पूर्वं प्रादक्षिण्येन कनकधारया भित्तिसेचनानन्तरं महाकुम्भस्य प्रादक्षिण्येन भ्रामणमुक्तम्, जयाख्ये तु करककुम्भयोर्युगपदपि प्रदक्षिणमुक्तम्- "पृष्ठतः कलशो भ्राम्यस्तुल्यकालं[21] तु वा पृथक्" (16/101) इति। अत्र महाकुम्भार्चनानन्तरं तोरणध्वजाद्यर्चनोक्तावपि पूर्वोक्तरसंगत्यनुसारादीश्वराद्युपबृंहणानुसाराच्च महाकुम्भार्चनात् पूर्वमेव तत्कार्यम्। किञ्च, महाकुम्भार्चनं मण्डलार्चनस्याप्युपलक्षणं बोध्यम्। यतः- "पुराहृ[22]तैर्यथाशक्ति मण्डलं च समाचरेत्" (18/56) इति मण्डललेखनमुक्तम्। उत्तरत्रापि- "खण्डिले कलशाग्नौ च विनियुज्य यथाविधि" (18/110) इति कुम्भमण्डलाग्नीनां हविर्विभागं च वक्ष्यति ।। 83-95 ।।
[1 करवीं कुम्भसंयुक्तां- मु.।]
[2 यथापुरमिति भाष्यानुसारी पाठः।]
[3 मूर्ति- - मु. अटी.।]
[4 पङ्क्तिचतुष्टयं नास्ति- बक. बख.।]
[5 निकम्- अटी.।]
[6 र्थ्य भगवान्- बक. बख.।]
[7 देवं सास्त्रमिति भाष्यानुसारी पाठः।]
[8 प्तिं भज- बख.।]
[9 तदेवास्त्रक- बक. बख.।]
[10 भक्तिर्गा- बक., भित्तिगां- बख.।]
[11 प्रदक्षिणेन- मु. अटी.।]
[12 विकिरो- बक. बख.।]
[13 गणात्- बख.।]
[14 निरोधं सार्चनं- बक. बख.।]
[15 भवन- मु. अटी.।]
[16 प्राग्वत् कृत्वा- मु., कृत्वा प्राग्वत्- अटी.।]
[17 कुम्भे- अटी.।]
[18 उपपादपशाकाढ्यं- अ., शूपपादकशाखाढ्यं- मु.।]
[19 वश्यदं बल- पा.।]
[20 प्रद- ई. पा.।]
[21 त्तम- पा.।]
[22 काली- अ.मु.।]
[23 हूतै- अ. मु.।]

ततस्तु भगवद्भूतान् क्षेत्रनाथसमन्वितान् ।
अर्घ्यपुष्पादिनाऽभ्यर्च्य[1] बलिमादाय पात्रगम् ।। 96 ।।

इदमुक्त्वा च तदनु क्षिपेद् यागगृहाद् बहिः ।
ये विष्णुभाविनो भूता ये च तेष्वनुयानिनः[2] ।। 97 ।।

आहरन्तु[3] बलिं तुष्टाः प्रयच्छन्तु शुभं मम ।
प्रक्षालिताङ्घ्रिस्त्वाचान्तः संविशेद् यागमन्दिरम् ।। 98 ।।
अथ भगवद्भूतबलिदानमाह- तत इति त्रिभिः ।। 96-98 ।।
[1 चार्च्य- बक. बख.।]
[2 मानिनः - मु. अटी.।]
[3 आहारं तु- मु.।]

अग्नि[1]गेहेऽथ संस्कृत्य चुल्लीं प्राग्दिश्यवस्थिताम् ।
पचनाल[2]यमुत्सृज्य स्वदेशात् कुण्डमध्यगाम् ।। 99 ।।

स्थालीं चास्त्रेण[3] संक्षाल्य बाह्यतो गोमयेन[4] तु ।
विलिप्यान्तः सुगन्धैस्तु प्रताप्य ज्वलितैः कुशैः ।। 100 ।।

सन्ताड्य कुसुमास्त्रेण सितसूत्रेण कण्ठतः ।
चतुर्धा वर्म[5]जप्तेन सवेष्ट्यार्घ्यादिनार्च्य च ।। 101 ।।

चुल्ल्यां कृत्वा समारोप्य तस्यां मधु घृतं पयः ।
परिशुद्धे [6]शृते क्षीरे त्वस्त्रेणारोप्य तण्डुलान् ।। 102 ।।

चाल[7]येन्मूलमन्त्रेण दृष्ट्वा नेत्रेण संस्कृतम् ।
हृदावतार्याभिघार्य[8] शिखामन्त्रेण घट्टयेत् ।। 103 ।।

शिरसालिप्य संक्षाल्य सुप्रसन्नेन वारिणा ।
भूतिना चन्दनाद्येन भूषयेदूर्ध्वपुण्ड्रकैः ।। 104 ।।

विष्टरोपरि चान्यत्र निदध्यान्मण्डलान्तरे ।
होमं तत्सिद्धये कृत्वा पूर्णान्तमथ वै चरोः ।। 105 ।।

आघार[9]दानमाज्येन कुर्यात् तेजोमृतात्मकम् ।
ईशाब्जनाभरुद्धेन हंसार्णेन सबिन्दुना ।। 106 ।।

तद्वद् वौषड्वषट्कारप्रणवद्वितयेन च ।
यतोऽ[10]विनाभाविनोऽत्रस्थितिर्द्वाभ्यां च साम्प्रतम् ।। 107 ।।

अतः पुरोदितेनैव तदन्नं सम्पुटेन च ।
अ[11](थ?ध) ऊर्ध्वे च संच्छन्नं स्मरेदादाय वै हृदि ।। 108 ।।

द्रव्यसम्पातहोमेऽथ पूर्णान्ते तु कृते सति ।
उद्धृत्याहुतियोगेन पात्र[12]त्रयगतं तु तत् ।। 109 ।।

स्थण्डिले कलशेऽग्नौ[13] च विनियुज्य यथाविधि ।
तदाद्यभावितं शेषं कुशाक्रान्तं विघट्य च ।। 110 ।।

क्रमान्मूलास्त्रनेत्रेण जुहुयाच्च शतत्रयम् ।
नीत्वा सम्पूर्णभावं च पूर्णया पुनरेव हि ।। 111 ।।
हविःपाकविधानं तद्विभागनिवेदनादिक्रमं चाह- अग्निगेहेऽथ संस्कृत्येत्यारभ्य
[1 अथ गेहे तु- मु.।]
[2 लाय- मु.।]
[3 चार्घ्येण- बक. बख.।]
[4 यादिना- बक. बख.।]
[5 वर्ण- अटी.।]
[6 श्रिते- मु. अटी.।]
[7 पाच- - बख.।]
[8 र्यावंघ्रंस्य- बक.।]
[9 आघारा- बख.।]
[10 यतोऽपि न भातोऽत्र- मु. अटी.।]
[11 अत- बक. बख.।]
[12 पत्रे कुत्रयगन्तु- मु., पत्रे तु त्रयगं तु - अटी.।]
[13 कलशे तौ- मु., कलशेशौ- अटी., कलशाग्नौ- भा.।]

ततश्चोत्तरदिक्[1] कुर्यान्मण्डलं[2] गोमयादिना ।
प्राक्प्रान्तं[3] विष्टरं तत्र दद्याद् दर्भं[4] हृदन्तरे ।। 112 ।।

तन्मध्ये विन्यसेच्छिष्यं समाङ्घ्रिं स्तब्धविग्रहम् ।
प्राङ्मुखं यतवाक्चित्तवृत्तिरूपं[5] धृताञ्जलिम् ।। 113 ।।

अस्त्रेण पूर्ववत्[6] कुर्यात् प्रोक्षणं तस्य चाम्भसा ।
तेनैव ताडयेन्मूर्ध्नि दीप्तैः सिद्धार्थकैस्तिलैः ।। 114 ।।

अनादिवासनोत्थानां बन्धानां[7] चालनाय[8] च ।
फडन्तेनाथ चास्त्रेण कुशाग्रेणाङ्घ्रि[9]गोचरात् ।। 115 ।।

समुल्लिख्य शिखान्तं च ऋज्वर्थं मार्गसन्ततेः ।
जालवन्मन्त्रजालेन व्याप्तं स्मृत्वा च[10] संवृतम् ।। 116 ।।

बध्नीयान्नेत्रमन्त्रेण तस्य नेत्रे च वाससा ।
वस्व[11]र्घ्यकुसुमैर्गन्धैः कृत्वा पूर्णाञ्जलिं पुरा ।। 117 ।।

पाणिनादाय चाम्रे[12] वा निधायाग्रस्थितं बटुम् ।
प्रक्षेपयेद् देवधाम्नि नवमू[13]र्ध्नाऽञ्जलिं च तम् ।। 118 ।।

तस्योद्घाटितनेत्रस्य त्वदृष्टस्येतरैर्जनैः ।
कुशलाध्वनिविष्टस्य दृष्ट्वा वै भक्तिलक्षणम् ।। 119 ।।

रोमाञ्चौत्सुक्यहर्षाढ्यमानन्दाश्रुसमन्वितम् ।
सप्रणामजपालापदिक्प्रदक्षिणसंयुतम् ।। 120 ।।

शु[14]द्धान्तःकरणं बुद्ध्वा योग्योऽयमिति भावयेत् ।
यदा तदाऽच्यु[15]तात्मानमात्मानं भावयंस्ततः ।। 121 ।।

स्मरेद् दक्षिणपाणौ तु चक्राम्बुरुहमध्यगम् ।
प्रधानदेवतावृन्दं स्वे स्वे धाम्नि परे स्थितम् ।। 122 ।।

स्वमरीचिगणेनैव द्योतयन्तं तु चाखिलम् ।
तेनाच्युतकरेणैव सोदकेनालभेतं तम् ।। 123 ।।

पुष्पपूर्णाञ्जलौ पृष्ठे तस्य तत्त्रितयाश्रितम् ।
कृत्वा मन्त्रगणान्तं[16] वै मोक्षविघ्नो[17]पशान्तये ।। 124 ।।

पुनरभ्यर्चयेन्नीत्वा मन्त्रेण परमेश्वरम् ।
आधाराधेयभावेन बुद्ध्वाऽन्तःसंस्थितिं[18] पुरा ।। 125 ।।

क्ष्मादीनां बुद्धिनिष्ठानां वासनानां तथात्मनः[19] ।
ततः कुर्याच्च विश्लेषं तेषां ध्यानार्चनादिना ।। 126 ।।

आत्मतत्त्वं[20] समाश्रित्य कर्मचक्रं हि वर्तते ।
तच्चक्रमवलम्ब्यास्ते बुद्धिनिष्ठं हि सप्तकम् ।। 127 ।।

अज्ञान[21][22] व्यापकत्वं च सुखदुःखादि[23]वेदनम् ।
सर्वज्ञस्यात्मतत्त्वस्य कर्मचक्रावलम्बनात् ।। 128 ।।

चपलं कर्मचक्रं तद् वर्धमानं सदैव हि ।
क्ष्माद्यमाधारमाश्रित्य तावदेवावतिष्ठते ।। 129 ।।

यावत् [24]सर्वज्ञशक्त्या वै कर्मात्मा न प्रबोधितः ।
प्रबुद्धस्तस्य संरोधं कर्तुं शक्नोति सर्वदा ।। 130 ।।

मन्त्राराधनपूर्वेण[25] ज्ञान[26]निष्ठेन कर्मणा ।
अतो य आश्रयः क्ष्माद्यः सत्त्वसारो[27] हि पौरुषः ।। 131 ।।

नीरसं[28] चेरिणीभूतं[29] कुर्यात् संस्थाप्य साम्प्रतम् ।
निर्मुक्त[30]चित्फलो येन कर्मवृक्षो विनश्यति ।। 132 ।।

शुद्ध्यर्थमात्मनस्तस्मात् सर्वज्ञस्याग्रतः स्थले ।
भूता[31]धिदेवमन्त्राणां कुर्याद् वै पूजनं क्रमात् ।। 133 ।।

चिन्ता[32]नुविद्धं सामान्यं मन्त्रनाथै[33]रधिष्ठितम् ।
क्ष्माद्यध्वानं च बुद्ध्यन्तं ध्यात्वा षट्पत्रवत् पुरा ।। 134 ।।

तत्र मध्येऽब्जनाभं तु प्राग्भागे केसरोर्ध्वगम्[34] ।
षट्कं च विश्वरूपाद्यं क्ष्माधरान्तं[35] तु विन्यसेत् ।। 135 ।।

नीत्वा स्वनाम्न आद्यर्णं क्ष्मान्तानां बीजतां पुरा[36] ।
तेन तेषां [37]बलान्तस्थं [38]प्राग्वन्न्यासं स्मरेत् क्रमात् ।। 136 ।।

क्ष्माबीजं च दलाग्रेषु मूलनिष्ठेषु षट्सु[39] च ।
इष्ट्वा[40] सर्वेन्द्रियाधारमित्यभिन्नं पुरा ततः ।। 137 ।।

चिद्वातस्क[41]न्धवृन्देन खस्थि[42]तेनान्तरीकृतम् ।
उपर्युपरि योगेन बुद्ध्यन्तं समुपस्थितम् ।। 138 ।।

भेददृष्ट्या यजेत् सम्यग् भूयः संहारवर्त्मना ।
सवज्रं स्वेन बीजेन पीतं [43]तुर्याभिलक्षणम् ।। 139 ।।

हेमाब्जभूतं[44] तद्ध्यात्वा क्ष्मातत्त्वं तत्र मध्यतः ।
वाराहं संयजेन्मन्त्रं साङ्गं सावरणं क्रमात् ।। 140 ।।

तत्कारणाश्रितं कृत्वा परिधान[45]समन्वितम्[46] ।
अथ[47] क्ष्मामण्डलोर्ध्वस्थमर्धेन्दुसदृशं स्थितम्[48] ।। 141 ।।

पुरं पद्माङ्कितं स्मृत्वा सितपद्मोदरं महत् ।
सरश्शयं[49] तदन्तःस्थमभिसन्धाय संयजेत् ।। 142 ।।

तेजोमयं तदूर्ध्वे तु त्रिकोणं भावयेत् पुरा[50] ।
रत्न[51]ज्वालाकणा[52]कीर्णं स्वस्तिकैरुपलाञ्छितम् ।। 143 ।।

नृसिंहं पूजयेत् तत्र मध्ये [53]रत्नारविन्दगम् ।
तस्योपरि सितं[54] वृत्तं पुरं तारागणाङ्कितम् ।। 144 ।।

स्मृत्वा नीलाम्बुजाक्रान्तं स्मरेत् तत्र खगासनम् ।
नीरूपं खं[55] तदूर्ध्वे तु स्मरेच्छब्दैकलक्षणम् ।। 145 ।।

ध्यायेत् तदन्तः सूर्याभं [56]प्राग्वर्णं तु सपङ्कजम् ।
तत्र वागीश्वरं देवमभ्यर्च्य विधिवत् ततः ।। 146 ।।

तत्कणिंकोदराकाशे नानारत्नरुचिं ततः ।
संस्मरेत् कमलाकारं चित्तवृत्तिमयं तु यत् ।। 147 ।।

यजेत् तन्मध्यगं विश्वरूपं तु मनसस्पतिम् ।
तदूर्ध्वेऽमृतगर्भं तु शीतांशुकरकोटिवत् ।। 148 ।।

पद्मं स्वेनात्मनात्मानं धारयन्तं विभाव्य च ।
समभ्यर्च्यस्तदन्तःस्थो[57]ऽप्यब्जनाभोधियांपतिः ।। 149 ।।

एवं गन्धरसरूपस्पर्शशब्दमनोधियाम् ।
क्रमेणाधीशसङ्घं तु अवतार्य पराद् यजेत् ।। 150 ।।

अर्चयित्वाऽर्चयित्वा च न्यसेत् तत्रैव तं पुनः ।
ये वर्णा भूतयोनीनां [58]रश्मयः कमलोपमाः ।। 151 ।।

संस्थितिं संस्मरेत् तेषामस्मिशक्तौ[59] तथागतिम्[60] ।
अनादिवासनारूपां[61] त्वभेदेनात्मनि स्थिताम् ।। 152 ।।

निश्शेषबीजैरभ्युत्थां[62] पद्मनाभविधारणीम् ।
निर्गतां वैषयात् सर्वाद्[63] वियुक्तां स्वामिना कृताम् ।। 153 ।।

स्फुरद्रूपां परिभ्रष्टां निराधारां च संस्मरेत् ।
प्रणवेन समभ्यर्च्य दी[64]क्षाकालेऽभ्युपस्थिते[65] ।। 154 ।।

साधिभूताधिदैवं च इष्ट्वैवं भूतसप्तकम् ।
स्वयमभ्यर्चयेत् पश्चात् शिष्यमञ्जलिना च तम् ।। 155 ।।

ततोऽग्नेः सन्निधिं गत्वा ध्यात्वा [66]यामत्रयोपरि ।
दक्षिणेनात्मनो [67]दार्भे विष्टरे चक्रमन्दिरे[68] ।। 156 ।।

सकुशेन[69] स्वहस्तेन दक्षिणं चरणं गुरोः ।
अवलम्ब्य [70]समास्ते वै स्पर्शनाद्येकतात्मना ।। 157 ।।

बीजेनाङ्घ्रेः शिखान्तं च स्मरेत् [71]तेजोमयं विभुम् ।
[72]विश्लेषयन्तं सहसा ह्यना[73]द्युत्थमविग्रहम् ।। 158 ।।

[74]संस्कारचक्रं विविधं प्रेरकं दुःखवर्त्मनि ।
[75]नाड्यैक्यमभिसन्धानमभिसन्धानचेतसा ।। 159 ।।

विश्लेषं कर्मणां तद्वद् वर्मणास्त्रेण होमयेत् ।
क्रमेण सघृतानां च तिलानां द्वादशाहुतीः[76] ।। 160 ।।

अनुसन्धाय सम्पाद्यो मयाऽयं वै परात्मनि ।
तद्या[77]दष्टावाहुतीश्च मूलेन सघृताः पुरा ।। 161 ।।

तदुत्तमाङ्गं संस्पृष्ट्वा स्रुवेणाज्यान्वितेन च ।
हुत्वा ज्ञानपदेनैव भूयः सर्वगुणात्मना ।। 162 ।।

प्राक्संख्यमाचरेद् होममन्तरान्तरयोगतः ।
आ चेश्वरपदात्[78] सम्यङ्नेत्रान्तं ह्येवमेव हि ।। 163 ।।

इति सम्पातहोमो वै सम्पन्ने सति जायते ।
  कर्तव्यो[79] मन्त्रमाहात्म्यात् संस्कारैर्निखिलैर्युतः ।। 164 ।।

साम्प्रतं चाणि[80]मादीनां गुणानामुत्तरत्र तु ।
विभोराराधनात् सम्यग् योग्याभ्यासाच्च भाजनम् ।। 165 ।।

कृते सम्पातभवने आज्येनाथ[81] सकृत् सकृत् ।
मन्त्राणां तर्पणं कृत्वा सार्चनं श्रावयेद् विभुम् ।। 166 ।।

अस्य कर्मात्मतत्त्वस्य कर्मपिण्डं[82] सवासनम् ।
यदनेक[83]प्रकारं तु त्वच्छक्त्या स्तम्भितं मया ।। 167 ।।

प्रायश्चित्तनिमित्तं तु जुहुयात् तदनन्तरम् ।
बीजेनान्तर्निरुद्धेन स्वाङ्गेनाकृतिकाष्टकम् ।। 168 ।।

एतावता महाबुद्धेर्जन्तोर्जन्माश्रितस्य च ।
याति व्यामिश्ररूपस्य हेयरूपस्य संक्षयः ।। 169 ।।

मोक्षैकफलदो धर्म उपादेयस्त्वनन्तरम् ।
योऽसौ साम्मुख्यमायाति विविधस्तस्य वाच्युतः[84] ।। 170 ।।

येनान्तर्लीनमभ्येति ह्यज्ञानं सहसा क्षयम् ।
अथादायारुणं सूत्रं कृत्वा[85] नैकगुणं पुरा ।। 171 ।।

निरीक्षितं[86] दृशा चास्त्रवारिणा परिशोधितम्[87] ।
तदङ्गुष्ठावधिं यावत् [88]शिखान्तात् सम्प्रधार्य[89] च ।। 172 ।।

संस्मरेत् सर्वदुःखानां सम्बन्धानां तदास्पदम् ।
संविश्य देवयानेन शिशुचैतन्यसन्निधिम् ।। 173 ।।

हुंफडन्तं च शिरसि[90] नाम च प्रणवादिकम् ।
हृन्मन्त्रसम्पुटस्थं च कृत्वा वै पितृवर्त्मना ।। 174 ।।

आनीय सह सूत्रेण नयेन्नेत्रेण साम्यताम् ।
अभ्यर्च्यार्घ्यादिनावेष्ट्य कवचेन[91] महात्मना ।। 175 ।।

ॐ [92]हृं अदन्यै हृं स्वाहेत्यनेना[93]कृतिसप्तकम् ।
हुत्वास्त्रमन्त्रजप्तेन सितेन रजसा ततः ।। 176 ।।

सन्ताड्य[94] शैशवं कायं विशेत् तदवधिं तथा ।
विश्लेष[95]याऽमुकं ब्रूयात् पदं वीर्यपदानुगम् ।। 177 ।।

तं [96]ज्ञानवाचकेनाथ त्वाद्यन्तेन विकृष्य च ।
स्वबुद्ध्याऽनुगतं कृत्वा ध्यात्वा नक्षत्रगोलवत् ।। 178 ।।

सन्धायाभ्यन्तरे सूत्रे हंसार्णेन सबिन्दुना ।
नदीप्रणवगर्भेण रूढशक्तिं च विग्रहे ।। 179 ।।

वासनामयमित्येवमातिवाहिकसंज्ञकम् ।
सूत्रात्मकं वपुः[97] कृत्वा आत्मशक्त्या विभावितम् ।। 180 ।।

बलमन्त्रेण संरुद्धं [98]तदर्थं जुहुयात् ततः ।
उक्त्वा ओमात्मने स्वाहा द्विषट्क[99]परिसंख्यया ।। 181 ।।

आदाय भाविनो बन्धान् व्यापकान् शुद्धभोगदान् ।
ज्ञानादयः समाश्रित्य येऽत्र तिष्ठन्ति सर्वदा ।। 182 ।।

स्वस्थानेषु स्वमन्त्रेभ्यस्तांस्तत्रैव[100] च योजयेत् ।
यथाक्रमे[101]णार्चितानां कृत्वा तेषां च तर्पणम् ।। 183 ।।

अथ संस्कारचक्रस्य तत्त्ववृन्दाश्रितस्य च ।
सर्वगस्यापि वै विद्धि स्थितिं[102] नियतलक्षणाम् ।। 184 ।।

तत्त्वव्याप्तिञ्छलेनैव शरीरे पाञ्चभौतिके ।
गुल्फजानुकटीवक्षःकर्णभ्रूकावटावधि ।। 185 ।।

बुद्ध्यन्तानां धरादीनां क्रमादवनिसप्तकम् ।
अहङ्कारस्तदुत्थास्तु ये भेदा विविधा अपि ।। 186 ।।

चित्तजा अपि ये चान्ये तिष्ठन्ति मनसा सह ।
सकालोत्थास्तथा बौद्धास्तत्पूर्वास्त्वपरे च ये ।। 187 ।।

अनेकभेदभिन्नास्तु श्रिता[103] आश्रित्य ते धियम् ।
द्विसप्तभुवनं विश्वमनेकरचनान्वितम् ।। 188 ।।

शतकोटिप्रविस्तीर्णमष्टयो[104]न्यार्धसेवितम् ।
स्थिरं[105] धराश्रितं भूयो बोद्धव्यं सर्वदैव हि ।। 189 ।।

चतुष्कं जाग्रदाद्यं यत् पदानामप्सु वर्तते ।
मन्त्रकोटिसहस्राणां विविधानां महामते ।। 190 ।।

योगसिद्धिसमेतानां संस्थितिस्तैजसे पदे ।
चातुरात्मीयतत्त्वानां ज्ञेयः[106] कैवल्यदेहिनाम् ।। 191 ।।

शान्तोदितस्वरूपाणां सन्निविशो मरुत्पदे ।
अनेकशक्तिभूतानां ज्ञानादीनां च लाङ्गलिन् ।। 192 ।।

कालानामाश्रयो व्योम या सा[107] मूतिर्न लक्ष्यते ।
संस्थितश्चादयो वर्णाः पदे षष्ठे तु मानसे ।। 193 ।।

अस्मिन् मात्रानुरक्तानि[108] कीर्तितेऽस्मिन् षडध्वनि ।
क्षिपंस्तु चाहरंस्त्वेवं शुद्ध्यर्थं लीलयैव[109] हि ।। 194 ।।

स[110] स्थितः कर्मतत्त्वानि बुद्धिशक्तिपदे प्रभुः ।
निरस्तदोषं कृत्वा प्राक् समाविश्य तदैव हि ।। 195 ।।

स्वां शक्तिमुपसंहृत्य शान्तिमभ्येति शाश्वतीम् ।
मधुसूदनपर्यन्तं पातालशयनादथ[111] ।। 196 ।।

सप्तकं सप्तकं षट्कं सम्पश्येत् क्ष्मादिपञ्चके ।
मनस्यवस्थितं ह्येवं शक्तीशात् त्रितयं हि यत् ।। 197 ।।

बुद्धौ कमलनाभात्मा देवः सर्वेश्वरः प्रभुः ।
पुनः स्वसिद्धैर्युक्तानां सर्वेषां पार्थिवे पदे ।। 198 ।।

द्विसप्तभेदभिन्ने तु बोद्धव्या संस्थितिः शुभा ।
तीव्रमन्दादिकं बुद्ध्वा भावं भक्तिसमन्वितम् ।। 199 ।।

आलम्बनवशात् कुर्यात् सर्वेषां स्वपदे स्थितिम्[112] ।
एष[113] वैभवदीक्षायामधिवासनकर्मणि ।। 200 ।।

क्रम उक्तस्त्वथेदानीमपरायां निबोधतु ।
आ[114] पादान्नाभिदेशान्तं महाभूतैर्धरादिकैः ।। 201 ।।

व्याप्तं चतुर्धा वा[115]य्वन्तैस्तदूर्ध्वं नभसा पुनः ।
पूरितं हृदयान्तं च तदुद्देशाच्छिखावधि ।। 202 ।।

विभाव्य मनसा व्याप्तमनेनैव क्रमेण तु ।
स्थिताः[116] सङ्कर्षणान्ताश्चाप्यनिरुद्धादयस्तु वै ।। 203 ।।

समाक्रम्याध्वषट्कं तु अध्वातीतस्तु[117] बुद्धिगः ।
समादा[118]यात्मतत्त्वं च प्राग्वदभ्येत्य [119]मूर्तताम् ।। 204 ।।

व्यापिका[120] मूर्तयस्त्वेताः पृथग्[121] भक्तिपरायणैः ।
तदाकारैरसंख्यैस्तु संवृताः क्ष्मावनीषु च ।। 205 ।।

प्राक्संख्यासु च तिष्ठन्ति सर्वाः सर्वासु सर्वदा ।
स्मृत्वा ह्यभेदभावेन षट्कर्मो[122]दकवत् पुरा ।। 206 ।।

शिखान्तं[123] क्ष्मादिना तेन सर्वं व्याप्तं विचिन्तयेत् ।
चतुरात्मानमव्यक्तं शब्दमूर्तिं निराकृतिम् ।। 207 ।।

गुणमात्रैर्विभिन्नं च खवत् तत्रैव भावयेत् ।
अग्राह्येणाथ वपुषा स्वस्वभावमयेन च ।। 208 ।।

संक्रान्तेन तु वै बुद्धौ [124]सर्वदैवोदितेन तु ।
स्वशक्त्या वै ह्यनिच्छातो जीवमादाय सोर्ध्वगम् ।। 209 ।।

स्वसामर्थ्यं स्वशक्त्या तत् शान्तात्मास्ते विलाप्य च ।
शुद्धाशयानां भक्तानां तत्पादैकाभिलाषिणाम्[125] ।। 210 ।।

तत्सामर्थ्यानुविद्धानां सर्वत्र व्यक्तिमेति च ।
अतस्तु [126]यद्यत् संवेद्यं हेयं परिमितं त्वपि ।। 211 ।।

तत्तत् तदात्मनाभ्येति सर्वदा भावितात्मनाम् ।
इत्यादौ सर्वसामान्यो नित्यो विद्याख्य आश्रयः ।। 212 ।।

बोद्धव्यः सोऽपि तदनु ह्यसामान्यतया[127] गतः ।
आ मोक्षा[128]दङ्गभावं च जीवानां स्वयमेव हि ।। 213 ।।

वज्रवत् सूक्ष्मरूपेण सम्पूर्णेन[129] महामते ।
दीक्षाकाले तु शिष्याणां परिज्ञेयं यथोदितम् ।। 214 ।।

एवमेव विजानीयाद् भूयः सौत्रे तु विग्रहे ।
सप्तधा तु विभज्यादौ सन्धिं वै कुङ्कुमादिना ।। 215 ।।

चित्रीकृत्य चतु[130]र्देशात् प्रणवाद्यन्त[131]गैस्ततः ।
स्वनामपदसंयुक्तो[132] ग्रथनीयः[133] स्वकारणैः ।। 216 ।।

एवं [134]प्राप्तिमयैर्भोगैर्हृदा पूर्णान्तिमे[135] कृते ।
नीत्वा वै मण्डलस्थस्य विभोक्तं सन्निवेदयेत् ।। 217 ।।

वर्मणाच्छादितं कृत्वा निधाय कलशाग्रतः ।
सशिष्योऽथार्चनं कुर्यात् पुनर्विश्वात्मनो विभोः ।। 218 ।।

प्रदक्षिणैः प्रणामैस्तु नाना[136]स्तुतिपदैः सह ।
तत्रोपलिप्ते[137] भूभागे मण्डलान्तर्गतं बहिः ।। 219 ।।

स्थानभेदस्थितं कृत्वा नेत्रहृन्मन्त्रमन्त्रिते[138] ।
पञ्चगव्ये[139] चरौ दन्तधावने विनियोज्य[140] तम् ।। 220 ।।

भुक्तोज्झिते दन्तकाष्ठे कुर्यात् सिद्धिविचारणम्[141] ।
सौम्यवारुण ईशाने यदि पूर्वदिगा[142]ननम् ।। 221 ।।

तत्सिद्धिसूचकं विद्धि विपरीतमतोऽन्यथा ।
तद्ध्वंसनाय जुहुयाद् वीर्यमन्त्रेण वै शतम् ।। 222 ।।

धूपानुलेपनादीनि रजांसि घटिकादयः ।
साज्यानि च तिलादीनि योग्यान्यन्यानि लाङ्गलिन् ।। 223 ।।

उद्धृत्योत्तरतः[143] कृत्वा वर्मजप्तेन वाससा ।
अभुक्तेनाहतेनैव त्वाच्छाद्य [144]सुसितेन च ।। 224 ।।

समभ्यर्च्यास्त्रमन्त्रेण पुष्पधूपानुलेपनैः ।
क्षान्त्वा स्थलस्थितं देवमग्नौ वा कलशे न्यसेत् ।। 225 ।।

अथ शुद्धे च[145] भूभागे हृन्मन्त्रि[146]तकुशास्तरे ।
कृत्वा प्राङ्मस्तकं शिष्यं बलजप्ताङ्[147]कुशेन तु ।। 226 ।।

हृदावगुण्ठिततनुं मुख्यमन्त्रमनुस्मरन् ।
स्वापयेत् स्वप्नलाभाय ततो हृन्मन्त्रितैस्तिलैः ।। 227 ।।

सिद्धार्थकयुतैस्तस्य निदध्यात् परितो[148] बहिः ।
सबहिः पक्षमन्त्रेण प्राग्वद् दिक्ष्वष्टकं न्यसेत्[149] ।। 228 ।।

प्रदक्षिणेन तच्चापि सितसूत्रेण वर्मणा ।
चतुर्धा[150] वेष्टयित्वा तु मण्टपान्निष्क्रमेद् बहिः ।। 229 ।।

दन्तकाष्ठादिकं कर्म विनिष्पाद्य स्वयं स्वपेत् ।
भूतले[151] दर्भशय्यायां कृत्वा दक्षिणतः[152] शिरः ।। 230 ।।

संस्पृशन् स्वाङ्घ्रियुग्मेन शिशुं शयनसंस्थितम् ।
भगवन्तं हि मनसा प्रार्थयन्नपवर्गदम् ।। 231 ।।

ओमादिश[153] जगन्नाथ सर्वज्ञ हृदयेशय ।
तत्राहं योजयाम्येनं [154]कर्मिणं त्वत्परायणम् ।। 232 ।।

प्राप्तानुज्ञस्तु शिष्याणां कुर्याद् वै[155] तत्र योजनम् ।
यत्र तत्र च तत् तेषामवश्यं शाश्वतं भवेत् ।। 233 ।।

अथ शिष्यस्य विष्टरोपरि स्थापनं प्रोक्षणं सिद्धार्थतिलैस्ताडनं कुशाग्रेण तद्विग्रहोल्लेखनं मन्त्रव्याप्तिं नेत्रबन्धं पुष्पाञ्जलिप्रक्षेपणमच्युतकरेणालभनं[156] मण्डलार्चनं तत्पुरतः पृथिव्यादिभूतसप्तकस्य तदधीशमन्त्रसंघस्य च पूजनमग्निसंनिधौ शिष्येण सहोपवेशनं शिष्यस्य कर्मवासनाविश्लेषसिद्ध्यर्थं होमं संपातस्पर्शं विज्ञापनं प्रायश्चित्तहोमं शिष्यस्य सूत्रात्मकशरीरकल्पनं गुल्फादिषु पृथिव्यादिव्याप्तिक्रमं पृथिव्यादिषु भुवनाध्वादीनां संस्थितिं पातालशयनादीनामवस्थानं तत्र विभवव्यूहपरमन्त्रदीक्षाभेदेन पृथिव्यादिभूतसप्तकविन्यासभेदं पुनः कुम्भार्चनं शिष्यस्य पञ्चगव्यप्राशनं चरुभोजनं दन्तधावनं तत्काष्ठपतनपरीक्षां तच्छान्तिं मण्डलस्थस्य देवस्य कुम्भादौ विसर्जनं स्वप्नलाभाय शिष्यस्य शयनं तत्परितो रक्षाकरणम् आचार्यस्यापि दन्तधावनादिकं भगवत्प्रार्थनापूर्वकं प्रस्वापं चाह- ततश्चोत्तरदिक् कुर्यान्मण्डलं गोमयादिनेत्यारभ्य यावत्परिच्छेदपरिसमाप्ति। विश्वरूपाद्यं क्ष्माधरान्तं षट्कं विश्वरूपवागीशखगानननृसिंहसरश्शायिवराहाख्येदेवताषट्कमित्यर्थः।
मधुसूदनपर्यन्तं पातालशयनादथ[157] ।।
सप्तकं सप्तकं षट्कं संपश्येत् क्ष्मादिपञ्चके ।
मनस्यवस्थितं ह्येवं[158] शक्तीशात् त्रितयं हि यत् ।।
बुद्धौ कमलनाभात्मा देवः सर्वेश्वरः प्रभुः । (18/196-198)
इत्यस्यार्थः- पातालशयनमारभ्य पद्मनाभान्तमष्टत्रिंशद्विभवदेवेषु पातालशयनादिसप्तकं क्ष्मातत्त्वे, नारायणादिसप्तकमप्तत्त्वे, लोकनाथादिसप्तकं तेजस्तत्त्वे, नारसिंहादिसप्तकं वायुतत्त्वे, क्रोडात्मादिषट्कमाकाशतत्त्वे, शक्त्यात्मादित्रयं मनस्तत्त्वे, पद्मनाभं बुद्धितत्त्वे च संपश्येदित्यर्थः। सात्वतामृते तु व्यापकमन्त्रदीक्षाया उक्तत्वात्
येन येन हि मन्त्रेण दीक्षा कार्याऽथ कस्यचित् ।
तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ।।
कार्योषऽत्रावयवानां तु विनियोगो यथोदितः ।
समूहवद् हृदादीनां मूलान्तानां समाचरेत् ।।
सह तत्त्वगणेनैव सर्वदाध्यात्मरूपताम् ।
सम्यगूह्य ततः कुर्यात् प्राग्वदभ्यर्चनं तु वै ।। (19/172-174)
इति वक्ष्यमाणानुसारेण क्ष्मातत्त्वादिषु हृन्मन्त्रादयः प्रतिपादिता इति बोध्यम् ।। 112-233 ।।
[1 रतः- मु., दिक्ष्वस्य - बख.।]
[2 कुर्युर्म- बक.।]
[3 प्रान्त- बक. बख.।]
[4 दार्भ- बख.।]
[5 वित्ति- मु. अटी.।]
[6 मन्त्र- मु. अटी.।]
[7 बाधानां - बख.।]
[8 वच- बक., चल- बख.।]
[9 कूर्चा- बक. बख.।]
[10 साम्प्र- बक. बख.।]
[11 वस्त्व- बक. बख.।]
[12 चाम्नेति- बक. बख.।]
[13 मूर्ध्वं जलाञ्जलिम्- बक. बख.।]
[14 वृता- बक. बख.।]
[15 ख्यायाऽनुगृहीतो धिया तथा- बक. बख.।]
[16 गणं तं- मु. अटी.।]
[17 विघ्नवि- मु. अटी.।]
[18 स्थितं- बख.।]
[19 त्मनाम्- बक. बख.।]
[20 सत्त्वं- बख.।]
[21 श्लोकोऽयं स्पन्दप्रदीपिकायाम् (पृ. 98) उद्धृतो वर्तते।]
[22 अज्ञता- सा.।]
[23 दुःखनि- बख.।]
[24 स सर्व- बख.।]
[25 रूपेण- बख.।]
[26 ज्ञानानुष्ठान- मु. अटी.।]
[27 स साधारो- बक. बख.।]
[28 निरासं- बख.।]
[29 चोरि- बक. बख.।]
[30 निर्मुक्ता- बख.।]
[31 भूतादि- बख. अटी.।।]
[32 चिन्तनं विधि- बकग. बख.।]
[33 रनु- बक. बख.।]
[34 द्वहम्- मु. अटी.।]
[35 धारा- मु. अटी.।]
[36 गतम्- बक. बख.।]
[37 दलानां तु- बक. बख.।]
[38 प्राग् विन्यासं- बक. बख.।]
[39 तत्सु वा - बक.।]
[40 सर्वं- बक. बख.।]
[41 स्कन्द- अटी. बक. बख.।]
[42 खभूते- बक. बख.।]
[43 तुर्याद्य- अटी., तुर्याश्र- बख.।]
[44 भूषितं ध्यात्वा- बक. बख.।]
[45 वार- बक. बख.।]
[46 तः- बक.।]
[47 अधस्तान्म- बक. बख.।]
[48 सितम्- बख.।]
[49 शायीं- बक. बख.।]
[50 पुरम्- बक. बख.।]
[51 रक्त- बक. बख.।]
[52 गणा- बक. बख.।]
[53 रक्तच्छविं विभुम्- बक. बख.।]
[54 पर्यसितं - बक. बख.।]
[55 च- मु. अटी.।]
[56 प्राग्वद् वर्णं तु - बक. बख.।]
[57 स्थो ह्य- बख.।]
[58 राश्मीयाः- मु. अटी.।]
[59 मस्मिन्- बक. बख.।]
[60 गतम्- बक. बख.।]
[61 सानादि- मु. अटी.।]
[62 जरश्मीद्धपद्मानां भाविधारिणीम्- मु. अटी.।]
[63 सत्याद्- मु. अटी.।]
[64 क्षरद्रूपा- मु. अटी.।]
[65 दिक्षु- मु. अटी.।]
[66 लेऽप्यु- अटी., ले ह्यु- बक.।]
[67 धाम- अटी.।]
[68 दर्भे- बख.।]
[69 मन्त्रिते- बक. बख.।]
[70 स्व- बख.।]
[71 समाप्ते- बक. बख.।]
[72 तोय- मु. अटी.।]
[73 विशेष- मु.।]
[74 द्यार्थ- मु., द्यर्थ- अटी.।]
[75 नास्त्येषा पङ्क्तिः - अटी.।]
[76 नास्यै- मु. अटी.।]
[77 हुतिः- अटी., हुतिम्- बक. बख.।]
[78 दाहुतिकाश्चाष्टौ- बक. बख.।]
[79 रमुपादद्यात्- बक. बख.।]
[80 कर्तव्यं- बक. बख.।]
[81 शक्तिरा- बक. बख.।]
[82 चाथ- मु. अटी.।]
[83 बद्धं- बक. बख.।]
[84 तद- बक. बख.।]
[85 तम्- बक. बख.।]
[86 त्वानेक- अटी.।]
[87 निरीक्ष्य- बक. बख.।]
[88 धनम्- बक. बख.।]
[89 शिखायाः- बक. बख.।]
[90 सार्य- बक. बख.।]
[91 शिष्यस्य- बक. बख.।]
[92 नात्मना- मु. अटी.।]
[93 हुं अदन्यै हुं - मु. अटी.।]
[94 हुंकृति- मु. अटी.।]
[95 संताड्यं- मु. अटी.।]
[96 विश्लेषायामुखं- बक. बख.।]
[97 ज्ञात्वा नवताचक्रेनाथ- मु. अटी.।]
[98 सन्ताड्या- मु. अटी.।]
[99 वपुं स्मृत्वा- बक.।]
[100 तदर्धं- बक. बख.।]
[101 पर- मु. अटी.।]
[102 स्तु तत्रैव - बक. बख.।]
[103 णोचिता- बक. बख.।]
[104 स्थितं नियतलक्षणम्- बक.।]
[105 स्थिता - बक. बख.।]
[106 न्युद्ध्य- मु., न्मुध्य- अटी.।]
[107 स्थितं धारा- बक. बख.।]
[108 ज्ञेयं- बक. बख.।]
[109 यासां- बख.।]
[110 द्यमु- बक. बख.।]
[111 येव- मु. अटी. बख.।]
[112 स्थितः कर्मात्मत- बक. बख.।]
[113 दधः- बक. ।]
[114 स्थितम्- बक. बख.।]
[115 एषा- मु. अटी.।]
[116 आपदान्नाभिदेशं च - मु.।]
[117 वाय्वन्नैः- मु.।]
[118 स्थितः- मु. अटी.।]
[119 बुद्ध्या- मु. अटी.।]
[120 समना आ- बक. बख.।]
[121 मूर्तिताम्- मु., मूर्छिताम्- मु. अटी.।]
[122 व्याप्तिका- बक. बख.।]
[123 ङ्मुक्ति- बक.।]
[124 कर्मे माद्गवत्- मु. अटी.।]
[125 ततस्तु- मु. अटी.।]
[126 सर्वं समु- बक. बख.।]
[127 लक्षणाम्- बक., लक्षिणाम्- बख.।]
[128 यदसंवेद्यं- मु. अटी., यत्तत् संवेद्यं- बक.।]
[129 न्यं तदागतः- मु. अटी.।]
[130 दग- मु., दघ- अटी.।]
[131 ज्येन- बक. बख.।]
[132 तदुद्दे- बक. बख.।]
[133 न्तकैः- बक.।]
[134 क्तं- बक. बख.।]
[135 यं- बक. बख.।]
[136 व्याप्तिमयैर्भागै- बक. बख.।]
[137 न्तिके- बक. बख.।]
[138 वस्तु- बक.।]
[139 लिप्त- बक. बख.।]
[140 तैः- बक. बख.।]
[141 व्येऽवनौ- मु. अटी.।]
[142 जितम्- मु- अटी.।]
[143 णाम्- बक.।]
[144 दिशा- बक. बख.।]
[145 रदिक्- मु. अटी.।]
[146 सं- मु. बक. बख.।]
[147 तु- बक. बख.।]
[148 हुं- अटी.।]
[149 प्तांशुकेन- मु. बक. बख.।]
[150 परिखां- मु., परिघां- अटी.।]
[151 हि यत्- मु. अटी.।]
[152 तुरावे- मु. अटी.।]
[153 कुतले- मु. अटी., आतपे- बख.।]
[154 दिक्- मु. अटी.।]
[155 ओमादीश- मु. अटी. बख.।]
[156 सत्कर्म- बख.।]
[157 वा- मु.।]
[158 लम्भनं- मु.।]
[159 दयः- अ. मु.।]
[160 ह्येकं- अ. मु.।]
इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायामधिवासदीक्षाविधिरष्टादशः परिच्छेदः।।

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्येऽष्टादशः परिच्छेदः।।