प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८ सात्त्वतसंहिता
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →
सात्त्वतसंहितायाः अध्यायाः


नवमः परिच्छेदः
नारद[1] उवाच
अथ लाङ्गलिना देवश्चक्रधृक् परिचोदितः ।
यत् तच्छृणुत विप्रेन्द्राः कथ्यमानं मयाऽधुना ।। 1 ।।
अथ नवमो व्याख्यास्यते। संकर्षणपरिपृष्टेन वासुदेवेन यदुक्तं तच्छृणुध्वमिति नारदो मुनीन् प्रत्याह- अथेति ।। 1 ।।
[1 `नारदः' इत्येव उ. विहाय सर्वत्र पाठः।]

सङ्कर्षण[1] उवाच
सूक्ष्मव्यूहविभागेन सबाह्याभ्यन्तरं हि यत् ।
परस्य ब्रह्मणः सम्यग् ज्ञातमाराधनं मया ।। 2 ।।

इदानीं श्रोतुमिच्छामि विभोः सद्विभवात्मनः ।
आराधनं यथावच्च भविनामीप्सितप्रदम् ।। 3 ।।
प्रश्नप्रकारमाह- सूक्ष्मेति द्वाभ्याम्। सूक्ष्मव्यूहविभागेन परव्यूहभेदेनेत्यर्थः। सबाह्याभ्यन्तरं मानसयागबाह्ययागभेदभिन्नमित्यर्थः ।। 2-3 ।।
[1 `सङ्कर्षणः' इत्येव उ. विहाय सर्वत्र पाठः। ]

भग[1]वानुवाच[2]
वैभवीयो महाबुद्धे देवतानिचयो महान् ।
य उक्तस्ते मया पूर्वमेकैकं विद्धि तत्त्रिधा ।। 4 ।।

चतुर्णां युगसन्धीनां युगानां च तथैव हि ।
विश्वविप्लवदोषाणां विनाशाय समुद्यतम् ।। 5 ।।

सितरक्तादिरूपेण ज्वलदस्त्रकराङ्कितम् ।
कार्यारम्भे तथा मध्ये ह्यवसाने तु सर्वदा ।। 6 ।।

सन्धत्ते रूपमात्मीयमेक[3] एव त्वनेकधा ।
श्रेयसे सर्वलोकानां स्थूलं[4] तत् कामरूपधृक्[5] ।। 7 ।।

अनुद्यतेन वपुषा कुन्देन्दुधवलेन च ।
वीरासनादिना चैव स्थितं मुदितमानसम् ।। 8 ।।

लीलाविधृतसर्वास्त्रं सौम्यवक्त्रमनाकुलम् ।
धिया दोषगणं सर्वं [6]ध्वंसयन्तं च मोक्षिणाम् ।। 9 ।।

तद्व्यक्तं शान्तसंज्ञं च रूपं रूपवतां[7]वरम् ।
प्रकाशयति सन्मार्गं समाधिनिरतात्मनम् ।। 10 ।।

तेजोमयं यत् तद्रूपं वैभवं शान्तसंज्ञकम् ।
उपासकानां भक्तानां सर्वे सर्वफलप्रदाः ।। 11 ।।

आमोक्षान्निर्विचारेण [8]एकैकस्य महामते ।
आराधनार्थं विहितो वाचको हि चतुर्विधः ।। 12 ।।

एवं पृष्टो भगवान् स्थूलसूक्ष्मपरत्वभेदेन विभवावतारस्य त्रैविध्यमाह- वैभवीय इत्यारभ्य आमोक्षान्निर्विचारेणेत्यन्तम्। अत्र युगानां युगसन्धीनामिति पष्ठ्या अधिकरणत्वमर्थः। विश्वविप्लवदोषाणां विनाशाय समुद्यतम्। युगेषु तत्सन्धिकालेषु च ये ये दोषाः संभवन्ति, तेषां प्रशमायाविर्भूतमित्यर्थः। अनेन-
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ।। (भ. गी. 4/8)
इत्यर्थः स्मारितो भवति। सितरक्तादिरूपेण तत्तद्युगानुसारिवर्णभेदेनेत्यर्थः। तथा च श्रीभागवते-
आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।
शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ।। इति ।
(श्रीमद्भा. 10/8/13)
कार्यारम्भे मध्येऽवसाने च सृष्टिस्थितिसंहारकालेष्वित्यर्थः। एक एवानेकधा रूपं सन्धत्ते। सृष्टिकाले रक्तं रूपम्, रक्षणकाले शुक्लं रूपम्, संहारकाले कृष्णं रूपं बिभर्तीत्यर्थः। स्थूलं जाग्रत्पदस्थितमित्यर्थः। कामरूपधृक् स्वेच्छया नानारूपधरमित्यर्थः। तद्व्यक्तं शान्तसंज्ञं च रूपमित्यत्र व्यक्तमित्यनेन स्वप्नसुषुप्तिपदाश्रितत्वम्, शान्तसंज्ञमित्यनेन तुर्यपदाश्रितत्वं चोच्यते। [9]यतो लक्ष्मीतन्त्रे-
त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके ।
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ।। (10/42)
इति स्वप्नसुषुप्तिपदस्थस्य सुव्यक्तत्वं तुर्यपदस्थस्य शान्तत्वं चोक्तम्। एवं स्वप्नसुषुप्तितुर्यपदाश्रितत्वादिना विभिन्नस्यापि रूपस्यैक्यकथनं हृदयान्तःस्थितत्वेन सूक्ष्मत्वेन चाविशेषादिति बोध्यम्। रूपं सूक्ष्मरूपमित्यर्थः। तथा च जयाख्ये चतुर्थे पटले-
स्रष्टा पालयिता चाहं संहर्ता पुनरेव च ।
स्वकीययोगयुक्त्या तु स्थूलरूपेण नारद ।।
सूक्ष्मेण सर्वभूतानां निवसामि हृदन्तरे ।
करोम्यनुग्रहं चापि भक्तानां भावितात्मनाम् ।।
परेणानन्दरूपेण व्यापकेनामलेन च ।
व्यासयाम्यखिलं विप्र रसेनेव तरूत्तमम्[10] ।। (4/23-25) इति।
नन्वत्र व्यूहस्यैव तुर्यसुषुप्तिस्वप्नजाग्रत्पदाश्रितत्वेन चातुर्विध्यमुक्तम्, तद्विभवावतारेऽपि भवता कथमुच्यत इति चेत्, ब्रूमः-
स्वप्नाद्यवस्थाभेदस्तु ध्यायिनां खेदशान्तये ।
तत्तत्पदस्थजीवानां तन्निवृत्त्यर्थमेव च ।।
स्वप्नाद्यवस्थजीवानामधिष्ठातार एव ते ।
कर्मात्मनां च सेनेश तत्पदस्थो ममेच्छया ।।
उपास्योऽहं महाभाग [11]पदभेदप्रयोजनम् ।।
(तत्त्व., पृ. 133-134)
इत्युक्तस्य फलस्य विभवावतारेऽप्यपेक्षितत्वाद् व्यूहवद् विभवस्यापि तुर्यादिपदभेदेन चातुर्विध्यमुपपन्नम्। अत एवोक्तं जगज्जनन्या-
पराद्यर्चावतारेऽस्मिन् मम रूपचतुष्टये ।।
तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः । (लक्ष्मी. 2/60-61) इति। वैभवं शान्तसंज्ञकमित्यत्र शान्तसंज्ञकं परात्परमित्यर्थः।। 4-12 ।।

[1 श्रीभाग- अ. उ.।]
[2 `उवाच' उ. विहाय कुत्रापि नास्ति।]
[3 मेकमेव- अ. उ.।]
[4 स्थूलवत्- मु. अटी.।]
[5 धृत्- मु. अटी.।]
[6 ध्वंसन्तं तं- बक. बख. ।]
[7 वर- बख. उ., वरः- अ.।]
[8 यतः श्री- मु.।]
[9 त्वेकै- मु. बक. बख. उ.।]
[10 त्तमान्- अ.।]
[11 यद-मु.।]

आराधनार्थं विहितो वाचको हि चतुर्विधः ।। 12

संज्ञानानापदमयः पिण्डाख्यो बीजलक्षणः ।
एभ्यो [1]मध्यात्त्वथैकेन वाच्यमामन्त्र्य भक्तितः ।। 13 ।।
अथ संज्ञापदपिण्डबीजभेदेन मन्त्राणां चातुर्विध्यं तेष्वेकतमेन भगवदावाहनाद्यर्चनं चाह- एकैकस्य महामते इत्यादिना सार्धेन। वाच्यं भगवन्तमामन्त्र्यसमावाह्य, अर्चयेदिति शेषः ।। 12-13 ।।
[1 ध्यात्वा त्व- उ.।]

यत्रैकपिण्डवाक्योत्थमन्त्रेणाथोभयात्मना ।
अभिन्नलक्षणो वाच्य एक एवोपचर्यते ।। 14 ।।

तत्र वै विधिनानेन कुर्यात्ताभ्यां हि[1] कल्पनाम् ।
कृत्वादौ नाममन्त्रस्य बीजं पिण्डाक्षरं तु वा ।। 15 ।।

नयेत् तेनाभिमुख्यं च वाच्यमाद्यन्तकेन[2] वा ।
संतन्त्र्य[3] पदमन्त्रं तु विधिनानेन वै ततः ।। 16 ।।

कुर्यात् प्रणवपीठस्थं नमस्कार[4]ध्वजान्वितम् ।
आभ्यां शान्तस्वरूपत्वादेकत्वमत एव हि ।। 17 ।।

संज्ञाख्यं पदमन्त्रं च विद्धि संसिद्धिलक्षणम् ।
बीजपिण्जमन्त्रयोरन्यतरेण संज्ञापदमन्त्रयोरन्यतरेण चोभयेनाप्यभिन्नरूपस्यैकस्यैव भगवतोऽर्चनं यत्र कार्यम्, तत्र तन्मन्त्रद्वयस्यापि संमेलनप्रकारम्, तदाद्यन्तयोः प्रणवनमःसंयोजनमन्त्रं चाह- यत्रेति सार्धैश्चतुर्भिः। आद्यन्तकेन वा आदिबीजमन्ते यस्य तत् तथोक्तेन, अन्तेऽपि बीजसहितेनेत्यर्थः। यद्वा अन्त एव बीजसहितेनेत्यर्थः। उभयथाप्युक्तं लक्ष्मीतन्त्रे-
आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा ।।
येषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः । (21/22-23)
इति ।। 14-18 ।।
[विक- अटी. ।]
[2 न्तगेनेति सार्वत्रिकः पाठः.।]
[3 स तत्र- अटी. बक. बख.।]
[4 स्कारं- बख. ।]

स्वरोत्थं व्यञ्जनोत्थं वा बीजमेकाक्षरं स्मृतम् ।। 18 ।।

स्वरव्यञ्जनसंयोगाद् बह्वर्णः पिण्डमन्त्रराट् ।
बीजस्वरूपं पिण्डस्वरूपं चाह- स्वरोत्थमिति। स्वरोत्थम् अकारादिस्वरेष्वन्यतमेन द्वाभ्यां बहुभिर्वा, उत्थम् उत्पन्नमित्यर्थः। तथा चोपबृंहितं लोकमात्रा-
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् ।।
बीजं बहुस्वरं वापि विज्ञेयं बहुधेश्वर । (लक्ष्मी. 21/11-12) इति ।। 18-19 ।।

द्वाभ्यामाद्यात् तथान्ताच्च स्वरवर्गान्महामते ।। 19 ।।

स्वरूपेण हि मन्त्रत्वमन्येषां सह बिन्दुना ।
अकारादिषोडशस्वरेष्वाद्यस्वरद्वयस्यान्त्यस्वरद्वयस्य च स्वरूपेणैव मन्त्रत्वम्, अकाराकाराभ्याम्, अन्त्यद्वाभ्याम् अनुस्वारविसर्गाभ्यामित्यर्थः। इदं बीजचतुष्टयं पूर्वं स्वप्नव्यूहमन्त्रचतुष्के च प्रतिपादितं ज्ञेयम् ।। 19-20 ।।

स्वरेणैकेन युक्तस्य स्वरयुग्मान्वितस्य च ।। 20 ।।

सानुस्वारस्य बीजत्वं व्यञ्जनस्यापि लाङ्गलिन् ।
ककारादिव्यञ्जनस्यापि बिन्दुसहितत्वेनैव मन्त्रत्वमाह- स्वरेणेति ।। 20-21 ।।

य ॐकाराख्यशब्दस्य विवर्तो दीधितिप्रभः ।। 21 ।।

चिल्लक्षणस्त्वनाकारो विद्धि तद्वाचकं त्रिधा ।
क्वचित् पिण्डं क्वचिद्बीजं क्वचिच्छब्दमनाहतम् ।। 22 ।।

तस्य चोद्गीर्यमाणस्य[1] परिणामः स्फुटो हि यः ।
बह्वक्षरो बहुपदः स्तुतिसम्बोधलक्षणः ।। 23 ।।
बीजपिण्डसंज्ञापदमन्त्राश्चत्वारोऽपि प्रणवस्य परिणामाः। तत्राद्यास्त्रयः सूक्ष्मपरिणामाः, अन्त्यः स्थूलपरिणाम इत्याह- य ॐकाराख्यशब्दस्येति सार्धद्वाभ्याम्। [2]आकारभेद इति यावत्, दीधितिप्रभः केवलतेजोरूप इत्यर्थः। चिल्लक्षणः चिद्रूपः। अनाकारो गुणलक्ष्य इत्यर्थः। एवमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि-
शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ।।
चिल्लक्षणः सद्[3]गुणात्मा तस्य भेदस्चतुर्विधः ।
क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् ।।
तुर्यं सुषुप्तिः स्वप्नं च जाग्रद्व्यूहादयः[4] क्रमात् ।। (21/9-19)
एवं च मन्त्रप्रतिपाद्यस्य भगवतः पूर्वं [5]परसूक्ष्म(स्य?)स्थूलभेदेन त्रैविध्यम्, तत्र सूक्ष्मस्य तुर्यसुषुप्तिस्वप्नभेदेन त्रैविध्यं च यथा प्रतिपादितम्, तद्विदिहापि प्रणवस्य परत्वम्, बीजपिण्डसंज्ञामन्त्राणां तुर्यसुषुप्तिस्वप्नक्रमेण सूक्ष्मत्वम्, पदमन्त्रस्य स्थूलत्वं चोक्तं भवतीति ज्ञेयम् ।। 21-23 ।।
[1 चोद्गीयमानस्य- मु. अटी.।]
[2 विवर्तपदस्य व्याख्यानमेतत्.।]
[3 षड्-मु.।]
[4 द्बीजा- मु.।]
[5 पूर्वापरसूक्ष्मस्य- अ.।]

अविनाशी स ॐकारो बीजादीनां महर्द्धिदः ।
प्राग्[1] दद्यात् प्रणवेनातः सत्याख्येनासनं महत् ।। 24 ।।

तस्माद् वै सत्यभिन्नं तु[2] बीजं तदुपरि न्यसेत् ।
स्वविवर्तेन बीजस्य मूर्त्यु[3]त्थानं प्रकल्पयेत् ।। 25 ।।

प्राप्तेज्यावसरे नित्यं सम्पन्ने यजने सति ।
तप्तोपले जलं यद्वत् तद्वत् विप्रलयं[4] स्मरेत् ।। 26 ।।
एवं प्रणवस्य नित्योदितत्वात् सर्वमन्त्राणामप्याधारत्वेनादौ निवेशनम्, तदुपरि तद्विवृत्तस्य बीजस्य न्यासम्, प्रत्यहमाराधनकाले बीजात् तत्परिणामाकारेण संज्ञापदमन्त्रयोरन्यतरस्योत्थानम्, समाप्ते यजने पुनस्तत्रैव लयं चाह- अविनाशीति त्रिभिः। बीजस्य क्षेत्रज्ञरूपत्वात् तदुपरि स्थितानां वर्णानां क्षेत्ररूपत्वाच्च मूर्त्युत्थानमुक्तम्। विप्रलयं स्मरेदित्यनेन मूर्तिरूपस्य मन्त्रस्य बीजे उपसंहारः, बीजस्य तत्कारणे प्रणवे चोपसंहारो बोध्यः। तथा च जयाख्ये-
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम्[5] ।।
मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत् ।
ज्वाला ज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ।।
तं[6] मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ।
प्रविष्टं भावयेत् सूक्ष्मे बुद्ध्यक्षे ह्युभयात्मके ।।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ।।
स[7]न्धिमार्गेण हृत्पद्मे संप्रविष्टं तु भावयेत् । (15/233-237)
इति ।। 24-26 ।।

[1 प्राग्वि- बक. बख. उ.।]
[2 रूपं- मु. अटी.।]
[3 मृत्युस्थानं- मु. अटी.।]
[4 प्रविलयमिति सार्वत्रिकः पाठः।]
[5 क्रमात्- मु.।]
[6 तन्मन्त्र- अ. मु.।]
[7 सुधी- अ., सिद्धिमार्गण- मु.।]

भानु[1]प्रसरसंकोचतुल्यमेतद् महामते ।
क्रियावशात्तु किन्त्वत्र भेदमात्रोपलक्षणम् ।। 27 ।।
([2]पृथिवीभिन्नस्य?) संज्ञापदमन्त्रयोरन्यतरस्य पूजाकाले बीजात् प्रसरणं तत्समाप्तौ तत्र संकोचश्च कथमुपपद्यत इति शङ्कां किरणसादृश्येन परिहरति- भानुप्रसरेति ।। 27 ।।
[1 प्रसव- मु.।]
[2 पृथिवीभिन्नस्येत्यनावश्यकं पदमुभयोर्मातृकयोर्दृश्यते।]

न[1] यत्र बीजं पिण्डं वा तत्र वै प्रणवादनु ।
प्राग्वर्णं पदमन्त्रस्य यत् तदालोकवाचकम् ।। 28 ।।

तच्छिष्टं विग्रहं वर्णैस्तस्मादुत्थाप्य वृक्षवत् ।
बीजेन पिण्डेन वा विरहिते मन्त्रे प्रथमाक्षरस्यैव बीजत्वम्, तदवशिष्टानां वर्णानां तद्विग्रहत्वेन तस्मादुत्पादनं चाह- न यत्रेति सार्धेन। उत्थाप्येत्यत्राऽर्चयेदिति शेषः। एवमेवोपबृंहितं हरिवल्लभयापि-
बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ।।
निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम् । इति ।
(लक्ष्मी. 21/17-18)
आदि प्रथमवर्णमित्यर्थः ।। 28-29 ।।
[1 आनीय वीर्यपिण्डं वा- उ.।]

केवलं यत्र वै बीजं पिण्डं वा पदवर्जितम् ।। 29 ।।

तत्राकाराख्यवर्णस्य क्षेत्रज्ञत्वं विधीयते ।
क्षेत्रत्वमवशिष्टानां वर्णानां पिण्डरूपिणाम् ।। 30 ।।
संज्ञापदमन्त्ररहिते बीजे पिण्डे वाऽकारस्य बीजत्वम्, तदवशिष्टानां वर्णानां विग्रहत्वं चाह- केवलमिति सार्धेन। एवमेवोक्तं कमलवासिन्यापि-
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ।।
शिष्टं तु क्षेत्रमुद्दिष्यम्... ..... ..... (लक्ष्मी. 21/18-19) इति।
बीजानां पिण्डानां पदवर्जितकेवलबीजपिण्डानामित्यर्थः। अस्तु अकारस्त्वित्यर्थः ।। 29-30 ।।

केवलस्य हि बीजस्य स्वस्थितिर्ब्रह्मवर्णता ।
स्वभावप्रच्युतिर्बीजं बीजोच्चारस्तथाकृतिः ।। 31 ।।

बीजवत् पिण्डमन्त्राणां परिज्ञेयः सदोदयः ।
अकारेणापि रहितं बीजपिण्डविषयमाह- केवलस्येति सार्धेन। केवलस्य बीजस्य स्वस्थितिरेव ब्रह्मवर्णता स्वस्य स्थूलरूपा सूक्ष्मरूपा च स्थितिरेव ब्रह्मता वर्णता च । ब्रह्मता स्थूलता, [1]मूर्तत्वमिति यावत्। वर्णता बीजत्वमित्यर्थः। क्षेत्रत्वं क्षेत्रज्ञत्वमप्यवस्थाभेदेनैकनिष्ठमिति भावः। तथाहि- स्वभावप्रच्युतिः स्थूलताविरहः, मध्यमावस्थेति यावत्। सैव बीजं जीव इत्यर्थः। बीजोच्चारो बीजस्य स्थूलरूपेण स्फुटोच्चारणमेव आकृतिः क्षेत्रमित्यर्थः। एवमेव पिण्डमन्त्राणामप्युदयः परिज्ञेयः, क्षेत्रक्षेत्रज्ञभावो बोध्य इत्यर्थः। लक्ष्मीतन्त्रे त्वेवं क्षेत्रक्षेत्रज्ञभाव एकमात्रबीजविषये प्रतिपादितः। अकारहितबीजविषये तु स्वरस्यैव क्षेत्रज्ञत्वमुक्तम्। तथाहि-
... .... ..... .... अकाररहिते पुनः ।
क्षेत्रज्ञ स्वर उद्दिष्ट केवल[2] च[3] स्वरे पुनः ।।
जीवः स्यात् प्रथमा मात्रा द्वितीयादि तनुर्भवेत् ।
एकमात्रे तु जीवः स्यात् संस्कारो[4] भूतलक्षणम् ।।
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः ।
प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते ।। (21/19-21) इति।
संस्कारः शब्दस्य मध्यमावस्थेत्यर्थः। उक्तं खलु तत्रैव-
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ।
मध्यमा सा दशा तत्र संस्कार[5]यति संगतिम् ।।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ।। (18/25-26) इति।
भूतलक्षणं स्थूलरूपम्, उच्चार्यमाणं वैखर्यवस्थापन्नमित्यर्थः। तथा चोक्तं तत्रैव- "वैखरी नाम सावस्था वर्णवाक्[6] संस्कृतोदया" (18/27) इति ।। 31-32 ।।

[1 मूर्तित्व- मु.।]
[2 केवलं- अ.।]
[3 चास्वरे- अ. म.।]
[4 रोऽद्भुतलक्षणः- मु.।]
[5 संस्कार इति- अ. मु.।]
[6 वाक्यस्फुटो- मु.।]

यद्बीजलक्षणं मन्त्रं सामर्थ्यं[1] वैष्णवं महत् ।। 32 ।।

असंख्येयमसंख्यानां वाच्यानां भिन्नरूपणाम् ।
तद्यथावत् परिज्ञानाज्ज[2]पाद् ध्यानात् समर्चनात् ।। 33 ।।

हवनात् तन्मयत्वाच्च निर्बीजं पदमृच्छति ।
सहा[3]भिमतसिद्धिः स्यात् साधकानां[4] सदैव हि ।। 34 ।।
बीजमन्त्रफलमाह- यदिति सार्धद्वाभ्याम्। वैष्णवं सामर्थ्यं भगवत्सामर्थ्यरूपमित्यर्थः। असंख्येयं मन्त्रप्रतिपाद्यस्य नानारूपतयाऽसंख्यातत्वात् तत्प्रतिपादकमपि तथा नानाविधाकारमित्यर्थः। तद्यथावत् परिज्ञानात् तस्य बीजस्य सप्रकारज्ञानादित्यर्थः। निर्बीजं पदम् अनाद्यन्तं [5]परमं धामेत्यर्थः। ऋच्छति प्राप्नोति, साधक इति शेषः। सहाभिमतसिद्धिः स्यादिति तेन मोक्षरूपफलेन सहाभिमतार्थसिद्धेरुक्तत्वान्मोक्षस्य प्राधान्यमन्येषामानुषङ्गिकत्वमुक्तं भवति।। 32-34 ।।
[1 स्वाराध्यं- मु.,स्वाराज्यं- अटी.। ]
[2 जपध्या- बख. उ.।]
[3 सर्वा- मु.। अटी. अ.।]
[4 कस्य- मु. अटी.।]
[5 परं- म.।]

पिण्डादिभ[1]गवन्मन्त्रमूर्तीनामेवमेव हि ।
परिज्ञानाद् भवेत् किन्तु पिण्डात् तत्स्थैर्यमुत्तमम् ।। 35 ।।

नानात्वं नाममन्त्राच्च नानालोकान्तरोत्थितम् ।
भवेत् सर्वपदप्राप्तिः परिज्ञानात् पदाभिधात् ।। 36 ।।
पिण्डसंज्ञापदमन्त्राणामप्येवमेव चतुर्विधपुरुषार्थप्रदत्वमस्ति, किन्तु तत्र मोक्षेतरफलस्थैर्यादिकं भवेदित्याह- पिण्डादीति सार्धद्वाभ्याम्। तत् स्थैर्यं मोक्षेतराभिमतार्थस्थैर्यमित्यर्थः। नानात्वं तेषामेव नानाविधत्वमित्यर्थः ।। 35-36 ।।
[1 दिर्भग- मु. अटी.।]

सबीजं वा सपिण्डं वा मन्त्राणां यत्परं[1] द्वयम् ।
विदधाति [2]फलं स्वं स्वं किन्त्वाद्यं भावयेत् [3]परम् ।। 37 ।।

मन्त्रक्षेत्रज्ञरूपत्वाद्[4] यस्मात् सर्वेश्वरोऽच्युतः ।
व्याप्यव्यापकरूपेण वर्ततेऽनुग्रहेच्छया ।। 38 ।।
बीजपिण्डाभ्यां सह संज्ञापदमन्त्रयोः संयोजनमुक्तम्। तत्र फलप्रदत्वं पूर्वस्य वा परस्य वोभयोर्वेत्याकाङ्क्षायां परस्यैव स्वफलप्रदत्वम्, पूर्वस्य तु क्षेत्रज्ञरूपेण भावनामात्रं चाह- सबीजमिति सपादेन ।। 37-38 ।।
[1 यत्पद- उ.।]
[2 पदं- मु. अटी.।]
[3 पदम्- बक. बख.।]
[4 कृपया - अ.।]

व्याप्यव्यापकरूपेण वर्ततेऽनुग्रहेच्छया ।। 38 ।।

व्याप्यरूपेण भूलोकाद् भोगादारभ्य चाखिलात् ।
षाड्गुण्यमहिमान्तं[1] च ददाति फलमुत्तमम् ।। 39 ।।

स्वपदं भोगखिन्नस्य दिव्यदेहस्य कर्मिणः ।
क्षेत्रज्ञबीजपिण्डात्मा निरावरणलक्षणः ।। 40 ।।

ज्ञानं यदमलं शुद्धं संयच्छत्यात्मलाभदम् ।
पुनरिममेवार्थं सहेतुकं द्रढयन् क्षेत्रक्षेत्रज्ञयोरुभयोरपि भगवद्रूपत्वात् क्षेत्रस्यैव भोगमोक्षप्रदत्वं क्षेत्रज्ञभूतस्य बीजपिण्डान्यतरस्य तु मोक्षसाधकज्ञानप्रदत्वं चाह- यस्मादिति सपादैस्त्रिभिः। व्याप्यव्यापकरूपेण क्षेत्रक्षेत्रज्ञरूपेणेत्यर्थः। निरावरणलक्षणो व्यापकरूप इत्यर्थः ।। 38-41 ।।
[1 मभिमानं- मु. अटी.।]

शक्तिव्यक्तिमयत्वं च जाग्रद्वृत्तेः [1]पदात्मनः ।। 41 ।।

एवं संज्ञात्मनः स्वप्नवृत्तेरेकत्वमस्ति च ।
सुषुप्तिवृत्तेः पिण्डाख्यमन्त्रस्यैव[2] महामते ।। 42 ।।

बीजात्मनस्तु[3]र्यवृत्तेः शक्तिव्यक्तित्वमस्ति वै ।
जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानां पदसंज्ञापिण्डबीजानां च क्रमेण परस्परं शक्तिव्यक्तित्वमाह- शक्तीति द्वाभ्याम्।। 41-43 ।।
[1 परा- मु. अटी.।]
[2 ख्यं- बक. बख. अ. उ.।]
[3 स्तस्य- मु. अटी.।]

व्यक्तिर्ज्ञानफलोपेता[1] नियता यद्यपि स्मृता ।। 43 ।।

भगवन्मन्त्रमूर्तीनां तथापि परमात्मनः ।
आद्यस्य चातुरात्म्यस्य केवलस्याथवा विभोः ।। 44 ।।

चतुष्प्रकारं यन्मन्त्रं विद्धि तन्मोक्षभूतिदम् ।
अतोऽन्यथा यदुद्दिष्टममिश्रं मिश्रमेव हि ।। 45 ।।

फलं भाव[2]वशाच्चैव तत्तथा विद्धि नान्यथा ।
यद्यपि बीजादिभगवन्मन्त्रव्यक्तेर्ज्ञानप्रदत्वं भोगमोक्षफलप्रदत्वं च नियमेनोक्तम्, तथापि तत्सुषुप्तिव्यूहादिमन्त्रव्यक्तिविषयम्, परमन्त्राणां तु चतुर्विधानामपि मोक्षप्रदत्वमेवेत्याह- व्यक्तिरिति त्रिभिः। आद्यस्य चातुरात्म्यस्य, तुर्यव्यूहस्येत्यर्थः। केवलस्य विभोः, परात्परस्येत्यर्थः। अतोऽन्यथा यदुद्दिष्टं सुषुप्तिव्यूहादिक्रमेणोक्तं मन्त्रजातमित्यर्थः। अमिश्रं फलं केवलमोक्षमित्यर्थः। मिश्रं फलं भोगसहितं मोक्षमित्यर्थः। भाववशात् तत्तदभिसन्ध्यनुसारेणेत्यर्थः। ददातीति शेषः। एवं च द्वितीयपरिच्छेदोक्तस्य परमन्त्रस्य पदमन्त्रत्वेऽपि मुख्यतो मोक्षप्रदत्वात्, अत एव तन्मन्त्रस्य योगिभिरुपास्यत्वेन पूर्वमुक्तत्वाच्चेदानीं संज्ञापदमन्त्रसामान्यस्य भोगप्रदातृत्वोक्तिर्विरुद्ध्यतीत्यभिप्रायेणैवं विषयव्यवस्था कृतेति बोध्यम् ।। 43-46 ।।
[1 बलो- मु. अटी.।]
[2 भाग- मु.।]

ज्ञात्वैवमर्चयेत् पश्चान्नानामन्त्रैर्महामते ।। 46 ।।

गौणमुख्यादि[1]गुह्यैस्तु प्रादुर्भावगणं विभोः ।
एवं तत्तन्मन्त्रफलभेदादिज्ञानपूर्वकं भगवदर्चनं कुर्यादित्याह- ज्ञात्वेति। प्रादुर्भावगणं वक्ष्यमाणपद्मनाभाद्यवतारसमूहमित्यर्थः ।। 46-47 ।।
[1 तिगु- मु.।]

महाज्योतिस्वरूपस्य सह[1] वै चतुरात्मना ।। 47 ।।

प्राग् जाग्रत्पदसंस्थस्य लेशेनोक्तं तदर्चनम् ।
इदानीं सविशेषेण[2] मन्त्रध्यानक्रियान्वितम् ।। 48 ।।

प्रवक्ष्यामि समासेन श्रृणुष्वायतलोचन ।
परेण भगवता सह जाग्रद्व्यूहस्यार्चनं पूर्वं संग्रहेणोक्तम्, इदानीं सविशेषं वक्ष्यामीत्याह- महाज्योतिरिति द्वाभ्याम्। महाज्योतिस्वरूपस्य परस्येत्यर्थः। चतुरात्मना सह वासुदेवादिचातुरात्म्येन सहेत्यर्थः। "स्वमूर्तिभिरमूर्ताभिरच्युताद्याभिरन्वितः" (2/72) इति तत्रापि चातुरात्म्यमुक्तं हि। जाग्रत्पदसंस्थस्य जाग्रद्व्यूहस्येत्यर्थः। प्राक् पूर्वम्, तदर्चनं तथाविधमर्चनम्, लेशेनोक्तं द्वितीयपरिच्छेदे मानसार्चनम्, षष्ठपरिच्छेदे बाह्यार्चनं चोक्तमित्यर्थः ।। 47-49 ।।
[1 सहैव- उ.।]
[2 तु वि- अटी.।]

विशाखयूपो भगवान् स्वयं विश्वसिसृक्षया ।। 49 ।।

अध्यक्षेण स्वरूपेण समुदेत्येक हि ।
महिमानं तु निश्शेषं शुद्ध[1]संवित्पुरस्सरम् ।। 50 ।।

आदायाद्यपदस्थस्य चातुरात्म्यस्य वै विभोः ।
आदौ सकलविभवदेवानामधिपेर्विशाखयूपसंज्ञस्य भगवतः प्रादुर्भावरीतिमाह - विशाखयूप इति द्वाभ्याम्। आद्यपदस्थस्य चातुरात्म्यस्य (च?) [2]तुर्यव्यूहस्य। शुद्धसंवित्पुरस्सरं महिमानमादाय व्यूहविभवावतारसाधनोपकरणं संगृह्येत्यर्थः। एवमेवोपबृंहितं जगज्जनन्यापि-
तुर्याद्य[3]स्वप्नपर्यन्ते चातुरात्म्यादिके हि यत् ।।
तत्तदैश्वर्यसंपन्ने षाड्गुण्यं सुव्यवस्थितम् ।
तदादायाखिलं दिव्यं शुद्धसंवित्पुरस्सरम् ।।
विभजत्यात्मनात्मानं वासुदेवादिरूपकः[4] । (लक्ष्मी. 11/15-17)
इति ।। 49-51 ।।
[1 शुद्धं- अ. उ.।]
[2 तुर्यव्यमहस्य- अ.।]
[3 तुर्याद्ये- मु.।]
[4 रूपतः - मु.।]

तथा[1] चाधारभूयिष्ठ[2]देवानां चेष्टितं हि यत् ।। 51 ।।

सितादयः कान्तयोऽथ श्रयादिकं च महामते ।
सलाञ्छनं वैभवीयं सायुधं बीजमेव तु ।। 52 ।।

ज्ञानाद्यं गुणषट्कं च तदुक्ताः शक्तयोऽ[3]खिलाः ।
अणिमाद्यष्टकं चैव स्थित्युत्पत्तिलयोदयाः[4] ।। 53 ।।

शक्तिः सा चातुरात्मीया त्वैश्वरीत्यभिधीयते ।
तदुपकरणानां विवरणमाह- तथा चेति त्रिभिः। श्र्यादिकं श्रीदेव्यादिकं शक्तिजालमित्यर्थः। एषां सर्वेषामपि षाड्गुण्यमयत्वमुक्तं लक्ष्मीतन्त्रे-
परादिविभवान्तानां सर्वेषां देवतात्मनाम् ।
शुद्धषाड्गुण्यरूपाणि वपूंषि त्रिदशेश्वर ।।
यावन्त्यस्त्राणि देवानां चक्र[5]शङ्खादिकानि वै ।
भूषणानि विचित्राणि वासांसि विविधानि च ।।
ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः ।
वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर ।।
शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः[6] ।
आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखिलाः ।।
यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः ।
षाड्गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन ।। (11/32-36) इति ।। 51-54 ।।
[1 यथा- मु. बक.।]
[2 भूयिष्ठं- बक. अ., भूमिष्ठ- उ.।]
[3 यो या- अ. उ., यो यत्- मु. अटी.।]
[4 यादयः- अ., लोदयः- उ.।]
[5 शङ्कचक्रा- अ.।]
[6 संस्थितिः- अ. मु.।]

यथा[1]र्ककिरणव्रातं त्यक्त्वा तेजःकणो महान् ।। 54 ।।

स्वकारणं विना सर्वमापूरयति गोचरम् ।
स्वातन्त्र्यात् परिपूर्णत्वात् तद्वत् स परमेश्वरः ।। 55 ।।

विहाय वासुदेवा[2]द्यं मूर्तिशाखा[3]चतुष्टयम् ।
वैभवीयस्य यूथस्य पतित्वेनावतिष्ठते ।। 56 ।।

सम्भूतिस्थितिसंहारभोगकैवल्यलक्षणम् ।
प्रेरयन् वै धिया चक्रं पञ्चारमिदमुत्तमम् ।। 57 ।।
सूर्यतेजःकणदृष्टान्तपूर्वकं तस्य विशाखयूपस्यैव विभवदेवताधिपत्यमाह- यथेत्यादिभिः सार्धैः। (षड्भिः? त्रिभिः)। एवमेवोपबृंहितं लोकमात्रापि-
पुनर्विभववेलायां विना मूर्तिचतुष्टयम् ।।
विशाखयूप एवैष विभवान् भावयत्युत । इति ।
(लक्ष्मी. 11/17-18)
ननु भवता प्रथमपरिच्छेदव्याख्यानप्रकरणे विभवदेवानामनिरुद्धोत्पन्नत्वमुक्तम्, इदानीं विशाखयूपस्य तत्कारणत्वमुच्यते। कथमुभयोरविरोध इति चेत्, सत्यम्। उभयोरभेदेनाविरोधो बोध्यः ।। 54-57 ।।
[1 यथार्कः- अ.।]
[2 द्यमूर्तिः- अ.।]
[3 श्शाख- बक. बख.।]

स्मर्तव्यः स्वपदस्थः स स्वबीजे[1]नामलात्मना ।
आमूर्धतोऽङ्घ्रिपर्यन्तं तदीयं गात्रमण्डलम् ।। 58 ।।

रत्नवद् वैभवीयैस्तु बीजैर्भाव्यमलङ्कृतम् ।
क्रमादुच्चार्यमाणैस्तैरमृतौघेन पूर्ववत् ।। 59 ।।

पूजनात् परमेशत्वमचिरादेव गच्छति[2] ।

विशाखयूपस्य तद्बीजेन स्वपदे ध्यानम्, पद्मनाभादिबीजैस्तदीयगात्रालङ्करणध्यानम्, तदर्चनफलं चाह- स्मर्तव्य इति सार्धद्वाभ्याम् ।। 58-60 ।।

[1 स्वबीजेन स्वामलात्मना- मु. अटी.।]
[2 यच्चति- अ. उ.।]

श्रृणु तद्बीजनिचयं सावधानेन चेतसा ।। 60 ।।

तत्प्रसादात् परां सिद्धिं प्रयान्ति भगवन्मयाः ।
शुचौ देशे मनोज्ञे च सुलिप्ते पुष्पभूषिते[1] ।। 61 ।।

चन्दनक्षोदसंयुक्ते सुधूपेनाधिवासिते ।
विलिख्य मातृकाचकं भेदेनानेन वै पुनः ।। 62 ।।

येन सन्दृष्टमात्रेण शतधा याति कल्मषम् ।
प्रागादौ पञ्चवर्गान्तं[2] मध्यान्तं मध्यतो लिखेत् ।। 63 ।।

यादयो नव नाभिस्था आदयः षोडशारगाः ।
कादयो नेमिगाः सर्वे पूर्वचक्रे यदक्षगम् ।। 64 ।।

तदस्मिन् प्रधिभूतं[3] तु पूजयेद् विधिना ततः ।
शब्दब्रह्ममयं चक्रमर्घ्यपुष्पादिकैः क्रमात् ।। 65 ।।
विभवदेवबीजोद्धरणार्थं[4] वर्णचक्ररचनां तदर्चनं चाह- श्रृण्विति सार्धैः पञ्चभिः। वर्गान्ता ङकारञकार[5]णकारनकारमकारा इत्यर्थः। यावदो नव यकारादिक्षकारान्ताः। पूर्वचक्रे द्वितीयपरिच्छेदोक्ते चक्रे। अक्षगं यद्वर्णं प्रणव इत्यर्थः।। 60-65 ।।
[1 यच्चति- अ. उ.।]
[2 न्तात्- बक. बख., न्तान्- उ.।]
[3 पृथिवीभूतं- अ.।]
[4 द्धार- मु.।]
[5 `णकार' नास्ति- अ.।]


तन्मध्यादुद्धरेदादौ सर्वेषां कारणं हि यत् ।
उदक्स्थमक्षरं चाक्षादरान्ताद्येन भूषितम् ।। 66 ।।

विद्धि सर्वेश्वरस्येदं बीजं निर्बीजकारणम् ।
एतदेवाब्जनाभस्य विसर्गसहितं स्मृतम् ।। 67 ।।

नेमिवर्गाद् द्वितीयं वै ततोऽरात् षष्ठमक्षरम् ।
अष्टमं नाभिदेशाच्च तत्संख्यं नेमिमण्डलात् ।। 68 ।।

नेमिपूर्वमतो नाभेः सप्तमं पञ्चमारगम् ।
अराच्चतुर्दशं[1] त्वक्षात् पश्चिमाशागतं हि यत्[2] ।। 69 ।।

नेमेरेकादशं चाथ षोडशं च त्रयोदशम् ।
पञ्चमं नाभिदेशाच्च नेमेरेकोनविंशकम् ।। 70 ।।

तदन्तं सप्तमं चैव नवमं हि महामते ।
नाभेस्तृतीयं तदनु नेमेस्तत्संख्यमेव च ।। 71 ।।

द्वादशं च बहिष्ठेभ्यो दशमं[3] षोडशात् परम् ।
नाभिपूर्वं ततो वर्णं नेमेः पञ्चदशं हि यत् ।। 72 ।।

तुर्यसंख्यमराद्बीजं ततो नाभिचतुर्थकम् ।
षष्ठं नेमेश्चतुर्थं च मध्य[4]मक्षात् तथा हरेत् ।। 73 ।।

तत्रैव पूर्वदिकसंस्थं यद् बाह्याद्वै पञ्चमं ततः ।
अक्षाद् दक्षिणदिक्संस्थं नेमेरष्टादशं ततः ।। 74 ।।

द्वितीयं नाभिदेशाच्च तदन्ते सप्तमारगम् ।
चतुर्दशमतो[5] नेमेः षष्ठं नाभेरथाहरेत् ।। 75 ।।

सर्वे कारणवन्मूर्ध्ना योजनीयाः समासतः ।
प्रणवाद्या नमोन्ताश्च तेजसातीव निर्भराः[6] ।। 76 ।।
बीजोद्धारक्रममाह- तन्मध्यादित्यारभ्य तेजसाऽतीव निर्भरा इत्यन्तम्। अक्षाद् उदक्स्थमक्षरं नकारमुद्धत्य, अरान्ताद्येनानुस्वारेण भूषितं कुर्यात्। तथा च नमिति प्रयोगः। इदं सर्वेश्वरस्य विशाखयूपस्य बीजम्। एतदेव विसर्गसहितं चेद् अब्जनाभस्य बीजं भवति। ध्रुवबीजं तु नेमिवर्गाद् द्वितीयं खकारः। अनन्तबीजं तु अरात् षष्ठमक्षरम् ऊकारः। एवं क्रमेण षष्ठं नाभेरथाहरेदिति पातालशयनबीजान्तमर्थो बोध्यः।
सर्वे बीजाः कारणवत् पूर्वोक्तविशाखयूपवत्, मूर्ध्ना अनुस्वारेण योजनीयाः। प्रणवाद्या नमोन्ताश्च ज्ञेयाः। तथा चैषां प्रयोगः-
ॐ नो नमः, ॐ खं नमः, ॐ ऊँ नमः, ॐ हं नमः, ॐ टं नमः, ॐ कं नमः, ॐ सं नमः, ॐ उंनमः, ॐ औं नमः, ॐ णं नमः, ॐ डं नमः, ॐ यं नमः, ॐ तं नमः, ॐ शं नमः, ॐ नं नमः, ॐ अं नमः, ॐ जं नमः, ॐ टं नमः, ॐ लं नमः, ॐ गं नमः, ॐ ढं नमः, ॐ ठं नमः, ॐ पं नमः, ॐ यं नमः, ॐ दं नमः, ॐ रं नमः, ॐ वं नमः, ॐ लं नमः, ॐ धं नमः, ॐ मं नमः, ॐ डं नमः, ॐ चं नमः, ॐ अं नमः, ॐ फं नमः, ॐ रं नमः, ॐ ऋं नमः, ॐ थं नमः, ॐ षं नमः। इत्यष्टत्रिंशद् बीजानि ।। 66-76 ।।
[1 शान् पक्षान्- अ.।]
[2 तत् - अ.।]
[3 नवमं - बक. बख.।]
[4 माक्षा- मु. अ. अटी.।]
[5 मधो- मु., मथो- अटी.।]
[6 निर्हराः- अ.।]

पद्मनाभादयो देवा वाच्यास्तेषां क्रमेण तु ।
पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ।। 77 ।।

विद्याधिदेवः कपिलो विश्वरूपो विहङ्गमः ।
क्रोडात्मा वडवावक्त्रो धर्मो वागीश्वरस्तथा ।। 78 ।।

देव एकार्णवशयः कूर्मः पातालधारकः ।
वाराहो नर[1]सिंहश्चाप्यमृता[2]हरणस्तु वै ।। 79 ।।

श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ।
राहुजित्[3] कालनेमिघ्नः पारिजातहरो महान् ।। 80 ।।

लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः[4] ।
न्यग्रोधशायी भगवानेकश्रृङ्गतनुस्ततः ।। 81 ।।

देवो वामनदेहस्तु सर्वव्यापी[5] त्रिविक्रमः ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।। 82 ।।

ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ।
वेदविद् भगवान् कल्की पातालशयनः प्रभुः ।। 83 ।।

प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः ।
एषां वाच्यान् पद्मनाभाद्यष्टत्रिंशद्देवान् क्रमेणाह- पद्मनाभादय इति प्रक्रम्य इत्युक्तस्ते समासत इत्यन्तम्। देव इति पदमेकार्णवशयस्य विशेषणम्। पातालधारक इति कूर्मविशेषणम्। दिव्यदेह इति श्रीपतिविशेषणम्। अमृतधारक इति कान्तात्मनो विशेषणम्। महानिति पारिजातहरस्य विशेषणम्। शान्तात्मेति लोकनाथस्य विशेषणम्। महाप्रभुरिति दत्तात्रेयस्य विशेषणम्। भगवानिति न्यग्रोधशायिनो विशेषणम्। देव इति वामनस्य, सर्वव्यापीति त्रिविक्रमस्य च विशेषणम्। ज्वलत्परशुधृगिति रामस्य, धनुर्धर इत्यन्तस्य रामस्य च विशेषणम्। भगवानिति कल्किनः, प्रभुरिति पातालशयनस्य च विशेषणम्। एवं विशेषणविशेष्यमबुध्वा पारमेश्वरव्याख्याने विमानार्चनप्रकरणे एकश्रृङ्गतन्वादिषु द्वादशमूर्तिषु, कूर्मादिषु द्वा[6]दशमूर्तिषु च जागरूकास्वप्येकश्रृङ्गादिपातालशयनान्तमेकादश मूर्तयः, कूर्मादिन्यग्रोधशाय्यन्तमेकादश मूर्तय इति च लिखितम्। अतः सावधानं बोद्धव्यम्[7]।
एवं चात्र पद्मनाभादिपातालशयनान्ता अष्टत्रिंशद्विभवदेवा ज्ञेयाः। तथा च लक्ष्मीतन्त्रे- "पद्मनाभो ध्रुवोऽनन्तः" (11/19)इति प्रक्रम्य "त्रिंशच्चाष्टाविमे देवाः पद्मनाभादयो मताः" (11/25) इत्युक्तम्। अहिर्बुध्न्यसंहितायां तु पञ्चमेऽध्याये एवमेव विभवदेवानुक्त्वा "त्रिंशच्च नव चैवैते पद्मनाभादयो मताः" (5/57) इत्युक्तम्, नैतावता परस्परविरोधः शङ्कनीयः। पद्मनाभादयोऽष्टत्रिंशद्देवाः, तेषामधिपतिर्विशाखयूपस्त्वेकः। तेन सहैकोनचत्वारिंशद्देवा इत्यभिप्रायेण "त्रिंशच्च नव चैवैते" (5/57) इत्युक्तमिति बोध्यम्। [8]यतो विशाखयूपस्य विभवदेवाधिपत्यं पूर्वमेवोक्तम्- "वैभवीयस्य यूथस्य[9] पतित्वेनावतिष्ठते" (9/56) इति। अत एवात्र विशाखयूपपुरस्सरमेकोनचत्वारिंशद्बीजान्युक्तानि। किञ्च, ध्यानप्रकरणेऽपि-
त्रयाणां मुख्यपूर्वाणां ध्रुवान्तानां पुरोदितम् ।
शेषादीनामशेषाणामिदानीमवधारय ।।
ध्यानं पातालनिलयपर्यन्तानां यथास्थितम् । (12/3-4)
इति विशाखयूपस्यापि विभवदेवैः साहचर्यं वक्ष्यति। ननु- "पद्मनाभो ध्रुवोऽनन्तः" (5/50) इति प्रक्रम्य, "त्रिंशच्च नव चैवैते पद्मनाभादयो मताः" (5/57) इति पद्मनाभादीनामेवैकोनचत्वारिंशत्संख्याकत्वेनोक्तत्वादनुक्तविशाखयूपस्य संख्यापूरणार्थँ तत्र संयोजनमनुचितम्। तथा गत्यभावे तद्योजनं कार्यम्। अस्ति च गत्यन्तरम्। तथाहि- "श्रीपतिर्भगवान् देवः" (अहि. 5/53) इत्यत्र देवशब्देन पौष्करोक्तमन्दरोत्पाटकृद्देवो ग्राह्याः, उभयत्राप्येकरूपदेवशब्दप्रयोगात्, प्रकरणाच्च। पौष्करे हि-
मन्दरोत्पाटकृद् देवस्त्वमृताहरणस्तथा ।
सुधाकलशधृक् चैव वनिताकृतिविग्रहः ।।
भूयो रूपान्तरं चैव राहोश्चिच्छेद मस्तकम् ।
एवं चतुर्धा भगवान् एष एव महामते ।।
प्रादुर्भावान्तरोपेतः प्रादुर्भावोत्तमोत्तमः । (36/215-217)
इति मन्दरोत्पाटकृदवतारस्य पार्थक्येन निर्देशः कृत इति चेन्न; अहिर्बुध्न्ये- "पद्मनाभो ध्रुवोऽनन्तः" (5/50) इति प्रक्रम्य सात्वतोक्तानुपूर्व्या एव पठितत्वात्, "सात्वते शासने सर्वं तत्तदुक्तं महामते[9]" (5/59) इति पद्मनाभादिलक्षणानां सात्वते द्रष्टव्यत्वेनोक्तत्वाच्चाहिर्बुध्न्यस्थवाक्यानामपि सात्वतानुसारेणैव व्याख्येयत्वात्। सात्वते हि मन्दरोत्पाटकृद् देवो न पृथग् निर्दिष्टः। तस्मात्-
आप्तकामः स भगवान् स्वव्यापारवशेन तु ।।
स्वां शक्तिमवलब्यास्ते पद्मनाभात्मना पुनः । (9/97-98)
इ(ति पूर्वो?त्यु)क्तेः पद्मनाभविशाखयूपयोरभेदात्। अत एवेश्वरपारमेश्वरयोरङ्कुरार्पणप्रकरणे- "अब्जनाभं परं चैव पद्मनाभं ध्रुवं तथा" (ई. सं. 10/174; पा. सं 15/159) इति विशाखयूपस्यापि पद्मनाभशब्देनैव विशाखयूपोऽपि संगृहीत इति सूक्ष्मदृष्ट्या बोध्यम्। नन्वहिर्बुध्न्यवाक्य[10]स्यैवं कथञ्चिद् गतिरुक्ता,
पद्मनाभादिकाः सर्वे वैभवीयास्तथैव च ।
षट्त्रिंशत्संख्याताः प्राधान्येन गणेश्वर ।।
षट्त्रिंशद्भेदभिन्नस्तु पद्मनाभादिकाः सुराः ।
अनिरुद्धात् समुत्पन्ना दीपाद्दीप[11] इवेश्वराः[12] ।। (तत्त्वा., पृ. 134) इति विष्वक्सेनसंहितावाक्यस्य का गतिरिति चेत्, तद्गतिकल्पनं तु श्रीमद्रम्यजामातृमुनिभिरेव तत्त्वत्रयव्याख्याने कृतम्। तथाहि - अहिर्बुघ्न्यसंहितोक्तैकोनचत्वारिंशद्विभवदेवेषु विहाय मुमुक्षुभिरर्च्याः पद्मनाभादयो मुख्यप्रादुर्भावाः षट्त्रिंशदिति विष्वक्सेनसंहितायामुक्तमिति।
नन्वेवं गतिकल्पनमज्ञानमूलकम्, यतः- "पद्मनाभो ध्रुवोऽनन्तः" (5/50) इत्यहिर्बुध्न्योक्तानुपूर्व्यां स्थितस्य वेदविच्छब्दस्य वेदव्यासोऽर्थ इति रम्यजामातृमुनिभिर्न ज्ञातम्, तस्य वेदव्यासपरत्वनिर्णायकसहस्रनामभाष्यवाक्यमपि नाधीतमिति चेत्, किमरे मूढाग्रगण्य! तेषामाचार्याणामाशयमविदित्वा दूषयसि-
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यो भुवि मैत्रेय महाभारतकृद् भवेत् ।।
(वि. पु. 3/4/5)
इत्युक्तमहामहिम्नि सूत्रकृति श्रीकृष्णद्वैपायने साक्षाद् भगवदवतारत्वमेव तेषामभिमतम्।
ननु तर्हि व्यासस्यावेशावतारत्वं मुमुक्षुभिरनुपास्यत्वं च तैरेव कथमुक्तमिति चेत्, सत्यम्। न तत् कृष्णद्वैपायनविषयम्, अपि तु विष्णु[13]पुराणोक्ताष्टाविंशतिसंख्याकव्यासान्तरविषयम्।
ननु च सहस्रनामभाष्ये- "तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः। अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन; यथा भार्गवरामकृष्णद्वैपायनादयः" (पृ. 182) इति कृष्णद्वैपायनस्यैवावेशावतारत्वमुक्तम्, तस्य का गतिरिति चेत्, तच्च कल्पभेदेनावतीर्णकृष्णद्वैपायनविषयं बोध्यम्, अन्यथा आचार्योक्तिविरोधात्। यथा तत्त्वत्रयव्याख्याने बुद्धस्य साक्षादवतारत्वमाचार्यहृदये प्रतिपादितम्। विष्वक्सेनसंहितादिषु तस्यावेशावतारत्वमुक्तम्। उभयोर्विरोधः कल्पभेदेन परिहरणीय इति व्याख्यातम्, तद्वदिहापीति[14] संतोष्टव्यमायुष्मता ।
ननु "प्रादुर्भावगणो मुख्यः" (9/84) इति[15] पद्मनाभभाद्यष्टत्रिंशद्देवानामपि मुख्यप्रादुर्भावत्वमुक्तम्, तदन्तःपातिकपिलादीनां गौणत्वं कथं वक्तुं शक्यमिति चेत्, ब्रूमः- अत्र "प्रादुर्भावगणो मुख्यः" (9/84) इत्यत्र स्थितो मुख्यशब्दो विष्वक्सेनसंहितोक्तो मुख्यशब्दश्च न समानार्थकः, यतो विष्वक्सेनसंहितायाम्-
प्रादुर्भावो द्विधा प्रोक्तो गौणमुख्यविभेदतः ।
मदिच्छया हि गौणत्वं मनुष्यत्वमिवेच्छया ।।
सूकरत्वं[16] च मत्स्यत्वं नारसिंहत्वमेव च ।
यथा वा दण्डकारण्ये कुब्जाम्रत्वं ममेच्छया ।।
यथा वाजिमुखत्वं च मम संकल्पतो[17] भवेत् ।
सेनापते ममेच्छातो गौणत्वं न च कर्मणा ।।
प्रादुर्भावास्तु मुख्या ये मदंशत्वाद्विशेषतः ।
अजहत्स्वभाव[18]विभवदिव्याः प्राकृतविग्रहाः ।।
दीपाद् दीप[19] इवोत्पन्ना जगतो रक्षणाय ते ।
अर्च्या एव हि सेनेश अनर्च्यादितरान् विदुः ।।
अनर्च्यानपि वक्ष्यामि प्रादुर्भावान् यथाक्रमम् ।
चतुर्मुखस्तु भगवान् सृष्टिकार्ये नियोजितः ।।
शङ्कराख्यो महारुद्रः संहारे विनियोजितः ।
मोहनाख्यस्तथा बुद्धो व्यासश्चैव महानृषिः ।।
वेदानां व्यसने तत्र देवेन विनियोजितः ।
अर्जुनो धन्विनां श्रेष्ठो जामदग्न्यो महानृषिः ।।
वसूनां पावकश्चापि वित्तेशश्व तथैव च ।
एवमाद्यास्तु[20] सेनेश प्रादुर्भावैरधिष्ठिताः ।।
जीवात्मानः सर्व एते नोपा[21]स्तिर्वैष्णवी हि सा ।
आविष्टमात्रास्ते सर्वे कार्यार्थममितद्युते ।।
अनर्च्याः सर्व एवैते विरुद्धत्वान्महामते ।
अहङ्कृतियुताश्चैव[22] जीवमिश्रा [23]ह्यधिष्ठिताः ।।
(तत्त्व., पृ. 130-132)
इत्यादिभिर्मुख्यः साक्षादवतारः, गौणस्त्वावेशावतार इति प्रतिपादितम्। अत्र तु साक्षादवतारानावेशावतारांश्च सह पठित्वा प्रादुर्भावगणो मुख्य इत्युभयेषामपि मुख्यप्रादुर्भावत्वप्रतिपादनादुभयसाधारणप्रसिद्धत्वमेव मुख्यशब्दार्थः, न तु साक्षादवतारत्वमिति बोध्यम्।
किञ्च, "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (9/84) इत्यत्र प्रादुर्भावशब्देन मुख्यप्रादुर्भावा गौणप्रादुर्भावाश्च यथा संगृहीताः, तथा प्रादुर्भावान्तराण्यपि संगृहीतानि बोध्यानि, त्रिविक्रमादीनां प्रादुर्भावान्तरत्वात्। प्रादुर्भावान्तरं नाम तत्तदवताराणामवान्तरभेदाः। तथा च पौष्करे[24]-
स्वभावमजहच्छश्वदाकारान्तरमाकृतेः ।
यत्त[25]दंशमुद्भूतं प्रादुर्भावान्तरं तु तत् ।। इति ।। (36/201-202)
कण्ठरवेण च प्रतिपादितास्तत्रैव-
तथा वामननाथेन खर्वमूर्तिधरेण च ।
स्नातकब्रह्मचारीयलाच्छनैर्लाञ्छितेन[26] च ।।
तस्य रूपान्तरेणैव सुखानां सुखदेन च ।
त्रिविक्रमाख्यसंज्ञेन त्रैलोक्याक्रान्तमूर्तिना ।। (36/196-198)
इत्यादिभिः। विष्वक्सेनसंहितायां चैवमेवोक्तम्-
पूर्वोत्पन्नाद् वैभवीयात् प्रादुर्भूता[27] महेश्वराः ।
प्रादुर्भावान्तरान् विद्धि तान् गणेश्वर मुख्यतः ।।
उपेन्द्राच्च यथा [28]मुख्यात् त्रिविक्रमतनुर्हरिः । (तत्त्व., पृ. 135)
इत्यादिभिः। लक्ष्मीतन्त्राहिर्बुध्न्यसंहि(ताया?तयो)स्त्वावेशावताराणां प्रादुर्भावान्तरत्वमुक्तम्-
आविश्याविश्य कुरुते यत्र देवनरादिकम् ।
जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् ।। इति, (लक्ष्मी. 4/30)
विभवान्तरसंज्ञं तद् यच्छक्त्यावेशसंभवम् । इति च । (अहि. 8/51)
वस्तुतस्तु "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (9/84) इति कृष्णस्तूच्यत[29] एव, तदनुक्तिः केनोच्यत इति चेन्न, यतोऽत्र प्रतिपादितः कृष्णो न वसुदेवात्मजः, अपि तु धर्मात्मज इति बोध्यम्। तथा च पौष्करे-
धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् ।
प्रादुर्भूतं हि वै यस्मान्नराद्यं कृष्णपश्चिमम् ।। इति । (36/207)
ननु चात्र केवलकृष्णशब्दस्योक्तत्वाद् [30]वसुदेवपुत्रः प्रसिद्धः कृष्ण एव स्यादिति चेन्न, साहचर्यविरोधाद् वक्ष्यमाणध्यानविरोधाच्च। किञ्च, अत्रानन्तस्योक्तत्वाद् बलभद्रलक्ष्मणावप्युक्तप्रायाविति बोध्यम्,
अनन्तः प्रथमं रूपं लक्ष्मणश्च ततः परम् ।
बलभद्रस्तृतीयस्तु कलौ कश्चिद् भविष्यति ।।
इति प्रसिद्धेः।
ननु भगवदवतारमध्ये शेषावतारयोर्बलभद्रलक्ष्मणयोः कथनं कस्यापेक्षितमिति चेन्न, शेषस्यैव भगवतारत्वात्। अत एवात्र- "पद्मनाभो ध्रुवोऽनन्तः" (9/77) इत्यनन्तस्याप्युक्तत्वाच्च।
ननु तर्हि मत्स्याद्यवतारदशकेऽप्यन्तर्भूतस्य[31] बलभद्रस्यास्मिन् पद्मनाभाद्यष्टत्रिंशावतारगणे [32]कथमप्रतिपादनमिति चेत्, सत्यम्। यथा श्रीरामस्योक्त्या लक्ष्मणाद्यास्त्रयोऽप्युक्तप्रायाः, तथा पारिजातहरस्योक्त्या तद्भातृपुत्रपौत्राः सङ्कर्षणप्रद्युम्नानिरुद्धा अप्युक्तप्राया इति बोध्यम्।
ननु किं प्रद्युम्नानिरुद्धयोरपि भगवदवतारान्तर्गतत्वमङ्गीक्रियत इति चेत्, निःसंशयमङ्गीक्रियते। ननु तर्हि पुराणार्थानभिज्ञोऽसि, श्रीभागवते दशमस्कन्धे-
कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना ।
देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ।।
(10/55/1)
इत्यत्र मुनिभावप्रकाशिकाख्यायां व्याख्यायाम्- "वासुदेवांश इति विशेषणम्। अनेन भाविजन्मप्रभृति संबन्ध उक्तः। न(नु?तु) चतुर्व्यूहेष्वयं तृतीयव्यूह उच्यते, नामसाम्यं तु तद्विभूतित्वनिबन्धनमिति विवेकः। वासुदेवाधिष्ठितचित्तप्र(भा?प्र)वत्वाद् वासुदेवांशस्तत्सृष्टिहेतुत्वाद्वा" इति व्याख्यातम्। अतः प्रद्युम्नानिरुद्धयोर्भगवदवतारत्वं न संभवतीति चेन्न, यतस्तद्व्याख्यातृभिः सहस्रनामभाष्यादिकं कदापि न दृष्टम्। भगवच्छास्त्रमपि न श्रुतम्। सहस्रनामभाष्ये हि - "कृष्ण[33]त्वेऽप्यजहद्वासुदेवादिचतुर्मूर्तित्वादिति विभवेऽपि तन्मूल[34]व्यूहं प्रत्यभिज्ञापयति- चतुर्मूर्तिः। बलभद्रवासुदेवप्रद्युम्नानिरुद्धाश्चतस्रो मूर्तयो यदुकुलेऽप्यस्येति व्यूहमूलेन निरुपाधिकपररूपेण देवक्यामवततार" (पृ. 658-659) इति, "अत्रापि तथैव समस्तव्यस्तषाड्गुण्यावस्थत्वाच्चतुर्व्यूहः" (पृ. 660) इति च प्रद्युम्नानिरुद्धयोरपि भगवदवतारत्वमसकृदुक्तम्। भगवच्छास्त्रेऽपि लक्ष्मीतन्त्रे-
अवतारो हि यो विष्णोश्चतुर्धा सभविष्यति ।
मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा ।।
रेवती रुक्मिणी चैव रतिर्नाम्ना तथाप्युषा[35] । (8/45-46)
इति बलभद्रादीनां चतुर्णामपि भगवदवतारत्वं सुस्पष्टं प्रतिपादितम्। अलं प्रसक्तानुप्रसक्त्या ।। 77-84 ।।
[1 नार- बक. बख. अ. उ.।]
[2 भरण- अ. उ.।]
[3 काल- अ.।]
[4 प्रभः- अ. उ.।]
[5 प्यति- अ.।]
[6 बोध्यम्- मु.।]
[7 `यतो' नास्ति- अ.।]
[8 यूपस्य- मु.।]
[9 मुने- मु.।]
[10 क्यस्यैव वा- अ.।]
[11 द्दीपा- मु.।]
[12 इवेश्वरः- अ.।]
[13 विष्णुपुराणे तृतीयेंऽशे तृतीयाध्याये वर्णिता अष्टाविंशतिसंख्याका व्यासाः।]
[14 `इति' नास्ति- अ.।]
[15 `इति' नास्ति- अ.।]
[16 शूकर- मु.।]
[17 ल्पतोऽभवत्- मु.।]
[18 वा विभवा- मु.।]
[19 दीपा- मु.।]
[20 माद्यैस्तु- मु.।]
[21 नोपास्या वैष्णवैः सदा- मु.।]
[22 श्चेमे- मु.।]
[23 व्यधि- मु.।]
[24 `पौष्करे' नास्ति- अ.।]
[25 यत्तत्त्वमंशसंभूतं - मु.।]
[26 र्भूषितेन- मु.।]
[27 र्भूतो महेश्वरः- मु.।]
[28 मुख्या- मु.।]
[29 स्त्वच्युत- अ.।]
[30 वासुदेवपुत्रप्रसिद्धः- अ.।]
[31 र्हितस्य- मु.।]
[32 मिति प्रति- अ.।]
[33 `कृष्णत्वेऽप्यजहद्वासुदेवादिचतुर्मूर्तित्वादिति' न दृश्यते- मु.।]
[34 तन्मूलं- अ.।]
[35 ह्युषा- मु.।]

शक्तिसंघात्[1] प्रधानो यः शक्तिसंघः स उच्यते ।। 84 ।।

लक्ष्मीः पुष्टिर्दया निद्रा क्षमा कान्तिः सरस्वती ।
धृतिर्मैत्री रतिस्तुष्टिर्मतिर्द्वादशमी[2] स्मृता ।। 85 ।।
अथ प्रधानं देवीवर्गमाह- शक्तीति सार्धेन। शक्तिसंघादिति जात्येकवचनम्। यतः [3]श्र्यादिदेवीनामेकद्विकचतुष्कषट्काष्टकद्विषट्कभेदैः षोढा संघान् वक्ष्यति द्वादशे परिच्छेदे। अयमपि संघो वक्ष्यमाणान्तर्गत एव। अत्रापि मुख्यतमत्वात् प्रतिपादितः। पद्मनाभादीनां [4]प्रसिद्धा देव्यस्त्वीश्वरलक्ष्मीतन्त्रयोः प्रतिपादिताः। तथाह-
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च ।
[5]संख्या विश्वा खगा भूर्गौर्लक्ष्मीर्वागीश्वरी तथा ।।
अमृता धरणी च्छाया नारसिंही [6]तथा सुधा ।
श्रीः कान्तिर्विश्व[7]कामा मा सत्या [8]शान्तिः सरोरुहा ।।
माया पद्मासना खर्वा विक्रान्तिर्नरसंभवा ।
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ।।
वैदेही वेदविद्या च पद्मिनी नागशायिनी ।
त्रिंशच्चाष्टाविमा[9] देव्यः पद्मनाभादिशवतयः ।। इति ।। 84-85 ।।
(लक्ष्मी. 20/84-48, ई. सं. 7/33-37)
[1 संघ- मु. अटी.।]
[2 शकी- अ.।]
[3 श्रियादि- मु.।]
[4 `प्रसिद्धा' नास्ति- मु.।]
[5 सांख्या- अ. मु.।]
[6 सुधा तथा- ल.।]
[7 वीरा कामा च - अ. मु.।]
[8 कान्तिः- ल.।]
[9 मदंशका इमा देव्यो विज्ञेयाः कादिशक्तयः- ल.।]

प्रधानभूतांश्छारीरानलङ्कारान्निबोध मे ।
किरीटः कौस्तुभो [1]भाढ्यः श्रीवत्सोऽमृतलक्षणः ।। 86 ।।

वनमालेति गरुडः प्रधानान् हेतिकान् श्रृणु ।
चक्रं शङ्खो गदा पद्मं लाङ्गलं मुसलं शरः[2] ।। 87 ।।

शार्ङ्गं च खङ्गखेटौ तु[3] दण्डः परशुरीतिहा[4] ।
पाशाङ्कुशौ मुद्गरश्च वज्रः शक्तिसमन्वितः ।। 88 ।।

इत्येतद् देवताचक्रमङ्गमन्त्रगणान्वितम् ।
विग्रहे देवदेवस्य संलीनमवतिष्ठते ।। 89 ।।
अथ किरीटादिभूषणप्रधानचतुष्टयं वाहनं चक्रादिसप्तदशप्रधानायुधानि चोक्त्वा एषामङ्गमन्त्रैः सह भगवद्विग्रहे संलीनत्वमाह- प्रधानभूता इति चतुर्भिः। ईतिहन्तेति ईतिहेति परशोर्विशेषणम्। अत्र विशेष्यभ्रान्त्या पारमेश्वरव्याख्यातृभिर्विमानदेवताकथनप्रकरणे चक्रादिशक्त्यन्ताष्टायुधन्यास इत्युक्तम्, सहस्रकलशाभिषेकप्रकरणेऽपि-
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ।।
कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततः परम् । (14/447-448)
इति श्लोकव्याख्यावसरे पूर्वोक्तभ्रान्तिजल्पितस्य दृढीकरणार्थं चक्रादिवज्रपर्यन्तमित्यत्रातद्गुणसंविज्ञानो बहुव्रीहिरिति चोक्तम् ।। 86-89 ।।
[1 भाम्यः- मु. अटी. ।]
[2 शराः- अ. उ.।]
[3 तौ- उ.।]
[4 रीरितः- मु. अटी.।]

वक्ष्ये भवो[1]पकरणं गीर्वाणगणमुत्तमम् ।
नानाविभवमूर्तिनां यो[2]वतिष्ठेत शासने ।। 90 ।।

कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ।
विद्याधिपतयश्चैव सरुद्रः[3] सगणः[4] शिवः ।। 91 ।।

प्रजापतिसमूहश्च इन्द्रः सपरिवारकः ।
मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ।। 92 ।।

जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ।
ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलाश्च ये ।। 93 ।।

विद्या चैव[5] पराविद्या पावकश्चैव मारुतः ।
चन्द्रार्कौ वारिवसुधे इत्युक्तममलेक्षण ।। 94 ।।

चतुर्विंशतिसंख्यं च भवो[6]पकरणं महत् ।
अथ भवोपकरणदेवतावर्गमाह- वक्ष्य इत्यादिभिः। [7]सरुद्रः सगण इति च शिवस्य विशेषणम्। रुद्रैकादशभिः सह वर्तत इति तथोक्तः ।। 90-95 ।।
[1 वा तिष्ठेत- अटी., वतिष्ठति- उ.।]
[2 समुद्रः- मु. अ. उ.।]
[3 सगणाः शिवाः- मु. अटी. अ.।]
[4 स्तु- अ. उ.।]
[5 चैवा- मु. अटी.।]
[6 भावो- मु.।]
[7 समुद्रः- अ.।]

भवः[1] साक्षात् प्रधानं तु व्यापको जडलक्षणः ।। 95 ।।

मन्त्रमन्त्रेश्वरन्यासात् सोऽपि पूज्यत्वमेति च ।
इत्येवमादि सर्वेषां भविनां[2] परमेश्वरः ।। 96 ।।

स्थितोऽन्तर्यामिभावेन रूपमासाद्य निष्कलम् ।
आप्तकामः स भगवान् स्वव्यापारवशेन तु ।। 97 ।।

स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः ।
एवं भवोपकरणदेवता[3] विवृत्य भवस्यापि पूज्यत्वमाह- भव इति। भवत्यस्मात् सर्वमिति भवः, प्रकृतिरित्यर्थः। प्रधानं [4]प्रधानशब्दवाच्यः। एतद्भवोपकरणादीनां सर्वेषामपि प्रकृतियुक्तानामन्तर्यामिभावेन स्थितोऽपि स्वयं पूर्णकामोऽपि भक्तानुग्रहार्थँ पद्मनाभाख्यविभवरूपमङ्गीकरोतीत्याह- इत्येवमिति द्वाभ्याम्। निष्कलं निराकारमित्यर्थः ।। 95-98 ।।
[1 भावः- उ.।]
[2 हविनां- अ.।]
[3 देवतां- अ.।]
[4 तथाशब्द- अ.।]

धराम्बुहुतभुग्वातमूलनालदलोदरे ।। 98 ।।

चतुस्तत्त्वमये पद्मे गगनैकार्ण[1]वोदरे ।
मानसेऽनन्तशयने दिव्यबोधतनुर्विभुः ।। 99 ।।

सहस्रांशुसहस्राभ उत्तानस्थो[2] हि लीलया ।
ततो विविधरत्नाभे तदीये[3] नाभिपुष्करे ।। 100 ।।

प्रोद्वहंस्तु स्ववीर्येण विद्यां सामर्थ्यविग्रहाम् ।
मूर्तैर्ध्वजादिकैः सर्वैरावृतस्तत्परायणैः ।। 101 ।।
तत्पद्मनाभरूपं विशिनष्टि- धरेति सार्धैस्त्रिभिः। धराम्बुहुतभुग्वातमूलनालदलोदरे चतुस्तत्त्वमये पृथिवीतत्त्वस्य मूलत्वम्, अप्तत्त्वस्य नालत्वम्, तेजस्तत्त्वस्य दलत्वम्, वायुतत्त्वस्य कमलोदरत्वं च क्रमेण ज्ञेयम्। गगनैकार्णवोदरे आकाशतत्त्वात्मकसमुद्रमध्य इत्यर्थः। मानसेऽनन्तशयने मनस्तत्त्वात्मकनागपर्यङ्क इत्यर्थः। दिव्यबोधतनुः बुद्धितत्त्वात्मकदिव्यशरीर इत्यर्थः। उत्तानस्थः उत्तानशायीत्यर्थः। तदीये नाभिपुष्करे प्रकृतितत्त्वात्मकनाभिपद्म इत्यर्थः। विद्यां चतुर्मुखमूर्तिरूपां वेदविद्यामित्यर्थः। तस्य विद्यादेहत्वं प्रतिपादितं खलु जयाख्यादिषु-
तन्मध्ये मानवो ब्रह्मा मया सृष्टश्चतुर्मुखः ।
जगतां प्रभवस्तस्माद् विद्यादेहः सनातनः ।। (2/27) इति ।। 98-101 ।।
[1 गगने चा- अ.।]
[2 स्थोऽभि- अ.।]
[3 मायीये- बक. बख. अ. उ.।]

अनन्तचेष्टस्य विभोरित्येवं त्वीश्वरात्मनः ।
भोगापवर्गदं रूपं शान्तव्यक्तं च वैभवम् ।। 102 ।।

प्राग्वत् तुर्यपदावस्थं स्मरेद्धृत्कमलाम्बरे ।
एवं पद्मनाभरूपस्य हृदयकमले ध्यानस्थानमाह- अनन्तेति सार्धेन। शान्तं निराकारम्, अन्तर्यामिभावेन स्थितमिति यावत्। व्यक्तं साकारमित्यर्थः। साकारत्वेन निराकारत्वेनोभयथापि ध्येयमिति भावः। प्राग्वत् तुर्यपदावस्थं द्वितीयपरिच्छेदोक्तरीत्या (2/69) नादावसानगगनस्थितमित्यर्थः ।। 102-103 ।।

तदधः कर्णिकामध्ये त्वभिजातोपलद्युतम्[1] ।। 103 ।।


[1 द्युतिः- बक. बख.।]


दिशो दश द्योतयन्तं नानागात्ररुहैश्चितम् ।
सौम्यं द्विरष्टवर्षं[1] च राजीवदललोचनम् ।। 104 ।।

भचक्र[2]चक्रभृद्[3]देवं गदादेहं तथैव च ।
शक्तिमाधारसंज्ञां च प्रोद्वहन्तं स्मदेद् ध्रुवम् ।। 105 ।।

स्थितो यः स्तम्भभूतस्तु अस्मिन् वै विश्वमन्दिरे ।
नभोऽनिलात्मना चैव भूमिकाभिन्नलक्षणे[4] ।। 106 ।।
तदधः कर्णिकामध्ये सुषुप्तिस्थाने ध्रुवस्य ध्यानप्रकारमाह- तदध इति सार्धैस्त्रिभिः। नायं प्रसिद्धोऽर्वाचीनो ध्रुव इति मन्तव्यः। अपि तु तस्यापि ध्रुवत्वप्रदः साक्षाद् भगवद्रूपोऽन्य इति बोध्यः। तथा च सहस्रनामभाष्ये- "अतिशयेन धीयते बद्ध्यतो[5]ऽस्मिन् ज्योतिश्चक्रमिति व्यवसायः,..... नक्षत्राधारव्योमशरीरत्वात्।" अतो हि "गगनमूर्तये" (सा. 23/44) इति मन्त्रवर्णः। "भचक्रचक्रभृद्देवम्" (सा. 9/105) इति हि ध्यानम्। सर्वमस्मिन् संतिष्ठते समाप्यत इति संस्थानः। स एव "परमपदप्रा[6]प्तिहेतुः" (सा. 23/45) इति[7] मन्त्रवर्णात् स्थानदः। स खलु तुङ्गपदप्रदानेनार्वाचीनं ध्रुवमपि ध्रुवीचकार, अतो ध्रुवः" (पृ. 364-366) इति ।। 103-106 ।।
[1 शीर्षं- अ.।]
[2 भू- अ., भा- मु.।]
[3 युग्- मु. अटी., धृग्- अ. उ.।]
[4 लक्षणः- अ.।]
[5 यद्यस्मिन्- अ.।]
[6 प्राप्तिरिति- अ. म.।]
[7 हेतवे- इति- मु.।]

प्रागादावीशकोणान्तं संस्मरेत् कर्णिकोपरि ।
द्विषट्कं यदनन्ताद्यं सरश्शाय्यन्तमग्निगम् ।। 107 ।।
तस्मिन्नेव स्थाने प्रागादीशानान्तमनन्तमनन्तादिद्वादशमूर्तिध्यानं कार्यमित्याह- प्रागादाविति। अग्निगम् अग्निमण्डलस्थमित्यर्थः।। 107 ।।

तत्संख्यं केसरोर्ध्वस्थं तद्वत् कूर्मादिकं न्यसेत् ।
न्यग्रोधशायिपर्यन्तममृताधारमण्डले ।। 108 ।।
केसरस्थाने स्वप्नपदे कूर्मादिद्वादशमूर्तिध्यानं कार्यमित्याह- तत्संख्यमिति। अमृताधारमण्डले चन्द्रमण्डल इत्यर्थः ।। 108 ।।

सूर्यचक्र[1]समारूढं दलभूमिगतं ततः ।
पातालशायिपर्यन्तमेकश्रृङ्गादिकं हि यत् ।। 109 ।।
दलस्थाने जाग्रत्पदे एकशृङ्गादिद्वादशमूर्तिध्यानं कार्यमित्याह- सूर्येति। एषामनन्तादिषट्त्रिंशद्देवानां ध्यानप्रकारा वक्ष्यमाणा ज्ञेयाः ।। 109 ।।
[1 चन्द्र- मु. अटी. बक. बख.।]

न्यस्यैवममृतोत्थैस्तु भोगैरभ्यर्च्य मानसैः ।
यथावद् ध्यानयोगेन प्राग्वत् सृष्टिक्रमेण तु ।। 110 ।।

पुनः संहृतियोगेन पातालशयनात् तु वै ।
यावद् गगनशाय्यन्तमर्चनीयं फलाप्तये ।। 111 ।।
पद्मनाभाद्यष्टत्रिंशद्देवानामपि सृष्टिक्रमेण संहारक्रमेण च मानसार्चनं कार्यमित्याह- न्यस्येति द्वाभ्याम्। गगनशाय्यन्तं पद्मनाभान्तमित्यर्थः।। 110-111 ।।

य[1] उक्तः समुदायेऽस्मिन् हृद्यागे देवतागणः ।
यजेद् भिन्नक्रमेणैव विधिनानेन[2] तं पुनः ।। 112 ।।

त्रिकं यद्वै द्विषट्कानां[3] त्रिस्थानस्थं प्रकाशितम् ।
पृथक् पृथक्[4] तदेकैकं न्यस्य न्यस्य यजेत् क्रमात् ।। 113 ।।
अनन्तादिद्वादशकस्य कूर्मादिद्वादशकस्य मीनादिद्वादशकस्य च प्रत्येकं प्रत्येकमप्यर्चनं कुर्यादित्याह- य इति द्वाभ्याम् ।। 112-113 ।।
[1 उक्ते हि- अ.।]
[2 तेन- उ.।]
[3 काणां- बख. अ. उ.।]
[4 ग् यदे- बख., क् सदै- उ.।]

प्रतिद्वादशकस्याद्यं[1][2] प्रागुक्तेन क्रमेण यत् ।
तन्नि[3]ष्कलात्मना पूर्वमिष्ट्वा वै कर्णिकोदरे ।। 114 ।।

समुत्थाप्य ततो मध्यात् तमेव सकलात्मना ।
न्यसेदाधारभूतं च सर्वत्र कमलादधः[4] ।। 115 ।।

तमेवार्घ्यादिनाऽभ्यर्च्य कमलच्छदकोटिगम् ।
द्वितीयं कर्णिकामध्ये तदग्रे केसरोर्ध्वगम् ।। 116 ।।

ध्यात्वा न्यस्य तृतीयं तु ततः पत्राष्टकेऽष्टकम् ।
द्वादशाख्यं[5] हि सर्वत्र गगने पद्मनाभवत् ।। 117 ।।

भवोपकरणीयाभिर्देवताभिः समावृतम्[6]।
यस्त्वङ्गदेवतासंघः सर्वः स कमलाद् बहिः ।। 118 ।।

न्यस्यैवमर्चनं कुर्याद् दिव्यैर्भोगैस्तु पूर्ववत् ।

प्रत्येकार्चनप्रकारमाह- प्रतिद्वादशकस्येत्यारभ्य दिव्यैर्भोगैस्तु पूर्ववदित्यन्तम्। प्रतिद्वादशकस्याद्यं यद् अनन्तः कूर्मो मीनश्चेत्यर्थः। द्वितीयं शक्त्यात्मानं वराहं वामनं चेत्यर्थः। तृतीयं मधुसूदनं नारसिंहं त्रिविक्रमं चेत्यर्थः। अष्टकं विद्यादेवाष्टकं श्रीप[7]त्याद्यष्टकं नराद्यष्टकं चेत्यर्थः। द्वादशाख्यम् एकार्णवशायिनं न्यग्रोधशायिनं पातालशायिनं चेत्यर्थः ।
तथा च प्रयोगः- अनन्तादिद्वादशकार्चनप्रकरणे प्रथममनन्तं स्वहृदयकमलकर्णिकामध्ये निराकारं ध्यात्वाऽभ्यर्च्य, पुनस्तमेव तस्मात् स्थानादुत्थाप्य, हृदयकमलाधस्थाद् आधारभूतं साकारं ध्यात्वाऽभ्यर्च्य, तमेव हृत्कमलदलाग्रेऽप्यभ्यर्च्य, कर्णिकामध्ये शक्त्यात्मानं तत्पुरतः केसरस्थाने मधुसूदनं दलाष्टके विद्याधिदेवाद्यष्टकं चाभ्यर्च्य, नादावसानगगने पद्मनाभवत् साकारं निराकारं चैकार्णवशायिनं ध्यात्वाऽभ्यर्च्य, लक्ष्म्यादिशक्तिकिरीटादिभूषणचक्रादिलाञ्छनानि[8] कालादिभवोपकरणदेवताश्च कमलाद् बहिरभ्यर्चयेत्। कूर्मादिद्वादशकार्चनप्रकरणे त्वनन्तस्थाने कूर्मम्, शक्त्यात्मस्थाने वराहम्, मधुसूदनस्थाने नृसिंहम्, विद्याधिदेवाद्यष्टकस्थाने श्रीपत्याद्यष्टकम्, एकार्णवशायिस्थाने न्यग्रोधशायिनं चार्चयेत्। मीनादिद्वादशकार्चप्रकरणे तु कूर्मस्थाने मीनम्, वराहस्थाने वामनम्, नृसिंहस्थाने त्रिविक्रमम्, श्रीपत्याद्यष्टकस्थाने नराद्यष्टकम्, न्यग्रोधशायिस्थाने पातालशायिनं चार्चयेत् ।। 114-119 ।।

[1 स्याद्यः- मु. अटी.।]
[2 यः मु. अटी.।]
[3 तं नि-मु. अटी. उ.।]
[4 दयः- बक. उ.।]
[5 शाख्या- मु. अटी. बक.।]
[6 वृतः - मु. अटी. ।]
[7 श्रीपद्मा- मु.।]
[8 नादि- अ.।]

मूर्तौ[1] मण्डलमध्ये च[2] बहिरग्नौ जलाशये ।। 119 ।।

स्वमन्त्रेणाम्बरस्थस्य मूर्तं स्रक्चन्दनादिकम् ।
दातव्यं कर्णिकामध्ये न्यस्तमन्त्रस्य मूर्धनि ।। 120 ।।

प्रतिबिम्बति तद् यस्मात् तद् ब्रह्मद्वारदर्पणे ।
एवं मानसार्चनमुक्त्वा बिम्बादिबाह्यार्चनेऽप्येवमेव देवतान्यासक्रमः। किन्तु गगनस्थमूर्तेरर्चनार्थं पुष्पचन्दनादिकं कर्णिकामध्यस्थितमूर्तेर्मूर्ध्न्येव समर्पयेत्। यतः कर्णिकामध्य[3]स्थितमूर्तिब्रह्मरन्ध्रदर्पणे गगनस्थमूर्तिः प्रतिबिम्बतीत्याह- मूर्ताविति द्वाभ्याम्। मूर्तौ बिम्बे, मण्डलमध्ये वक्ष्यमाणमण्डले, अग्नौ प्रतिष्ठितेऽग्नौ, जलाशये तीर्थमध्य इत्यर्थः। मानसिकत्वनिवृत्त्यर्थं मूर्तमिति स्रक्चन्दनादिकस्य विशेषणमुक्तम्। मूर्तं बाह्येन्द्रियविषयमित्यर्थः ।। 119-121 ।।
[1 मूर्तेर्म- बक. अ. उ.।]
[2 वा- बक. बख. अ. उ.।]
[3 मध्ये- मु.।]

यस्य यस्य यदा यस्मिन्नाकारे रमते मनः ।। 121 ।।

भोगाप्तये वा मोक्षार्थं तं तं मध्येऽर्चयेत् तदा ।
तदुद्देशेऽर्चनं कुर्यात् तत्स्थानप्रच्युतस्य वा ।। 122 ।।

नानासिद्धिप्रदानाच्च सह संहारमूर्तिना ।
यस्य साधकस्य यस्मिन् भगवदवतारे विशेषेणाभिरुचिः, तेन स एव भगवान् प्राधान्येन कर्णिकामध्ये तदूर्ध्वगगनस्थितार्णवशाय्याद्यन्यतममूर्तिना सह पूजनीयः, तस्य स्थाने तु पूर्वं कर्णिकामध्येऽर्चनीयत्वेन य उक्तः, स पूजनीय इत्याह- यस्येति (सार्ध?) द्वाभ्याम्। तत्स्थानप्रच्युतस्य कर्णिकामध्यादुत्थापितस्येत्यर्थः। संहारमूर्तिना एकार्णवशायिन्यग्रोधशायिपातालशाय्यन्यतमेनेत्यर्थः ।। 121-123 ।।

एवमेवाङ्गमन्त्राणामर्चनादीप्सितं लभेत् ।। 123 ।।

तत्रायं हि विशेषः स्याद् विन्यासे तन्निबोध मे ।
भूलोकाखिलसिद्धीनामाप्तये तावदुच्यते ।। 124 ।।
अथ भूलोक एव पातालाद्यखिललोकभोगसिद्ध्य[1]र्थं श्रियादिशक्तिकिरीटादिभूषणचक्रादिलाञ्छनसंज्ञाङ्गमन्त्रानेवार्चयेत्, तदानीं देवताविन्यासप्रकार उच्यत इ(त्युत आ? त्या)ह- एवमिति सार्धेन ।। 123-124 ।।
[1 सिद्धिदमर्थं- अ.।]

प्राग्वद् द्वादशकादन्त्यादेकश्रृङ्गमथो[1] यजेत् ।
श्र्या[2]ख्यं यदङ्गमन्त्रं तु कर्णिकायां न्यसेत् ततः ।। 125 ।।

अथ केसरकोटिस्थं स्मरेत् तत्पुरतोऽपरम् ।
पश्चात् क्रमाद्[3] दलान्तस्थं दलाग्रस्थं द्विरष्टकम् ।। 126 ।।

पातालशायिनं मध्ये मन्त्रस्योपरि पूर्ववत् ।
ध्यायेन्निश्शेषपातालसिद्धीनामालयं परम्[4] ।। 127 ।।

तच्छक्त्यनुगृहीतस्तु मन्त्रेशः कर्णिकागतः ।
समस्तसिद्धिदाने स्यादाश्रितस्याङ्गसंज्ञकः ।। 128 ।।

प्रथमं पाताललोकसिद्ध्यर्थँ लक्ष्मीमन्त्रस्य प्राधान्येनार्चनक्रममाह- प्राग्वदिति चतुर्भिः। अन्त्याद् द्वादशकाद् एकश्रृङ्गादिद्वादशकादित्यर्थः। एकश्रृङ्गं मीनमित्यर्थः। श्रियाख्यं लक्ष्मीसंज्ञमित्यर्थः। अपरं पुष्टिमन्त्रमित्यर्थः। पश्चात् क्रमाद्दलान्तस्थं द्विरष्टकं निद्रादिदशकं किरीटादिचतुष्टयं गरु(डश्च? डं चक्रं) चाहत्य द्विरष्टकं बोध्यम्। दलाग्रस्थं द्विरष्टकं तु शङ्खादिशक्त्यन्तं ज्ञेयम् ।। 125-128 ।।
[1 मधो जयेत्- बख. उ.।]
[2 श्राव्यं- मु. अटी., श्र्याख्ये- अ.।]
[3 द्दलात् क्रमान्तस्थं- मु. अटी.।]
[4 महत्- बख.।]

एवमेव भुवर्लोकसिद्धीनां प्राप्तये सदा ।
स्मर्य ऊर्ध्वे सरश्शायी त्वनन्तः कमलादधः ।। 129 ।।

अथ भूवर्लोकसिद्ध्यर्थमर्चने विशेषमाह- एवमिति। सरश्शायी एकार्णवशय इत्यर्थः।। 129 ।।

यजेद् गगनसिद्धीनामशेषाणामथाप्तये ।
स्वस्थं न्यग्रोधशयनं कूर्मं कमलमूलगम् ।। 130 ।।
सुवर्लोकादीनां सिद्ध्यर्थमर्चने विशेषमाह- यजेदिति। स्वस्थं कर्णिकामध्यगतलक्ष्मीयन्त्रस्योपरि स्थितमित्यर्थः।। 130 ।।

एतेषामपि सञ्चारं[1] नानासिद्धिव्यपेक्षया ।
प्रधानमन्त्रवत् कुर्यात् प्राग्वत् सर्वत्र सर्वदा ।। 131 ।।
एवं लक्ष्मीमन्त्रवत् पुष्पाद्यङ्गमन्त्राणामपि तत्तत्फलप्राप्तीच्छया प्राधान्येनार्चनं कुर्यादित्याह- एतेषामिति ।। 131 ।।
[1 संचारो- मु. अटी.।]

एवमा[1]द्यैस्तु विधिवद् [2]भोगैर्नानाविधोत्थितैः ।
यः स्थितस्त्रिविधे सर्गे विभवः पार[3]मेश्वरः ।। 132 ।।
उक्तमर्थं निगमयति- एवमिति ।। 132 ।।
[1 मर्च्यै- बख., मर्च्य- अ. उ.।]
[2 भेदैः- बख. अ. उ.।]
[3 पर- बक. बख. अ. उ.।]

पौष्कराख्ये च वाराहे प्राजापत्ये महामते ।
सूक्ष्मत्वेन च निश्शेषं प्रत्येक[1]स्मिन् हि वर्तते ।। 133 ।।

समाश्रित्य बृहत्त्वं च तृतीयांशेन तिष्ठति ।
सर्गत्रयविवरणं तत्र सूक्ष्मस्थूलभेदेनावस्थानं चाह- पौष्करा(ख्य) इति सार्धेन। पौष्करे पाद्मकल्प इत्यर्थः। प्राजापत्ये ब्राह्मकल्प इत्यर्थः। यथा च श्रीभागवते-
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राऽभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ।।
तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिमक्षते ।
यद्धरेन्नाभिसरस आसील्लोकसरोरुहम् ।।
अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।
वाराह इति विख्यातो यत्रासीत् सूकरो हरिः ।। (3/11/34-36) इति ।। 133-134 ।।
[1 `कस्मिन्...... भवोप' नास्ति- उ.।]

यथोक्तक्रमयोगेन युक्तः[1] सर्गत्रये तु वै ।। 134 ।।

परिवारं समादाय भवोपकरणान्वितम् ।
दि[2]क्पालकगणोपेतं समाक्रम्य तमेव हि ।। 135 ।।
पौष्करादिसर्गत्रयेऽपि पूर्वोक्तलक्ष्म्यादिपरिवारसंग्रहणमाह- यथोक्तेति ।। 134-135 ।।
[1 उक्तं- बक. बख.।]
[2 तत्पा- - अ. ।]

अभिधानाक्षरं[1] पूर्वमरान्ताद्येन भूषितम् ।
योक्तव्यमभिधानेन पूर्वो[2]द्दिष्टेन वर्त्मना ।।
पूजार्थं चैव सर्वेषां क्रमेऽस्मिन् सम्प्रकाशितम्[3] ।। 136 ।।
परिवाराणां बीजपिण्डयोरनुक्तत्वात् तत्तन्नाम्नामाद्याक्षरमेवानुस्वारान्वितं कृत्वा तत्तत्संज्ञामन्त्रैर्योज्यमित्याह- अभिधानेति सार्धेन। अरान्ताद्येन पूर्वोक्तवर्णचक्रे, अरान्तो विसर्गः, तदा(द्य?द्येन) अनुस्वारेणेत्यर्थः ।। 136 ।।
[1 क्षरे- अ. उ.।]
[2 सहो- बक. बख. अ. उ.।]
[3 शिते- बख. अ. उ.।]

इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतान्तर्यागो नाम नवमः परिच्छेदः ।।

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
श्रीसात्वततन्त्रभाष्ये नवमः परिच्छेदः ।।