प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २४ सात्त्वतसंहिता
अध्यायः २५
[[लेखकः :|]]
सात्त्वतसंहितायाः अध्यायाः


(1)पञ्चविंशः परिच्छेदः
नारद उवाच(2)
सर्वलोकगुरुर्विप्रा यदुक्तो विश्वधारिणा।
तदिदानीं प्रवभ्यामि मन्त्रबिम्बनिवेशनम्।। 1 ।।
भोगेप्सूनां च वर्णानां साम्प्रतं यदभीष्टदम्।
कैवल्यदं शमाच्चैव चातुराश्रम्यसेविनाम्।। 2 ।।
यज्ञधर्मरतानां च सहायं च फलैस्तु(3) तत्।
अथ पञ्चविंशतिः परिच्छेदो व्याख्यास्यते। इह वासुदेवेन संकर्षणायोपदिष्टां भागोपवर्णादिफलप्रदां मन्त्रबिम्बप्रतिष्ठां वक्ष्यामीत्याह--सर्वेति सार्धद्वाभ्याम्।। 1--3 ।।
(1. चतुर्विंशतितमः--अ.।) (2.`उवाच' नास्ति--मु. अटी. बक. बख.।) (3.फलेप्पु--अ.।)
प्राग्वद् देवगृहस्याग्रे दिग्भागे(4) सति (5)मण्टपम्।। 3 ।।
चतुरश्रं चतुर्द्वारं दर्भमालान्तरीकृतम्।
अन्यत्र तदलाभे दु यथाभिमतदिङ्मुखम्।। 4 ।।
चतुर्दशकराच्चैव यावत् त्रिंशत्करावधि(6)
षट्करान्तं पुनस्तस्माद् बिम्बमानव्यपेक्षया।। 5 ।।
यागशालालक्षणमाह--प्राग्वदिति सार्धद्वाभ्याम्। प्राग्वत् कुम्भस्थापनप्रकरणोक्तवदित्यर्थः। देवगृहस्याग्रे पुनतः, दिग्‌भागे सति अवकाशे(7) सति, तत्र चतुर्द्वारं यागमण्टपं कुर्यात्। तदलाभे अग्रालाभे, अन्यत्र दक्षिणादिदिक्षु विदिक्षु वा यथाभिमतदिङ्मुखं यागमण्टपं कुर्यात्। चतुर्दशकराच्चैव यावत् त्रिंशत्करावधि चतुर्हस्तमारभ्य त्रिंशद्धस्तपर्यन्तं बिम्बमानव्यपेक्षया बिम्बबृहत्वानुगुण्येन वर्धितविस्तारायामं पुनस्तस्माच्चतुर्दशकरादारभ्य षट्‌करान्तं बिम्बाल्पत्वानुसारेण ह्रासितविस्तारायामं वा यागमण्टपं कुर्यादिति पूर्वेणान्वयः।। 3--5 ।।
 (4. दिग्‌लाभे--मु. अटी. अ.।) (5.मण्डपम्--बख. अ. उ.।)(6.त्रिंशक--बक.।) (7. कारे--अ.।)
कार्या मध्ये स्थला तेषां द्विसप्तांशैस्ततोऽष्टभिः।
समन्तभद्रा(1)सुश्लक्ष्णा चिता पक्वेष्टकादिकैः।। 6 ।।
तालोन्नतेः समारभ्य सामान्येऽस्मिन् हि कर्मणि।
(2)उन्नताङ्‌गुलवृद्ध्या तु नीता तद् ह्रासतां क्रमात्।। 7 ।।
तत्र वेदिकालक्षणमाह--कार्येति द्वाभ्याम्। तेषां चतुर्दशादिहस्तमानभेदैर्बहुविधानं मण्टपानां मध्ये द्विसप्तांशैश्चतुर्दशभागैः स्थला कार्या वेदिः कर्तव्या। सा चाष्टभिरष्टभिर्भागैः समन्तभद्रा परितो (3) वीथीयुक्तेत्यर्थः। एवं च मण्टपविस्तारायामौ त्रिंशद्‌भागान् कृत्वा तेषु चतुर्दशभागैर्वेदिकाकल्पनं शिष्टेषु षोडश भागेषूभयतोऽष्टभिरष्टवीथी(4) कल्पनमिति ज्ञेयम्। तदौन्नत्यं तु तालोन्नतेः समारभ्याङ्गुलवृद्ध्योन्नता, तद्‌ह्रासतोऽङ्गुलह्रासतो नीचा वा वेदिका कल्पनीयेत्यर्थः। चतुर्दशकरविस्तारायामयागगृहस्थवेदिकायास्तालमानमौन्नत्यम्।(5) तस्मादारभ्य त्रिंशत्करपर्यन्तं यागगेहस्यायामविस्तारयोर्वृद्ध्यां षट्‌करान्तं ह्रासे वा तद्धस्तसंख्यानुरोधेन वेदिकौन्नत्यस्याप्येकैकाङ्गुलिवृद्धिह्रासौ कार्याविति भावः। एवं च त्रिंशद्धस्तविस्तारायामयागगेहस्थवेदिकायाश्चतुरङ्गुलाधिकहस्तमानमौन्नत्यं भवति।। 6--7 ।।
(1.द्रात् सुश्लक्ष्णाच्चि--बक. बख. उ.।) (2. नास्त्येषा पङ्‌क्तिः--अटी.।)(3.वीथि--म.।) (4.वीथि--म.।) (5.गेहस्थ--म.।)
द्वित्रिरष्टांशकैर्मध्ये सर्वासां (6) मण्डलं भवेत्(7)।
चतुरश्रं चतुर्द्वारं चक्राम्बुरुहभूषितम्।। 8 ।।
दक्षिणे (8) शयनं सौम्ये कुण्डमग्नेस्तु पूर्ववत्।
समेखलं द्विहस्तं तु चक्रपद्माङ्कितं शुभम्।। 9 ।।
अथ वेदिकायां मण्डलादिस्थलविभागक्रममाह---द्वित्रिरिति द्वाभ्याम्। सर्वासां मानभेदैर्बहुविधानां वेदिकानां मध्ये चतुरश्रत्वादिविशिष्टमण्डलम्, तद्दक्षिणे शयनम्, सौम्ये समेखलत्वादिविशिष्टमग्नेः कुण्डं च क्रमात् क्रमालङ्कारेण द्वित्रिरष्टांशकैः कुर्यादिति योजना। एवं च द्वाभ्यामंशाभ्यां मण्डलं त्रिभिरंशैः शयनमष्टांशैः कुण्डस्थानं च कार्यमित्यर्थः। पारमेश्वरव्याख्याने तु" द्वित्रिरष्टांशकैः क्रमेण नीचा नालोन्नतेर्न्यूनता न कर्तव्येत्यर्थः" इति लिखितम्। तदपहासास्पदम्।। 8--9 ।।
(6.मण्डपं---मु. बख. उ.।) (7.क्रमात्--इति भाष्यव्याख्यातः पाठः।) (8.शयने सौम्यं कुण्डमग्नौ तु--बक. बख. उ.।)
तदधश्चतुरश्रं प्राग् दाममेखलिकान्वितम्।
अथ दक्षिणदिग्भागे कुर्याद् वै चक्रचिह्नितम्।। 10 ।।
वर्तुलं पश्चिमे सौम्ये कमलाङ्कं मनोहरम्।
(1) शङ्खाङ्कं सर्वकोणेषु मानमेषां यथोर्ध्वगे।। 11 ।।
अथ वेदिकाया अधस्तात् प्रागाद्यष्टदिक्षु कुण्डाष्टकमाह--तदध इति द्वाभ्याम्। ऊर्ध्वगे कुण्डे यथा मानं द्विहस्तत्वादिरूपं मानम्, (2) एषां प्रागादिकुण्डानामपि तथैवेत्यर्थः।। 10--11 ।।
(1.शाखा--बख., मुखाङ्गं--उ.।)(2.येषां--अ.।)
सर्वे दशान्तहस्तानां(3) चतुर्णामेकमेखलाः(4)।
(5)मण्टपानां तु किन्त्वत्र ऊर्ध्वगं सर्वमेखलम्।। 12 ।।
त्रयोदशहस्तपरिमितमण्डपादिषु कुण्डप्रकारमाह--सर्व इति। दशान्तहस्तानां दशहस्तपरिमितमण्डपानामित्यर्थः। चतुर्णां मण्डपानां त्रयोदशहस्तपरिमितद्वादशहस्तपरिमितैकादशहस्तपरिमितदशहस्तपरिमितचतुर्मण्टपानां सर्वे प्रागाद्यष्टकुण्डा अपि, एकमेखलाः स्थलसंकटादेकधैव मेखलयाऽन्विताः(6) कार्याः किन्तूर्ध्वगं वेदिकोपरिस्थं कुण्डं सर्वमेखलं सर्वाभिर्मेखलाभिरन्वितं कार्यमित्यर्थः।। 12 ।।
(3.देश---बक. बख. अ. उ.।) (4. लाम्--अटी. बक. बख. उ., लम्--अ.।) (5.मण्ड--बख. अ. उ.।) (6.या नातः--अ.।)
(7) अतोऽधः संस्थिताः सर्वे एककुण्डास्तु मण्टपाः(8)।
तेषां समेखलं(9) चाद्यं द्वाविंशत्यङ्गुलैर्भवेत्।। 13 ।।
ह्रासादङ्गुलयुग्मस्य यावद् वै षोडशाङ्गुलम्।
स्यात् षट्करे गृहे कुण्डं कार्या वा मेखलाधिका।। 14 ।।
नवहस्तपरिमितमण्डपादिषु प्रागादिकुण्डाभावमाह--अत इत्यर्धेन। अतोऽध संस्थिताः सर्वे मण्डपाः नवहस्तमिता अष्टहस्तमिताः सप्तहस्तमिताः ष़ड्‌ढस्तमिताश्चत्वारो(10) मण्डपाः एककुण्डाः वेदिकोर्ध्वकुण्डमात्रसहिता इत्यर्थः। तत्रापि मध्यकुण्डस्य मानभेदमाह--तेषामिति सार्धेन। तेषां षट्‌करान्तानां चतुर्णां मण्डपाना(11)माद्ये नवहस्तपरिमिते मण्टपे द्वाविंशत्यङ्गुलैः समेखलं कुण्डं भवेत्। एवं षट्करगृहे क्रमेणाङ्गुलयुग्मस्य ह्रासात् षोडशाङ्गुलं कुण्डं यावत् स्यात्। अष्टकरे गृहे विंशत्यङ्गुलमितं कुण्डम्, सप्तकरे गृहेऽष्टादशाङ्गुलमितं कुण्डमित्युक्तं भवति। एवं चेदमप्यूह्यते, चतुर्दशकरमिते गृहेऽष्टाङ्गुलाधिकहस्तमितं कुण्डम्, त्रयोदशकरमिते गृहे षडङ्गुलाधिकहस्तमितं कुण्डम्, द्वादशकरे गृहे चतुरङ्गुलाधिकहस्तमितं कुण्डम्, एकादशकरमिते गृहे द्व्यङ्गुलाधिकहस्तमितं कुण्डम्, दशकरमिते गृहे हस्तमितं कुण्डमिति। किञ्च, पञ्चदशकरगृहादित्रिंशत्करगृहपर्यन्तमेकैकाङ्गुलिवृद्धिश्चोच्यते। अतः पञ्चदशकरे गृहे नवाङ्गुलाधिकहस्तमितं कुण्डम्, षोडशकरे गृहे दशाङ्गुलाधिकहस्तमितं कुण्डम्, एवं क्रमेण त्रिंशत्करे गृहे द्विहस्तमितं(12) कुण्डमिति ज्ञेयम्। कार्या वा मेखलाधिका षोडशाङ्गुलादिकुण्डानामेकैव मेखला, अधिका वा द्व्यादिका मेखला वा कार्येत्यर्थः।। 13--14 ।।
(7.मण्डपाः--वख. अ. उ.।) (8. च मे--बक. बख.।) (9.या नातः--अ.।) (10.`चत्वारो' नास्ति--अ.।) (11.नां मध्ये--अ.।)(12. सप्त--अ.।)
अष्टहस्तोच्छ्रितं(1) पूर्वमतोऽर्धकरवर्धिता।
न ह्रासः षट्‌करान्तानां न्यूनानामुच्छ्रितेर्भवेत्।। 15 ।।
त्रयोदशकरादीनां चतुर्णां पातयेत् ततः।
अष्टकं चाङ्गुलानां तु सप्तपञ्चचतुः क्रमात्।। 16 ।।
अथ मण्टपोच्छ्रायमाह--अष्टहस्तोच्छ्रितमिति द्वाभ्याम्। पूर्वमाद्यं चतुर्दशकरमितं गृहमष्टहस्तोच्छ्रितम्। अतः परं पञ्चदशकरादयो मण्टपाः क्रमेणार्धकरवर्धिताः।(2) यथा त्रिंशत्करविस्तृतो मण्टपः षोडशहस्तोच्छ्रितः स्यादिति भावः। त्रयोदशकरादीनां चतुर्णां मण्टपानां पूर्वोक्तहस्तोच्छ्राये क्रमादङ्गुलानामष्टकं सप्तकं पञ्चकं चतुष्कं पातयेत्, ह्रासयेदित्यर्थः। षट्करान्तानां नवकरादिषट्‌करान्तानां चतुर्णां तु न्यूनानां न्यूनहस्तसंख्यानां मण्डपानामुच्छ्रितेरुच्छ्रायस्य ह्रासो न भवेत्। दशहस्तमण्टपोच्छ्रायन्यूनो न भवेदित्यर्थः। अत्र मूलभूतसात्वतानुसारेण ह्रास इत्यादिवाक्यस्य पूर्वं विद्यमानत्वेऽपि पाठक्रमादर्थक्रमस्य बलीयस्त्वादित्थं व्याख्यातम्। पारमेश्वरे (15/119--120) त्वर्थक्रमेणैव पाठोऽप्युपबृंहितः।। 15--16 ।।
(1.तः पूर्वः अथोर्ध्व--मु. अटी.।) (2.पदात्--अ.।)
एवं स्नानगृहाणां तु विस्तारश्चोन्नतैः सह।
किन्तु वै वालुकापीठैर्मध्यतश्चोपशोभिताः।। 17 ।।
द्विचतुर्भिर्द्विसप्तांशैर्विस्तृताः प्राग्वदुन्नताः।
स्नानीयादग्रगेहाद्(3) वा दिक्त्रयेऽभिमते शुभम्(4)।। 18 ।।
अर्धमानसमं मुख्यात् सुपीठशयनान्वितम्।
दृग्दानभवनं कुर्यान्माङ्गुल्यकलशैः(5) सह।। 19 ।।
सर्वेषां (6) कर्मभूभागं कोणस्तम्भैर्विभूषितम्।
सुनेत्रैर्वेष्टितं कुर्याच्चक्राद्यैः पूर्ववद् युतम्।। 20 ।।
एवं यागमण्टपोक्तं लक्षणं स्नानगेहेऽप्यतिदिशति--एवमिति। उन्नतैः सह औन्नत्यैः सह इत्यर्थः। भावप्रधानो निर्देशः। तत्र(7) विशेषमाह--किन्त्विति। वालुकापीठैर्मध्यतोः वालुकापूरितवेदिकामध्यत उपशोभिताः, स्नानगृहा इति शेषः(8)। वालुकापीठमानमाह--द्विचतुर्भिरिति। द्विसप्तांशैश्चतुर्दशभागैर्द्विचतुर्भिरष्टभिरंशैश्च विस्तृताः प्राग्वदुन्नताश्च, वालुकापीठा इति शेषः। यागगेहे परितः कुण्डनिर्माणार्थमुभयतोऽप्यष्टभिरंशैर्वीथीकल्पनमुक्तम्। अत्र कुण्डाभावाच्चतुर्भिश्चतुर्भिरंशैरेव वीथीकल्पनम्, द्वाविंशत्यंशैर्वालुकापीठकल्पनमिति बोध्यम्। स्नानशालादिनिर्माणस्थाने नियममाह--स्नानीया इति। स्नानीयाः, गृहा इति शेषः। अग्रगेहाद् अग्रभागस्थितयागगेहं विहाय, दिक्‌त्रये दक्षिणादिदिक्षु, अभिमते शुभे मनोहरे स्थाने कार्या इत्यर्थः। नयनोन्मीलनगेहलक्षणमाह--अर्धेति। मुख्याद् यागगेहाद् अर्धमानसमं तदर्धविस्तारायामं माङ्गल्यकलशैः सह वक्ष्यमाणकलशैः सह सुपीठशयनान्वितं दृग्‌दानभवनं दृशोर्दानमुन्मीलनम्, `दो अवखण्डने' (1148 दि.) इति धातोः, तदर्थं भवनं गृहं कुर्यात्। यागमण्टपादिसाधारणमलङ्कारमाह--सर्वेषामिति। सुनेत्रैः शोभनवस्त्रैः वितानैरिति यावत्। चक्राद्यैः चक्रध्वजादिभिरित्यर्थः।। 17--20 ।।
(3.याद् याग--मु. अटी. अ.।) (4.शुभे--बक. बख. उ.।) (5.तिलकैः--अ.।) (6.षामपि भूभागे--बक. बख. उ.।) (7.`तत्र विशेषमाह' नास्ति--अ.।) (8.शेषमाह--अ.।)
सुस्थितं(1) दृढपादं च स्नानाम्भोग्रहणक्षमम्।
अर्धेन वालुकापीठाद्(2) दीर्घमाद्यक्रमेण तु।। 21 ।।
वर्धितं(3) चार्धहस्तेन(4) ह्रासितं चतुरङ्गुलै।
स्वदैर्घ्यादर्धविस्तीर्णं कृत्वैवं सप्रणालकम्।। 22 ।।
तेन तद्वालुकापीठं भूषयेन्मध्यगेन तु।
यागागारस्य वै दिक्षु द्वारार्थं(5) तत्र चान्तरे।। 23 ।।
अथ स्नानपीठलक्षणमाह--सुस्थितमिति सार्धद्वाभ्याम्। स्नानाम्भोग्रहणक्षमं स्नानजलग्रहणार्थं पीठोपरि परितश्चतुरङ्गुलोत्सेधावरणयुक्तमित्यर्थः। वालुकापीठादर्धेन दीर्घं चतुर्दशहस्तविस्तारायामस्नानगेहस्थितवालुकापीठार्धमानेन दीर्घम्, आद्यक्रमेण तदादित्रिंशत्करगृहपर्यन्तं क्रमेणार्धहस्तेन वर्धितं तदादिषट्‌करगृहपर्यन्तं क्रमेण चतुरङ्गुलैर्ह्रासितं स्वदैर्घ्यादर्धविस्तीर्णं सप्रणालकं स्नानपीठं कृत्वा तेन तद्वालुकापीठं भूषयेत्।। 21--23 ।।
(1.अस्थिरं--मु. अटी. अ.।) (2.पीठं--मु. अटी. बक.।) (3.विद्धि तं--बक. बख. अ. उ.।) (4.चाग्र--मु. अटी.।) (5.रार्ध--मु. अटी. बक. बख.।)
(शा?श) मार्धवृद्धियोगेन(1) ह्रासोऽन्यत्र कलादिकः(2)।
तोरणानि बहिः कुर्याद् दृढैः काष्ठैः सुपूजितैः।। 24 ।।
पञ्चहस्तानि चार्धेन वर्धितानि करेण तु।
न ह्रासमाचरेत् तेषामन्यत्र करणे सति।। 25 ।।
न शमात्(3) पञ्च हस्तानामृते(4) भूमौ प्रवेशयेत्।
शमार्धं वर्धितानां च द्वे द्वे संवर्धयेत् कले।। 26 ।।
दैर्घ्यात् प्रवेशशिष्टात् तु त्रिभागेन तदन्तरम्।
सर्वे चक्रध्वजाः कार्या वस्त्रस्रङ्मञ्जरीयुताः।। 27 ।।
सुधाद्यैर्वर्णकैः पीतैश्चन्दनाद्यैस्तु लेपिताः(5)।
अथ द्वारतोरणलक्षणमाह--यागागारस्येत्यादिभिः।। 23--29 ।।
(1.वृत्ति--मु. अटी.।) (2.कम्--बक. बख. अ. उ. ङ्गिकः--अटी.।)(3.दशमात्--बक. बख.।) (4.नां भूते--बक. बख.।) (5.लेपनैः--उ.।)
भिन्नाङ्गमेतदखिलं यथैकस्मिन् हि युज्यते।। 28 ।।
कर्म यागगृहे शश्वद् विभूतेर्वाऽवनेर्विना।
पञ्चत्रिंशत्करं(1) क्षेत्रं स्वतुर्यांशेन(2) विस्तृतम्।। 29 ।।
तन्मध्ये तु(3) चतुर्हस्तं त्वापाद्यं(4) स्थलसप्तकम्।
स्थलानां व्यवधानं तु कुर्याद् वै तालसम्मितम्।। 30 ।।
एकापायेन वै कुर्याद् द्विहस्तान्तं स्थलागणम्(5)।
क्रमेणाष्टाङ्गुलान्मानाद् द्व्यङ्गुलं द्व्यङ्गुलं विना।। 31 ।।
स्थलानां संकटानां च व्यवधानं(6) द्विगोलकम्।
एवमेव समुच्छ्रायः (7) सर्वासां परिकीर्तितः।। 32 ।।
परितो विहितं वीथेर्मानमन्त्र(8) स्वपीठजम्।
विभवाद्यभावे पक्षान्तरमाह--भिन्नाङ्गमित्यादिभिः। भिन्नाङ्गं विभिन्नपृथक्‌शालाद्यङ्गसहितमेतदखिलं कर्म नयनोन्मीलनस्नपनार्चनहवनाधिवासादिकं समस्तं कार्यम्, विभूतेर्वाऽवनेर्विना विभवाभावात् प्रदेशाभावाद्वा, एकस्मिन् यागगृहे यथा युज्यते, स्नानशालां नयनोन्मीलनशालां च विना यागगेह एव यथा कर्तुं शक्यते, तथा संनिवेशार्थं पञ्चत्रिंशकरं स्वतुर्यांशेन विस्तुतं क्षेत्रं यागमण्टपं कुर्यादिति शेषः। पारमेश्वरव्याख्याने तु---" भिन्नाङ्गं वेदिकुण्डतोरणादिभिर्भिन्नलक्षणम्। एकस्मिन्नेकत्र शालास्थले यथा युज्यते तथा कुर्यादित्यर्थः" इति लिखितम्। तन्मन्दम्। तन्मध्ये चतुर्हस्तविस्तारायामं स्थलसप्तकं वेदिकासप्तकमापाद्यां कल्पनीयमित्यर्थः। स्थलानां वेदिकानां व्यवधानमन्तरालं तलसंमितं द्वादशाङ्गुलमितं कुर्यात्। तथा सति सप्तवेदिकानामन्तरालानि षट्‌तालमितानि भवन्ति। (9) तथा व्यवधानानवकाशे द्व्यङ्गुलं द्व्यङ्गुलं विना एकापायेन एकतालह्रासेन(10)वा व्यवधानं कुर्यात्। क्रमेणाष्टाङ्गुलान्मानात् प्रत्येकमष्टाङ्गुलव्यवधानात् स्थलागणं स्थलसप्तकं द्विहस्तान्तं द्विहस्तपरिमितान्तरालं वा कुर्यात्। संकटानां तथा व्यवधानेऽप्यपेक्षमा(11)(णां?णानां)स्थलानां द्विगोलकं चतुरङ्गुलं व्यवधानं कुर्यात्। " द्वे अङ्गुले कलानेत्रं गोलकं भाव एव च" (24/14) इति पूर्वमेवोक्तम्। सर्वेषां स्थलानामुच्छ्राय एवमेव परिकीर्तीतः। वेदिकानामुच्छ्रायमपि द्वादशाङ्गुलमष्टाङ्गुलं चतुरङ्गुलं वा कुर्यादित्यर्थः। परितो वीथेर्मानं स्वपीठजं विहितं चतुर्हस्तमित्यर्थः।। 27--33 ।।
(1.त्रिंशकर--मिति भाष्यानुसारी पाठः।)(2.तुल्यां--मु. अटी.।) (3. तच्च--अ.।) (4.स्तादा--बक. बख. अ. उ.।) (5.`स्थलाङ्गणम्' इति सार्वत्रिकः पाठः।) (6.सानं--बक. उ.।)
(7.सर्वेषां--मु. अटी.।) (8.पीठे मानं मन्त्र--बक. बख.।) (9.तथाप्यव--अ.।)(10. तालेनह्रासेन--अ.।) (11.प्यक्षमाणीं--म.।)
एवं वा संकटे कुर्यादाद्योक्तान्मण्टपद्वयात्(1)।। 33 ।।
मध्ये मण्डपीठं तु तस्य दक्षिणादिग् भवेत्।
समीपे (2) यनस्थानं कुम्भानां स्थापनायनम्(2)।। 34 ।।
एवं हि वामनिकटे भोगानां मन्त्रतर्पणम्।
ऋग्यजुः सामपूर्वाणां श्रुतीनां हवनं(3) परे।। 35 ।।
दृग्((4) दानं शयनस्थाने ह्यन्यस्मिन् शयने(5) हितम्।
प्रासादस्याष्टदिङ्(6) मूर्तिशक्तिपानां यथोदितम्।। 36 ।।
स्थण्डिलेष्वथ कुण्डेषु तादर्थ्येनाथवा स्वयम्।
स्वकुण्डे हवनं कुर्याच्चतुर्वेदमये वरे।। 37 ।।
समस्तमूर्तिपीयं(7) वा स्वयमेव समाचरेत्।
सामग्रीविरहाद् योग्यमूर्तिपानामभावतः।। 38 ।।
यश्च(8) यत्रोपयोज्यस्तु तत्र तं संप्रवेशयेत्।
मन्त्राणामुपदेष्टा तु आत्मतुल्यो महामतिः।। 39 ।।
योक्तव्यः कर्मदक्षस्तु सर्वेष्ववसरेषु च।
एवं (9)सप्तवेदिकानिर्माणस्याप्यनवकाशे पञ्चवेदिकापक्षमाह----एवं वेति त्रिभिः। संकटे स्थलसंकोचे सति, आद्योक्तान्मण्टपद्वयात्। ल्यब्लोपे पञ्चमी। स्नाननयनोन्मीलनमण्टपद्वयं विहाय, एवं वा कुर्याद् वक्ष्यमाणरीत्या (10)पञ्चवेदिकाल्पनं वा कुर्यात्। तासां विनियोगस्तु मध्ये मण्डलपीठं तस्य दक्षिणदिक् दक्षिणदिशि समीपेऽव्यवहितं(11) धनस्थानम्, कुम्भानां स्थापना(12) धनम्। तदनन्तरवेदिकायां स्नानकुम्भानां स्थापनम्। एवमेव वामनिकटे मण्डलपीठवामभागस्थसमीपवेदिकायाम्, भोगानां मन्त्रतर्पणं भोगानां समिदादीनां(13) मन्त्रतर्पणं हवनमित्यर्थः। तत्र प्रधानकुण्डस्थान(14) यावत्। पारमेश्वरव्याख्याने तु---" भोगानां मन्त्रतर्पणं कुम्भस्थार्चनमित्यर्थः, जलस्य समस्तभोगत्वात्" इति लिखितम्। तन्मन्दम्, प्रधानकुण्डस्यागतिकत्वात्।
ननु तर्हि कुम्भार्चनमगतिकं भवतीति चेन्न, कुण्डदक्षिणभाग एव तदर्चनस्य वक्ष्यमाणत्वात्।
ननु तर्ह्यस्मदुक्तार्थोऽपि संगत एवेति चेन्न, तपणशब्दस्य भवनपरत्वेनैवात्र बहुशः प्रयोगात्। ऋग्यजुः सामपूर्वाणां श्रुतीनां भवनं(15) विदिक्‌कु(ण्डं?ण्ड) चतुष्टयोक्तं भवनं परे तदनन्तरवेदिकायामिति ज्ञेयम्। दृग्दानं नयनोन्मीलनं शयनस्थाने पूर्वोक्तशयनवेदिकायामेव, अन्यस्मिन् शयने पृथक्‌शय्यायां हितमभिहितमित्यर्थः। पारमेश्वरव्याख्याने तु पूर्वमेव "समीपे शयनस्थानाम्" (पा.25/138) इत्यत्र समीपे नयनमित्य(16)बद्धपाठमङ्गीकृत्य नयनं नयनोन्मीलनमित्यर्थ इति लिखितम्। इहापि तथैव " दृग्दानं शयनस्थाने ह्यन्यस्मिन् शयने हि तत्" (पा. 25/140) इति पाठं परिकल्प्यैकस्मिन् नयनोन्मीलनार्थं शयनकल्पनम्, अन्यस्मिन् तत्प्रसिद्धशयनमिति लिखितम्। सप्तवेदिकापक्षेऽप्येवमेव मण्डलादिस्थाननियमः। किन्तु तत्र दक्षिणान्तिमवेदिकायां(17) स्नानपीठस्थापनम्, उत्तरान्तिमवेदिकायां नयनोन्मीलनार्थं शयनकल्पनमिति ज्ञायते।। 33--37 ।।
(1.मण्डप--बक. बख. अ. उ.।)(2.हि धनस्थानमिति, स्थापना धनमिति च भाष्यधृतः पाठः।)(3.हवने--बक. बख. अ. उ., भवनमिति भाष्यानुसारी पाठः।) (4.प्राग्‌--मु. अटी.।) (5.नेऽभितः--अ.।) (6.दिग् लोमं मूर्तिपानां--अ. उ.।) (7.पीठं--बक. अ.।) (8.इतः पूर्वम्--`संप्रविश्य ततः प्राग्वन्मण्डपं कृतमण्डनम्। पूर्वोक्तस्वस्तिकैर्युक्तो द्रव्यैर्द्रव्यगुणः (गणः) शुभः।। ' इत्येष श्लोको दृश्यते--बक. बख. अ. उ.। भाष्यकारेण तु नायं व्याख्यातः।)(9.कस्यानि--अ.।) (10. पञ्चवेदिकं--वा कल्पनं--अ.।) (11. हितेन्धन--अ.।) (12.अनेन वावयेन स्वयमेवभगवता धनशब्दो व्याख्यातः, अस्मिन्नर्थे धनशब्दस्याप्रसिद्धत्वात्।) (13.समिधा--म.।) (14.नमिति--अ.।)(15.हवनं--अ.।) (16.शयन--अ.।) (17.न्तिमे--अ.।)
स्वयं वस्त्वनुसन्धाय(1) हवनार्चनकर्मणाम्।। 40 ।।
आस्ते ह्युत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः।
स्वस्य तु भूतशुद्ध्यादिन्यासान्तकर्मसु हवनार्चनकर्मवस्त्वनुसन्धानपूर्वकमेकायतचित्तत्वेन (2)वर्तमान(ता) माह--स्वयमिति।। 40--41 ।।
 (1.न्धानह--अ. उ.।)(2. स्वर्त--अ.।)
कृत्वा दीक्षाविधानोक्तं सहोमं कलशार्चनम्।। 41 ।।
कुर्यात् सतोरणानां तु(3)ध्वजानां स्थापनं ततः।
पूर्वं दीक्षाप्रकरणोक्तरीत्या महाकुम्भार्चनहोमादिकं तोरणध्वजस्थापनार्चनं चाह--कृत्वेति।। 41--42 ।।
(3.च-मु. अटी.।)
सितरक्तादिभेदेन प्रागादौ तु(4) ध्वजाष्टकम्।। 42 ।।
निवेश्य मध्यवेद्यां तु पुनरप्ययवत् तथा।
यजेत् सत्यादिकं (5) तत्र चतुष्कं ह्येवमेव(6) हि।। 43 ।।
उत देवा अवहितमृङ्मयान् पाठयेत् ततः।
बहिर्वै(7) सर्ववर्णेन चक्रं तोरणनं यजेत्।। 44 ।।
पाठयेद् द्वारपालीयं साम सामविदस्ततः।
अथार्घ्यपुष्पभृन्मूर्तिधरैर्यायात्(8) समावृतः।। 45 ।।
मध्यवेद्याः परितो ध्वजाष्ट(क) स्थापनम्, तत्र प्रभवाप्ययक्रमेण सत्यसुपर्णाद्यर्चनम्, उत देवा इत्यादिमन्त्रपाठनम्, बहिस्तोरणगतनानावर्णचक्रध्वजेषु चक्रराजार्चनम्, लोकद्वारमपावृण्वित्यादिद्वारपालीयसामपाठनं चाह--सितेति त्रिभिः। एवं महाकुम्भाद्यर्चनानन्तरं ध्वजार्चनादिकस्योक्तावपि तत्पूर्वमेव वा तत्कार्यमिति ज्ञेयम्। तथा चेश्वरपारमेश्वरयोः--" एतेषामथवा पूर्वं(9) भवेद् द्वार्स्थैः सहार्चनम्" (ई. सं. 18/58; पा. सं. 25/178) इति।। 42--45 ।।
(3.च--मु. अटी.।) (4.च--मु. अटी.।) (5.तत्तच्च--मु. अटी.।) (6.एक--बक. बख. अ. उ.।) (7.ऊर्ध्वं सह सुपर्णेन--मु. अटी.।) (8.हृन्मूर्ति--मु. अटी.।) (9.पूर्वः--अ. म.।)
यत्र तिष्ठति विश्वेशः पीठब्रह्माशिलान्वितः।
तत्रावलोकनं तेषां कुर्यात् सन्ताडनादिकम्।। 46 ।।
चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नापयेत् ततः।
सिद्धार्थकैस्तथा पञ्चगव्यमृद्‌भूतिवारिणआ।। 47 ।।
वल्मीकमृज्जलेनाथ चक्राङ्कौषधिवारिणा।
(1) संक्षाल्याभ्यर्च्य चोद्वर्त्य क्षालयेदस्त्रवारिणा।। 48 ।।
तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे।
सिद्धार्थकान् दक्षिणे तु बद्‌ध्वाग्रे(2) पाठयेदृचम्।। 49 ।।
रक्षोहणं तथा(3) सर्वान् नयेत् प्रतिसरे मणीन्(4)।
सद्वस्त्रवेष्टितं कृत्वा समारोप्य रथोत्तमे(5)।। 50 ।।
कर्मारम्भं च पठतस्तस्य दक्षिणादिङ् न्यसेत्(6)।
ऋक्‌सामपूर्वान् वामे तु ब्राह्मणांस्तु चतुश्चतुः।। 51 ।।
पुरतोऽस्त्रं स्मरन् यायात् स्वयं विघ्नांस्तुसूदयन्।
सनृत्तगेयवादित्रस्तुतिमङ्गलपाठकैः(7)।। 52 ।।
इदं विष्णुर्विचक्रम(8) ऋङ्मयैः सह पाठयेत्।
एकायनांस्तदन्ते तु ॐ नमो ब्रह्मणे तु(9) यत्।। 53 ।।
तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम्।
स्वर्णादिनार्थिनः शक्त्या तर्पयंस्तान् प्रवेशयेत्।। 54 ।।
स्वस्थानं यज्ञभूमेर्वै प्रासादाभ्यन्तरं(10) तु वा।
(11) वक्ष्यमाणविधानेन युक्तं रत्नशिलादिना।। 55 ।।
अथ मूर्तिपैः सह बिम्बसमीपगमनम्, नेत्रमन्त्रेण तदवलोकनादिकम्, सिद्धार्थोदकादिषट्कलशस्थापनादिकमर्चनम्, देवस्य दक्षिणहस्ते सिद्धार्थैः सह प्रतिसरबन्धनम्, ऋग्वेदिभिराथर्वणिकैश्च रक्षोह(12)णपाठनम्, वेदघोषैर्नृत्तगेयादिभिः सह रथादिना बिम्बाद्यानयनम्, तदानीं स्वर्णादिदानयागगेहप्रवेशनं चाह--अथार्घ्यपुष्पभृदित्यारभ्य स्वस्थानं यज्ञभूमेर्वै इत्यन्तम्। चक्राङकौषधी कटुकरोहिणी, "कटुः(13) कटुम्भराऽशोका रोहिणी कटुरोहिणी। (14) मत्स्यपित्ता कृष्णभेदी चक्राङ्गी(15) शकुलादिनी"।। (3/8/86) इति वैजयन्ती। कर्मारम्भं भगवतो बलेनेत्यादिकं मन्त्रम्, ॐ भगवानेव स्वशेषभूतं मामिति मन्त्रं वा।। 45--55 ।।
(1.संगा--बक.) (2.ऋग्‌विप्र पाठ्यते--बक. बख., ऋत्विक् प्रपाठ्यते--अ. उ.।) (3.ततोऽथर्वा चायं--अ., तथाऽथर्व चायं---उ.।) (4. मणिम्--अ. उ.।) (5.त्तमम्--अ.।) (6.मुखः--बक.।) (7.गीत--अ.।) (8.क्रमेति--बक., क्रेति--अ..) (9.णेति--अ. उ.।) (10.दाद्य--मु. अटी. बक. बख.।) (11.पङ्‌क्तित्रयं नास्ति--बक. बख. उ., भाष्यकारेणापि न व्याख्यातमिति प्रतीयते।)(12.हरण--म.।) (13. कटुम्बरा--अ.।) )(14.कृष्णभेदी मत्स्यपित्ता--मु.।)(15.च कुला-दिनी--अ.।)
कृत्वा द्रव्याधिवासं प्राक् कर्मभूमौ पुरोदितम्।
स्नानकर्मशिलादीनामीषत् कृत्वा तु सार्चनम्।। 56 ।।
यथावद् (1) रत्नविन्यासं पीठपूर्वं(2) निवेश्य च।
बृहद्बिम्बे(3) ततः कुर्यात् कर्मबिम्बेऽखिलं तु वै।। 57 ।।
सन्निरोधस्तु मन्त्राणां तत्र लग्नोदये स्मृतः।
आबृहत्स्नपनात्(4) (5) सर्वं यत्किञ्चिदथ तत्र तत्।। 58 ।।
निर्वर्तनीयं पूर्णान्तं बुद्‌ध्वैवं प्राङ् महामते।
तथा कार्यं शुभो येन मुहूर्तो नावसीदति।। 59 ।।
बिम्बे बृहति सति तस्य केवलं प्रासादाभ्यन्तरप्रवेशम्, तत्र रत्नन्यासपूर्वकं पीठे स्थापनम्, यागशालाद्यखिलकर्मणां कर्मबिम्बे कर्तव्यत्वम्, लग्नोदये मूलबिम्ब एव मन्त्रावाहनसन्निरोधम्, मुहूर्तातिक्रमो यथा न संभवेत् तथा बृहत्स्नपनात् पूर्वं कर्तव्यानां पूर्णाहुत्यन्तानां कर्मणां झटित्यनुष्ठानं चाह--प्रासादाभ्यन्तरं तु वेत्यारभ्य मुहूर्तो नावसीदतीत्यन्तम्। आ बृहत्स्नपनात् चाह--प्रासादाभ्यन्तरं तु वेत्यारभ्य एव कर्तव्यत्वमुक्तं भवति। तथा चोक्तमीश्वरपारमेश्वरयोः--
स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते द्विजाः(6)।
पूर्ववत् कर्मशालायां संस्थाप्याकारशुद्धये।।
संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः।
स्नपनं बृहदापाद्य केवलं वा बहूदकैः।।
स्नानकर्म शिलादीनामीषत् कृत्वा तु सार्चनम्।
उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम्।।
समानीय ततो यत्नात् प्रासादाभ्यन्तरं तु वै।
यथावद् रत्नविन्यासपूर्वं पीठे निवेश्य च।। इति।
(ई. सं. 18/71--75;पा. सं. 15/ 192--195)
शिल्पिशालायां केवलं बहूदकैरेव स्नपने कृते बृहत्स्नपनं प्रासादाभ्यन्तर एव कार्यमिति च ज्ञेयम्(7)।। 55--59 ।।
(1.दुक्तविन्यासं--बक. बख.।) (2.प्रति--मु. अटी.।) (3.म्बं--मु. अटी. बक. बख.।) (4. ब्रह्मस्त--बक. बख. अ. उ.।) (5.स्नाप--मु. अटी.।) (6.द्विज--ई., शृणु--पा.।)(7.`इत्याह--वक्ष्यमाणेत्यादिभिः' अधिकः पाठः--अ.।)
एवं हि(1) चित्रपूर्वाणामन्येषां कमलेक्षण।
सरत्नब्रह्मपाषाणवर्जितानां समाचरेत्।। 60 ।।
स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे।
कर्मबिम्बं विना तेषां प्रस्वापाद्यं हि विष्टरे।। 61 ।।
कुर्यात् प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम्।
एवं प्रवेश्य तद्बिम्बं साम्प्रतं विनिवेश्य च।। 62 ।।
चित्रबिम्बविषये(2)ऽप्येवमेव कर्मबिम्बे स्नपनाद्यखिलकर्मणामनुष्ठानम्, तस्याभावे दर्पणे छायास्नपनम्, कूर्चद्वारा यागगेहप्रवेशशय्याधिवासोत्सवान्तानां कर्तव्यत्वं चाह--एवं हीति सार्धद्वाभ्याम्।। 60--62 ।।
(1.विचित्र--उ.।)(2. ये ह्येव--म.।)
(1) निषण्णदृढकाष्ठोत्थतोरणेऽस्त्राहुतीस्ततः।
निवेश्य स्नानकलशान् हेमाद्युत्थांस्तु निर्व्रणान्।। 63 ।।
एवं यागगेहानयनानन्तरं तत्र दृढकाष्ठोत्थतोरणे सन्निवेशमस्त्रमन्त्रेण होमं चाह--एवमिति। पीठब्रह्मशिलयोः पूर्वमेव तत्रानयनं तदुपरि ब्रह्मस्थापनं कार्यमित्युक्तमीश्वरपारमेश्वरयोः---
यागभूमिं ततो बिम्बमवरोप्य रथादिकात्(2)।
(3)निषण्णदृढकाष्ठोत्थतोरणे संनिवेश्य च।।
स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः।
यद्वा पूर्वं समानीय पीठं ब्रह्मशिलान्वितम्।।
 भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च।
ततो बिम्बं समानीय स्थापयेत् पिण्डिकोपरि।। इति।। 62--33 ।। (ई. सं. 18/68-71; पा. सं. 15/181-191)
(1.निषण्णं दृढकाष्ठोत्थं तोरणेऽस्त्राहुतिं ततः--अ. उ.।)(2.कान्--म.।) (3.निषण्णं--ई. पा.)
पूर्ववद् वदनोपेतान्(1) सुसमांस्त्रासवर्जितान्(2)।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु।। 64 ।।
द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत्।
तेनैव पूजयेत् पश्चादर्घ्यस्रक्चन्दनादिना।। 65 ।।
तदाहरणहोमं(3) तु यथाशक्ति समाचरेत्।
पूर्णान्तमथ सम्पूर्य क्रमाद् द्रव्यैर्नियोजयेत्(4)।। 66 ।।
पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम्।
(5)नागाद्याद्यन्तमध्येभ्यो नदोमृत्तीर्थसम्भवा(6)।। 67 ।।
(7) ह्रदाद् वल्मीकशिखराद् गजन्दक्षतीकृतात्(8)।
हलोत्था वृषशृङ्गोत्था(9) शालिक्षेत्रेषु(10) सम्भवा।। 68 ।।
तथैव पद्मषण्डोत्था त्वेकस्मिन् गोमयं परे।
वनदाहसमुद्‌भूतं तथैव च महानसात्।। 69 ।।
त्रेताग्निभस्म त्वपरे विनिवेश्यं(11) घटान्तरे।
अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम्।। 70 ।।
सघृतं तैलकुम्भं तु चमसीवारिपूरितम्।
पलाशखदिगश्वत्थशमीलोहितचन्दनम्।। 71 ।।
कषायोदकमन्यस्मिन् परस्मिंस्त्रिफलोदकम्(12)।
वचा शतावरी कन्या व्याघ्री सिंही कृताञ्जलिः(13)।। 72 ।।
गोलोमी सिंहलोमी च कुष्ठं भूतजटा तथा।
महागरुडवेगा च कलशेऽन्यत्र लाङ्गलिन्।। 73 ।।
महानीला गलूची(14) च(15) सहदेवी शथावरी।
विष्णुक्रान्ता च कार्कोटा(16) साह्वा वह्निशिखाऽपरे(17)।। 74 ।।
यष्टी (18)वाराहकर्णी (19)चाप्यन्यांस्मिन् गजपिप्पली।
श्रीफलाद्यानि चान्यस्मिन् पावनानि फलानि च।। 75 ।।
दधिक्षीराज्यकुम्भाश्च द्वौ मध्विक्षुरसान्वितौ।
मूलान्यम्भोरुहाणां(20) च तान्यन्यस्मिन् द्वये न्यसेत्।। 76 ।।
द्रुमाणां पावनानां तु सक्षीराणां विशेषतः।
पुष्पपत्रफलोपेतमेकस्मिन् मञ्जरीगणम्।। 77 ।।
जात्यादिकमथैक(21) कौसुमीयं (22) लताचयम्।
रोचनारजनीयुग्मं बला मोटा च पद्मकम्।। 78 ।।
इति पञ्चकमेकस्मिन्(23) दर्भान्(24) दूर्वाङ्कुराणि च।
सास्यं शाल्यङ्कुरचयं कलशेऽन्यत्र(25) वै न्यसेत्।। 79 ।।
सिद्धार्थकान् सिताद्यांस्तु प्रियङ्गुं(26) गन्धसंज्ञकम्।
अपरस्मिन् न्यसेत् कुम्भे सह वै नागकेसरैः।। 80 ।।
ग्राम्याश्चौषधयः सप्त सप्तारण्या घटद्वये।
बाह्लीकं चन्दनं चैव रसं(27) कर्पूरसंयुतम्।। 81 ।।
चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः।
(28) ताम्रज्राम्बूनदाद्यास्तु परे त्नचयं महत्।। 82 ।।
न्यसेद् विद्रुमजालं च द्वयोर्मुक्ताफलानि च।
अर्घ्योदकमथैकस्मिन् नदीतीर्थोदकं द्वये।। 83 ।।
सर्वौषधिघटं चैव सुशीताम्भोघटं ततः।
सुगन्धपुष्पकलशं(29) चत्वारिंशत् त्वमी स्मृताः।। 84 ।।
वामभागे तु देवस्य अग्निकोणादितो(30) न्यसेत्।
यातुधानपदं यावत् क्रमाद् द्विद्विकसंख्यया।। 85 ।।
दशपङ्‌क्तिनियोगेन एवमन्ये तु पृष्ठतः।
ईशकोणात् समारभ्य यावदाग्नेयगोचरम्।। 86 ।।
शीताम्बुपूरितानां च घटानां केवलं न्यसेत्।
पुनरीशानकोणात् तु शयने सप्तधा न्यसेत्।। 87 ।।
गन्धोदकेन सम्पूर्णांस्तथा वायुपदावधि।
सर्वाण्याधाररूढानि पूरितान्यमलाम्भसा।। 88 ।।
मूलमन्त्रेण तदनु पूजयेद् द्वादशात्मना।
संवेष्ट्य च पुरा सूत्रैश्छादयेत् तदनन्तरम्।। 89 ।।
विधानैः सूत्रसम्बन्धैर्वस्त्रेणाच्छाद्य वै ततः।
अथ (31)स्नपनार्थं कलशस्थापनविधिमाह--निवेश्य स्नाकलशानित्यारभ्य वस्त्रेणाच्छाद्य वै त इत्यन्तम्। पूर्वोदितैर्दीक्षाप्रकरणोक्तैरित्यर्थः। अस्य स्नपनस्य(32)(33) पारमेश्वरेऽप्युक्तत्वात् तद्व्याख्याने पाद्यर्घ्यचमनीयद्रव्याण्युपरि स्पष्टीकरिष्यतीत्युक्तम्। तद्विरुद्धम्, पूर्वोदितैरिति विशेषणस्य वैयर्थ्यात्, तत्रोपरि स्पष्टीकरिष्यमाणपाद्यादिद्रव्याणां वैजात्याच्च। चमसी मलनिर्हरणार्थकसुगन्धद्रव्यविशेषः। त्रिफलं नेल्लिक्कायि अरलेकायि तारेकायि। वचा बजे, " वचोग्रगन्धा" (2.4.102) इत्यमरः शतावरी आषाढी। कन्या लोलिसरकन्या, कुमारीति निघण्टुः। व्याघ्री गुल्ली सिंही आढुसोगे। आषाढी। कन्या लोलिसरकन्या, कुमारीति निघण्टुः। व्याघ्री गुल्ली सिंही आढुसोगे कृताञ्जलिः सट्टदकरिकै, कृताञ्जलिर्नागबालेति निघण्टुः। गोलोमी पिल्लगरिकै, "गोलोमी शतवीर्या च" (2.4.151) इत्यमरः। "गोलोमी शतपर्विका" (2.4.102) इति गोलोमीशब्दस्य वचापरत्वमप्यस्ति, वचायाः पूर्वमेवोक्तव्यादत्र श्वेतदूर्वैव प्रकृता। सिंहलोमी नरियाल्दहुल्लु, " क्रोष्ठुविन्ना सिंहपुच्छी" (2.4.13) इत्यमरः। कुष्ठं चगलकोष्ठ, " व्याधि कुष्ठं पारिभाव्यम्" (2.4.126) इत्यमरः।(34) भूम्यञ्जनम्(35)। महागरुडवेगा गरुडनगरिगिड्डा। महानीला करिगुरुग, गलूची अमृतवल्ली, गलूच्यमृतवल्ली चेति निघण्टुः। सहदेवी प्रसिद्धा। विष्णुक्रान्ता च प्रसिद्धा। शतावरी पूर्वोक्ता। कार्कोटा तोट्टिगिड्डा, हिंस्रा कार्कोटकी चेति निघण्टुः। सिंहा बिल्वः, शैलूषश्रीफलसिंहा इति वैद्यनिघण्टुः। वह्निशिखा(36) गिणिमृभिनगड्डे, "स्याल्लाङ्गलिक्यग्निशिखा" (2.4.118) इत्यमरः। यष्टि अतिमधुरम्। वाराहकर्णी, अनेलदालु। बला बेण्णेगरुड, "बला वाट्यालकी घण्टा" (2.4.107) इत्यमरः। मोटा अगलशुण्ठी। पद्मकं प्रसिद्धम्। सप्त ग्राम्यौषधयः शालिमुद्‌गादयः सप्तारण्यका वेणुश्यामाकादयश्चेश्वरपारमेश्वरयोर्हिवि(37) पाकप्रकरणोक्ता ग्राह्याः। एवं वामभागे स्थापितचत्वारिंशत्कलशस्नपनस्य स्थूलपरसंज्ञत्वम्, पृष्ठभागे स्थापितचत्वारिंशत्संख्याककेवलशीतोदककलशस्नपनस्य स्थूलसूक्ष्मसंज्ञत्वम्, दक्षिणभागे स्थापितगन्धोदकपूरितचत्वारिं शत्कलशस्य स्थूलस्थूलसंज्ञत्वं चेश्वरपारमेश्वरयोः(38) प्रतिपादितम्। एवं देवस्य वाम भागादिषु स्नपनत्रयकलशस्थापनं पृथक् स्नपनमण्टपे सति(39) कार्यम्, तदभावे यागगेहस्थतदर्थपीठ एव पूर्वादिपश्चिमान्तं तत्तद्दिने तत्तत्स्नपनकलशस्थापनं कार्यमिति च तत्रैव प्रतिपादितं ज्ञेयम्। तत्तत्स्नपनकालश्च तत्रैवोक्तः--
अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम्।।
प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम्।
चतुर्थे दिवसे स्नानं स्थूलस्थूलाभिधं भवेत्।। इति।
(ई. सं. 18.164--165; पा. सं. 15.288--289)
एषां स्नपनानां सति विभवे विस्तारस्तदभावे संकोचश्च तत्रैव स्नपनाऽध्याये प्रतिपादितः---
भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा।।
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत्।
अनुकल्पे तदर्धं वा पादमष्टांशमेव वा।।
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम्।
एकैकं वापि विप्रेन्द्राः सर्वद्रव्यमयं घटम्।।
(ई. सं. 15.138--140;पा. सं. 14.140--142) इति।। 63--90 ।।
(1. वच--मु. बक. बख. अ.।) (2. मान् ह्रास--अटी.।) (3.मरण--अ. उ.।) (4. बोधतु--बक. बख. अ. उ.।) (5.नागादा--बक. बख., नगादा--अ. उ.।) (6.वाम्--बक. बख.।) (7.श्लोक एषोऽग्रिमश्लोकानन्तरं स्थापितः--अ.।) (8.क्षयी--अ. उ.।) (9.गोवृषशृङ्गोत्था चलिता क्षेत्रसम्भवा--अ. उ.।) (10. क्षेत्रसमुद्भवा--बक. बख.।) (11.वेश्य--बक.।) (12. परे तु त्रि--बक. बख. अ. उ.।) (13.धृता-अ.।) (14.गलू चैव--अटी.।) (15.वा--मु.।) (16.च--बक., ट--बक. उ., टी--मु. अटी.।) (17.बर्हि--अ. उ. ।) (18. वराह--मु. अटी.।) (19. च अ--बक. बख. अ. उ.।) (20.`रुहाणां....जात्यादिक' नास्ति--बक.।) (21.थैत--बक. बख.।) (22. यत्न--मु. अटी.।) (23.मन्य--बक. बख.।) (24.दर्भ--बक. बख., दर्भा--अ.।) (25.ह्यपरे तु वै--बक. बख. अ. उ.।) (26.ङ्गु--बक. बख., ङ्गं--अ.।) (27.रस--बक. उ.।) (28.धन्या--बक. अ., धान्या--बख. उ.।) (29.सुगन्धि--मु. अटी.।) (30.दिके--बक. बख. उ.।) (31.स्नाप--अ.।) (32.स्नाप--अ.।) (33. पारमेश्वरे स्नपनाध्याये (14.60--62) अत्रत्याः केचन श्लोका द्रष्टव्याः।)(34.` इत्यमरः' नास्ति--अ.।) (35.भूम्यञ्जनमित्यनेन भूतजटाशब्दो व्याख्यात इति प्रतीयते।)(36. मृगिन--म.।) (37.ईश्वरे(15.58-59) पारमेश्वरे (18.134--136)) (38. ईश्वरे (15.134--137), पारमेश्वरे च (14.136--138)।) (39.इति--अ.।)
(1)तदर्पणावसानेऽथ शयनं कल्पयेद् द्विधा।। 90 ।।
सर्वोपकरणोपेतमनन्तं तदधो यजेत्।
प्रभवाप्यययोगेन तदूर्ध्वे सर्वगं प्रभुम्।। 91 ।।
पाठयेत् (2) सर्पसामाथ संज्ञां ज्ञानबलात्मिकाम्।
हुत्वा शताष्टसंख्यं तु(3) मूलं तदनु कल्पयेत्।। 92 ।।
अथ नयनोन्मीलनार्थमधिवासार्थं च शयनद्वयकल्पनं तत्रानन्तार्चनादिकं चाहतदिति द्वाभ्याम्। तदर्पणावसाने कलशपूजानन्तरमित्यर्थः। सर्वोपकरणोपेतमित्यत्रशयनोपकरणानीश्वरपारमेश्वरोक्तानि(4) ग्राह्याणि। प्रभवाप्यययोगेन प्रागादिषु वासुदेवरूपेणाग्नेयादिषु पुरुषादिरूपेणेत्यर्थः। सर्पसाम(5) चर्षणीधृतमित्यादि। ज्ञानबलात्मिकां सङ्कर्षणो भगवानित्यादिकं मन्त्रम्।। 90--92 ।।
(1.तत्त--बख. अ. उ.।) (2.सर्व--बख. अ. उ. अटी.।) (3. च--मु. अटी.।) (4. ईश्वरे (18.167--185) पारमेश्वरे(15.219--308) च शयनोपकरणानीमानि द्रष्टव्यानि।) (5. सर्पः साम---अ.।)
मण्डलं पावनै रागैः(1) सिदाद्यैर्माङ्गलीयकैः।
तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगणं ततः।। 93 ।।
संस्कुर्यात् प्रतिकुण्डस्य निकटे कुम्भमध्यगम्।
प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत्।। 94 ।।
हृदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्राट्।
दत्वा तदर्थं पूर्णां तु पूर्णात् पूर्णं च पाठयेत्।। 95 ।।
एकायनान् यजुर्मयानाश्रावितमनन्तरम्(2)।
अथ मूलमन्त्रेणाष्टोत्तरशताहुतिपूर्वकं मण्डललेखनम्, तन्न्यूनातिरिक्तशान्त्यर्थं प्रायश्चित्तहोमम्, प्रागाद्यष्टकुण्डसंस्कारम्, प्रतिकुण्डसमीपं कुम्भस्थापनम्, तेषु प्रभवाप्ययक्रमेण वासुदेवाद्यर्चनं यद्वा हृन्मन्त्राद्यर्चनम्, मध्यकुण्डे तदर्थं पूर्णाहुतिम्,तेषु प्रभवाप्ययक्रमेण वासुदेवाद्यर्चनं यद्वा हृन्मन्त्राद्यर्चनम्, मध्यकुण्डे तदर्थं पूर्णाहुतिम्, एकायनादिभिः (3) पूर्णात्पूर्णपठनं चाह--हुत्वेति चतुर्भिः। आश्रावितमथर्ववेद इति पारमेश्वरव्याख्याने।। 93--96 ।।
(1.लिङ्गैः--बक. बख. अ. उ.।) (2.वि तद्--मु. अटी. अ. उ.।) (3. पूर्णापूर्णा--अ.।)
(1) अथास्त्रमन्त्रेण पुरा माङ्गल्यकलशाम्भसा।। 96 ।।
संसेच्य बिम्बं तदनु स्नापयेत् तदन्मृदम्भसा।
पाठयेत् तत्र कूष्माण्डान् बलमन्त्राननन्तरम्।। 97 ।।
ततो गोमयकुम्भेन इह गावः प्रपाठयेत्।
भूतिस्त्वमिति मन्त्रेण पठ्यमानेन भूमिना।। 98 ।।
पञ्चगव्ये न तदनु पाठयेच्चतुरस्ततः(2)।
पूर्ववच्च ततोऽभ्यर्च्य(3) विधिवच्चमसाम्बुना।। 99 ।।
क्षालयित्वाऽर्चयित्वा च निवेश्य शयनान्तरे।
नेत्राभिमन्त्रितां कृत्वा शलाकां तैजसीं स्वयम्।। 100 ।।
अथ पूर्वं स्थापितस्थूलपराभिधानस्नपनकलशेषु पाद्यादिकतिपयकलशाभिषेकालङ्करणार्चनपूर्वकं नयनोन्मीलनार्थ शयने बिम्बस्य संनिवेशनमाह--अथेति चतुर्भिः। माङ्गल्यकलशाम्भसा पाद्यार्घ्याचमनाख्यकलशत्रयोदकेनेत्यर्थः। चमसाम्बुना। चमसो नाम तैलनिर्हरणार्थकद्रव्यविशेषः पूर्वमाराधनप्रकरणेऽप्युक्तः--
रजनीचूर्णसंमिश्रमीषत्पद्मकभावितम्।।
देयमुद्वर्तनार्थं तु चमसं तदनन्तरम्।(6.33--34) इति।
चमषी सुगन्धद्रव्यविशेष इति पारमेश्वरव्याख्याने।। 96--100 ।।
(1.यथा--मु., यदा--अटी.।) (2.च्छाक्वरं ततः--अ. उ.।) (3.भ्यज्य--मु. उ.।)
संस्सरन् परमं ज्योतिरीषन्नेत्रे(1) तु चोल्लिखेत्।
तन्मन्त्रितेन शस्त्रेण शिल्पी स्नातोऽवलोकितः।। 101 ।।
यथावत् प्रकटीकुर्याद् विधिदृष्टेन कर्मणा।
वारुणं पाठयेत् साम सह चान्द्रेण सामगान्।। 102 ।।
ततः पात्रद्वये कृत्वा तैजसे(2) मधुसर्पिषी।
वौषडन्तेन मूलेन सम्पूर्य(3) जुहुयात् ततः।। 103 ।।
मुञ्चन्तममृतौघं तु हृदाद्यन्तेन सेचयेत्।
तन्मूर्ध्नि शशिबिम्बं तु ध्यायेत् ताडनशान्तये।। 104 ।।
सदक्षिणं शलाकाद्यं दद्याच्छिल्पिजनाय(4) च।
गोदानमाचरेत् पश्चाद् गुरोराराधकस्ततः।। 105 ।।
यथाशक्ति तथान्येषां मूर्तिपानां च दक्षिणाः।
दत्वा समाचरेत् पश्चाद् दाहं साप्यायनं तु वै।। 106 ।।
अथ नयनोन्मीलनविधानामहा--नेत्राभिमन्त्रितां कृत्वेत्यारभ्य मूर्तिपानां च दक्षिणा इत्यन्तम्। तैजसीं तैजसद्रव्यसंभवामित्यर्थः सौवर्णीं राजतीं वेति यावत्। अत्रैकयैव शलाकया नेत्रद्वयोल्लेखनमिति ज्ञेयम्। संहितान्तरेषु सुवर्णरजतशलाकाद्वयेन नत्रद्वयोल्लेखनमुच्यते। अत एवेश्वरपारमेश्वरयोः पक्षद्वयमप्युक्तम्---"आज्याक्तया तया वापि राजत्वा वाममुल्लिखेत्" (ई. सं. 18.207; पा. सं. 15.330) इति। तन्मन्त्रितेन नेत्राभिमन्त्रितेनेत्यर्थः। अवलोकितो नेत्रमन्त्रेण निरीक्षित इत्यर्थः। वारुणं साम प्रमित्राय प्रार्यम्ण इत्यादि। चान्द्रं साम चान्द्रं चान्द्रं चान्द्रं चान्द्रमित्यादि। संपूर्येत्यत्र नेत्रयुग्ममिति शेषः। तथा चोपबृंहितमीश्वरपारमेश्वरयोः---
पूरयेन्मधुसर्पिभ्यां नेत्रयुग्मं क्रमेण तु।।
वौषडन्तेन मूलेन तेनैव जुहुयात् ततः। इति।
(ई. सं. 18.209--210; पा. सं. 15.332--333)
अन्ये च बहवो विशेषास्तत्र तत्र प्रतिपादिता ग्राह्याः।। 101--106 ।।
(1.रीक्ष--मु. बक.।) (2.सी--बख. अ. उ.।) (3.सम्पूज्य--मु. अटी. बक.)(4.नस्य--बख. अ.उ.।)
आमूर्ध्नो द्वादशार्णं तु मूर्त्यर्थं पूर्ववन्न्यसेत्।
व्याप्तिसप्तासमायुक्ते संस्कृते(1) प्रोक्षणादिना।। 107 ।।
पीठेऽवतार्य संवेष्ट्य वासोभ्यां(2) चाप्यधोर्मध्वतः।
ततो बिम्बस्य दहनाप्यायनपूर्वकं मूलमन्त्रन्यासमनन्तादिव्याप्तिसप्तान्विते स्नानपीठे संस्थापनं वस्त्राभ्यां संवेष्टनं चाह---दत्वेति द्वाभ्याम्।। 107--108 ।।
(2.संस्कृत्य--मु. अटी., संस्तुते--बक. बख.।) (2.वाससा ह्यधरोर्ध्वतः--मु. अटी.।)
(3) अथ क्रमोदितैः कुम्भैर्द्विषोढावर्तितैर्हृदा।। 108 ।।
स्नापयेत् पाठयेद् विप्रान् ओषधीनामिति श्रुतिम्।
या ओषधय इत्यादि ऋग्वेदांस्तदनन्तरम्।। 109 ।।
एवं दशावशिष्टान्तैः(4) सेचिते कलशैः सति।
ततः कुम्भचतुष्केण चतुर्भिर्मूर्तिधारकैः।। 110 ।।
ऋक्सामपूर्वैर्विधिवत् स्नापनीयं च पाठयेत्।
उदुत्तमं हि ऋग्वेदान् पाठयेद् द्रविणं यजुः।। 111 ।।
ततस्तु वारुणं साम सामज्ञोऽथर्वणस्ततः।
अयं ते वरुणश्चेति पवित्रं ते ततो ऋचम्(5)।। 112 ।।
वसोः पवित्रं हि यजुः पाठयेत् सामगांस्ततः।
पवित्रं ते हि यत्साम संचोद्यैकायनांस्ततः।। 113 ।।
मूर्तिपान् समुदायेन पावमानीचतुष्टयम्।
तदन्ते तु परं मन्त्रं व्यूहीयं भगवानिति।। 114 ।।
पवित्रमन्त्रं तदनु इदं विष्णुर्विचक्रमे।
ततो विभवमन्त्रैस्तु सर्वैः संमन्त्रितेन च।। 115 ।।
कुम्भेन सेचयित्वा तु व्यूहमन्त्रैः परेण तु।।
स्नापयित्वाऽर्चयित्वा तु जुहुयात् साधिकं(6) शतम्।। 116 ।।
अथावशिष्टैः कलशैरभिषेचनक्रमं तच्छिद्रपूरकं होमं चाह--अथ क्रमोदितैः कुम्भैरित्यारभ्य जुहुयात् साधिकं शतमित्यन्तम्।। 108--116 ।।
(4.ष्टान्ते--बक. बख. अ. उ.।) (5.ऋचा--मु. अटी.।) (6.साधितं--मु.।)
यथावत् प्रणवेनाथ व्याप्तं कृत्वा च पाठयेत्।
मा प्रकामेति(1) ऋग्वेदानाग्नेनायुर्यर्जुर्मयान्।। 117 ।।
प्राणापानं हि यत्साम ततः प्राणाय वै नमः।
यातव्येति(2) परं मन्त्रं विप्रानेकायनांस्ततः।। 118 ।।
अथ प्रणवेन बिम्बे भगवद्व्याप्तिस्मरणपूर्वकमृगादिचतुर्वेदेष्वेकायने च प्राणप्रतिष्ठामन्त्रपाठनमाह--यथावदिति द्वाभ्याम्।। 117--118 ।।
(1.प्रगा मु. अ.।) (2. धातर्येति--अ. उ.।)
ध्यानयुक्तो धिया सम्यक् पठेदाराधकस्ततः।
ॐ(3) आवाहयाम्यमरवृन्दनताङ्घ्रियुग्मं
लमीपतिं भुवनकारणमप्रमेयम्।
आद्यं सनातनतनुं प्रणवासनस्थं
पूर्णेन्दुभास्करहुताशसहस्ररूपम्।। 119 ।।
ध्येयं परं सकलवेदविदां च वेद्यं
वाराहकापिलनृकेसरिसौम्यमूतिंम्।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं
कौमोदकीकमलशङ्खरथाङ्गहस्तम्।। 120 ।।
सर्वत्रगोऽसि भगवन् किल यद्यांपे त्वा--(4)
मावाहयामि हि यथा व्यजनेन वायुम्(5)।
गूढो यथैव दहनो मथनादुपैति।
(6) आवादितोऽपि हि तथा त्वमुपैषि चाऽर्चाम्।। 121 ।।
मालाधराच्युत विभो परमात्ममूर्ते
सर्वज्ञ नाथ परमेश्वर सर्वशक्ते।
आगच्छ मे कुरुदयां प्रतिमां भजस्व
पूजां गृहाण मदनुग्रहकाम्ययाऽद्य।। 122 ।।
ततस्त्वावाहनश्लोकचतुष्टयं स्वयं पठेदिति। तच्चाह--ध्यानेत्यादिभिः।। 119--122 ।।
(3.णोमित्यादिका 119-122 संख्याकाः श्लोका न सन्ति--उ., लिखिता अपि मष्या लेपिताः।)(4.त्व--अ.।) (5.वायुः--अ.।) (6.ह्यावा--मु. अटी.।)
ततो विमृज्य वस्त्रेण भोगैः पूर्वोदितैर्यजेत्।
अर्घ्याद्यैर्दिक्षिणान्तैस्तु पाठयेद् ऋङ्‌मयांस्ततः।। 123 ।।
अर्चाय तेति वै मन्त्रं साम यच्चार्चितस्त्विति।
भगवानिति(1) तज्ज्ञांस्तु ततः सन्तर्पितेऽनले।। 124 ।।
स्तुत्वा जितन्तमन्त्रेण सामज्ञान् पाठयेत् पुनः।
सह गायत्रसाम्ना(2) तु तद्रथन्तरसंज्ञितम्(3)।। 125 ।।
प्रजप्य द्वादशार्णं तु मुद्रां बद्‌ध्वा प्रणम्य च।
अष्टाङ्गेनाथः विज्ञाप्यो भगवान् भूतभावनः।। 126 ।।
मूर्तिभूतेन(4) रूपेण अनेनैव हि साम्प्रतम्।
लोकानज्ञाततत्त्वांस्तु समाह्लादय नागरान्।। 127 ।।
येनान्तः सम्प्रविष्टेन ईषत्कालवशात्(5) तु वै।
जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति(6) किल्बिषात्।। 128 ।।
एवमर्थ्यो(7) हि भगवांल्लोकानुग्रहकृत् प्रभुः।
करावङ्‌घ्रिगतौ कृत्वा पाठयेद् ऋङ्‌मयांस्ततः।। 129 ।।
उत्तिष्ठेति ऋचो मन्त्रं(8) कृत्वा ब्रह्मरथे स्थिरे।
सुयन्त्रिते च क्षीराज्ये(9) दध्योदनसमन्विते।। 130 ।।
दुर्भिक्षक्षामशान्त्यर्थं(10) परमान्नफलैर्युते।
पाठयेदस्यवामीयम् ऋङ्‌मयांस्तदनन्तरम्।। 131 ।।
तन्मयान् बलमन्त्रं तु दशार्धेति महामते।
स्वयमाद्यन्तसंरुद्धं हृदा तु कवचं जपेत्।। 132 ।।
भ्रामयेद् बलिदानं तु क्रियमाणं तु सर्वदिक्।
रत्नकाञ्चनवस्त्राणां पूर्ववत् क्षेपमाचरेत्(11)।। 133 ।।
दिव्याद्यायतनानां च कार्या पूजा यथोदिता।
पञ्चरात्रविदां चैव यतीनां ब्रह्मचारिणाम्।। 134 ।।
षट्‌कर्मनिरतानां च दानं दीनजनेष्वपि।
(12) रथस्थे मन्त्रबिम्बे तु यावत् पदशतं व्रजेत्।। 135 ।।
(13) स रथस्तूर्यघोषेण तावत् क्रतुफलं बहु(14)।
आप्नोत्याराधकः शश्वत् सकामो नियतव्रतः।। 136 ।।
ततस्तोरणदेशस्थं रथं कृत्वाऽर्चयेत् प्रभुम्।
पाद्यार्घ्यपुष्पधूपैस्तु नमस्कृत्य च पाठयेत्।। 137 ।।
उत्तिष्ठेति द्विषट्कार्णं सजितन्तं तु चाखिलम्।
सम्पठन् पौरुषं सूक्तं यागवेश्म प्रवेशयेत्।। 138 ।।
हृदा शयनगं कृत्वा यात्रहोमं समापयेत्(15)।
ततस्तच्छिरसो देशे चक्राधारस्थिते घटे।। 139 ।।
पूर्वोक्तलक्षणे नेत्रमस्त्रसम्पुटितं(16) यजेत्।
पूजयित्वाऽर्घ्यपुष्पाद्यैः (17) शयनस्थं च वै पुनः।। 140 ।।
वर्मणाऽऽच्छाद्य वस्त्रेण (18)ततोऽङ्‌घ्रिनिकटे विभोः।
स्थित्वालाञ्छनमन्त्रांस्तु यथास्थानगतान् न्यसेत्।। 141 ।।
पादाद् वै द्वादशाङ्गेषु(19) ततो दामोदरादिकान्।
तच्छक्तिकांस्तथा मन्त्रान् (20)भास्वद्व्यापकलक्षणान्।। 142 ।।
ऐश्वरेणाथ(21) बीजेन यथावस्थेन भावयेत्।
(22) पादादितन्मयेनैव तद्वन्मन्त्रवरेण तु।। 143 ।।
प्राग्वदप्यययुक्त्या तु अन्तर्ज्योतिर्मयात्मना।
विभुना वाक्‌स्वरूपेण तदेवाथ परं पदम्(23)।। 144 ।।
शुशान्तं सर्वगं बुद्‌ध्वा निस्तरङ्गमिवोदधिम्।
(24) विद्यां गदामित्याद्यं यत् पाठयेत् पाञ्चरात्रिकान्।। 145 ।।
(25) देहसान्न्यासिकं मन्त्रं धारणाख्यमनन्तरम्।
जीमूतस्येति ऋग्वेदान्नासदासीच्च(26) पाठयेत्।। 146 ।।
क्रमेणानेन हुत्वा तु(27) पादार्धशतसंख्यया।
तिलानां तु तथाज्यस्य मन्त्रैरेभिर्महामते।। 147 ।।
दत्वा पूर्णाहुतिं सम्यगुपसंहारलक्षणाम्(28)।
ततस्तत्परमं (29) ब्रह्माऽभ्युदितं पूर्ववत् स्मरेत्।। 148 ।।
सर्वशक्तिमयेनैव स्वभावेन स्वकेन तु।
ओजोबलात्मना यद्वद् गन्धद्रव्यात्मना(30) तु वै।। 149 ।।
बीजं तरुस्वरूपेण समुद्रो बुद्बुदात्मना।
एवमव्यपदेश्यायाः शक्तेः स्वे शक्तिदर्पणे।। 150 ।।
स्थितिमादाय(31) विश्वेशः स्वातन्त्र्याच्च महामते।
मन्त्ररूपां(32) तनुं धत्ते सम्यगाराधनाय(32) च।। 151 ।।
नानात्वमुपयातस्य प्रसरं(33) तस्य च स्वयम्।
निष्प्रभत्वं प्रयातस्य चिद्बीजनिचयस्य च।। 152 ।।
आविष्कृतस्य भेदेनाप्यमूर्तेन(34) बलीयसा।
अज्ञानगहनेनैव नित्यानित्यमयात्मना।। 153 ।।
स्मृत्वैवं मूलमन्त्रं तु बिम्बहृत्पद्मगं स्मरेत्।
षट्‌शक्तिकिरणोपेतैस्तै(35) स्तद्‌द्रव्यमयीं तनुम्।। 154 ।।
संस्मरेत् संहरन्तं च चप्रागुक्तेनैव(36) वर्त्मना।
स्वरूपममलं भूयः स्मरेन्मूर्त्यात्मना ततः(37)।। 155 ।।
नयन्तं(38) पूर्वविधिना एवं स परमेश्वरः।
मन्त्रात्मना स्वतन्त्रत्वमुपयातो यदा तदा।। 156 ।।
सहस्रशिरसं देवमित्यथर्वांस्तु(39) चोदयेत्।
पाठयेद् ब्राह्मणान्(40) धातर्यध्यक्षेति च मन्त्रराट्।। 157 ।।
यो विश्वतश्चक्षुरिति(41) ध्यातव्यो भवतीति च।
द्वा सुपर्णेति तदनु अतो देवेति(42) वै पुनः।। 158 ।।
ऋङ्‌मयान् पौरुषं सूक्तं ततः परतमा त्विति(43)।
ततोऽर्चयित्वा मन्त्रेशं(44) शयने बिम्बवृत्तिगम्(45) ।। 159 ।।
नित्यसन्निधिसिद्ध्यर्थमा समाप्तिं तु मण्डले।
संरोध्य सन्निधीकृत्य महता विभवेन तु।। 160 ।।
साङ्गं सन्तर्प्य विधिवत् सह (46) मूर्तिधरैस्तः(47)।
स्वमूर्तिकुम्भान्मन्त्रेण जलमुद्‌धृत्य भाजने।। 161 ।।
बिम्बमूर्ध्नि क्रमाद् देयं सर्वेरेकायनादिकैः(48)।
सन्तर्पयित्वा तदनु मन्त्रं सपरिवारकम्।। 162 ।।
आज्यादिना प्रभूतेन दत्वा पूर्णाहुतिं ततः।
बिम्बात्मना प्रयातानां क्ष्मादीनामङ्गरूपिणाम्।। 163 ।।
(49) आपादानेऽपि पूर्णत्वात् पिण्डीभावार्थमेव(50) च।
आरम्भादेव जातानां छिद्राणां शमने तु वै।। 164 ।।
आप्यायनार्थं मन्त्राणां द्रव्यैर्होमं समाचरेत्।
द्विषट्केनाहुतीनां तु एकैकेन चतुर्हृदा।। 165 ।।
आ चाङ्‌घ्रे र्जानुपर्यन्तं स्पृष्ट्‌वाज्यं होमयेत् पुरा।
(51) आ नाभिजानुदेशाच्च तथैव(52) जुहुयाद् दधि।। 166 ।।
नाभेराकर्णतः क्षीरमा(53) कर्णादा शिरो मधु।
संमेल्य जुहुयात् सर्व(54) देहं तु चाखिलम्।। 167 ।।
एवमावाहनानन्तरं बिम्बसंमार्जनमर्घ्याद्यभ्यर्चनम्, अर्चामि तेत्यादिमन्त्रपठनम्, मध्यकुण्डे दिक्‌कुण्डेषु च हवनम्, जितन्तास्तोत्रपूर्वकं गायत्ररथन्तरसामपठनम्, जपमुद्राप्रणामविज्ञापनानि ब्रह्मरथोपरि भगवदुत्सवं शय्याधिवासं लाञ्छनन्यासं दामोदरादीनां महिमादितच्छक्तीनां विशाखयूपबीजस्य तत्तन्मूर्तिबीजस्य प्रणवस्य वा मूलमन्त्रस्य च पादादिमूर्धान्तं संहारक्रमेण न्यासम्, निस्तरङ्गार्णववत् सुशान्तत्वेन भगवद्ध्यानमुपसंहारप्रतिपादकानां विद्यां गदामित्यादिमन्त्राणां पाठनम्, बिम्बविन्यस्तैर्मन्त्रैः प्रत्येकं शतसंख्यया होमं पूर्णाहुतिं पुनः सर्वशक्तिमयेन स्वभावेन भगवतोऽभ्युदितत्वचिन्तनम्, बिम्बहृत्पद्मे षट्‌शक्तिकरणोपेतमूलमन्त्रस्मरणम्, नृसिंहकल्पोक्तरीत्या(55) पाञ्चभौतिकतनूपसंहारचिन्तनम्,(56) अमलमन्त्रमयमूर्त्युत्पत्तिचिन्तनम्, तद्वाचकानां सहस्रशीष(57) देवमित्यादिमन्त्राणां पाठनम्, औपचारिकसांस्पर्शिकाभ्यवहारिकैर्भोगैर्यथाविधि शयनस्थभगवदर्चनम्, मध्यकुण्डे दिक्‌कुण्डेषु च समित्सप्तकादिभिर्भगवत्संतर्पणम्, स्वस्वमूर्तिमुम्भोदकैर्बिम्बसेचनम्, पुनराज्यादिभिः सपरिवारमन्त्रनाथसंतर्पणम्, पूर्णाहुतिम्, (58) घृतादिचतुर्द्रव्येष्वेकैकेन तत्तदङ्गस्पर्शपूर्वकं हृन्मन्त्रेणाहुतिद्विषट्‌कात्मकं होमं चाह--ततो विमृज्य वस्त्रेणेत्यारभ्य स्पृष्ट्वा देहं तु चाखिलमित्यन्तम्।। 123--167 ।।
 (1.ॐ भगवन्निति--बख. अ. उ.।) (2.यत्रि--अ. उ.।) (3.ज्ञकम्--अ. उ.।) (4.भेदेन अटी.अ. उ.।) (5.वशेन--अटी.,लवात्--बख. अ. उ.।) (6.ति कल्म--बक. बख. अ.।) (7.एवमभ्यर्थ्य---बक. बख. अ. उ.।) (8.मन्त्रः--बक. अ. उ.।) (9.ज्य--बक. बख. उ., ज्यं--अ..)(10.सुभिक्षक्षेम--बक. बख. अ. उ.।) (11.क्षेम--बक. बख. अ. उ.।) (12.अध--अ. उ.।) (13.तद्रथं तु--बक. बख., तद्रथस्तू--अ. उ.।) (14.भवेत्--अटी.।)(15.चरेत्--बक. बख.।) (16.नेन्त्रमन्त्र--बख. अ. उ., नेमिमन्त्र--बक.।) (17.शया--बक. अ. उ.।)(18.ततोऽग्नि--बख. उ.।) (19.ङ्केषु--अ. उ.।) (20.प्राग्वत्--बक.।) (21.ऐश्वर्येणाधि--बक. बख. उ.।) (22.पदातीतम--अ. उ.।) (23.परम्--मु. अटी. अ.।) (24.विद्या--बक. बख. उ.।) (25.देवस--बक. बख., देवसा--अ. उ.।) (26.सेति--बक. बख. उ., सीति--अ.।) (27.तं--बक. अ. उ.।) (28.णम्--बक. बख. अ. उ.।) (29.ह्म ह्य--मु. अटी.।) (30.गन्धो--अटी.।)(31.माधाय--अटी.।) (32.रूपं--बक. बख. अ. उ.।) (33. हरणाय--बक. बख. अ. उ.,भरणाय-अ.।) (34.रन्तस्य--मु. बक. बख.।) (35.योगेना--बक. बख.,तोयेना--अ.।0 (36. स्तां तां द्रव्य--बक. बख., पेतं तैस्तां द्रव्य--अ. उ.।) (37.प्राग्वत् सिंहोक्त--बक. बख. अ. उ.।) (38.तु तत्--बक. बख. अ. उ.।) (39.सर्व--अटी.।) (40.ति सर्वांस्तु-मु. अटी.।) (41.धानाय--बक. बख.।)(42.यात--मु. अटी. उ.।) (43.दैवीति--बक. बख. उ.।) (44.न्विति--मु. उ.।) (45. मन्त्रेण--बक.)(46.साङ्ग--बक. बख. उ.।) (47.रैः स्मृतः--बक. बख. उ.।) (48.देवं--अ. उ.।) (49.दानेति--अटी., देनापि--बक. बख., दनेऽपि--अ. उ.।) (50. भूता--बक. बख. अ. उ.।) (51.आ जानुनाभि--अटी.। (52.तदैव--अटी.।) (53. मा मूर्ध्नः कर्णतो--बख.।) (54.पूर्वं--बक. बख. अ. उ.।) (55.सप्तदशे परिच्छेदे 17--18 श्लोकेषु।) (56.कतारूप--अ..) (57.शिरसं--म.।)(58.घृतचतु--अ.।)
(1) संस्कृत्य बिम्बवत् पीठं भिन्नं ब्रह्मशिला तथा।
प्राणाभिमानदेवं वा यस्य यो विहितस्तु वै।। 168 ।।
वेष्टयित्वाऽम्बरैश्चित्रैश्चक्रमन्त्रेण वै ततः।
कार्यो ब्रह्मशिलाहोमः शताष्टाधिकसंख्यया।। 169 ।।
गायत्रीभिस्तदर्थं च बह्वृचाद्यैः पृथक् पृथक्।
अजस्य नाभावित्यादिमन्त्रैरेकायनैस्ततः।। 170 ।।
अध्वाऽधिभूतमूर्तं(2) तुभोग्यं (3) वापि पृथक् स्थितम्।
देवतानां त्वधिष्ठानं पीठं कृत्वाऽथ बुद्धिगम्(4)।। 171 ।।
होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्तु तैः।
अपरैर्मूलमन्त्रेण(5) प्रणवान्तेन लाङ्गलिन्।। 172 ।।
अथ पीठब्रह्मशिलयोः संस्कारानाह--संस्कृत्य बिम्बवत् पीठमित्यारभ्य प्रणवान्तेन लाङ्गलिन्नित्यन्तम्। पीठब्रह्मशिलयोरपि भगवद्बिम्बत्वाकारेणैव स्मरणमेकः पक्षः तत्तत्पीठाभिमानदेवत्वेन स्मरणमन्यः पक्षः। पीठाभिमानदेवश्चा नन्तकूर्ममीनेष्वन्यतमः तत्त्रयं वा। यस्य यो विहितः " अष्टलोहमयं चक्रम्" (25/205) इत्यादिभिर्वक्ष्यमाण इत्यर्थः। पारमेश्वरव्याख्याने तु--"प्राणाभिमानदेवमनन्तम्" इति केवलमनन्तं प्रतिपादितम्। तन्मन्दम्, यस्य यो विहित इति वाक्यविरोधात्।। 168--172 ।।
(1.संस्मृत्य--अ. उ.।) (2.ध्वादि--अटी. बख.।)(3.भोज्यं जाप्यं--बक. बख. अ. उ.।) (4.भुक्तिगम्--अटी.।) (5.र्बल--अ. उ.।)
ततो वाहनमन्त्रेण तर्पणीयः सदैव हि।
स्वनाम्ना प्रणवेनैव स्वाहान्तेनापरैस्ततः।। 173 ।।
ततो गरुडमन्त्रेण परिवारमन्त्रैश्च होममाह--तत इति। पारमेश्वरपुस्तकेषु केषुचित् "ततो हवनमन्त्रेण" (15/594) इत्यबद्धपाठो दृश्यते, तद्व्याख्यानेऽपि हवनमन्त्रेण स्वाहान्तमन्त्रेणेत्यबद्धपाठ एव व्याख्यातः। अपरैः परिवारमन्त्रैरित्यर्थः।। 173 ।।
संरोधस्तर्पितानां तु कार्यः पूर्णान्त एव हि।
साम्भसा विष्टरेणैव भावेन सजपेन च।। 174 ।।
(1)सर्वेश्वरस्य देवस्य स्वकीयासु च मूर्तिषु।
शब्दात्मिकास्वमूर्तासु(2) तद्वच्छ्रुतिमयस्य च।। 175 ।।
एवमेतावदन्तं समर्पितानां सर्वेषामपि परिवारदेवानां सर्वेश्वरस्य भगवतश्च प्रतिष्ठानन्तरभाविपूर्णाहुत्यन्तसंनिरोधमाह--संनिरोध इति द्वाभ्याम्। साम्भसा विष्टरेण कूर्चगतार्घ्येणेत्यर्थः।(3)
आवाहने संनिधाने संनिरोधे तथार्चने।।
विसर्जनेऽर्घ्यपात्रं(4) तु प्राक् पात्रान्नित्यमाचरेत्। (18/71--72)
इति संनिरोधेऽप्यर्घ्यदानस्य पूर्वोक्तत्वात्। भावेन ध्यानेनेत्यर्थः। सर्वैः स्वकस्य देवस्येति पाठ एव सरसः। यतः सर्वैराचार्यऋत्वाग्भिः स्वकस्य देवस्य प्रागादिस्वकुण्डस्थितदेवस्य स्वकीयासु मूर्तिषु वासुदेवसंकर्षणादिमूर्तिषु (5) तद्वच्छ्रुतिमयस्य चतुर्वेदस्वरूपस्य विदिक्‌कुण्डसन्तर्पितस्य भगवतश्च शब्दात्मिकासु ऋग्यजुः सामाथर्वरूपेण चतुर्धा स्थितासु अमूर्तासु शब्दमूर्तिषु च संनिरोधः कार्य इत्यर्थः स्वरसः। सर्वेश्वरस्येति पाठेऽप्येवमेवमेवार्थः। किन्तु तत्र आचार्यऋत्विग्भिरित्यध्याहार्यम्।। 174--175 ।।
(1.सर्वैः स्वकस्य देवस्येति भाष्यानुमतः पाठः।) (2.कासु मूर्ता--मु. अटी. बक. बख.।) (3.गतेनेत्यर्थः--अ.।) (4.दानं--मु.।) (5.तद्वद्विश्रुति--अ.।)
कृत्वैवं च तथा(1) दिक्षु मूर्तिपान् विनिवेश्य च।
पार्श्वदेशेषु कुण्डानां तर्पयेत् पायसेन तु।। 176 ।।
गृहीत्वा दक्षिणां(2) मन्त्रः प्रीणनीयस्तु तैस्ततः।
अथ मूर्तिपपायसभोजनादिकमाह---कृत्वेति सार्धेन।। 176--177 ।।
(1. यथा--अ. उ.।) (2.दक्षिणो--बक. बख. अ. उ.।)
अथ निद्रायमाणं(3) तु देवं स्मृत्वाऽवकुण्ठ्य च।। 177 ।।
अर्चयित्वा नमस्कृत्य तत्र सर्वान् प्रवेशयेत्।
स्तुतिपाठकपूर्वांस्तु नृत्तगेयपरायणान्।। 178 ।।
विदिक्स्थान् प्रणवे जापे द्वादशार्णेन(4) दिक्‌स्थितान्।
अथ निद्रायमाणस्य भगवतो वस्त्रैरवकुण्ठनार्चननमस्कारान्, आ प्रभातं मूलमन्त्रजपे एकायनानां प्रणवजपे(5) र्ब्रह्मवादिनां स्तुतिमङ्गलगाननर्तनादिषु (6) तत्तज्जनानां नियोजनं चाह--अथेति द्वाभ्याम्।। 177--179 ।।
(3.मानं--बक. उ.।) (4.र्णे तु दिक्--उ.।) (5.बह्वचादीनां--म.।) (6.तज्ज--अ.।)
सार्घ्यपुष्पाक्षतकरः प्रासादं(7) तं व्रजेत् ततः।। 179 ।।
हन्यात् सिद्धार्थकैस्तस्माद् विध्नानस्त्राभिमन्त्रितैः।
प्राङ्‌मध्ये विधिनानेन श्वभ्रं वा साम्प्रतं खनेत्।। 180 ।।
विनिश्चितं यथामानं गार्भं(8) कुर्यात् तु सप्तधा।
द्वारदेशात् समारभ्य समैः सूत्रैस्तु सर्वदिकम्।। 181 ।।
(9)द्वारमध्ये पदान्तं तु पादानामधिदेवताः।
पिशाचा मानवा देवाः परमः(10) पुरुषो हि यः।। 182 ।।
अथ प्रासादान्तः प्रवेशे(11) तत्रत्यविघ्नोत्सारणम्, तत्र ब्रह्मशिलाप्रतिष्ठार्थं(12) श्वभ्रखननम्, तदर्थं गर्भगेहस्य सप्तधा विभागम्, (13) तत्तत्पदानामधिदेवताविवरणम्, तेषु तेषु पदेषु चातुरात्म्यप्रतिष्ठादीनां वर्ज्यावर्ज्यविवेचनम्, तत्तत्फलभेदांश्चाह---सार्घ्यपुष्पाक्षतकर इत्यारभ्य अकामानामयं विधिरित्यन्तम्। गुणाष्टकम् अपहतपाप्मत्वादिकम्, मोक्ष इति यावत्।। 179---192 ।।
(7.द्वारान्मध्य--बक. बख. अ. उ.।) (8.पदा--अ. उ.।) (9.परमं--बक. बख. अ. उ.।) (10.बरह्वचादीनां--म.।) (11. तज्ज--अ.।) (12.प्रवेशं--अ.।) (13.ष्ठापनं--अ.।) (14.तत्पदा--अ.।)
चातुरात्म्यं विनान्येषां स्थापितानां महामते।
आराधनं च स्वस्थानादचिरादेव सिद्धिकृत्।। 183 ।।
आक्रम्य देवभागं च देव आराध्यते यदि।
भवन्ति बहवो विघ्ना वर्जनीयः(1) स्वतस्तु सः।। 184 ।।
शुभेन भद्रपीठेन (2)दैवीयेनाथ लाङ्गलिन्।
चातुरात्म्यप्रतिष्ठायां शिलाख्यं मध्यमं पदम्।। 185 ।।
गर्भमध्यपदस्योर्ध्वे योजनीयं प्रयत्नतः।
अतोऽन्वितांशमेकं तु त्यक्त्वा वै पृष्ठदेशतः(3)।। 186 ।।
शिलापदद्वयस्यान्ते(4) योजनीया महामते।
अग्रदेशेऽथ(5) बिम्बस्य वेदिर्भागद्वयोपरि।। 187 ।।
चतुरश्रायतस्यैतत् पीठस्य स्थापने हितम्।
एवं हि चतुरश्रस्य विधानं किन्तु लाङ्गलिन्।। 188 ।।
संचार्या(6) त्वग्रतो वेदिर्नित्यमाराधनार्थतः(7)।
पीठोपर्यथवा देवं यस्त्वाराधयते सदा।। 189 ।।
निवेशनीया(8) वै तेन मध्यदेशेन सा शिला।
एवमाराधनवशात् तथा फलवशात् तु वै।। 190 ।।
सपीठानां च बिम्बानां कार्यं सम्यङ् निवेशनम्।
देवमानुषभागाच्च ऐहिकामुष्मिकं भवेत्।। 191 ।।
विबुधब्रह्मभागाच्च (9) ऐहिकं तु गुणाष्टकम्।
अपवर्गे तु सामान्यमकामानामयं विधिः।। 192 ।।
भिन्नेऽपेक्षावशान्मध्ये(10) सति(11) भूयः समाचरेत्।
गालितेऽस्त्राम्बुना(12) लिप्ते हृदा वै चन्दनादिना।। 193 ।।
श्वभ्रेऽथ घटरुद्धानां मन्त्राणां च निरोधनम्।
पूर्वोक्तेन विधानेन धिया स्वे स्वेऽयते(13) तथा।। 194 ।।
कृत्वाऽर्चनं यथोद्दिष्टं पूर्णान्तं(14) तत्र विन्यसेत्।
बाहुल्येन तु षट्पञ्चचतुर्गोलकसंमिताम्।। 195 ।।
पीठाद् विनिर्गतां किञ्चिद् भूतये(15) सुस्थिरां शिलाम्।
ग्रस्तां पीठेन मुक्त्यर्थं नवरन्ध्रकृतां पुरा।। 196 ।।
(16)सुमन्त्रेण तु तत्रापि प्रतिष्ठाऽसीति पाठयेत्।
प्रागादौ प्राभवेणाथ पञ्चकं पञ्चकं न्यसेत्।। 197 ।।
अथ प्रक्षालनचन्दनोल्लेपनादिसंस्कृते(17) तस्मिन् श्वभ्रे पूर्वं प्रासादनिर्माणकालं नवकुम्भेषु संनिरुद्धानां देवानां(18) बुद्ध्यादिनिश्चिते तत्तत्स्थाने पुनः संनिरोधनम्, यथाविध्यग्निसंतर्पणान्तमर्चनम्, तत्र यथोक्तलक्षणरत्नन्यासशिलाप्रतिष्ठाम्, प्रतिष्ठासीति मन्त्रपाठनं चाह--भिन्न इति सार्धैश्चतुर्भिः। बाहुल्येन तु षट्‌पञ्चचतुर्गोलकसंमितां द्वादशाङ्गुलं दशाङ्गुलमष्टाङ्गुलं वा घनामित्यर्थः।। 193--197 ।।
(1.यास्त--मु. अटी.।) (2. देवी--बक. बख.।) (3. मध्य--बक. बख., प्रविशेत्ततः--अ.।) (4. पाद--अ. उ.।) (5.शस्य--अ.।) (6.चार्य--अ. उ.।) (7.दिं नित्य--अ. उ.।) (8.नीयो--बक. बख. उ.।) (9.सैंहिकं--मु. उ.।)(10.भिन्ने पक्षे--बख.।) (11. स हि--बक. बख.।0 (13.क्षालिते--बक. बख.।) (14.श्वभ्रे यो--बक., श्वभ्रेऽधो पद--अ.।) (15.स्वे धने--बक., स्वे यते--अ.।) (16.पूर्वा--बक.।) (17.भूतले--बक. बख. अ.।) (18.स्व--अ. उ.।)
शिलावटेषु द्रव्याणां तत्र(19) वज्रं च हाटकम्।
हरितालमुशीरं च व्रीहयो दक्षिणे त्वत।। 198 ।।
(20) इन्द्रनीलमयश्चैव कांसीसं चन्दनं तिलाः।
मुक्ताफलं च रजतं परादं चाप्यदिक् ततः।। 199 ।।
सहोशीराश्च वै मुद्‌गाः पद्मरागमथोत्तरे।
कांस्यं सराजपाषाणं राजेन्द्रं चणकैः सह।। 200 ।।
(21) विशङ्कं विन्यसेन्मध्ये पूर्वमेव ततो बहिः।
विदिक्ष्वप्यययोगेन एवमन्यत् पृथक् पृथक्।। 201 ।।
लोहं वैडूर्यपूर्वं तु चक्राङ्गं चाभ्रकं त्वथ(22)।
षाष्टिकास्त्वीशदिग्वाय्वोः(23) पुष्यरागो हरीतवी(24)।। 202 ।।
गौरिका(25) शारिकाऽत्रैव मषूरान्यथ यातुदिक्।
अथ तद्‌गर्तेषु रत्नादिन्यासप्रकारमाह--प्रागादौ प्राभवेणाथेत्यारभ्यचमषट्‌कांश्च(26) पाठयेदित्यन्तम्।। 197--203 ।।
(19.तदधस्थं--अ.।) (20.पङ्‌क्तिसप्तकमेतन्न दृश्यते--मु. अटी.।) (21.विश्वकं--बक.,विशकं--अ. उ.।)(22.तथा--अ.।) (23.कं त्वी--उ.।) (24.तिका--बक. बख. अ. उ.।)(25.पङ्‌क्तिचतुष्टयमेतन्न दृश्यते--मु. अटी.।) (26.`चमषट्‌कांश्च....मित्यारभ्य" नास्ति--अ.।)
महानीलं च वङ्गं तु तथा पाषाणमाक्षिकम्।। 203 ।।
यवाः सगरुकाश्चापि ह्याग्नेयाः स्फाटिकं तथा।
ताम्रं मनः शिला चैव गोधूमाः शङ्खपुष्पिका।। 204 ।।
मध्ये सर्वाणि तदनु ततो गर्तगणं तु तत्।
लेपैराच्छादितं कृत्वा साङ्गं मन्त्रं पदे पदे।। 205 ।।
पूजयित्वा यजुर्वेदान् चमषट्‌कांश्च(1) पाठयेत्।
तदूर्ध्वे विन्यसेत् पीठं तच्छ्‌वभ्रे विनिवेश्य च।। 206 ।।
अष्टलोहमयं चक्रं तदूर्ध्वे तु महामते।
द्वादशाख्याद् विशेषोत्थादाधारो यस्य यः स्वकः।। 207 ।।
हैमं तदूर्ध्वे कमलं तज्जं वा ताम्रमेव वा।
यथाक्रमस्थितं(2) ह्येतत् पञ्चकं चतुरात्मनि।। 208 ।।
न्यसेदनन्तं(3) चक्रस्य मीनकूर्मौ कृतस्य(4) च।
कूर्मानन्तौ(5) तु मीनस्य मीनानन्तौ तु तस्य च।। 209 ।।
सर्वस्य विहितं पद्मं तस्यानन्तं तु विन्यसेत्।
मण्टपे(6) तु खगेशस्य चक्रं स्थापनकर्मणि।। 210 ।।
नस्य पूर्णान्तिकं(7) कृत्वा कर्मण्यत्र च तर्पणम्।
सह मूर्तिधरैः प्राग्वत् कार्या दर्भोदकक्रिया।। 211 ।।
तदूर्ध्वे पीठस्थापनं तद्‌र्गर्ते चक्रादिस्थापनं चाह--तदूर्ध्वे विन्यसेत्पीठमित्यारभ्यकार्या दर्भोदकक्रियेत्यन्तम्। द्वादशाख्याद् विशेषो(8)त्थादाधारो यस्य यः स्वकः। विभव देवेष्वनन्तादिद्विषट्‌कस्य कूर्मस्त्वाधारः। मीनादिद्विषट्‌कस्य मीनस्त्वाधार इत्यर्थः। चतुरात्मनि चातुरात्म्यप्रक्रियायामेतत् पञ्चकं चक्रा(न) न्तकूर्ममीनपद्मपञ्चकमित्यर्थः। एवं चानन्तकूर्ममीनव्यतिरिक्तविभवदेवानां प्रतिष्ठायां पीठगर्ते प्रथमं चक्रम्, तदुपरि तत्तद्‌द्विषट्‌काधारमनन्तकूर्ममीनेष्वन्यतमम्, तदुपरि पद्ममेतत् त्रयमेव(9) न्यसेदिति फलितोऽर्थः। चक्रस्य प्रतिष्ठायां तदधः पीठगर्तेऽनन्तं तस्यानन्तस्याधस्तान्मीनकूर्मौ मीनस्याधस्तात् कूर्मानन्तौ तस्य कूर्मस्याधस्तान्मीनान्तन्तौ च न्यसेत्। सर्वस्य चक्रादीनां सर्वेषामपि पद्मं च विहितम्। तस्य पद्मस्य प्रतिष्ठायां तु तदधोऽनन्तं न्यसेत् मण्टपे तु खगेशस्य स्थापनकर्मणि चक्रं न्यसेदिति चोक्तं भवति। पूर्णान्तिकं तर्पणं कृत्वेत्यत्र चक्रादिमन्त्रैरिति ज्ञेयम्। दर्भोदकक्रिया चात्र गर्भगेहादिप्रोक्षणार्थमिति ज्ञायते।। 206--211 ।।
(1.वषट्‌कारांश्च--बक. बख. उ.।) (2.क्रमं--बक. बख. उ.।) (3.न्तच--बक. बख. अ. उ.।) (4.तु तस्य वै--बक. बख. अ. उ.।) (5.पङ्‌क्तिरेषा न दृश्यते--मु. अटी., अ. पुस्तके चन्यस्येति पङ्‌क्त्युत्तरं स्थापिता।) (6.मण्डपे--बख. उ.।) (7.पूर्वा--मु. अची. बक. बख.।) (8.षोऽर्थाः--अ.।) (9.मेवं--म.।)
ततः प्रबोधयेद् देवमर्चयित्वा इदं पठेत्।
मन्त्रात्मन् रूपमात्मीयमाग्नेयमुपसंहर।। 212 ।।
समाश्रयस्य सौम्यत्वं स्थित्यर्थं परमेश्वर।
नमस्तेऽस्तु हृषीकेश उत्तिष्ठ परमेश्वर।। 213 ।।
मदनुग्रहहेत्वर्थं पीठभूमिं समाश्रय।
उद्‌घाट्य हृदयेनाथ त्यक्तनिद्रं तु मन्त्रराट्।। 214 ।।
उत्थाप्य मूर्तिमन्त्रेण सह मूर्तिधरैर्बलात्।
तोरणेन च निष्क्रम्य प्रदक्षिणचतुष्टयम्।। 215 ।।
कुर्यात् प्रासादपीठस्य द्वाराग्रे सन्निरोध्य च।
पाद्यार्घ्याचमनं दत्वा हृन्मन्त्रेण प्रवेशयेत्।। 216 ।।
शाखाद्यमस्पृशन्तं च पाठयेत् तद्विदस्ततः।
चतुश्चक्रेति तदनु पुरमेकादशेति यत्।। 217 ।।
वर्माभिमन्त्रितेनाथ दुकूलेन सितेन च।
पादाम्बुरुहनालं प्राक् शिखामन्त्रेण वेष्टयेत्।। 218 ।।
अग्नीषोमौ समीकृत्य प्रणवाद्यन्तगेन तु।
निवेश्य मूलमन्त्रेण वामतो मारुतं त्यजेत्।। 219 ।।
(1) प्रतिष्ठालिङ्गशब्दौ तु(2) द्वौ मन्त्रौ पाठयेत् क्रमात्।
शान्तं ब्रह्ममयं रूपं स्वकं समवलम्ब्य च।। 220 ।।
ततः प्राप्ते लग्ने भगवत्प्रबोधनमर्चनम्, मन्त्रात्मन्नित्यादिविज्ञापनम्, त्यक्तनिद्रस्य भगवतः समुद्धरणम्, ऋत्विग्भिः सह(3) समुत्थापनम्, तोरणद्वारेण बहिर्निष्क्रमणम्, मन्द्रिरप्रदक्षिणचतुष्टयम्, प्रासादद्वारे पाद्याद्यभ्यर्चनम्, अन्तः प्रवेशनम्, चतुश्चक्रेत्यादिमन्त्रपाठनम्, दुकूलेन पादाम्बुरुहनालवेष्टनम्, पीठमध्ये बिम्बस्थापनम्, प्रतिष्ठालिङ्गमन्त्रपाठनं चाह--ततः प्रबोधयेद् देवमित्यारभ्य द्वौ मन्त्रौ पाठयेत् क्रमादि त्यन्तम्। अग्नीषोमौ समीकृत्य श्वासं(गु?कु) म्भीकृत्येत्यर्तः। एवमेव व्याख्यातं पारमेश्वरव्याख्यानेऽपि वामतो मरुतं त्यजेद् वामनासिकया श्वासं विसृजेदित्यर्थः। प्रतिष्ठालिङ्गशब्दौ द्वौ मन्त्रौ ऋग्वेदसामवेदोक्तौ प्रतिष्ठासीत्यादिमन्त्रावित्यर्थः। अथवा प्रतिष्ठासीति साम, ध्रुवाद्यैरिति यजुरिति पारमेश्वरव्याख्यानोक्तौ।। 212--220 ।।
(1.प्रतिष्ठ--कख. उ.।) (2.च--मु. अटी.।) (4.सङ्ग---अ.।)
यतो हितार्थं सर्वेषां निर्गतः षड्गुणात्मना।
अतो ब्रह्मपदादीषद् देवभागे (1) समानेत्।। 221 ।।
मोक्षादिफलसिद्धीनां प्राप्तये ह्यविचारतः।
करस्थमथ मोक्तव्यं कौतुकं हृदयेन तु।। 222 ।।
ब्रह्मपदस्थापितस्यापि देवस्य किञ्चिद् दिव्यभागानयने युक्तिमाह--शान्तमिति द्वाभ्याम्। दिव्यभागानयनं च वामभाग इति बोध्यम्। तथा च पारमेश्वरे---

यत्रापि केवले ब्राह्मे स्थापनं समुदीरितम्(2)।
तत्रापि वामतः किञ्जिद् द्रव्यभागं समाश्रयेत्।। (15/799) इति।
अत्र पारमेश्वररव्याख्याने--"शान्तं ब्रह्ममयं रूपमित्यनेन आवाहयामीत्युक्तार्थः स्मारितः(3) पाठक्रमादर्थक्रमस्य बलीयस्त्वात्, " अग्निहोत्रं जुहोति" (तै. सं. 1/5/9/1) " यवागूं पचति" इतिवत्, सन्ध्यास्नानमितिवच्च" इति लिखितम्। अत्रावाहयामीत्यर्थस्मरणस्य न किञ्चिदपि प्रकृतत्वं दृश्यते। किञ्च, पूर्वं तदर्थविरोधे पाठक्रमादर्थक्रमोऽनुसरणीयः। विरोध एव न दृश्यते।
ननु तदा बिम्बस्थापनात् पूर्वमेव स्नपनकाले आवाहनं विरुद्धिमिति चेन्न, तदानीं(4) भगवदावाहनं विना केवलबिम्बेऽभ्यर्चनोत्सवशयनाधिवासमन्त्रन्यासपरमान्ननिवेदनादिकस्यात्यन्तविरुद्धत्वात्। किञ्च, बिम्बस्थापनात् पूर्वमावाहनं(5) विरुद्धं मन्वानेन भवता कथमष्टबन्धनात् पूर्वमावाहनमविरुद्धं गृह्यते? अपि च, शान्तं ब्रह्ममयं रूपमित्यत्र शान्तं शान्तोदितावस्थापन्नं ब्रह्मयं स्वकं रूपमवलम्ब्य आश्रित्य सर्वेषां हितार्थं षड्‌गुणात्मना यतो भगवान् निर्गतः ततो ब्रह्मस्थानादीषद्(6) देवं बहिर्निर्गमयेदित्यर्थोपदेशप्रकरणे आवाहनस्मरणं कर्तुं कथं शक्यते? किं बहुना।। 220--222 ।।
(1.सुपाठयेत्--अ.।)(2.समुदीरितम्...आवाहयामीत्युक्तार्थः' नास्ति--अ.।) (3.स्मारितम्--अ.।) (4.`तदानी' नास्ति--अ.।) (5.हनने--अ.)(6.नामी--अ.।)
(3.सुपाठयेत्--अ.।)
सर्वाङ्गमर्घ्यमन्त्रेण दत्वा मूलमनुस्मरेत्(1)।
हृदास्त्रपरिजप्तेन(2) वज्रलेपेन वै ततः।। 223 ।।
बिम्बपीठशिलानां तु एकत्वेनाचरेत् स्थितिम्।
मूलमन्त्रं ततो ध्यात्वा संशान्तब्रह्मलक्षणम्(3) ।। 224 ।।
अथ रक्षासूत्रविसर्जनकार्यसमर्पणपूर्वकमष्टबन्धनलेपनमाह(4)--करस्थमिति द्वाभ्याम्। अत्र पारमेश्वररव्याख्याने--अत्र पाद्मादिष्विव प्रतिकर्म कौतुकबन्धनप्रसङ्गाभावात् कथं मोक्तव्यमित्युक्तमिति चेत्, प्रतिकर्म तदभावे जलाधिवाससमये पूर्ववत् कौतुकं बद्‌ध्वेति प्रसङ्गोत्सवेति(5) शङ्का परिहृता परिहृता। एवं शङ्का पारमेश्वरव्याख्यातुरेव जाता, न ह्यन्यस्य जायते,।
तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे।
सिद्धार्थकान् दक्षिणे तु बद्‌ध्वाग्रे पाठयेदृचम्।।
रक्षोहणं तथा सर्वान् नयेत् प्रतिसरे(6) मणीन्।।
(25/49--50) इति पूर्वमेव कौतुकप्रसङ्गात्।
नन्वस्य कौतुकत्वं न संभवति, जलाधिवाससमये " पूर्ववत् कौतुकं बद्‌ध्वा" (ई. सं. (18/99;पा. सं. 15/225) इत्यत्रोक्तस्यैव कौतुकत्वमिति चेत्, तथा न भ्रमितव्यम्। "करस्थमथ मोक्तव्यं कौतुकं हृदयेन तु" (25/222) इति वाक्यं सात्वतोक्तम्। तत्र जलाधिवासस्यैवानुक्तत्वात् "पूर्ववत् कौतुकं बद्‌ध्वा" इति वाक्यमेव नास्ति। अतः--" तमर्घ्यणार्चयित्वा" (25/49) इत्यादिप्रतिपादितस्य प्रतिसरबन्धस्यैव विसर्जन चेति पूर्वपर्यालोचनया स्वस्थो भव।। 222--224 ।।
(1.इतः परम्--` इति सामान्यसन्धानं प्राक् कृत्वा तद्विशेष्य(शोष्य) च' इत्यधिकः पाठो दृश्यते--मु. अटी.। भाष्यकारेणाऽव्याख्यातत्वादनुपदमेव पङ्‌क्तेरस्या विद्यमानत्वाच्च द्विरुक्तिमात्रमेतत्।)(2.हृद--बक. अ. उ.।) (3.सुशान्त--मु. अटी. बक.।)(4.लेपमा--म.) (5.त्सेवेति--म.।) (6.सरो--म.।)
(1) आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत्।
इति सामान्यसन्धानं प्राक् कृत्वा तद्विशिष्यते(2)।। 225 ।।
स्थूलसूक्ष्मपरत्वेन स्थूलं षोढा शिलान्तगम्(3)।
पिण्डिकायां तथा सूक्ष्मं तत्परं बिम्बविग्रहे।। 226 ।।
अथ मूलमन्त्रस्याधारादिप्रासादोर्ध्वस्थितध्वजाग्रान्तं व्याप्तिस्मरणारूपं सामान्यसन्धानं पुनस्तस्यैव मन्त्रस्य हृदादिभेदैः षौढा स्थूलरूपेण ब्रह्मशिलायाम्, सूक्ष्मरूपेण पीठे, पररूपेण बिम्बे च विशेषतः सन्धानं चाह---मूलमन्त्रमिति सार्धद्वाभ्याम्। प्रासादाग्रे ध्वजसंस्थितिं(4) वक्ष्यति हि---
त्रिधांशेन शिखाद्युच्चं खगराट्‌परिभूषितम्।
संस्कृत्य ध्वजदण्डं च शिखामन्त्रेण विन्यसेत्।। (26/284) इति।
अत एवेश्वरपरामेश्वरयोरप्युत्सवाध्याये--"प्रासादस्य शिखाग्रे तु स्थापितः खगराड्‌ध्वजः" (ई. सं. 10/99: पा. सं. 16/37) इति प्रतिपादितम्।। 224--226 ।।
(1.आ चाधाराद् ध्वजाक्रान्तं--मु. अटी., आ चाधार--अ. उ.।)(2.शेष्यते--मु. अटी.।)(3.कम्--अटी. अ.।) (4.जस्थि--अ.।)
विन्यासं पीठमलेऽथ देवतानां समाचरेत्।
भवोपकरणीयानां पीठोर्ध्वे त्वथ तद्विना।। 227 ।।
न्यसेद् विभवदेवांस्तु उपर्युपरि पूर्ववत्।
घटोद्देशात् समारभ्य परमर्चागतं(5) ततः।। 228 ।।
एवं हि सर्वदेवानां सन्निवेशवशात् तु वै।
चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः।। 229 ।।
अथ देवतान्यासमाह--(6) विन्यासमिति त्रिभिः। पीठमूले पीठस्याधः पिण्डिकोपरीति यावत्। भवोपकरणीयानां देवतानां कालादिवसुधान्तानां पूर्वोक्तानामित्यर्थः। तद्विना विभवदेवान् न्यसेत्। पातालशयनादिपद्मनाभान्तविभवदेवेषु प्रतिष्ठेयम्। देवं विनाऽन्यान् सर्वान् न्यसेदित्यर्थः। तथा च व्यक्तमुक्त(7)मीश्वरपारमेश्वरयोः---
पीठोर्ध्वे तु मुनिश्रेष्ठाः(8) प्रतिष्ठेयं विनैव तु।
न्यसेद् विभवदेवांस्तु ह्युपर्युपरि पूर्ववत् ।। इति।
(ई. सं. 18/415; पा. सं. 15/826)
पारमेश्वरव्याख्याने एतदभिप्रायमबुद्‌ध्वा "प्रतिष्ठेयं प्रतिष्ठायोग्यं बिम्बं विनामन्त्रेण न्यसेदित्यर्थः" इति लिखितम्। घटे द्देशात् समारभ्य पूर्वं प्रासादमध्ये स्थापितकुम्भादारभ्य, उपर्युपरि पीठोर्ध्वान्तं पातालशयनादिपद्मनाभान्तक्रमेण न्यास इति ज्ञेयम्।। 227---229 ।।
(5.मार्चा--बक. बख.।) (6.न्यासः---अ.।) (7.मुक्तं पा रमेश्वरेखरयोः--अ.।) (8.श्रेष्ठ--पा.।)
इथ मण्टपमध्ये(1) तु देवदेवस्य सम्मुखम्।
स्थितेऽपि तन्मुहूर्तांशे(2) स्थापनीयश्च पक्षिराट्।। 230 ।।
स्नातोऽनुलिप्तो मन्त्रेण स्वेन यः(3) संस्कृतः पुरा।
ज्ञशक्त्या सह बिम्बेन यस्माद् भिन्नेषु(4) वस्तुषु।। 231 ।।
बिम्बसन्निकटस्थेषु अथवाऽन्यत्र लाङ्गलिन्।
तत्कालमङ्गभावत्वं व्रजमानेषु सर्वथा(5)।। 232 ।।
वहनान्तं च निः शेषं ध्यानार्चनपुरस्सरम्।
स्वयमेवानुरूपेण कर्मसामान्यतां त्यजेत्(6)।। 233 ।।
तस्मात् तद्यागभवनादुत्थाप्यादाय बिम्बवत्।
देवं प्रदक्षिणीकृत्य प्राग्वत् संस्थापनावनौ।। 234 ।।
एकस्मिन् मध्यरन्ध्रे तु वज्राद्यं पञ्चकं न्यसेत्।
एक एव तदूर्ध्वेऽथ आधारो य उदीरितः।। 235 ।।
प्राग्वन्निवेशनीयं(7) च तत्पीठोर्ध्वे(8) तु भौवनम्।
भावनीयं शरिरे च शेषं विज्ञप्तिलक्षणम्।। 236 ।।
पाठयेद् ब्राह्मणांस्तद्वत् सुपर्णोऽसीति मन्त्रराट्।
अथाग्रमण्टपमध्ये विहगेशप्रतिष्ठाविधानमाह---अथ मण्टपमध्ये त्वित्यारभ्य सुपर्णोऽसीति मन्त्रराडित्यन्तम्। स्नातो यथाविधि सिद्धार्थोदकादिभिर्ब-हत्स्नपनेन(9) च स्नापित इत्यर्थः। अनुलिप्तश्चन्दनाद्यलङ्‌कृत इत्यर्थः। यद्वा स्वेन मन्त्रेणानुलिप्तो मन्त्रन्यासादिभिः परिष्कृत इत्यर्थः। संस्कृतोऽन्यैश्च नयनोन्मीलनशयनाधिवासादिसंस्कारैः संस्कृत इत्यर्थः। बिम्बेन सह प्रधानभगवद्बिम्बेन सहेत्यर्थः। ज्ञशक्त्या ज्ञानशक्त्यात्मकत्वेन संस्कृत इत्यत्रैवान्वयः। उक्तं खल्वस्य ज्ञानशक्त्यात्मकत्वमीश्वरपारमेश्वरयोः।
विष्णोः संकर्षणाख्यस्य विज्ञानबलशालिनः।।
मूर्तिर्ज्ञानस्वरूपा या सर्वाधारस्वरूपिणी।
महिमेति जगद्धातुर्विज्ञेया(10) विहगेश्वरः।। इति।।
(ई. सं. 8/3-4; पा. सं. 8/3-4)
यस्मादित्यादिना प्रधानबिम्बादिना सहैव गरुडादिसमस्तपरिवाराङ्गबिम्बादीनामपि सामान्यतस्तत्तदनुरूपस्नपनार्चनसन्तर्पणादिसंस्काराः कार्या इत्युक्तं भवति। आधारो(11) य उदीरितः " मण्टपे तु खगेशस्य चक्रस्थापनकर्मणि" (25/210) इति प्रतिपादितः। भौवनं भुवनाध्वानम्। शेषम् अवशिष्टपदाध्वादिपञ्चकर्मित्यर्थः।। 230--237 ।।
(1.मण्डप--बक. बख. अ. उ.।) (2.शात्--अ.।)(3.यत्संस्कृतं--बख.।) (4.बिम्बेषु--बक.।) (5.सर्वदा--बक. उ.।) (6.व्रजेत्--बख. अ. उ.।) (7.यश्च--अ. उ.।) (8.र्ध्वास्तु भावनाः--मु. अटी. तत्पीठे धातुभौवनः--अ. उ.।) (9.स्नाप--अ.।) (10 ज्ञेये विहगेश्वरे--अ.।)(11.रोऽथ--म.,रोऽध--अ.।)
तमेवास्त्रार्चितं कृत्वा यायाद् देवनिकेतनम्।। 237 ।।
कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः।
सह मूर्तिधरैः सर्वैर्यथा चानुक्रमेण तु।। 238 ।।
अथैवं प्रतिष्ठितस्य गुरुडस्यार्चनं कृत्वा गर्भगेहान्तः प्रविश्य पूर्वं स्नपनमण्टपे पृष्ठभागे स्थापितैश्चत्वारिंशत्कलशैर्देवमभिषेचयेदित्याह--तमिति सार्धेन।। 237--238 ।।
सहाघमर्षणेनैव(1) गायत्र्यावर्तितेन(2) तु।
प्रागृङ्‌मयस्तु तदनु चतुर्थावर्तितैः(3) स्वयम्।। 239 ।।
हृदाद्यावर्तितैः षड्‌भिर्यजु(4) र्ज्ञस्तेन सेचयेत्।
भूयः स्वयं तथा कुम्भैः सामवित् स्नापयेत् ततः।। 240 ।।
षड्‌भिरन्यैः स्वयं पश्चात् तेनैवाथर्ववित् ततः(5)।
पवित्रावर्तितैरेवं(6)(7) कलशैन्तरान्तरा(8)।। 241 ।।
सह चैकायनीयैस्तु स्नापनीयमनन्तरम्(9)।
चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिभावितैः।। 242 ।।
स्नापयेत् कलशेनाथ शेषमादाय वै घटम्।
तच्छतावर्तितं कृत्वा समूलेनाद्य मूर्तिना।। 243 ।।
सार्धं(10) वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत्।
अभिषकप्रकारमाह---(11) सहाघमर्षणेनैवेत्यारभ्य जिततन्त इति वै(12) सर्वैरित्यन्तम्। यजुर्ज्ञस्तेन सेचयेदित्यत्र तेनाघमर्षणसूक्तगायत्रीभ्यामभिमन्त्रितेनैकेन कलशेनेत्यर्थः। भूयः स्वयं तथा कुम्भेरित्यत्रापि कुम्भैः पूर्ववद् हृदाद्यभिमन्त्रितैः षड्‌भिः कलशैरित्यर्थः। एवमुत्तरत्रापि ज्ञेयम्। पवित्रावर्तितैः कलशैश्चतुर्भिरित्यर्थः, " ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक् चतुष्टयम्" (24/290) इति पूर्वोक्तत्वात्। अन्तरान्तरा वासुदेवादिमूर्तिमन्त्रकलशाभिषेकस्य मध्ये मध्ये इत्यर्थः। स्नापयेत् कलशेनाथेत्यत्रापि पवित्रमन्त्र एव बोध्यः। समूलेन मूलमन्त्रसहितेन, आद्यमूर्तिना परमन्त्रेणेत्यर्थः। तस्यादिमूर्तिविषयकत्वात् तथैव व्यवहृतः।। 239--244 ।।
(1. सदा--मु. अटी.।) (2.वर्जि--अ. उ.।) (3.र्धा वर्धितैः--अ.।) (4.र्ज्ञै--अ., र्ज्ञेयो न--उ.।) (5.त्तमः--बक. बख. उ.।) (6.वर्जितै--मु. अटी. अ. उ.।) (7.रेव--बक. बख. उ.।) (8.रा सह--बक. बख. अ. उ.।) (9.स्नप--मु. अटी. बक.।) (10.सार्घ्यं--अ.।)(11.सदा--अ.।) (12.सर्वानिति मूलस्थः सार्वत्रिकः पाठः, सर्वे इ--अ.।)
जितन्त इति वै सर्वांस्ततश्चास्त्रोदकेन च।। 244 ।।
प्रासादं शोधयित्वा च स्नानवर्जं समाचरेत्।
पूर्वोक्तमासनाद्यं यद् यागदानावसानिकम्(1) ।। 245 ।।
सदक्षिणं विशेषेण गुरौ(2) मूर्तिधरेषु(3) च।
देवं प्रणम्य विज्ञाप्य(4) कर्मणा मनसा गिरा।। 246 ।।
त्वमर्चान्तर्गतो देव मया यच्छयनादिषु(5)।
नीतोऽसि चाभिमुख्यं तु क्षन्तव्यं तन्ममाच्युत।। 247 ।।
एवं प्रणम्य विज्ञाप्य क्षान्त्वा निष्क्रम्य संमुखम्।
आचम्य च बलिं दत्वा यायाद् देवगृहं ततः।। 248 ।।
अथ प्रसादसंशोधनम्, स्नपनं विनाऽऽसनादिभिर्हविर्निवेदनान्तैर्भोगैर्यथाविध्यभ्यर्चनम्, कारिप्रदानम्, आचार्यादीनां दक्षिणादानम्, प्रणामम्, विज्ञापनम्, पुनः प्रणामादिकम्, " गुरुदेवाग्निविप्रेषु पृष्ठभागं न दर्शयेत्" इत्युक्तप्रकारेण भगवदभिमुखमेव बहिर्निष्क्रमणम्, द्वारावरणदेवानां यथाविधि बलिदानम्, आचमनम्, पुनर्भगवन्मन्दिरप्रवेशनं चाह--(6) ततश्चास्त्रोदकेन चेत्यारभ्य यायाद् देवगृहं तत इत्यन्तम्।। 244--248 ।।
(1.गुरोर्मूर्ति--मु. अटी. बक. बख. अ.।) (2.ष्वथ--मु. अटी.।) (3.संजप्य--बक., विज्ञाप्यः--अ.।) (4.यच्चानला--बक. बख.,यमर्चनादिषु--अ. उ.।) (5.ततः शास्त्रो--अ.।)
तत्रासनादिकैर्यष्ट्‌वा(1) स्नानान्तैः पूर्ववत् प्रभुम्।
अपीनीताम्बरैः कुम्भैर्धान्यपीठोपरि स्थितैः।। 249 ।।
हृन्मन्त्रपूजितैर्भूयः सलिलेन सुपूरितैः।
सह मूर्तिधरैः प्राग्वदन्तरान्तरयोगतः।। 250 ।।
कार्थं (2)वै स्नानकर्माऽर्थ(3) विधिदृष्टेन कर्मणा।
निरोदकेऽथ(4) प्रासादे पुनराराध्य पूर्ववत्।। 251 ।।
भोगैरासनपूर्वैस्तु सम्प्रदानान्तमच्युतम्।
मुद्रां बद्‌ध्वा जपेन्मन्त्रं स्तुत्वा क्षान्त्वा बहिर्व्रजेत्।। 252 ।।
शतं सहस्रं साष्टं वा जुहुयान्मनत्‌राट् स्वयम्।
साङ्गं सपरिवारं च संहितोच्चारयुक्तितः(5)।। 253 ।।
मूर्तिपैः(6) प्रणवाद्याभिर्गायत्रीभिः शतं शतम्।
एकायनैरभिज्ञाभिः स्वकीयाभिस्तु तत्समम्।। 254 ।।
प्रदापयेत्(7) ततः पूर्णामृग्वेदाद्यांस्तु(8) मूर्तिपान्।
एकायनांस्तदन्ते तु क्रमात् तान् पाठयेत् ततः।। 255 ।।
पूर्णात्पूर्णेति वै मन्त्रमाद्यात् पूर्णमसीति यत्।
सनमस्केन मन्त्रेण स्वयं साङ्गेन निक्षिपेत्।। 256 ।।
बलिभिस्तु ततः सर्वान् भूतपूर्वांस्तु तर्पयेत्।
प्रविश्याचम्य तदनु क्षान्त्वा देवं तु कुम्भगम्।। 257 ।।
पूर्ववन्मण्डलस्थं तु कुण्डस्थं तदनन्तरम्।
भूषयेद् गुरुपूर्वांस्तु भूषणै(8) कटकादिकैः।। 258 ।।
गुरोर्वा गुरुपुत्रस्य यागद्रव्यं निवेदयेत्।
बिम्बमेकायनान्तं(9) तु सर्वसाधनसंयुतम्(10)।। 259 ।।
दासीकर्मकरोपेतं शुद्धदेवलकान्वितम्(11)।
अथ चतुर्थेऽहनि कर्तव्याराधनस्नपनालङ्कारहविर्निवेदनाद्यग्निसंतर्पणपूर्णाहुतिबलिदानमहाकुम्भादिविसर्जनान्याचार्यादीनां भूषणप्रदानानि चाह---तत्रासनादिकैर्यष्ट्वेत्यादिभिः। अत्र चतुर्थेऽहनीति कण्ठरवेणानुक्तावप्यर्थपर्यालोचनया तज्ज्ञायते, अन्यथा बल्यन्तमाराधनमुक्त्वा पुनस्तदानीमेवार्चनस्नपनाद्युक्त्यसंभवात्। नन्वत्र--
आचम्य च बलिं दत्वा यायाद् देवगृहं ततः।।
तत्रासनादिकैर्यष्टवा स्नानान्तैः पूर्ववत् प्रभुम्।। (25/248--249)
इत्यव्यवधानेन प्रतिपादितस्य चतुर्थेऽहनि कर्तव्यपरत्वं वक्तुं कथं शक्यते, अतो माध्याह्निकार्चनादिपरत्वं वक्तव्यमिति चेत्, किमावयोर्विवादेन। तस्य चतुर्थेऽहनि कर्तव्यपरत्वं तदुपबृंहणयोरीश्वरपारमेश्वरयोरेव(12) निर्णीतं पश्यतु भवान्। अपनीताम्बरैः कुम्भैः पूर्वं स्नानमण्टपे दक्षिणभागे स्थापितैश्चत्वारिंशत्कलशैरित्यर्थः। भूयः सलिलेन सुपूरितैः पूर्वं पूरिते जले किञ्चित् शोषिते सति पुनः समग्रं पूरितैरित्यर्थः। प्राग्वत् प्रतिष्ठादिवसकृतस्थूलसूक्ष्माख्यस्नपनवदित्यर्थः। स्वकीयाभिरभिज्ञाभिर्वासुदेवादिमन्त्रैरित्यर्थः।। 249--260 ।।
(1.रिष्ट्वा--मु. अटी. बक. बख. अ..)(2.वा--मु. अटी.।) (3.र्मार्थं--अ.।) (4.धके--अ.।) (5.यत्नतः--अटी.।) (6.मूर्तीयैः--मु. अटी.।) (7.न्नतः--अ. उ.।) (8.द्यास्तु मूर्तिपाः--बक. बख.।) (9.नानां--अ. उ.।) (10.सर्वायतन--उ.।) (11. लगा--बक. बख. उ.।) (12.ईश्वरे(18/467), पारमेश्वरे(15/888) च विषयोऽयं द्रष्टव्यः।)
शैलोत्थं पूर्ववत् कुम्भं कृत्वा धातुमयं तु वा।। 260 ।।
तद् द्विगोलकमानेन (1) मन्त्रबिम्बेन वै सह।
शुभेऽन्यस्मिन् दिने यागमण्टपे(2) ह्युक्तलक्षणे।। 261 ।।
अधिवास्य यथान्यायं सर्वोपकरणान्वितम्।
स्नानाद्यमखिलं ताभ्यामापाद्य च यथाविधि।। 262 ।।
तस्मिन् हृदादिसंयुक्ते(3) बिम्बं कुम्भे निवेश्य च।
वस्त्रैराभरणैः पुष्पैः(4) स्वच्छं कृत्वार्घ्यपुष्पहृत्(5)।। 263 ।।
शनैः प्रासादपर्यन्तमारुहेद्(6) मूर्तिपैः(7) सह।
तत्र(8) प्रागासनादींस्तु कृत्वा संक्षालनान्तिमान्(9)।। 264 ।।
आचरेद्(10) बीजविन्यासं सर्व वाऽऽवाहनोदितम्।
निवेश्यानीय तं(11) मध्ये बिम्बं कुम्भसमन्वितम्।। 265 ।।
हृदाद्यन्तनिरुद्धेन मूलमन्त्रेण लाङ्गलिन्।
तत्राद्यमनुसन्धानमेकं(12) कृत्वा परान्वितम्(13)।। 266 ।।
सामान्यलक्षणं पश्चात् (14)पूर्वोक्तं वै कलात्मकम्।
संपूज्य वाससाच्छाद्य सुधया व्यक्ततां नयेत्।। 267 ।।
ततः पिण्डे तदूर्ध्वे तु साङ्गं(15) कुर्याद् यथोदितम्।
प्रासादं स्थापयेत् पश्चात् पूर्वोद्दिष्टेन वर्त्मना।। 268 ।।
समालभ्यार्चयित्वा च स्नगाद्यैर्मण्डयेत्(16) ततः।
पूर्ववत् पाठयेद् विप्रान् तत्प्रतिष्ठापने तु वै।। 269 ।।
संरोध्य वर्ममन्त्रं तु तत्र ध्यानधिया स्वयम्।
पूर्णान्तमखिलं कृत्वा विधिनानेन वै पुनः।। 270 ।।
(17) अरोहेति तु वै साम पाठयेत् सामगांस्तु वै।
चक्रमामलसारस्य मध्यतः सन्निवेशयेत्।। 271 ।।
यथाभिमतरूपं तु दिग्वक्त्रं वाऽम्बराननम्।
स्वशक्तिवर्णदण्डस्थं(18) चण्डमार्ताण्डभास्वरम्(19) (20)।। 272 ।।
चक्रमन्त्रं न्यसेत् तस्मिन् वर्णाध्वानं पुरोदितम्।
गत्यागतिप्रयोगेण प्राक् प्रमेयजलक्षणम्(21)।। 273 ।।
नान्यथावत्(22) पुरा ज्ञात्वा द्रव्यमूर्तित्वमागतम्(23)।
कुर्यात् (24) ततोर्ध्वसन्धानं नान्यथा तु महामते।। 274 ।।
अमलं शान्तसंज्ञं वै तथा शान्तोदितोदितम्(25)।
(26) एकमेव हि तन्मूर्ति यश्चक्रं वेत्ति तत्त्वतः।। 275 ।।
सोऽस्मिन् संसारचक्रे तु सर्वाश्रमनिवासिनाम्।
सर्वधर्मरतानां च चक्रवर्तितत्वामाप्नुयात्(27)।। 276 ।।
(28) यच्छब्दब्रह्ममर्त्यैव(29) सिद्धमाक्षं(30) निराश्रयम्।
अन्तर्बहिस्थं(31) सर्वेषां मोक्षदं चामलं स्मृतम्।। 377 ।।
(32)क्षीरोदार्णवतुल्यं यत्(33) सहस्रादित्यसन्निभम्।
निरङ्गं तीक्ष्णधारं वै तच्छान्ताख्यं हि योगदम्(34)।। 278 ।।
यत्तु नानाङ्गभावेन स्वातन्त्र्यात् स्वयमेव हि।
सर्वदिक्‌प्रसृतां(35) कृत्वा(36) स्वात्मवृत्तिं हि वर्तते।। 279 ।।
ईषद्वलयवन्नाभे(37) रराणामन्तरेखवत्।
शान्तोदितं च तद्विद्धि चक्रमिच्छाप्रदं(38) च यत्।। 280 ।।
यच्छान्तमूर्तौ(39) संबुद्धः(40) सर्वं कृत्वाऽतिष्ठते।
प्रवृत्तं नाभिपूर्वं तु उदिताख्यं हि(41) चक्राराट्।। 281 ।।
तस्मिन्नाराधितो(42) मन्त्रस्तद्वै सम्पूजितं स्मृतम्।
जप्तं सन्तर्पितं भक्त्या सर्वेषां सर्वमृच्छति।। 282 ।।
एवं चाभिमतं चक्रं सर्वविघ्नक्षयङ्करम्।
प्रतिष्ठाप्य समभ्यर्च्य तस्यैव(43) समनन्तरम्।। 283 ।।
त्र्यंशेन शिखरादुच्चं(44) खगराट्‌परिभूषितम्।
संस्कृत्य(45) ध्वजदण्डं च शिखामन्त्रेण विन्यसेत्।। 284 ।।
ततो विविधवर्णं च किङ्किणीगणभूषितम्।
ध्वजाग्राच्छिखरार्ध(46) च यावद्(47) दीर्घमकृत्रिमम्।। 285 ।।
दैर्घ्याद् द्वादशमांशेन द्विनवांशेन वा ततम्।
कृत्वाऽस्त्रसन्निधिं तस्मिन् लाञ्छनाख्ये पुरा पटे(48)।। 286 ।।
निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेत् ततः।
अथ प्रासादोपरि कुम्भस्थापनविधानं प्रासादप्रतिष्ठाविधानं चाह--शैलोत्थं पूर्ववत् कुम्भमित्यारभ्य निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेत्तत इत्यन्तम्।
तत्राद्यमनुसन्धानमेकं कृत्वा परान्वितम्।।
सामान्यलक्षणं पश्चात् पूर्वोक्तं वै कलात्मकम्।(25/266--267) इत्यत्राद्यमनुसन्धानम्,
मूलमन्त्रं पुरा ध्यात्वा संशान्तब्रह्मलक्षणम्।।
आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत्।। (25/224--225)
इति पूर्वोक्तं बोध्यम्। कलात्मकं ज्ञानैश्वर्यादिषट्‌कलात्मकमित्यर्थः। इदमपि पूर्वोक्तम्--"स्थूलं षोढा शिलान्तगकम्"(49) (25/226) इति। अत्र प्रसङ्गात् " अमलं शान्तसंज्ञं वै" (25/275) इत्यारम्य " उदिताख्यं हि चक्रराट्" (25/281) इत्यन्तममल--(शान्त)--शान्तोदित--उदितभेदैश्चक्रस्य चातुर्विध्यं (50) तत्तल्लक्षणं च चप्रतिपादितम्। अत्रेश्वरपारमेश्वरयोः(51)---
चक्रसंस्थापने कश्चिद् विशेषः श्रूयतां द्विजाः।।
अमूर्तं द्वादशारं तु अष्टारं षडरं तु वा।
चक्रं संस्थापयेत् तत्र प्रासादशिखरोपरि।।
मूर्तमङ्गणदेशे तु षोडशाष्टभुजं तु वा।
तस्य स्थापनकाले तु तस्य संज्ञामनुं जपेत्।।
विद्यां गदामित्याद्यां यत् पाठयेत् तद्विदो जनान्।
(ई. सं. 18/503--506; पा. सं. 15/175--179)
इत्यादिभिस्तन्मन्त्रपाठनाभिषेकादयः कतिचिद्विशेषाः प्रतिपादिता ग्राह्याः। एवं भगवत्प्रतिष्ठादिष्वपि तत्रैतदानुपूर्व्या(52) एव कथनेऽपि मध्ये मध्ये बहवो विशेषाः प्रतिपादिता द्रष्टव्याः।। 260--287 ।।
(1.बिम्बमन्त्रेण--उ..) (2.मण्डपे--बख. अ. उ.।) (3.मुक्ता--बक. बख., न्नृत्ता--अ. उ.।)(4.ष्पैश्छन्नं--अ. उ.।) (5.वत्--बक. बख. उ.।) (6.मारो--मु. अटी.।) (7.र्तिभिः--बक. उ.।) (8.प्राक् ताडना--बख. अ. उ.।) (9.कान्--बक. अ. उ., दिकान्--बख.।) (10. दुक्त--बक. बख., द्रत्न--अ. उ.।)(11.तन्मध्ये--अटी., मित्येवं--बक. बख. उ.।) (12.मेवं--मु. अटी.।) (13.त्मकम्--मु. अटी. अ. उ.।) (14.पूर्वोक्तं वै कलात्मकम्।...प्रासादं स्थापयेत् पश्चात्' नास्ति--मु. अटी.।)(15.साण्डं--बख. उ.।) (16.मण्टपे ततः--मु. अटी.।) (17.क्षुरो हरेति--बक. बख. अ.,क्षुरो भरेति--उ.।) (18.वर्णं---अ. उ.।)(19.मार्तण्‍ड--मु. बक. बख.।) (20.भासुरम्--मु. अटी.।) (21.यज्ञ--अ. उ.।) (22.वस्तुरा--अटी.।) (23.गतं विभुम्--बक. बख., मयं गतम्--अ.,गतस्य च--उ.।) (24.तदो--बक.।)(25.दितं स्मृतम्--उ.।) (26.एव--मु. अटी.।) (27.मूर्ति--मु. अटी.।) (28.यच्छक्तिर्ब्र--मु. अटी.।) (29.र्त्यव--मु. अटी.।) (30.सिद्धामाक्षान्निराश्रया(यः) --मु. अटी.) (31.श्च--अ.।) (32.क्षितिगगन--बक. बख.।) (33. च--अ.)(34.योगतः--मु. अटी.।) (35.प्रस्थितां--बक. बख. उ.।) (36.स्वाक्षाद्यैर्योऽभि--बक. बख.।) (37.वर्णाभे न--मु.।) (38.फलप्रदम्--उ.,फलप्रभम्--बक. बख. अ.।) (39.यावन्मूर्तौ च--मु. अटी.।) (40.संबन्धः--मु., संबन्धं--अ. उ.,संबद्धं--बख.,संवर्ध्यं--बक.।) (41. तु--बक. बख.।) (42.ते मन्त्रं त--अ.।)(43.तथैव--अटी. अ., ततोऽस्त्रं--बक. बख. उ.।) (44.च शिखादूर्ध्वं--अ. उ.।) (45.संस्थाप्य--बक.।) (46.राग्रं तु--अ., रार्धं तु--उ.।) (47.यथा--अ.।) (48.पदे--बक.।)(50.तल्ल--अ. ।) (51.पारमेश्वरे(15/975--979) एतदभिप्रायकाः श्लोका द्रष्टव्याः आनुपूर्वी तत्र नास्ति।)(52.`तत्र' नास्ति--अ.।)
स्वयंकृतानां बिम्बानां मयेदं संप्रकाशितम्।। 287 ।।
प्रतिष्ठापनमब्जाक्ष स्वतन्त्रेष्वयनेषु(1) च।
साङ्कर्येण विना त्वेवं कृतं भवति सिद्धिदम्।। 288 ।।
अन्यथाऽसिद्धिदं विद्धि नृणां व्यमित्रयाजिनाम्।
स्वयं कल्पितबिम्बानामेवं प्रतिष्ठादिकमुक्तम्। स्वयंव्यक्तादिष्वप्येवमेव मन्त्रतन्त्रबिम्बाद्यसाङ्कर्येणार्चनादिकं सिद्धिदम्, अन्यथा दोषावहमित्याह--स्वयं कृतानामिति द्वाभ्याम्।। 287--289 ।।
(1.ष्वितरे--बक. बख., षु नयेषु--उ.।)
एकस्मिन्नासने (2) स्थाने चतुस्त्रिद्व्यादिमूर्तिना(3)।। 289 ।।
व्यक्तीभूतं यथा लोके लोकानुग्रहकाम्यया।
स्वयं नानास्वरूपेण स्वर्गादौ स्थापनं तथा।। 290 ।।
न कार्यं मनुजैर्वर्णधर्मज्ञैर्नैकभावनैः(4)।
तथा वै समबुद्धिस्थैः(5) कृपया संप्रवर्तकैः।। 291 ।।
कियाभेदरतैः शुद्धैर्नानाविबुधयाजकैः(6)।
प्रणवैकप्रलापस्थै(7) शान्तचित्तैरमत्सरैः।। 292 ।।
मन्त्रमुद्राक्रमध्यानसम्भूतिलयलक्षकैः।
तथा तत्संकरोत्पन्नदोषाणां(8) ध्वंसनक्षमैः।। 293 ।।
प्रस्थापितस्तु(9) वै सम्यग्(10) ज्ञानमूर्तिर्जगद्‌गुरुः(11)।
लोके एकस्मिन् स्थाने एकस्मिन्नेवासने(12) चतुस्त्रिद्व्यादिरूपेण यथा भगवान् स्वयं व्यक्तीभूतस्तथा सामान्यैर्मनुजैः स्था(प) नं (न) कार्यम्, अपि तु समबुद्धिस्थत्वादिविशिष्टैर्विशेषाधिकारिभिस्तथा स्थापनं (13) कार्यमित्याह--एकस्मिन्निति पञ्चभिः ।। 189--194 ।।
(2.स्थानं--अटी.।) (3.र्तिषु--अ.।)(4.वकैः--बक. बख., वगैः--अ.।) (5.सह--बक.।) (6.राज--मु. अटी.।) (7.लोप--अ.) (8.तत्साङ्क--बक., तत्साग--अ. उ.।) (9.प्रस्तावि--अटी.।) (10.तेन--अ.।) (11.त्प्रभुः--बक. बख. अ. उ.।)(12.स्मिन्नासने--अ.।) (13.न कार्य--अ.।)
भिन्नमन्त्रक्रियारूपं(1) न कुर्यात् तदपेक्षया।। 294 ।।
साधारमालयं पीठं(2) भवाख्यं विभवात्मनाम्।
देवानां मर्त्यधर्मस्थैः प्रतिष्ठायज्ञकर्मणि।। 295 ।।
(3) संसारदेवतानां च स्थापितानां तु वै पुरा(4)।
कृत्वा तु भगवद्बिम्बमालये वा तदासने।। 296 ।।
निवेशयति यो मोहाद् बिम्बेन सह तस्य वै।
जायते च भयं घोरमिहामुष्मिकदोषदम्।। 297 ।।
नाप्नोत्याराधकानां तु सकाशादर्चनं परम्।
यथा बिम्बं तथा कर्ता नाप्नुयादुत्तमं फलम्।। 298 ।।
विभवदेवानां प्रतिष्ठायज्ञे आधारालयपीठादिषूक्तक्रमं विना केवलमर्त्यधर्मस्थैः सह स्वेच्छया विभिन्नमन्त्रतन्त्रलक्षणानि न कुर्यादिति, पूर्वं प्रतिष्ठितानां देवानामालये तदासने वा तेन बिम्बेन सह पुनस्तत्समभगवद्बिम्बान्तरस्थापनं दोषावहमिति चाह--भिन्नमन्त्रक्रियारूपमित्यारभ्य नाप्नुयादुत्तमं फलमित्यन्तम्।। 294--298 ।।
(1.स भिन्नमन्त्रूपस्तु--उ.।) (2.भावाख्य--उ.।) (3.रथस्य--बक. बख., तदेक--अ.।) (4.पुनः--बक.।)
अर्चायामधिके पीठे ह्यपेक्षालक्षणोज्झिते(1) (2)।
सकृद्विभवदेवानां स्थापनं न विरोधकृत्।। 299 ।।
नान्यकाले न चान्यस्य नान्यमूर्तिनिवेशनम्।
विहितं भगवत्पीठे निविष्टव्यत्ययं(3) विना।। 300 ।।
एकस्मिन् पीठे विभवदेवानां सकृत् स्थापनमविरुद्धम्, पुनरन्यकाले स्थापानम् अन्यस्य स्थापनम् अन्यमूर्तिस्थापनं च न विहितमित्याह--अर्चायामिति द्वाभ्याम्। व्यत्ययं विनेत्यनेन पूर्वं स्थापनकाले स्थानादिव्यत्यतये पुनर्यथाक्रमस्थापनं विहितमित्युक्तं भवति।। 299--300 ।।
(1.`ह्यपेक्षा....भगत्पीठे' नास्ति--बक.।) (2.फलमुत्थिते--अ.।) (3.विनष्ट--मु. अटी.।)
यथा भवोपकरणदेवानां मण्डलेऽचेनम्।
विहितं न तथा पीठे ह्येकस्मिन् सन्निवेशनम्।। 301 ।।
पूर्वोक्तचतुर्विंशतिभवोपकरणदेवतानां तु सर्वासामप्येकस्मिन्नेव मण्डले पूर्वं यथा संनिवेशनमुक्तम्, तथैकस्मिन्नेव पीठे संनिवेशनं न विहितमित्याह--यथेति।। 301 ।।
भिन्नक्रमोऽपि(4) यः कुर्यात् पृथग् वा पिण्डिकोपरि।
वामदक्षिणयोरेवं (5)देवानामप्रदक्षिणम्।। 302 ।।
सदक्षिणस्य वै तेन प्रतिष्ठाख्यमखस्य च।
निहिता(6) चोन्नता कीर्ति(7) स्तेनाथ स्वयमेव हि।। 303 ।।
प्राक्स्थितस्याधिकं मानाद् दक्षिणेनोर्जहानिकृत्(8)(9)।
शस्तमद्यतनस्यैव प्राक्‌स्थितं यत् ततोऽधिकम्।। 304 ।।
नेच्छत्यन्योन्यसाम्यं(10) तु स्थानवृत्तिं(11) धनैः सह।
उन्नतासनसंस्थोऽपि(12) मानहीनस्तु सर्वदा।। 305 ।।
मानहीनस्तु(13) कर्तॄणां कुर्यात् सुतसुखक्षयम्।
बिम्बस्य बिम्बकर्तुर्वै देहितां स्थापकस्य च।। 306 ।।
वामकृत्स्थापनं(14) वामे सममूनं तु वाधिकम्।
एवं ज्ञात्वा यथाशक्ति पृथक् कुर्यान्निवेशनम्।। 307 ।।
सिद्धये चापवर्गार्थमर्चना देवतालये।
सर्वप्रकारैरपि बिम्बानां पृथङ् निवेशनमेव कार्यमित्याह--भिन्नेत्यादिभिः(14) ।। 302--308 ।।
(4.क्रमेऽपि--मु. अटी.।) (5. देवतानां--बक. अ.।) (6.निहता--अ. उ.।) (7.र्तिः स्वे--अ.।) (8.नोत्सवं सकृत्--अ.।) (9.सकृत्--बक.।) (10.सामं--मु. अटी. बक.,) (11.वृद्धिं--बक. बख. अ. उ.।) (12.संख्यादि--मु. अटी.।) (13.कर्तृत्वे--बक. बख. (14.यद्वा--मु. अटी.।)(15. इतः परं म. पुस्तके ग्रन्थपातो दृश्यते, किन्तु अ. पुस्तकस्थाऽऽनुपूर्वी नैव खण्डिता तत्रापि।)
प्रतोली साङ्गानं(1) चैव जगती देवमन्दिरम्।। 308 ।।
सपीठं भगवद्बिम्बं भक्तानां यत्र युज्यते।
सम्यक् प्रदक्षिणीकर्तुं(2) बलिधूपपुरः सरम्।। 309 ।।
श्वेतद्वीपसमं विद्धि देवतायतनं तु तत्।
सन्निवेशस्त्वयं(3) मुख्यस्त्वमुख्यस्त्वपरो हि यः।। 310 ।।
मुख्यात् पूर्णफलप्राप्तिर्मुख्याभासात् तथाविधा।
प्रतोल्यादिभिः सहितं भगवन्मन्दिरं सपीठं भगवद्बिम्बं च यत्र प्रदक्षिणीकर्तुं योग्यं भवति, तत्स्थानस्य श्वेतद्वीपसदृशमुख्यत्वम्, तत्प्रदक्षिणानवकाशस्थानस्यामुख्यत्वं चाह--प्रतोलीति त्रिभिः।। 308--311 ।।
सम्यक्‌स्थास्त्वादिदेवीया(4) मूर्तयो या पुरोदिताः।। 311 ।।
स्थलं(5) विना न चैवार्च्या नित्यं विप्रैस्तु बिम्बगाः।
गृहे(6) पीठगता बिम्बे पुनस्ताः पत्रगा बहिः।। 312 ।।
(7) सदैव तैः समाराध्या भूतयेऽपि हि(8) मुक्तये।
ब्राह्मणैः पूर्वोक्तपरवासुदेवीयमूर्तीनां स्वगृहे मण्डलं विना बिम्बेष्वर्चनं कार्यमिति, मण्डले तदर्चनस्थानविभागादिकं चाह--सम्यक्‌स्था इति द्वाभ्याम्। एव च ब्राह्मणैरालये तद्बिम्बार्चनं कार्यमित्युक्तं भवति।। 311--313 ।।
(1.नागार--मु.।) (2.प्रदक्षिणीकृत्य--मु. अटी., प्रमाणीकर्तुं तु-- अ. उ.।) (3.शः स्वयं मुख्यः अ--मु. अटी. बख.।) (4.प्तिस्त्वमुख्यात् स्यात्--बक. बख.।)(5.स्थाप्या--मु. अटी.।) (6.गृहे स्थलं विना नार्च्या--बक. बख. अ. उ.।) (7.बिम्बे बक., शृङ्गे--बख. उ.।) (8.या शस्ता पात्रगा--बक. बख., पुरस्तात् पत्रगा--अ.।)
 (9.सदेवतैः--अ. उ.।) (10.विमु--उ.।) (11.हनेऽवाहने--मु. अटी.।) (12.च--उ.।)

सवाहनाऽवाहना(9)(10) वा बहिर्वा स्वगृहान्तरे।। 313 ।।
नार्चनीया नृपाद्यैस्ता(11) बिम्बे वै (12) मण्डलादृते।
क्षत्रियाद्यैस्तूभयत्रापि मण्डल एवार्चनं कार्यम्, न बिम्ब इत्याह--सवाहनेति ।। 313--314 ।।
(9.सदेवतैः--अ. उ.।) (10.विमु--उ.।) (11.हनेऽवाहने--मु. अटी.।) (12.च--उ.।)
सुपर्णसंस्थिताः सर्वा(1) बिम्बे वै ब्राह्मणैर्नृपैः।। 314 ।।
स्वगृहादौ च सर्वत्र पूजनीयाः सदैव हि।
एवमन्यास्तु वैश्यान्तैः सत्तमैरखिलास्तु(2) याः।। 315 ।।
सह शक्तीशभेदैस्तु न शक्तीशस्त्ववाहनः।
ब्राह्मणैः क्षत्रियैश्च सुपर्णारूढा मूर्तयः स्वगृहेऽन्यत्र वा बिम्बेष्वेवसर्वत्रार्चनीया इत्याह--सुपर्णेति।। 314--315 ।।
(1.सर्वे बिम्बाः--मु. अटी.।)(2.सत्तमाः--सक--बक., सोत्तमैर्बहु--अ.।)
(3)बिम्बगो ब्राह्मणाद्यैश्च नित्यमर्च्यः पृथग् विना।। 316 ।।
स्वाश्रमे बन्धुवर्गस्य मध्यस्थो ह्यनिशं तु वै।
एवं गरुडतार्क्ष्यारूढमूर्तयो विभवमूर्तिभेदैः सह ब्रह्मक्षत्रियवैश्यैर्बिम्बेष्वेवसर्वत्रार्चनीयाः। किन्तु वाहनारूढं विना केवलशक्तीशबिम्बं गृहे ब्राह्मणादिभिर्नार्च्यमिति चाह--एवमिति सार्धेन।। 315--316 ।।
(3.बिम्बे--अ. उ.।)
अविनासौम्यरूपेण अव्युत्पन्नजनस्य च।। 317 ।।
दृग्गते भगवद्वक्त्रे कार्ये त्रैलोक्यभीतिदे।
यच्छन्ति शुभमात्रार्थाश्चित्रस्थाश्चाशुभं(4) गृहे।। 318 ।।
बहिष्कृता(5) विशेषेण हर्म्यप्रासादभूमिषु।
आढ्यैर्भोगपदस्थैस्तु साम्प्रतं सिद्धिलालसैःष।। 319 ।।
निष्प्रभत्वान्न मृच्छैली कार्या दारुमयी(6) गृहे।
ऋते सांन्यासिकैः सान्तैः शस्वन्मोक्षपरायणैः।। 320 ।।
 तदुत्थाश्च बहिः सर्वैः कार्यास्तासु तदैव हि।
जनयन्ति महादीप्तिं(7) चन्द्रसूर्यादयोऽनिशम्(8)।। 321 ।।
गृहे सौम्यरूपं विनोग्ररूपबिम्बस्यानर्च्यत्वम्, तथैव चित्रलोहमयबिम्बं विना शैलमृद्‌दारुमयबिम्बस्यापि गृहस्थैरनर्च्यत्वम्, तस्य(9) हेतुं चाह--स्वाश्रम(10) इत्यारभ्य चन्द्रसूर्यादयोऽनिशमित्यन्तम्।। 317--321 ।।
(4.धातूत्थाश्चित्रस्थाश्च शुभं--अ. उ., यात्रार्था--बक. बख.।)(5.पङ्‌क्तिद्वयं नास्ति--अ.।) (6.मयैर्गृहे--बक. बख. उ.।) (7.सुदीप्तं च--बक. बख.।) (8.सूर्योदये--अटी.।) (9.तत्र--म.।) (10.आश्रम--म.।)
आ चैकमूर्तेः सर्वासां मूर्तीनां तु महामते।
तथा मूर्त्यन्तराणां च प्रादुर्भावगणस्य च।। 322 ।।
प्रादुर्भावान्तराणां तु स्थितानां यत्र कुत्रचित्।
सर्वेषां सर्वदा तेषां हित आराधनाय च।। 323 ।।
प्रणवः(1) पीठपूजार्थं नमस्कारपदान्वितः(2)।
प्रसिद्धं चातुरात्मीयसंज्ञामन्त्रचतुष्टयम्(3)।। 324 ।।
अर्चने सजितन्तं तु विना मन्त्रेण योऽन्यथा।
करोति पूजनं मूढश्चलबिम्बगणस्य च।। 325 ।।
गृहे वाऽज्ञातमन्त्रस्य दोषस्तस्य प्रजायते।
अथ यत्र कुत्र वा पुण्यक्षेत्रादिषु स्वयंव्यक्तादिरूपेण स्थितानां परव्यूहविभवबिम्बानां सामान्यतः प्रणवेन वासुदेवादिसंज्ञामन्त्र चतुष्टयेन वा जितन्ताख्यमन्त्रेण वाऽर्च्यत्वं मन्त्रं विनाऽर्चने प्रत्यवायं चाह--आ चेति सार्धैश्चतुर्भिः।(4)तुर्भिः। एकमूर्तेः परवासुदेवस्य, सर्वासां मूर्तीनां व्यूहवासुदेवादिमूर्तीनाम्, मूर्त्यन्तराणां केशवादीनाम्,प्रादुर्भावगणस्य पद्मनाभादिविभवावतारगणस्य, प्रादुर्भावान्तराणां विभवान्तराणामित्यर्थः। तद्विवरणं तु नवमपरिच्छेदे विचारितं द्रष्टव्यम्।। 322--326 ।।
(1.वं--बक. बख.।) (2.न्वितम्--बक. बख.।) (3.यं--मु. अटी. अ.)(4.स्त्रिभिः-अ.।)
विना सामान्यमन्त्रैर्यश्चलबिम्बगतस्य च।। 326 ।।
कुर्याद् वाशेषमन्त्रेण विशेषाख्यस्य चार्चनम्।
तदुत्थमाचिरेणैव शबलं तस्य दोषकृत्।। 327 ।।
ज्ञात्वैवं सावधानेन क्रियासक्तेन सर्वदा(5)।
भवितव्यं विशेषाद् दैगृहाश्रमपरेण तु।। 328 ।।
गृहे चलबिम्बानां प्रणवाष्टाक्षरादिम(न्त्राः? न्त्रैः) नानातत्तन्मूर्तिविशेषमन्त्रैरर्चननिषेधमाह-(6) विनेति सार्धद्वाभ्याम्। सामान्यमन्त्रैर्व्यापकमन्त्रैरित्यर्थः। प्रणवाष्टाक्षरद्वादशाक्षर--ष़डक्षर---जितन्ताख्यमन्त्रैरिति यावत्, एषां सर्वमूर्तिसाधारण्यात्।। 326--328 ।।
(5.सर्वथा--मु. अटी.) (6.रर्चा--अ.।)
क्ष्माभङ्गाद्येषु दोषेषु धअवजान्तेष्वेवमेव हि।
उपोद्धारे प्रयोक्तव्यं प्रणवाद्यं च पञ्चकम्।। 329 ।।
होमार्चनविधानेषु सृष्टिसंहारकर्मणि।
ध्वजाद्यमुद्धरेत् सर्वमवनीचलने सति।। 330 ।।
आधारोपलपर्यन्तं सन्निवेश्यं(1) तथा(2) पुनः।
चक्रपासादभङ्गेषु सोर्ध्वे बिम्बं महामते।। 331 ।।
पीठभङ्गे तु वै बिम्बं बिम्बभङ्गे तदैव(3) हि।
यद्यदिच्छति चोद्धर्तुं(4) तत्तदादौ तु संयजेत्।। 332 ।।
मध्वाज्यगुग्गुलुक्षीरदधिलाजादिभिः क्रमात्।
सन्तर्प्य तिलहोमैस्तु(5) सहस्रशतसंख्यया।। 333 ।।
मन्त्रौघं हृदयात् तस्मिन् समुच्चार्य विनिक्षिपेत्।
जालवद्(6) भासुराकारं तत्र चिच्छक्तयोऽखिलाः।। 334 ।।
विशन्ति पूर्वसंरुद्धा मन्त्रौघं पुनराहरेत्।
पाठयेदृङ्‌मयान् सर्वानुत्तिष्ठेत्यथ तद्विदः।। 335 ।।
कर्म्मारम्भे तदन्ते वै परमां प्रकृतिं त्विति।
चतुर्भिरनिरुद्धाद्यैः(7) संज्ञामन्त्रैः पृथक् पृथक्।। 336 ।।
कृत्वा होमं च तदनु तत्संज्ञार्णैर्विलोमतः।
प्रणवाद्यन्तगैः सर्वैः प्राग्वदष्टासु दिक्षु च।। 337 ।।
(8)प्रासादस्य तु(9) होतव्यं गायत्रीभिस्तथैव च।
वासुदेवाद्यभिज्ञाभिर्होमान्ते त्वथ तैः सह।। 338 ।।
न्यासं वाहनमन्त्रेण साङ्गं कृत्वात्मना (10)पुरा।
वाहनानां तथा चैव ब्रह्मैव(11) संस्पृशेदथ।। 339 ।।
(12)सञ्चाल्य हृदयेनैवं(13) जपन्नस्त्रमथोद्वरेत्।
विमाने वा रथे कृत्वा ह्यगाधेऽम्भसि निक्षिपेत्।। 340 ।।
जपेत्(14) संज्ञामनुं पश्चात् (15) प्रायश्चित्तार्थमेव हि(16)।
सहस्रमेकमर्धं तद्धोतव्यं सर्वशान्तये।। 341 ।।
पूर्ववत्(17) तोषयेत् सर्वान् काञ्चनाद्यैः स्वशक्तितः(18)।
तर्पयेदन्नपानाद्यैः(19) सर्वानाचार्यपूर्वकान्।। 342 ।।
वाच्यं तैर्द्वादशार्णेन(20) ह्यच्छिद्रं हृष्टमानसैः।
भूयः संस्थापनं कुर्यादुद्‌धृतस्य कृतस्य(21) च।। 343 ।।
सामान्यलक्षणैर्मन्त्रैश्चतुर्मूर्तिमयैः सदा(22)।
गुरुः सप्रणवेनैव यः सम्यग् भगवन्मयः। 344 ।।
यतः सप्रणवादन्यश्चातुरात्म्यं(23) च विद्यते।
मन्त्रो वा देवतारूपस्तत्त्वतो ब्रह्मवेदिनाम्(24)।। 345 ।।
प्रपञ्चः प्रणवो मन्त्रो देवस्य चतुरात्मनः।
अथ क्ष्माभङ्गादिदोषसंभवे प्रासादपीठबिम्बादीनां जीर्णोद्धारविधानमाह---क्ष्माङ्गाद्येषु दोषेष्वित्यारभ्य देवस्य चतुरात्मन इत्यन्तम्। प्रणवाद्यं पञ्चकंप्रणवाष्टाक्षरादिव्यापकमन्त्रपञ्चकमित्यर्थः। अथवा पूर्वोक्तं वासुदेवादिसंज्ञामन्त्रजितन्ताख्यपञ्चकमित्यर्थः। अत्र जालवदित्यनेन यथा वनमध्ये मृगग्रहणार्थं जालप्रसारेण कृते सर्वे मृगास्तत्र प्रविशन्ति, तद्वत् स्वहृदयाद् बिम्बादिषु मन्त्रप्रसारणे कृते तत्रत्या मन्त्राः सर्वेऽपि तत्र प्रविशन्तीति भावो बोद्ध्यते। अगाधेऽम्भसि निक्षिपेदितिमानुषबिम्बविषयम्, स्वयंव्यक्तादिबिम्बानां स्रवाथा संधेयत्वोक्त्या(25)ह्यपरित्याज्यत्वात्। अत्र बहवो विचारा(26) ईश्वरपारमेश्वरादिषूपबृंहिता द्रष्टव्याः।। 329---343 ।।
(1.तन्निवेश्यं--मु. अटी.।) (2.यथा--बक. (3.तदेव--मु. अटी., तथैव--अ.)(4.चेद्ध--मु. अटी.।) (5.होमेन--बक. बख. अ. उ.।) (6.नाल--मु.।) (7.द्यैस्तैस्तैर्म--मु. अटी.।) (8.प्राङ्कणस्य--बक. बख., प्राग्वत् तस्य--अ.।) (9.च--बख. अ. उ.।) (10.तदा--मु. अटी.।) (11.ब्रह्मैवं संस्मृशे--मु, ब्राह्मे वा सवृषैरथ--अ. उ.।)(12.संस्थाप्य--अ., संक्षाल्य--उ.।) (13.नैव--अ. उ.।) (14.नारसिंहं जपेत्--बक. बख. अ. उ.।)(15.सर्वं--अ.।) (16.च--मु. अटी.।) (17.दृक्ष--बक. बख., द्दक्ष--अ. उ.।) (18.क्तिभिः--बक. बख. अ. उ.।) (19.द्यैद्विजाना--अ.।) (20.तद् द्वा--मु. अटी.।)(21.च पूर्ववत्--बक. बख. अ.।) (22.सह--मु. अटी.।) (23.त्म्यान्न--अ. उ.।) (24.वादिनाम्--अटी., वेदिना--उ.।)(25.त्बक्त्या सर्वथा--अ.।)(26.ईश्वरेऽष्टादशेऽध्वयाये पारमेश्वरे च पञ्चदशेऽध्याये विशेषा एते द्रष्टव्याः।)
एवं ज्ञात्वा पुरा कर्म स्थापनोत्थापनान्तिकम्(1) ।। 346 ।।
विधिवद् यागपूर्वं तु (2) बिम्बसञ्चालनं विना।
यो दिव्यायतनादीनां भक्त्या भूयः(3) भासं च पिण्डिकाम्।। 347 ।।
ध्वजं वा (4) मन्दिरं शुभ्रं पीठं(5) भासं च पिण्डिकाम्।
सल्लोहशैलकाष्ठोत्थैः पद्माद्यैरूर्ध्वतोऽङ्किताम्।। 348 ।।
एकानेकदलैश्चैव(6) बद्धैरायसपूर्वकैः।
सुबद्धां सूर्यसोमाग्निप्रभाढ्यां(7) सुमनोरमाम्।। 349 ।।
स लोके शाश्वतीं कीर्ति स्थापयित्वा कुलैः सह।
स्थानं सायुज्यतापूर्वमन्ते(8) नूनमवाप्नुयात्।। 350 ।।
एवं शास्त्रज्ञानपूर्वकं प्रतिष्ठाजीर्णोद्धारादिकर्तुः फलमाह--एवमिति सार्धैश्चतुर्भिः।। 346--350 ।।
(1.गम्--मु. अटी.।) (2.बिम्बं--मु. अटी. बक. बख.।) (3.समेति--अ.।) (4.सुम--बक. बख. उ.।) (5.ठभा--बक. बख. अ. उ.।) (6.एकाद्यनेकदलजाम्बरा--बक. बख. उ., दलजां बन्धैरा--अ.।)(7.भाभ्यां--मु. अटी.।)
नानारत्नप्रभाढ्यानि लाच्छानन्यङ्गदानि च।
निर्मितानि सुवर्णाद्यैर्विभोः संयोजयन्ति ये।। 351 ।।
(1) ते धौतकल्मषाः सर्वे देहमासाद्य (2) पावनम्।
सम्यग् ज्ञानेन युज्यन्ते भवं(3) नायान्ति येन च।। 352 ।।
आत्मनश्चोपकाराय सर्वदुः खनिवृत्तये।
अङ्गुष्ठाग्राच्च गुल्फान्तमाजान्वंसावधीह वा।। 353 ।।
मणिमुक्ताप्रवालाढ्यकवचं(4) काञ्चनादिकम्।
यः क्षिपत्यतिभक्त्या वै स्वशक्त्यार्चागतेऽच्युते(5)।। 354 ।।
स याति परमं स्थानं सपुत्रपशुबान्धवः।
भगवते नानामणिमयभूषणरत्नकवचादिसमर्पणकर्तुः फलमाह--नानेत्यादिभिः।। 351--355 ।।
(1.पूर्वं देहान्ते नूनमाप्न--मु. अटी.।) (2.इत आरभ्य समाप्तिपर्यन्तं मध्ये मध्येऽक्षरच्युतिर्दृश्यते--अ.।)(3.निष्कलम्--बक. बख.।) (4.भवमायान्वति ये च न--अ.।)
लग्नं यद्भगवन्मूर्तावङ्गदं नूपुरादिकम्।। 355 ।।
वियोजयति यो मोहात् तस्य वीचौ स्थिरा स्थितिः।
भगवद्‌भूषणापहर्तुः फलमाह---लग्नमिति।। 355--356 ।।
यः पञ्चकालसक्तानां विप्राणामधिकारिणाम्।। 356 ।।
पञ्चरात्रविदां(6) चैव द्विजानां(7) सिद्धिकाङ्क्षिणाम्।
अथ(8) योऽच्छिन्नशाखानां नारायणरतात्मनाम्।। 357 ।।
तपस्विनां वा व्रतिनां स्नातकब्रह्मचारिणाम्।
भक्तानामथवाऽन्येषां(9) मार्जनादौ(10) रतात्मनाम्।। 358 ।।
प्रीतये परमेशाय कृत्वा सम्यक् (11) प्रयच्छति।
शालाद्यायतनोपेतमश्मपक्वेष्टकान्वितम्।। 359 ।।
ग्राम्यैर्धान्यैस्तथारण्यैः पूर्णं सद्‌वृत्तिसंयुतम्(12)(13)।
वणिक्कुटुम्बभृतकरक्षापालैः समन्वितम्।। 360 ।।
(14)सोऽनन्तं(15) फलमाप्नोति कालमाचन्द्रतारकम्।
संस्थितिं शाश्वतीं(16) लोके प्राप्नुयादक्षयं यशः।। 361 ।।
भागवतानामग्रहारादिप्रदातुः फलमाह--य इत्यादिभिः।। 356--361 ।।
(5.लाढ्यं--बक. बख. उ., लानां--उ.।) (6.क्त्यार्च्याग--मु. अटी., क्त्याऽर्चार्चिते--अ.।) (7.काल--बक.।) (8.भक्तानां--बक. बख.।) (9.योऽर्चन--अटी.।) (10.षाम--बक. अ., षां संमार्जन--उ.।) (11.नादिर--बक. बख.।) (12.प्रयत्नतः--अ.।)(13.सम्प्रति--मु अटी. बक. बख.।) (14.संकुलम्---बक. बख.।) (15.पङ्‌क्तित्रयं नास्ति अ.।) (16.नन्त--बक. बख. उ.।)
भोगोपभोगिनीं भद्रां रम्यां पूर्वोक्तलक्षणाम्।
यागनिष्पत्तये कुर्याद् योऽग्रतः पीठसन्निधेः।। 362 ।।
बहिराराधनार्थं वा कर्मिणां ब्रह्मयाजिनाम्(1)
(2) मनुष्यपितृदेवाख्यान्मुच्यते स ऋणत्रयात्।। 363 ।।
मध्यतो गरुडाक्रान्तं सचक्राम्बुरुहाङ्कितम्(3)।
तुर्याश्रमथवा वृत्तं कुण्डवत्पदवीयुतम्।। 364 ।।
बलिपीठं बहिः कुर्याद्(4) भक्त्या यस्त्वच्युतालये।
स याति(5) चाच्युतं स्थानं विमानै(6) रिन्दुवर्चसैः।। 365 ।।
यः (7) सप्राकारमारामं सम्प्रयच्छति वै विभोः।
नानापुषअपफलोपेतं वापीद्रुम(8) समाकुलम्।। 366 ।।
साब्जतोयाशयोपेतं(9) मारङ्गखसमन्वितम्।
स नन्दनवने भोगात् भुक्त्वा यात्यच्युतालयम्।। 367 ।।
क्षोणीं यः सस्यसम्पूर्णां युक्तां वा(10) गन्धशालिना।
केदारं जलपातैस्तु परिच्छन्नं समन्ततः।। 368 ।।
(11)संयच्छति जगद्योनेः कालमासाद्य शाश्वतम्।
स यायात् सुसितद्वीपं तत्रास्ते भगवानिव(12)।। 369 ।।
स्नानोपभोगमन्त्रार्थं सवृषेन्द्रं तु गोगणम्।
समर्चयित्वा(13)योऽर्चां वै वैष्णवीं प्रतिपादयेत्।। 370 ।।
सोऽचिरान्मुक्तदोषस्तु विष्णुलोकं प्रयाति(14) च।
गजं रथं वराश्वं च दीपस्थालीं(15) सुलक्षणाम्।। 371 ।।
व्यजनं चामरं छत्रं वादित्रं गणिकागणम्।
शुभवस्त्राणि नेत्राणि दिव्यान्याभरणानि च।। 372 ।।
वितानं वैजयन्तीं च चित्रपत्रलतागणम्(16)।
सुस्वरामुपघण्टां(17) च धूपस्थालीं सुलक्षणाम्।। 373 ।।
भृङ्गारं दर्पणं तोयकुम्भं गन्धोपलं महत्।
पूर्वो द्दिष्टानि चान्यानि धान्यानि विविधानि च।। 374 ।।
यो ददाति हरेर्भक्त्या स तल्लोकमवाप्नुयात्।
(18)ईक्षमाणं विभोर्वक्त्रं वहन्तं दीपभाजनम्।। 375 ।।
महान्तमथवा दीपं(19) यन्त्रं कूर्मादिरूपधृकम्(20)।
शरयज्ञासनस्थं च चित्रसम्पुटभूषितम्।। 376 ।।
सच्छास्त्रपीठं (21) विविधं श्रद्धया यो महामते।
ददाति देवदेवस्य स(22) तत्स्थानं (23) प्रयाति च।। 377 ।।
भद्रपीठबलिपीठग्रामारामक्षेत्रगोगजरथाश्वादीनां दीपस्थाल्यादिपूजोपकरणानां च समर्पणफलान्याह--भोगोपयोगिनीमित्यादिभिः।। 362--377 ।।
(1.चारिणाम्--मु. अटी., वादिनाम्--बक. )(2.पङ्‌क्तिरेषा न दृश्यते--अ., ऋषिदेवपितृभ्यश्च--बक. बख.।) (3.न्वितम्--अ.।) (4.दग्रतस्त्व--अ.।) (5.शाश्वतं--मु. अटी.।)(6.नैः शुभ्र--बक. नैः सूर्य--बक.।) (7.सप्रकार--मु. अटी.।) (8.लता--अ.।) (9.तमपवर्च--बक.।) (10. प्रचय--बक. बख.,उ.।) (11. स ग--बक. बख.।) (12.निति--अटी.।) (13.योऽर्चेद्वै--बक. देवेशं वैष्णवं--मु. अटी.।)(14.प्रयास्यति--अ.।) (15.स्थानं....णम्--अ. उ.।) (16.गृहम्--अटी.।) (17.रान् धूपघण्टांश्च--अ. उ.।) (18.पङ्‌क्तिद्वयं नास्ति--अ.।) (19.धूपं--बख.।) (20.धूत्‌--मु. अटी.।) (21.ठसहितं--बक. ।) (22. परस्थानं--बक. बख.।) (23.प्रयच्छति--बख.।)
पुरस्कृत्य जगद्योनिं यद्यद् भक्त्या प्रदीयते।
तदाराधनसक्तानां तत्तदक्षय्य(1) तामियात्।। 378 ।।
इति सम्बोधितो(2) विप्रा लोक(3) धर्मव्यवस्थिताः।
लाङ्गली देवदेवेन सर्वानुग्रहकाम्यया।। 379 ।।
मया प्राप्तं जगद्धातुः प्रसादान्मोक्षसिद्धये।
यथावदथ सर्वेषामग्रतः प्रकटीकृतम्।। 380 ।।
परं पापहरं पुण्यं पावनं सिद्धिद्वितदम्(4)।
इदं भव्याशयानां च वक्तव्यं भावडितात्मनाम्।। 381 ।।
भक्तानामप्रमत्तानां पुण्डरीकाक्षसेविनाम्।
(5)(6)यज्ञापवर्गसत्कीर्तिसाधुसङ्गाभिलाषिणाम्(7)।। 382 ।।
(8) भोगेप्सूनामभक्तानां(9) (10)वाक्छलादिरतात्मनाम्।
(11) अन्यायेनोपसन्नानां नास्तिकानां विशेषतः।। 383 ।।
यो गोपायत्ययोग्यानां योग्यानां संप्रयच्छति।
(12) इममर्थं स मान्यो मे स्वस्ति वोऽस्तु व्रजाम्यहम्।। 384 ।।
इति श्री(13) पाञ्चरात्रे श्रीसात्वतसंहितायां प्रतिष्ठा(14) दिविधिर्नाम
(15) पञ्चविंशः परिच्छेदः।।
इदं शास्त्रं सर्वानुग्रहार्थं भगवता वासुदेवेन संकर्षणायोपदिष्टं मया भगवत्प्रसादाल्लब्धं भवतामप्यग्रे यथावत् प्रकाशितम्। तदिदमास्तिकेभ्यः प्रकाशनीयं नास्तिकेभ्यो गोपनीयम्, तथा प्रकाशगोपने यः करोति स तु ममाति मान्यो भवति, भवतामैहिकामुष्मिकरूपं निरवधिकं स्वस्त्यस्तु अहं व्रजामीति भगवान् नारदो मुनीन् प्रत्युपदिष्टवानित्याह---इतीति।। 379--384 ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य
श्रीयोगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते।
सात्वततन्त्रभाष्ये पञ्चविंशः परिच्छेदः।।
(1.दक्षय--बक. बख.।))(2.धिता--मु. अटी.।) (3.लोके--बक., लोकधर्मे--अटी.।)(4.सिद्धि--अटी.।)(5.पङ्‌क्तिरेषा नास्ति--मु. अटी.।) (6.धर्माप--बख. अ.।) (7.लक्षिणाम्--बख. उ.।) (8.गोपनीय--मु. अटी., गोब्राह्मणानां--अ.।) (9.नामास्तिकानां विशेषतः--अ.।) (10.वाक्‌प्रलाप--बक. बख. उ.।) (11.पङ्‌क्तित्रयं नास्ति--अटि.।) (12.विख्यातार्थ--बक. बख.।) (13.पञ्च--बख. उ.।) (14.ष्ठावि--अ. उ.।)(15.चतुर्विंशतितमः--अ., पञ्चविंशतितमः--उ.।)


********************-------------------