प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५ सात्त्वतसंहिता
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
सात्त्वतसंहितायाः अध्यायाः


षष्ठः परिच्छेदः
नारद उवाच[1]

वक्ष्ये विप्रवराः सम्यग् य उक्तश्चक्रपाणिना ।
प्रसङ्गाद् बलदेवस्य[2] द्रव्ययागोऽप्यनन्तरम् ।। 1 ।।
अथ षष्ठो व्याख्यास्यते। बहिर्यागं वक्ष्य इत्याह- वक्ष्य इति। द्रव्ययागः द्रव्यैरर्घ्यादिभिः क्रियमाणो यागः, बाह्याराधनमित्यर्थः ।। 1 ।।
[1 नारद इत्येव उ. विहाय सर्वत्र पाठः।]
[2 देवाय- मु. अटी.।]

श्रीभगवानुवाच
यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् ।
पाणिना तत्समाहृत्य शुचिस्थाने निधाय[1] वै ।। 2 ।।

गव्यैर्वा चामरैर्वालैः शिखि[2]पक्षैः कुशैरथ ।
संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा ।। 3 ।।

बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ।
प्रक्षाल्य द्वादशार्णेन प्रणवाद्य[3]न्तकेन तु ।। 4 ।।
आदौ भद्रपीठशोधनप्रकारमाह- यत्किञ्चिदिति त्रिभिः। पत्रपुष्पाद्यं पूर्वदिने भगवद्भुक्ततुलसीपत्रादिकमित्यर्थः। प्रणवाद्यन्तकेन प्रणवसंपुटितेनेत्यर्थः। द्वादशार्णेन वासुदेवद्वादशाक्षरेणेत्यर्थः। एवं भद्रपीठशोधनादिकस्य[4] कालान्तरकर्तव्यत्वमप्युक्तमीश्वरपारमेश्वरयोः-
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विजाः[5] ।।
न्यस्य भद्रासनाद्यन्तमन्यदन्यत् समाचरेत् ।
यद्वा तदातने काले न्यस्य भद्रासनं[6] ततः ।।
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः ।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरेत्[7] ।। इति ।। 2-4 ।।
(ई. सं. 3/16-18; पा. सं. 6/32-34)
[1 देवाय- मु. अटी. ।]
[2 निवेश्य- अटी. ।]
[3 पुच्छैः- मु. अटी.।]
[4 धिकस्य- अ.।
[5 द्विज- पा.।]
[6 भद्रासनादिकम्- मु.।]
[7 रभेत्- पा.।]

सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ।
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट् ।। 5 ।।

प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनार्चयेच्च तम् ।
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः ।। 6 ।।
भद्रपीठान्तर्लीनचक्रराजार्चनमाह- सर्वलोकमयमिति द्वाभ्याम्। चक्रराट् चक्रराजमित्यर्थः। विभक्तिविनिमयश्छान्दसः। आलभनम् आलभ्यते आलिप्यतेऽनेनाङ्गमित्यालभनं गन्धः। नानास्रगुद्भवैः नानाविधाः स्रजामुद्भवा रचनाविशेषा येषां तैः, द्विसरत्रिसरादिभेदेन नानारूपस्वरचनाविशिष्टैरिति यावत्। अथवा नानाविधपुष्प[1]जनितैरित्यर्थः। स्रक्शब्दस्य केवलपुष्पमात्रपरत्वं ज्ञेयम्। यत एवमुत्तरत्राप्यग्निकार्यप्रकरणे "स्रग् धूपं मधुपर्कं च" (6/98, 148) इत्यत्र स्रक्शब्दस्य पुष्पमात्रपरत्वमङ्गीक्रियते ।।
ननु तत्रापि स्रक्शब्दस्य मालिकापरत्वे कः प्रत्यवाय इति चेदुच्यते, किमावयोर्विवादेन, लक्ष्मीतन्त्रे- "ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा" (40/68) इति स्रक्शब्दस्य पुष्पपरत्वेन महालक्ष्म्यैव व्याख्यातत्वात्, ततो माल्यमयीं दद्यादित्यनुक्तेः। किञ्च, सात्वतोपबृंहणे ईश्वरे पारमेश्वरे च होमद्रव्यविवरणप्रकरणे-
"सुगन्धैः स्थलपद्माद्यैः पुष्पैश्चैव[2] सितादिकैः" इति,
(ई. सं. 5/206; पा. सं. 7/169)
तर्पितः स्थलपद्माद्यैः पुष्पैश्चान्यैः सितादिकैः ।।
सौभाग्यमतुलं विप्रा[3] अचिरादेव[4] यच्छति ।
(ई. सं. 5/216-217; पा. सं. 7/180)
इति च केवलपुष्पमात्रोक्तेः। किञ्च, पाद्मेऽपि [5]आहुतिप्रमाणनिरूपणप्रकरणे-"फलैः पुष्पैरखण्डितैः" इति पुष्पाणामखण्डितत्वमात्रलक्षणोक्तेः, केवलपुष्पैरेव होमसंप्रदायाच्च स्रक्शब्दः पुष्पमात्रपरो बोध्यः। किञ्च, "स्रग्दामसूत्रसंबद्धमाक[6]र्णाच्चरणावधि"(6/55) इत्यलङ्कारासनप्रकरणे वक्ष्यमाणं वाक्यमप्यत्रानुकूलं ज्ञेयम्, एषामेव श्लोकानां पारमेश्वरोऽपि[7] प्रतिपादितत्वात्। तद्व्याख्याने तु- "नानास्रगुद्भवैर्माल्यैः नानाविधस्रजामुद्भावहेतुभूतैः पुष्पैः, "माल्यं पुष्पे च दामनि" (6/3/25) इति वैजयन्ती" इति लिखितम्। तदस्वरसम्, विशेषणस्य वैयर्थ्यात्; मालिकादिभिः पीठार्चने प्रत्यवायाऽभावाच्च। अस्मिन्नवसरे नृसिंहकल्प[8]वक्ष्य[9]माणरीत्याऽनन्तादिपीठदेवानामप्यर्चनं कार्यम् ।। 5-6 ।।
[1 पुष्पगन्धै- अ.।]
[2 र्द्विज- पा.।]
[3 विप्र- पा.।]
[4 रात् संप्रयच्छति- ई. पा.।]
[5 आवप्यत- अ.।]
[6 कण्ठा- म.।]
[7 षष्ठाध्याये.।]
[8 कल्पे- म.।]
[9 सप्तदशे परिच्छेदे.।]

ततः कुम्भचतुष्कं तु हेमादिद्रव्यनिर्मितम् ।
गालितेनाम्भसा पूर्णं स्रगाद्यैरप्यलङ्कृतम् ।। 7 ।।

गन्धसर्वौषधीरत्नफलबीजकुशोदकम्[1] ।
बहिःकोणचतुष्के तु न्यसेदाधारपृष्ठगम् ।। 8 ।।

ॐ अर्घ्यं कल्पयामीति[2] ह्युक्त्वा वायुपदे न्यसेत् ।
कलशं तद्वदैशान्यां न्यसेदाचमनार्थतः ।। 9 ।।

स्नानार्थमग्निकोणे तु पाद्यार्थं नैर्ऋते तथा ।
अथ मङ्गलकुम्भानामुपकुम्भसमन्वितम् ।। 10 ।।
अथ पात्र[3]परिकल्पनमाह- तत इति सार्धैस्त्रिभिः। अत्र गन्धसर्वौषधीरत्नफलबीजकुशादिकमित्यर्घ्यादीनां चतुर्णामप्यविभागेन द्रव्याण्युक्तानि। एषां विभागस्त्वष्टदशपरिच्छेदं (64-68 श्लो.) वक्ष्यमाणो ज्ञेयः। तथा चेश्वरपारमेश्वरयोः-
[4]आधारोपरि पात्राणि स्वपूर्वनियमेन तु ।
वायव्यादिषु विन्यस्य तत्तत्कल्पनमन्त्रतः ।। इति।
(ई. सं. 3/26-27; पा. सं. 6/37)
किञ्च, अत्रार्घ्यादीनां चतुर्णामेवोक्तत्वेऽप्यष्टादशपरिच्छेदे (70-76 श्लो.) वक्ष्यमाणं द्वितीयार्घ्यमपि ग्राह्यम्, तस्य पीठार्चनाद्युपयुक्तत्वात्। अत्र पात्रपरिकल्पनात् पूर्वमेव पीठान्त[5]र्लीनचक्रराजार्चनोक्तावपि पाठक्रमादर्थक्रमस्य बलीयस्त्वेन तत् तदनन्तरमेव ग्राह्यम्। तथा वक्ष्यति सप्तदशे परिच्छेदे-
पुष्पैरथार्घ्यपात्रं तु मन्त्रैः संपूज्य निष्कलैः ।
पात्रे परस्मिंस्तस्माद्वै स्तोकमुद्धृत्य चोदकम् ।।
योगपीठार्चनं कुर्यादनुसंधानपूर्वकम्। (17/52-53) इति।। 7-10 ।।
[1 शादिकम्- भा., दरम्- उ.।]
[2 तीत्यु- अ. उ.।]
[3 पात्रविकल्पपरि- अ.।]
[4 पारमेश्वरीयः पाठो मूल एव द्रष्टव्यः।]
[5 न्तरलीन- अ.।]

चतुष्कं विन्यसेद् बाह्ये दिक्क्रमेण सुपूजितम् ।
भगवद्बिम्बपूर्वं तु यागाङ्गं प्रागुदीरितम् ।। 11 ।।
अथ परितः कलशाष्टकस्थापनमाह- अथेति। उपकुम्भसमन्वितम्, विदिक्षु स्थापनीयैश्चतुर्भिः कलशैः सहितमित्यर्थः। अथवा नृसिंहकल्पपरिच्छेदे शान्तिकादिप्रकरणेषु वक्ष्यमाणरीत्योपस्थापनीयैश्चतुर्भिरुपकुम्भैः समन्वितमित्यर्थः। मङ्गलकुम्भानां चतुष्कं प्रागुदीरितं (6/7) चतुर्दिक्षु स्थापनीयकलशचतुष्टयमित्यर्थः ।। 10-11 ।।

एकं सुलक्षणं तत्र ततो मध्येऽवतार्य च ।
भुक्तमर्घ्यादिकं तस्माद[1]पनीयाभिवन्द्य च ।। 12 ।।
तत्कलशाष्टकमध्ये भगवद्बिम्बाद्यान्य[2]तमस्थापनमाह- भगवदिति। प्रागुदीरितं (षष्ठा?पञ्चमा)ध्यायान्ते उक्तमित्यर्थः। भद्रपीठोपरि केवलचरबिम्बाद्यर्चनप्रकरणे। एवं परितः कलशाष्टकस्थापनं कार्यम्। स्थिरबिम्बार्चनविषये तु तदप्रकृतम्। अत एव ईश्वरपारमेश्वरयोर्नोक्तं च।। 11-12 ।।
[1 द्दाप- बक, दाप- अ.।]
[2 दन्य- अ.।]

उशीर[1]वंशकूर्चेन क्षालयेदम्भसा ततः ।
पुराङ्कितं तु चक्राद्यैर्यथाबद्धं तु वा शुभम् ।। 13 ।।
बिम्बशोधनमाह- भुक्तमिति। भुक्तमर्घ्यादिकं पूर्वदिने, यद्वाऽभिगमनार्चनकाले भगवद्भक्तार्घ्यपुष्पादिकमित्यर्थः। उशीरवंशकूर्चेन लाम(ञ्छ?ज्जक)पिञ्चुलेन[2] ।। 12-13 ।।
[1 रं-अ. उ.।]
[2 पिञ्चीलेन- म.।]

सलिलेनार्घ्यपात्रं तु सम्पूर्याग्रे निधाय वै ।
तिलान् सुमनसस्तस्मिन् दूर्वाः सिद्धार्थकान् क्षिपेत् ।। 14 ।।

चतुरावर्तयेन्मन्त्रं[1] कृत्वा पाणितले स्थितम् ।
ततः सर्वगतं देवं मन्त्रमूर्तित्वमागतम् ।। 15 ।।

समाहूय स्वमन्त्रेण [2]त्वागच्छान्तपदेन तु ।
यथा सर्वगतो वायुर्व्यजनेन महामते ।। 16 ।।

व्यक्तिमभ्येति भगवानाहूतस्तद्वदेव हि ।
भावदर्पणसङ्क्रान्तं कृत्वा हृत्कमलात्तु वै ।। 17 ।।

[3]सन्निरुध्य बहिर्वेद्यां मन्त्रोच्चाराव[4]सानतः ।
मन्त्रमागच्छमानं तु निर्गतं तु स्वकात् पदात् ।। 18 ।।
अथावाह[4]नक्रममाह- पुराङ्कितमिति पञ्चभिः। चक्राद्यैरङ्कितमित्यनेन सुवर्णादिकं द्रव्यमयं पात्रमुच्यते। यथाबद्धं तु वेत्यनेन पलाशादिपत्रमयमुच्यते। तथा च जयाख्ये-
अर्घ्यपात्रं समादाय सुवर्णरजतादिजम् ।।
शैलं मृद्दारुजं वाऽथ पलाशाम्बुजपर्णजम् । (13/63-64) इति।
सलिलेन प्रधानार्घ्यसलिलेनेत्यर्थः। यतः-
आवाहने संनिधाने संनिरोधे तथार्चने ।।
विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत् । (18/70-71)
इति वक्ष्यति। अर्घ्यपावम् आवहनार्थं कृतं पृथक् पात्रमित्यर्थः। तथा च पाद्मे-
आवाहितपदं पात्रं प्रक्षालितमथाम्बुभिः ।
पूरयेन्मूलमन्त्रेण हस्ताभ्यां च समुद्धरेत् ।।
ललाटसममेतस्मिन् अन्तरावाह्य केशवम् । इति ।
सिद्धार्थकान् श्वेतसर्षपानित्यर्थः। मन्त्रम् आगच्छपदसंयुक्तं तत्तन्मूर्तिमन्त्र[5]मित्यर्थः। "समाहूय[6] स्वमन्त्रेण त्वागच्छान्तपदेन तु" (6/16) इत्युक्तत्वात्। तथा च पाद्मेऽपि- "चतुरुच्चारयेन्मन्त्रमागच्छपदसंयुतम्" इति। एवमावाहनकाले मन्त्रस्य चतुरुच्चारणं लक्ष्मीतन्त्रेऽप्युक्तम्- "तारकं[7] चतुरुच्चार्य तारिकां तु त्रिरुच्चरेत् (38/4) इति। ततः सर्वगतं देवमिति श्लोकेनोक्तस्यार्थस्यानुवादः कृतः। मन्दमतीनां भगवदावाहने विस्रम्भजननार्थं यथा सर्वगतो वायुरिति दृष्टान्तकथनम्। एवमेव वक्ष्यति प्रतिष्ठाध्यायेऽपि-
सर्वत्रगोऽसि[8] भगवान् किल यद्यपि त्वा-
मावाहयामि हि यथा व्यजनेन वायुम् ।
गूढो यथैव दहनो मथनादुपैति
आवाहितोऽपि हि तथा त्वमुपैषि चार्चाम् ।। (25/121) इति।
भावदर्पणसंक्रान्तं कृत्वेत्यनेन-
तमागतमिवाकाशात् तारकं कर्णिकान्तरे ।
भावयेदथ तन्मध्यादाराध्यमुदितं स्मरेत् ।। (5/102)
इत्युक्तार्थः स्मारितो भवति[9]। वेद्यामिति पदं बिम्बाद्युपलक्षकम्। संनिरुध्य पूजावसानिकां स्थितिं प्रार्थ्येत्यर्थः। अत्र संनिधिसाम्मुख्यकरणमप्यपेक्षितमीश्वरादिषु ग्राह्मयम्। मन्त्रोच्चारावसानतः तत्तन्मूलमन्त्रावसान[10] इत्यर्थः। किञ्च-
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ।।
आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया ।
श्रिया सार्धं जगन्नाथो देवो नारायणः पुमान् ।। (36/94-95)
इति लक्ष्मीतन्त्रोक्तो मन्त्रश्चात्र प्रकृतः। नन्वेतच्छ्लोकपञ्चकस्याप्यावाहनपरत्वे पुराङ्कितमित्यादिश्लोकद्वयं सात्वतोपबृंहणेश्वरपारमेश्वरयोः कुतो नोक्तमिति चेत्सत्यम्, तत्र-
गन्धार्घ्यपुष्पैः संपूर्य मूलमन्त्रं समुच्चरन् ।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ।।
(ई. सं. 4/59; पा. सं. 6/229)
इत्यनेनैव तच्छ्लोकद्वयार्थः संगृहीतो भवतीति बोध्यम्, तदावाहनपात्रस्थार्घ्यजलस्याञ्जलिद्वारेणैव बिम्बोपरि सेचनीयत्वात्। "तिलान् सुमनसस्तस्मिन् दूर्वाः सिद्धार्थकान् क्षिपेत्" (6/14) इत्युक्तस्य द्रव्यचतुष्टयप्रक्षेपस्य प्रधानार्घ्यजलपूरणेनैव चारितार्थ्याच्च।
नन्वेवं तेनैव तद्द्रव्यचतुष्टयप्रक्षेपस्य चारितार्थ्ये सात्वते पुनः किमर्थं तदुपादानमिति चेत्, सत्यम्-
पाद्येद्रव्यान्तरालाभे दूर्वा[11] चार्घ्येऽथ सर्षपः ।
शस्तमाचमनीये तु [12]तक्कोलं मार्जनाम्भसि ।।
इति पाद्मोक्तन्यायेनार्घ्यादिषु द्रव्यान्तरालाभेनैकैकद्रव्यप्रक्षेपेऽप्यावाहनार्घ्ये तिलादीनां चतुर्णामपि प्रक्षेपसिद्ध्यर्थं पुनरुपादानमिति ज्ञेयम्। एवं चैवमावाहनं चरबिम्बकुम्भमण्डलाद्यर्चनविषयम्, न तु स्थिरबिम्बविषयम्,
स्थितमायतने वाऽथ साकारं [13]परमेश्वरम् ।
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम्[14] ।।
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ।
तन्मूर्तौ च स्वमन्त्रेण [15]यजेदावाहनं विना । (13/58-60)
इति जयाख्योक्तेः, "संस्थितेऽभिमुखीभावस्तदेवावाहनं हरेः" इति पाद्मोक्तेः, तथैवेश्वरपारमेश्वरयोः प्रतिपादितत्वाच्च ।। 13-18 ।।
[1 यन्- अटी.।]
[2 ह्यागच्छेतिपदेन वै- मु. अटी. बक.।]
[3 सन्निरोध्येति सार्वत्रिकः पाठः। भाष्यानुरोधी पाठोऽत्र स्थापितः।]
[4 नुसारतः- अटी.।]
[5 मन्त्रणमित्युभयमातृकापाठः.।]
[6 समा विषयः स्व- अ.।]
[7 एतदनुरोधेन मुद्रिते लक्ष्मीतन्त्रे पाठसंशोधनं विधेयम्।]
[8 गो हि- म.।]
[9 भवतीति वेद्यमिति- अ.।]
[10 सानत- अ.।]
[11 पूर्व चार्थे - अ.।]
[12 तत्कालं- अ.।]
[13 पार- म.।]
[14 वधादि- मु.।]
[15 यच्छेदा- म.।]

कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेत् सदा ।
अथोपचर्यमाणं [1]तं भोगैः कालानुकूलतः[2] ।। 19 ।।

स्नाना[3]लभनवस्रस्रग्दानेऽ[4]लङ्करणे तथा ।
अन्यत्र भोगपूजायां स्मरेत् पद्मासनादिना ।। 20 ।।

पुनस्तमेवोपविष्टं सानुकम्पं च सम्मुखम् ।
बिम्बं विनाऽन्यत्राधारे भवत्येवं महामते ।। 21 ।।
केवलवेदिकुम्भमण्डलादिष्वावाहितस्य देवस्य तत्तदुप्रचारानुरोधेनावस्थानभेदभावनमाह- मन्त्रमिति सार्धैस्त्रिभिः[5] ।। 18-21 ।।
[1 तु- उ.।]
[2 रूपतः- अटी.।]
[3 तपन- बक. बख., लम्भन- अटी.।]
[4 दानाल- मु. अटी.।]
[5 श्चतुर्भिः- अ.।]

बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते ।
करोत्यमूर्तामखिलां भोगशक्तिं तु चात्मसात् ।। 22 ।।
बिम्बे तादृशभावनाश्रम एव नास्ति, ब्रह्मरूपेण साक्षादेव भोगानङ्गीकरोतीत्याह- बिम्बाकृत्येति। तथा चोपबृंहितं लक्ष्मीतन्त्रेऽपि-
क्लृप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते ।
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा ।।
तत्रास्थां तां स्मरेत् साक्षादाददानो हरिर्यथा । (38/16-17) इति ।
यद्यपि पाद्मे बिम्बार्चनप्रकरणेऽपि-
अर्घ्यवस्त्राम्बराकल्पपुष्पगन्धानुलेपनैः ।
प्रत्यर्चितं स्थितं ध्यायेत् पाद्याचमनयोः पुनः ।।
[1](तदानीं ध्यानं चोक्तं पाद्मे-)
आसीनं स्नानकाले च पद्मासनसुखासनम् ।
नैवेद्यधूपदीपादावासीनं[2] स्वस्तिकासने ।।
उपचारेषु चान्यत्र तत्तत्कर्मानुसारतः ।
स्थितमासीनमथवा देवं ध्यायेत पूजकः ।।
इत्युक्तम्, तथापि तत्कुम्भार्चनादिपरमेव। अथवा बिम्बस्यैव तथा ध्यानपरम्, नहि कुम्भादिष्विव तदन्तःस्थितभगवन्मात्रध्यानपरमिति ध्येयम्[3]। अत्रापेक्षिता मन्त्रन्यासलयभोगार्चनादयो बहवो विशेषा [4]नृसिंहकल्पे वक्ष्यमाणा ग्राह्याः ।। 22 ।।
[1 नास्त्येषा पङ्क्तिः- म.।]
[2 वासनं- अ.।]
[3 बोध्यम्- म.।]
[4 सप्तदशे परिच्छेदे।]

विनिवेद्याऽऽसनवरं समाहूतस्य वै प्रभोः ।
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम् ।। 23 ।।

पाद्यार्घ्ये[1] मधुपर्कं च तोयमाचमनीयकम् ।
सपुत्रदारमात्मानमष्टाङ्गपतनेन[2] तु ।।
अथासनाद्युपचारसमर्पणमाह- विनिवेद्येति सार्धेन। अत्र पाठक्रमं विहाय प्रथममर्घ्यम्, ततः पाद्यम्, तदनन्तरमाचमनीयम्, ततो मधुपर्कं च समर्पणीयम्। तत्रार्घ्यं[3] पुष्पद्वारा भगवतो मूर्ध्नि देयम्, "[4]अर्घ्यस्तृतीयया देयो मूर्ध्न्यापः कुसुमोद्धृताः" (36/100) इति लक्ष्मीतन्त्रोक्तेः। तदानीं घण्टानादश्च कार्यः, "आवाह[5]नार्घ्ये धूपे च दीपे नैवेद्यजोषणे" (3/83) इति, "घण्टाशब्दसमोपेतं दत्वाऽर्घ्यं मन्त्रमूर्धनि" (4/134) इति चेश्वरादिषूक्त[6]वात्। पाद्यं तु द्विवारं देयम्, "पाद्यदाने तु विप्रेन्द्र द्विर्द्वद्यात्तु[7] पदाम्बुजे" (17/46) इत्यनिरुद्धसंहितोक्तेः। इदानीं पाद्यप्रतिग्रहपादसंमार्जनवस्त्रपादानुलेपनान्यपि देयानि। आचमनं तु त्रिवारं समर्पणीयम्। तथा चोक्तमनिरुद्धसंहितायाम्- "आचामं[8] च त्रिधा दद्याद् विमृश्य च सकृत्[9] स्पृशेत्" (17/48) इति। [10] तदानीं ध्यानं चोक्तं पाद्मे-
ध्यायेदाचमनीयस्य दानकाले जगद्गुरुम् ।
[11]आचामन्तमिवाम्भोभिः साक्षादम्भःपरिग्रहे ।। इति ।
अत्राचमनानन्तरं गन्धपुष्पमालादीपधूपसमर्पणं मधुपर्कानन्तरं ताम्बूलनिवेदनं [12]चेश्वरपारमेश्वरादिषूक्तं ग्राह्यम्। तथा चोक्ताः पाद्मे मन्त्रासनोपचाराः-
आवाहननमस्कारौ प्रत्युत्थानमनन्तरम् ।
पुष्पाञ्जलिः स्वागतोक्तिरासनं भद्रपीठिका ।।
अर्घ्यं पाद्यप्रतिग्राहं पाद्यप्रो[13] ताभिमर्शनम् ।
आलेपनं चरणयोश्चन्दनक्षोदवारिभिः ।।
अपामाचमनीयं तु प्रतिग्रहणदर्शनम् ।
उपस्पर्शनमालेपश्चन्दनाद्यम्बुचर्चया ।।
पुष्पमाला धूपदानं मधुपर्कनिवेदनम् ।
घनसारो नागवल्ली.... .... .... ।। इति ।। 23-24 ।।
[1 र्घ्यम- उ.।]
[2 नादिना- अटी.।]
[3 ततोऽर्घ्यं- अ.।]
[4 अर्घ्यं तृतीयया देयं- मु.।]
[5 नेऽर्घ्ये- अ.।]
[6 षूक्तम्- म.।]
[7 च्च- मु.।]
[8 आचामं तु त्रिर्दद्यात् तु द्विरुन्मृज्य च संस्पृशेत्- मु.।]
[9 सकृन्मृजेत् - म.।]
[10 `तदानीं ध्यानं चोक्तं' नास्ति- अ.।]
[11 आचान्तमिव चाम्भोभिः- अ.।]
[12 क्रमशश्चतुर्थषष्ठाध्याययोर्द्रष्टव्यमेतत्।]
[13 प्लोता-म.।]

चेतसा भक्तियुक्तेन निवेद्य तदनन्तरम् ।
भगवानथ[1] विज्ञाप्यः कृत्वा तत्पादगौ[2] करौ ।। 25 ।।
आत्मात्मीयनिवेदनमाह- सपुत्रेति। अष्टाङ्गपतनेन (6/187-188) वक्ष्यमाणाष्टाङ्गप्रणामेन। इदानीमात्मनिवेदनविज्ञापनं चोक्तं पाद्मे-
दासोऽहं ते जगन्नाथ सपुत्रादिपरिग्रहः ।
प्रेष्यः प्रशाधि कर्तव्ये मां नियुङ्क्ष्वे[3] हिते सदा ।। इति ।। 24-25 ।।
[1 नपि- मु. अटी.।]
[2 पादयोः- अ.।]
[3 नियोजय ते- अ.।]

स्फुटीकृतं मया देव त्विदं स्नानवरं त्वयि ।
सपादपीठं[1] परमं शुभं स्नानासनं महत् ।। 26 ।।

आसादयाशु स्नानार्थं मदनुग्रहकाम्यया ।
स्नानासनं निवेद्याथ देवस्य द्वितयं[2] तु वै ।। 27 ।।
अथ स्नानार्थं विज्ञापनमाह- भगवानिति द्वाभ्याम्। कृत्वा तत्पादगौ करावित्यत्र व्यस्तकरावित्यर्थः। तथा चोक्तं पारमेश्वरे-
कृत्वाभ्यर्च्यादिदेवस्य[3] पाणिना दक्षिणं पदम् ।
दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः ।। (6/302-303)
 इति ।। 25-27 ।।
[1 ठमपरं- बक. बख. अ.।]
[2 द्वितीयं- बक.।]
[3 र्च्यापि- मु.।]

भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि ।
विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम्[1] ।। 28 ।।

दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये ।
सुशुभे पादुके चाथ तदन्ते स्नानशाटकम्[2] ।। 29 ।।

सुगन्धशालिसम्पूर्णं मात्रार्थं पात्रमुत्तमम् ।
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ।। 30 ।।

पाणिभ्यां क्षालनार्थं तु पादपीठं ततः शुभम् ।
दन्तकाष्ठं च[3] तदनु मुखसुद्धिप्रतिग्रहम् ।। 31 ।।

जिह्वानिर्लेखनं चैव मुखप्रक्षालनं तु वै ।
पुनराचमनं देय[4]मभ्यङ्गार्थमनन्तरम् ।। 32 ।।

तैलं बहु सुगन्धं च चूर्णं गोधूमशालिजम् ।
रजनीचूर्णसम्मिश्रमीषत् पद्मकभावितम् ।। 33 ।।

देयमुद्वर्तनार्थं तु चमषी[5] तदनन्तरम् ।
स्नानार्थं खलिसंयुक्तं[6] तोयमुष्णमनन्तरम् ।। 34 ।।

चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ।। 35 ।।
स्नानासनाद्युपचारानाह[7]- स्नानासनमित्यादिभिः। अत्र पाणिप्रक्षालनार्थकगन्धतोयसमर्पणानन्तरं पादपीठोक्तावपि पाठक्रमादर्थक्रमस्य बलीयस्त्वेन स्नानासनसमर्पणानन्तरमेव पादपीठोऽपि समर्पणीयः, "सपादपीठं[8] परमं शुभं स्नानासनं महत्" (6/26) इति विज्ञापनश्लोक एवोक्तत्वात्। अत एव सात्वतोपबृंहणेश्वर(4/143)- पारमेश्वर (6य304)योः स्नानासनानन्तरमेव पादपीठसमर्पणमुक्तम्।
नन्वीश्वर(4/146)- पारमेश्वर (6/308)योरुभयोरपि "[9]पाणिप्रक्षालनार्थं तु पादपीठं ततः शुभम्" इति पाणिप्रक्षालनानन्तरमपि पादपीठोक्तिः परिदृश्यते, तस्याः का गतिरिति चेत्, सत्यम्। तत्रोभयत्रापि यथावस्थितसात्वतश्लोकानामेव प्रतिपादितत्वात् पौनरुक्त्यं दृश्यते। लक्ष्मीतन्त्रे तु-
अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम् ।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहम्[10] ।।
पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका ।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ।।
दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी[11] ।
गन्धतैलं च चूर्णं च [12]शालिगोधूमसंभवम् ।।
हरिद्राचूर्णसंमिश्रमीषत् पद्मकभावितम् ।
उद्वर्तनार्थँ तदनु स्नानार्थं [13]खलिसंयुतम् ।।
उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम् । (39/5-9)
इति सात्वतश्लोकानामुपबृंहितत्वान्न पादपीठपुनरुक्तिः। अतस्तत्पौनरुक्त्यं नानुष्ठानप्रतिपादकम्, किन्तु श्लोकपूरणार्थं ज्ञेयम्। यथा पारमेश्वरे मानसे भोगयागप्रकरणे- "मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु" (ज. 12/81; पा. 5/130) इति जयाख्यवचने प्रतिपादितेऽप्यविरुद्धार्थं परिगृह्य विरुद्धं लक्ष्म्यादित्वं परित्यज्य हृन्मन्त्रादित्वमेवाङ्गीक्रियते, तद्वदिहापीति संतोष्टव्यमायुष्मता। अत एवास्मत्तातपादैः सात्वतामृते पाणिप्रक्षालनतोयसमर्पणानन्तरं पादपीठो नोक्तः ।
प्रकृतमनुसरामः। दन्तकाष्ठमित्यत्र पारमेश्वरे- "दन्तकाष्ठं च तदनु कर्मण्यक्षीरवृक्षजम्" (6/308) इत्युक्तम्। कपिञ्जलेऽपि- "चूतदण्डेन देवस्य दन्तधावनमाचरेत्" इति। तच्च हेमादिमयमपि ग्राह्यम्। तदुक्तं पारमेश्वर एव द्वितीयेऽध्याये-
षोडशाङ्गुलि[14]दीर्घैस्तु वक्रग्रन्थिविवर्जितैः ।।
हेमादिनिर्मितैर्वापि कुशदू[15]र्वादिभिस्तथा । (2/61-62) इति।
मुखशुद्धिप्रतिग्रहं गण्डूषप्रतिग्रहमित्यर्थः। मुखप्रक्षालनं गण्डूषमित्यर्थः। पुनराचमनीयानन्तरं ताम्बूलमपि देयम्, "गण्डूषाचामसलिले ताम्बूलं गन्धभावितम्" (6/309) इति पारमेश्वरोक्तेः। तैलं बहु सुगन्धं चेत्यत्र तैलसमर्पणप्रकारः पारमेश्वरे [16]समाराधनाध्याये [17]महोत्सवाध्याये च विस्तरेणोक्तो ज्ञेयः। रजनीचूर्णं हरिद्राचूर्णम्। पद्मकम् तथैव प्रसिद्धं वैद्य(क)ग्रन्थे। चमषी तैलनिर्हरणार्थकसुगन्धद्रव्यविशेषः। इममर्थं सुस्पष्टं वक्ष्यति प्रतिष्ठाध्याये- "पूर्ववच्च ततोऽभ्यज्य[18] विधिवच्चमसाम्बुना। क्षालयित्वा" (25/99-100) इति। खली च मलनिर्हरणसाधनद्रव्यम्।। 27-35 ।।
[1 इतः परम्- `जिह्वार्थनिर्लेखनं चैव मुखप्रक्षालनं तु वै' इति पाठो दृश्यते- बख. उ., स चानावश्यकः, अग्रे तस्य पठितत्वात्।]
[2 शाटिकाम्- मु. अटी.।]
[3 तु- उ.।]
[4 देवस्या- मु. अटी.।]
[5 मषीं च- मु. अटी., वमिषं- बक, चमिषं- बख., चमसीं- अ., चमसी- उ.।]
[6 सम्पूर्ण- मु. अटी. बक. बख.।]
[7 राण्याह- अ.।]
[8 ठमपरं- म.।]
[9 पाणीनां- ई.।]
[10 ग्रहः- मु.।]
[11 म्बुनि- अ.।]
[12 शाला- अ.।]
[13 खलु- म.।]
[14 ङ्गुल- मु.।]
[15 दर्भा- मु.।]
[16 षष्ठाध्याये ।]
[17 सप्तदशाध्याये ।]
[18 भ्यर्च्य- अ.।]

ऐक्षवं तु रसं हृद्यमभावे[1] शार्करोदकम् ।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ।। 36 ।।

रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थिपल्लववार्येव[2] ततस्तु तगरोदकम् ।। 37 ।।

प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः ।। 38 ।।

पत्रपुष्पोदके चैव फलबीजोदके तथा[3] ।
गन्धोदकं च तदनु हेमरत्नजले ततः ।। 39 ।।

पुण्यतीर्थसरित्तोयं केवलं तदनन्तरम् ।
स्नानार्थं कल्पितेनैव ह्युदकेन[4] विमिश्रितम् ।। 40 ।।

योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम् ।
अन्तरान्तरयोगेन स्नानानां च महामते ।। 41 ।।

क्षालनं चार्घ्यकलशादर्घ्यदानं समाचरेत् ।
सम्पूर्णमम्भसां[5] कुम्भं हरिद्राशालितण्डुलैः ।। 42 ।।
अथ क्षीरादिपञ्चविंशतिकलशस्नपनप्रकारमाह- गव्यमित्यादिभिः। धात्रीफलम् आमलकम्, लोध्रं श्वेतलोध्रम्, "लालवः [6]शबलो लोध्रः" (2/4/33) इत्यमरः। ग्रन्थिपल्लवं स्थौणेयम् "ग्रन्थिपर्णं शुकं [7]बर्हं स्थौणेयं कुक्कुटम्" (2/4/132) इत्यमरः। तगरं तथैव प्रसिद्धम्। प्रियङ्गः फलिनी, "प्रियङ्गुः फलिनी फली"(2/4/55) इत्यमरः।
ननु "स्त्रियौ कङ्गुप्रियङ्गू द्वे" (2/9/20) इत्यमरवाक्यमप्यस्ति, विनिगमनाविरहात् कङ्गुरेव गृह्यतामिति चेन्न, अस्मिन् स्नपने बीजवारिणि कङ्गोः सत्त्वाद् अत्रत्यप्रियङ्गुशब्दस्य पूर्वोत्तरयोर्गन्धद्रव्यसाहचर्याच्च फलिनीपरत्वमेवाङ्गीकार्यम्। मांसी जटामांसी। सिद्धार्थकः श्वेतसर्षपः। सर्वौषधीजल-पत्रोदक-पुष्पोदक-फलोदक-बीजोदक-गन्धोदक-रत्नोदकानां द्रव्यविवरणमीश्वरपारमेश्वरयोः [8]स्नपनाध्याये व्यक्तमुक्तं ग्राह्यम्। अत्रापेक्षितकलशाधिवासादिकमपि तत्रैव ग्राह्यम्। अत्र नित्यस्नपनत्कादङ्कुरादिकं न कार्यम्। तथा चोक्तं पाद्मे-
नित्ये च स्नपने नापि कौतुकं नाङ्कुरार्पणम् ।
निशा[9]चूर्णैर्न स्नपनमिष्यते [10]मण्टपस्थलम् ।। इति ।
"स्नानार्थं कल्पितेनैव ह्यदकेन विमिश्रितम्" (6/40) इत्युक्तत्वाद् धात्रीफलोदकादिविंशतिद्रव्येष्वपि किञ्चित् किञ्चित् स्नानीयजलं संयोज्यम्, "स्नानीयाम्बुसमेतानि देयान्यम्बून्यमूनि तु" (39/13) इति लक्ष्मीतन्त्रोक्त्या क्षीरादिपञ्चकं विना आमलकाद्यम्बुष्वेव स्नानीयाम्बुसंयोजनस्य प्रतीयमानत्वात्। अर्घ्यपुष्पसमन्वितमिति पदं क्षालनमित्यस्य विशेषणं ज्ञेयम्, पारमेश्वरेऽप्येषामेव श्लोकानां प्रतिपादितत्वात्। केषुचित् प्रयोगेषु अर्घ्यपुष्पसमन्वितमिति पदस्य स्नपनद्रव्यविशेषणत्वाभिप्रायेण द्रव्यकलशेषु स्नानीयकलशात् किञ्चिज्जलमर्घ्यपात्रात् किञ्चित् पुष्पं च [11]निक्षिप्येत्युक्तम्। तत् सात्वतोपबृंहणलक्ष्मीतन्त्रविरुद्धम्। यतस्तत्र "क्षीरं दधि घृतं गव्यम्" (39/9) इति प्रक्रम्य,
हेमरत्नसरित्तीर्थकेवलाम्बूनि वै[12] क्रमात् ।।
स्नानीयाम्बुसमेतानि देयान्यम्बून्यमूनि तु ।
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा ।।
दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा । (39/12-14)
इति सपुष्पत्वं क्षालनतोयस्य विशेषणं कृतम्। अर्घ्यपुष्पसमन्वितम् अर्घ्यपात्रे पूजनार्थं प्रक्षिप्तपुष्पैः सहितमित्यर्थः। अत्र क्षीरादिकलशस्नपनानां मध्ये मध्येऽर्घ्योदकेनोपस्नानं[13] केवलमर्घ्यदानं चोक्तम्। सति विभवे[14] वस्त्राद्युपचारा अपि देयाः। तथा चोक्तमीश्वरपारमेश्वरयोः-
प्रतिद्रव्यं तु [15]वस्त्रेण ह्यर्घ्यालभनमाल्यकैः[16] ।।
धूपेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् ।
यद्वार्घ्यं[17] पाद्यमाचामं गन्धस्रग्धूपदीपकम् ।।
दद्याद् यथाक्रमं सर्वं केवलं चार्घ्यमेव वा । इति ।
(ई. सं. 15/175-177; पा. सं. 14/170-172)
ननु बृहद्बिम्बस्नपनेऽर्घ्योदकस्योपस्नानाऽपर्याप्तत्वे का गतिरिति चेत्, सत्यम्। तदानीम्
अनरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ।।
स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत् ।
(ई. सं. 15/76; पा. सं. 14/76-77)
इतीश्वरपारमेश्वरयोः स्नपनाध्याये गतिरुक्तैव। एषां पञ्चविंशतिकलशानामभिषेचनमन्त्रास्त्वीश्वरपारमेश्वरयोर्दमन[18]कोत्सवप्रकरणे-
एको[19] ह वै नारायण इति प्राक्कलशेन तु ।
तस्य ध्यानान्तःस्थस्येति द्वितीयकलशेन तु ।।
अथ पुनरेव नारायण इति तृतीयकलशेन तु ।
अथ पुनरेव नारायण इति चतुर्थतः ।।
सहस्रशीर्षं[20] पुरुषमिति पञ्चमकुम्भतः ।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः ।।
नारायणः परं ब्रह्म इति वै सप्तमेन तु ।
यच्च किञ्चिज्जगत्यस्मिन्निति ह्यष्टमकुम्भतः ।।
अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् ।
अधो[21] निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ।।
सन्ततं तु सिराभिस्तु [22]लमित्येकादशेन तु ।
तस्य मध्ये महानग्निरिति द्वादशमेन वै ।।
संतापयति स्वं देहमिति त्रयोदशेन[23] वै ।
नीलतोयदमध्यस्था इति चतुर्दशेन[24] वै ।।
तस्याः शिखाया मध्ये इति पञ्चदशेन[25] वै ।
सर्वस्य वशिनं देवमिति वै षोडशेन[26] तु ।।
बहिरावरणस्थैस्तु कलशैरभिषेचयेत् ।
बहिरावरणे[27] नास्ति इति प्राक्संस्थितेन तु ।।
यन्नाभिपद्मादभवदिति वह्निगतेन तु ।
धृतोर्ध्वपुण्ड्रः[28] परमेति याम्यदिक्संस्थितेन तु ।।
दक्षिणे तु भुजे विप्र इति [29]यातुगतेन वै[30] ।
विष्णुनात्तमश्नन्तीति वारुणीसंस्थि[31]तेन तु ।।
पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै[32] ।
इमां महोपनिषदमिति सोमगतेन वै[33] ।।
ओमिति प्रथमं नाम इतीशानगतेन तु ।
पुरुषोऽहं[34] वासुदेव इति मध्यगतेन तु ।।
यद्वा पुरुषसूक्तीयैर्मन्त्रैः पोडशभिः[35] क्रमात् ।
बहिरावरणस्थैस्तु कलशैरभिषिच्य च ।।
पूर्वोक्तैर्ब्रह्मसूत्रस्थैर्मन्त्रैर्द्विद्विकसंख्यया ।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ।।
अवशिष्टैस्त्रिभिश्चान्ते मध्यकुम्भेन सेचयेत् ।

(ई. सं. 12/65-80; पा. सं. 17य568-583)
इत्युक्ताः। अत्र पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैः "सहस्रशीर्षम्" इत्यादिभिः "दक्षिणे तु भुजे विप्र" इत्यन्तैः षोडशमन्त्रैरित्यर्थः। द्विद्विकसंख्यया द्वाभ्यां मन्त्राभ्यामित्यर्थः। अवशिष्टैस्त्रिभिः विष्णुनात्तमश्नन्तीत्यादिभिः। "एको ह वै नारायणः" इत्याद्याः "य इमां महोपनिषदम्" इत्यन्तास्त्रयोविंशतिमन्त्राश्च महोपनिषद्गताः। तत्र "सहस्रशीर्षं पुरुषम्" इति प्रक्रम्य "य इमां महोपनिषदम्" इत्यन्तमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्तमिति ज्ञेयम् ।
ननु महोपनिषत्कोशेषु "सर्वस्य वशिनम्" इत्यादिमन्त्रा न दृश्यन्ते, कथं तेषां महोपनिषदन्तर्गतत्वमिति चेत्? सत्यम्, इयमाशङ्का [36]तप्तमुद्रासमर्थनसिद्धान्तचन्द्रिकायां परिहृता[37]। तथाहि पाद्मे-
सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः ।
विधिना वैष्णवं चक्रं धार्यं हि विधिचोदनात् ।।
दक्षिणे तु भुजे विप्रो बिभृयाद् वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ।।
एवं महोपनिषदि प्रोक्तं चक्रादिधारणमित्यर्थः। अस्य मन्त्रस्य महोपनिषत्कोशेष्वदर्शनात् कथं श्रुतित्वमिति चेन्न, चिरन्तनकोशेषूपलम्भात्। आधुनिककोशेष्वनुपलम्भश्च लेखकदोषादिना नेयः। [38]नायमेव मन्त्र आधुनिककोशेषु न[39] दृश्यते, अपि तु सर्वस्य वशिनमित्यादिकमष्टर्चं ब्रह्मसूक्तमात्रं न दृश्यते। ब्रह्मसूक्ते चायं मन्त्रः श्रूयते। न च तावता श्रुतित्वभङ्गः। भगवच्छास्त्रेषु[40] बहुषु प्रदेशेषु ब्रह्मसूक्तस्योपात्तत्वादिति ।
नन्वत्राष्टर्चं ब्रह्मसूक्तमात्रं न[41] दृश्यते इत्युक्तत्वात् सर्वस्य वशिनमित्याद्यष्टमन्त्राणामेव ब्रह्मसूक्तत्वं ज्ञायते। कथं भवता सहस्रशीर्षमित्याद्येकोनविंशतिमन्त्राणामपि ब्रह्मसूक्तत्वमुक्तमिति[42] चेदुच्यते, सच्चरित्ररक्षामनुसृत्यास्माभिरुक्तम्। तत्र हि- "अत्रापि ब्रह्मसूक्तपरमात्मसूक्ताभ्यां महोपनिषत्पठितमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्तमेव परिगृहीतम्" (पृ. 14-15) इति। महोपनिषदाद्ये मन्त्रे "एको ह वै नारायणः" इति, "एक एव नारायण" इति पाठद्वयं ज्ञेयम् ।। 34-42 ।।
[1 मथवा- अ.।]
[2 गन्धि- अ. उ.।]
[3 त्वथ- बक. अ.।]
[4 चोद- मु. अटी., उद-बक. बख., तूद- अ.।]
[5 सा- अ. उ.।]
[6 शाबरो- मु.।]
[7 बर्हिपुष्पं स्थौणेयकुक्कुरे- मु.।]
[8 ईश्वरे पञ्चदशः पारमेश्वरे च चतुर्दशोऽध्यायः स्नपनाध्यायत्वेन प्रसिद्धः।]
[9 निराचूर्णैर्नि- अ.।]
[10 मण्‍डप- म.।]
[11 निक्षिप्येति व्याख्यानमुक्तम्, इत्येवं ग्रन्थो लापनीयः ।]
[12 च- मु.।]
[13 र्घ्यादिके- अ.।]
[14 संभवे- अ.।]
[15 मन्त्रेण- ई. ।]
[16 मालिकैः - अ. ।]
[17 र्घ्यपा- अ. म. ।]
[18 निको- अ., नीको-म. ।]
[19 एक एव- ई.।]
[20 शीर्षा पुरुष इति- ई . पा. ।]
[21 अतो निष्ठ्या- पा., अथो निष्ठ्या - अ.।]
[22 वमि- अ. म., इत्येकादशमेन- ई. ।]
[23 त्रयोदशमेन- ई. पा.।]
[24 चतुर्दशमेन- ई. पा. ।]
[25 पञ्चदशमेन- पा. ।]
[26 षोडशमेन- ई. पा. ।]
[27 न हि- अ. म. ।]
[28 पुण्ड्रं- पा. ।]
[29 धातु- म.।]
[30 तु- ई. ।]
[31 दिक्स्थि- पा.।]
[32 तु- ई. ।]
[33 तु- ई.।]
[34 षो ह वै- ई., षोऽहं वै- म. पा.।]
[35 श दिक्- अ.।]
[36 सप्त- अ. ।]
[37 सृता- अ.।]
[38 नायं मन्त्रः- अ.।]
[39 `न' नास्ति- अ.।]
[40 च्छास्त्रे- म.।]
[41 `न' नास्ति- अ.।]
[42 `उक्तम्' नास्ति- अ.।]

गन्धा[1]दिभिश्च संलिप्तमथ युक्तं स्रगादिना ।
पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम् ।। 43 ।।

धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् ।
सुधौतमहतं चाथ शाटकं विनिवेद्य च ।। 44 ।।
ततः स्नानान्तरीराजनविधिमाह- संपूर्णमिति द्वाभ्याम्। संपूर्णमित्यत्र स्नानीयशेषेणेत्यध्याहार्यम्। तथा च लक्ष्मीतन्त्रे- "स्नानशिष्टाम्बुसंपूर्णम्" (39/14) इति। ईश्वरपारमेश्वरयोरपि- "ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम्" (ई. सं. 4/149; पा. सं. 6/327) इति। मल्लकम् शरावः। एकस्मिन् पाणौ वामपाणावित्यर्थः। अपरस्मिन् दक्षिणपाणावित्यर्थः। तस्य सिद्धार्थैर्धूमा[2]यमानत्वोक्त्याऽग्नि[3]परीतत्वं ज्ञायते। धूपपात्राग्निरेव तत्र पूरणीयः। मूर्ध्नि भ्राम्येत्यत्र भगवन्मूर्ध्नः परितो भ्रामणम्। तच्च सकृदेव। बहिः महाद्वाराद् बहिरित्यर्थः। तथा च पारमेश्वरे-
तं कृत्वा वामपाणौ तु अपरस्मिंस्तु मल्लकम् ।
पुष्पप्रकरसंपूर्णं धूपपात्राग्निना युतम् ।।
धूमायमानं सिद्धार्थैर्धूपद्रव्येण वा सह ।
एकधा देवदेवस्य भ्रामयित्वा तु मूर्धनि ।।
दीक्षितेन जनेनैव परिचर्यापरेण तु ।
शुद्धया योषिता वापि[4] द्वारबाह्मे विसर्जयेत् ।। इति ।।
(पा. सं. 15/1004-1006)
नीराजनाङ्गार्घ्यादीनामर्पणमपीदानीं न प्रकृ(तमित्यु)क्तं तत्रैव-
कुर्यात् स्नानावसाने[5] तु ऋगाद्यध्ययनादिकम् ।
अर्घ्यादिभोगैर्यजनं वर्जयेत् तत्र सर्वदा ।। इति ।
(पा. सं. 15/1079)
एवं नीराजनस्य नैमित्तिककाम्यपूजनयोरप्यनुष्ठेयत्वं तत्प्रयोजनम्। इदानीम्, अलङ्कारासनोपचारान्ते वा, उभयत्र वाऽस्यानुष्ठानमप्युक्तं तत्रैव-
नित्ये[6] नैमित्तिके विप्र तथा काम्येऽपि पूजने ।।
अन्ततः स्नानभोगानां कुर्यान्नीराजनं विभोः ।
सर्वदोषप्रशान्त्यर्थं सर्वरक्षार्थमेव हि ।।
अलङ्कारासनोक्तानां भोगानामन्ततोऽपि वा ।
उभयत्रापि वा कुर्याद् विभवेच्छानुसारतः[7] इति ।। इति ।
(पा. सं. 14/1042)
किञ्च, स्नानान्तनीराजनकुम्भस्यार्घ्योदकैः केवलोदकैर्वा पूरणं ज्ञेयम्, "अर्घ्यपात्रोद्धृतैर्यद्वा केवलैर्गालितैः पुनः" (पा. सं. 15/1008) इत्युक्तेः ।। 42-44 ।।
[1 सुपिष्टैरुपरिष्टाच्च लिप्तं- बक. बख. अ. उ.।]
[2 र्धूय- अ. ।]
[3 पूरि- म. ।]
[4 वा तद्- मु. ।]
[5 नेऽपि- मु. ।]
[6 नित्य- अ. ।]
[7 वे चानु- अ. ।]

कचोदकापकर्षार्थमपरं देहवारिहृत् ।
अधरोत्तरवस्त्रे[1] द्वे गन्धधूपाधिवासिते ।। 45 ।।
अथाङ्गाभि[2]मर्शनार्थँ वस्त्रद्वयसमर्पणं पश्चादन्तरीयोत्तरीयसमर्पणं चाह- सुधौतमिति सार्धेन ।। 44-45 ।।
[1 वस्त्रेण - अटी., वस्त्रे च- मु. ।]
[2 `भिमर्शनार्थं..... प्रमाणेनोपलक्षित' नास्ति- अ. ।]

प्रणालभागादपरं स्थानं भद्रासनात्[1] तु वै ।
भूरिनीरघटैः[2] शुद्धं कृत्वा तत्रावतार्य च ।। 46 ।।

सपीठं भगवद्बिम्बं तद्विना वार्चितं यदि ।
खप्लुतं भावयेद् देवं निःशेषं क्षालयेत् पुनः ।। 47 ।।
भद्रासनशोधनमाह- प्रणालभागादिति द्वाभ्याम्। प्रणालभागात् "मकरास्यप्रणालं च प्रमाणेनोपलक्षितम्" (2/49) इति द्वितीयपरिच्छेदोक्तप्रकारेणाभिषेकादिजलनिर्गमनार्थकप्रणालभागविशिष्टादित्यर्थः[3]। भद्रासनात् भद्रपीठात्। अपरं स्थानं भद्रपीठं विना सर्वं गर्भगेह[4] स्थलमपीत्यर्थः। भूरिनीरघटैः शुद्धं कृत्वाऽनेकजलपूर्णकुम्भैः संक्षाल्य। तत्र परिशोधितस्थले सपीठं स्नानपीठस्थितं भगवद्बिम्बमवतार्य संस्थाप्येत्यर्थः। क्षालयेत् भद्रासनमपीत्यनुषज्यते। भद्रासनोपरि भगवद्बिम्बस्थितेस्तद्विना प्रथमं सर्वमपि स्थानं प्रक्षाल्यान्यत्र पीठोपरि बिम्बं संस्थाप्य भद्रासनमपि क्षालयेदिति भावः। तद्विना बिम्बं विना अर्चितं[5] यदि "भद्रपीठभुवो मध्ये सुश्लक्ष्णे केवले तु वा" (5/109) इति पूर्त्रोक्तप्रकारेण केवलपीठोपर्येवार्चितं चेत्, तदानीं देवं खप्लुतं भावयेत्, आकाशस्थितं ध्यात्वेत्यर्थः। निःशेषं क्षालयेद् देवस्योपरि स्थितत्वाद् एकदैव गर्भगेहस्थानं भद्रपीठमपि क्षालयेदित्यर्थः। भद्रासनोपर्येव भगवदुपवेशेन भावनायां तत्क्षालनासंभवादिति भावः। एवमेवोक्तं लक्ष्मीतन्त्रेऽपि - "[6]भद्रासनं ततः।। शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम्।" (39/17-18) इति। एवमर्थवर्णने प्रणालभागादिति विशेषणस्य न किमपि प्रयोजनम्, अतोऽर्थान्तरं वर्ण्यते। तथाहि- भद्रासनात् भद्रासनसंबन्धिन इत्यर्थः। प्रणालभागात् प्रणालाव्यवहितभागादित्यर्थः। अपरस्थानम् अन्यद्[7] भद्रासनस्थानं सर्वमपि संक्षाल्य शोधितस्थले बिम्बमवतार्य प्रणालभागमपि क्षालयेत्। अन्यत् सर्वं पूर्वोक्तमेव। `स्थानं भद्रासनस्य तु' इति पाठश्चेत्, अयमर्थः स्वरसतमो ज्ञेयः। ईश्वर (4/169-171) पारमेश्वर- (6/338-340)योरपीदमेव श्लोकद्वयमुक्तम्। अतः पारमेश्वरव्याख्याने- "तद्विना बिम्बं विना कूर्चदर्पणादिष्वर्चितं यदि पात्रस्थमात्राणामपि खप्लुतमित्येष एव न्याय्यः" इति लिखितम्। तदसंगतम्, कूर्चदर्पणादीनामप्यन्यत्र स्थापनार्हत्वात् ।। 46-47 ।।
[1 प्रक्षाल- अटी. ।]
[2 नील- अटी. ।]
[3 प्रक्षाल- अ. ।]
[4 स्थमपी- अ. ।]
[5 तम्, यदिह- अ. ।]
[6 `भद्रासनं ततः' नास्ति- अ. ।]
[7 अन्यत्र - अ. ।]

भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ।
स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना ।। 48 ।।
पुनरर्घ्यादिपरिकल्पनमाह- भूय इति। इह केवलं पुनरर्घ्यादिपरिकल्पनस्योक्तत्वान्मन्त्रासनादौ परिकल्पितार्घ्यादिभिरेव स्नानासनेऽप्यर्घ्यादिसमर्पणमिति ज्ञायते। एवमलङ्कारासनादौ कल्पितार्घ्यादीनामेव भोग्यासनादिष्वप्युपयोगो[1] ज्ञेयः, तत्र पुनरर्घ्यादिकल्पनोपपत्तेः। अत्र स्नानकुम्भं विनाऽन्येषामर्घ्यादीनां कुम्भचतुष्टयं गन्धोदकेन पूर्यमित्युक्त्या मन्त्रासनादावर्घ्यादिकुम्भपञ्चकस्य स्थापनं सिद्धं भवति।
ननु तत्र कुम्भचतुष्टयमेवोक्तमिति चेत्, सत्यम्। वयमपि जानीमः। तथापि तत्राष्टादशपरिच्छेदे वक्ष्यमाणं द्वितीयार्घ्यकलशस्थापनमप्यभिप्रेतम्, अन्यथाऽत्र स्नानकुम्भं विना कुम्भचतुष्टयासिद्धेः ।
ननु च संहितावाक्यार्थानभिज्ञोऽसि! तस्यैवमाशयः- कुम्भचतुष्टयं प्राग्वत् पूर्यमेव, किन्तु स्नानकुम्भं विनाऽन्येषामर्घ्यादीनां[2] त्रयाणामेव कल्पना ओमर्घ्यं कल्पयामीत्याद्याकारिका कार्येति बोध्येति चेन्न, [3]यतः [4]प्रधानस्नानकुम्भपूरणमनुचितम्। किञ्च, ईश्वरपारमेश्वरयोः कण्ठरवेण[5] कुम्भपञ्चकस्थापनं[6] कथयतोरपि "भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम्" (ई. 4/171; पा. 6/340) इत्येवोक्तम्। तत्र भवदुक्ताभिप्राये प्रकृते पूर्यं कुम्भपञ्चकमिति वक्तव्यम्, तथा नोक्तम्।
ननु च किमितीश्वरपारमेश्वराभिप्राये नैयत्यमस्ति, पारमेश्वरे मानसभोगयागप्रकरणे- "हृदाद्याः केसरादिषु" इति वक्तव्यत्वे सिद्धेऽपि "लक्ष्म्याद्याः केसरादिषु" (पा. 5/130) इति जयाख्यवचनमेव (12/81) प्रतिपादितम्। तद्वदिहापि किं न स्यादिति चेत्, सत्यम्। तत्र मानसयागप्रकरणे "लक्ष्म्याद्याः केसरादिषु" (पा. 5/130) इत्युक्तावपि बाह्ययागेऽपि हृन्मन्त्रादीनामेवार्चनमुक्तम्, न तथान्यत्र वा कुम्भपञ्चकं पूर्यमिति कुत्राप्युक्तम् ।। 48 ।।
[1 दिष्वु- अ. ।]
[2 दिना- अ. ।]
[3 यत्- अ. ।]
[4 वृथा- म. ।]
[5 `कण्ठरवेण' नास्ति- अ. ।]
[6 कस्य- अ. ।]

मध्येऽवतार्यो भगवान् विनिवेद्यासनं ततः ।
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम् ।। 49 ।।

विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः ।
समभ्यर्च्यार्घ्यपाद्येन पादुकाभ्यामनन्तरम् ।। 50 ।।
अथालङ्कारा[1]सनसमर्पणमाह- मध्येऽवतार्य इति सार्धेन। तत्रस्थं परमेश्वरं स्रक्चन्दनदिभिर्भोगैरलङ्कृतं विभाव्य कृतकृत्यो भवेदिति शेषः। यद्वा अलङ्कृतमित्यत्रालङ्करिष्यमाणमिति भविष्यदर्थकत्वं बोध्यम् ।। 49-50 ।।
[1 रासमर्पण- अ. ।]

देयमाचमनं भूयः पादपीठं तथैव च ।
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ।। 51 ।।

संवीज्य व्यजनेनैव मायूरेण ततेन च ।
केशप्रसारकृत् कूर्चं पुष्पताम्बूलकर्तरीम् ।। 52 ।।

निवेद्य देवदेवाय दुकूलवसने सिते ।
उपवीतं सोत्तरीयं मकुटाद्यमनन्तरम्[1] ।। 53 ।।

पादनूपुरपर्यन्तमलङ्करणमुत्तमम् ।
विचित्रं हि शिरोमाल्यं मुक्तपुष्पसमन्वितम् ।। 54 ।।

स्रग्दामसूत्रसम्बद्धमा कर्णाच्च[2]रणावधि ।
रुचिरं कङ्कणं चाथ दद्यात् प्रतिसरं ततः ।। 55 ।।

धातुभिः कुङ्कुमाद्यैर्वा [3]विचित्रं सितसूत्रजम् ।
[4]पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा ।। 56 ।।

अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ।
ललाटतिलकं हैमं मुखवासनरोचनम्[5] ।। 57 ।।

कर्णावतंसकुसुमे[6] मण्डलं दर्पणं महत् ।
प्राकारं[7] चित्रकुसुमैर्दीप्तं रत्नप्रभोज्ज्वलम् ।। 58 ।।

मृष्टधूपसमायुक्तं गुग्गुलं धूपयेच्छुभम् ।
सह घण्टारवै रम्यैश्चाल्यमानेन बाहुना ।। 59 ।।

उपानहौ सितं छत्रं शिबिकां च रथादि यत् ।
वाहनं गजपर्यन्तं सपताकं खगध्वजम् ।। 60 ।।

सितासितौ चामरौ तु मात्रावित्तमनन्तरम् ।
औपचारिकभोगानामेतेषां पूरणाय च ।। 61 ।।

भेरीमृदङ्गशङ्खाद्यैर्जयशब्दसमन्वितैः ।
गीतकैर्विविधैर्नूत्यैस्तन्त्रीवाद्यसमन्वितैः ।। 62 ।।

स्तोत्रमन्त्रैर्नमस्कारैः प्रणामैः सप्रदक्षिणैः ।
पूज्यः सपादपीठं वै दद्याद् भोज्यासनं विभोः ।। 63 ।।
अलङ्कारासने समर्पणीयानुपचारानाह- समभ्यर्च्यार्घ्यपाद्येनेत्यारभ्य प्रणामैः सप्रदक्षिणैः पूज्य इत्यन्तम्। चन्दनादिनेत्यत्रादिशब्देन कुङ्कुमादिकं गृह्यते। तथा च पारमेश्वरे- "घृष्टकुङ्कुमकस्तूरीमृगस्नेहानुलेपनम्" (6/347) इति। वीजनं च [8]आर्द्रगन्धशोषणार्थं ज्ञेयम्। तथा च लक्ष्मीतन्त्रे- "चन्दनाद्याः सुगन्धाश्च वीजनं[9] शोषणार्थकम्" (39/20) इति। केशप्रसादकृत् कूर्चं कङ्कतमित्यर्थः। तथा च लक्ष्मीतन्त्रे- "विवेचनं[10] च केशानां कङ्कतेन प्रशोधनम्" (39/19) इति। पुष्पताम्बूलकर्तरीम्। मुक्तपुष्पसमन्वितम्, मुक्तैः अग्रथितैः[11] पुष्पैः सहितमित्यर्थः। पुष्पाञ्जलिसमर्पणसहितमिति यावत्। तथा च पारमेश्वरे- "मुक्तपुष्पं ततो दद्याद् यथाकालसमुद्भवम्" (6/349) इति। लक्ष्मीतन्त्रेऽपि-
मकुटाद्या अलङ्काराः प्रदेयाः परमात्मनः[12] ।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः ।।
पुष्पाञ्जलिः पदद्वन्द्वे[13] [14]प्राकारसुमनश्चयैः। (39/21-22) इति। प्रतिसरं पवित्रमित्यर्थः। धातुभिः गैरिकादिभिः, कुङ्कुमादिभिः कुङ्कुमहरिद्रागोरोचनादिभिरित्यर्थः। तथा चेश्वरपारमेश्वरयोः-
निशारोचनया वापि पवित्राणां च धातुना ।।
केनचिद् ग्रन्थयो विप्रा[15] विधिवत् परिरञ्जयेद् ।
(ई. सं. 14/267-268; पा. सं. 12/500-501)
मृदु[16]तूलेनेति हेमरत्नाद्युपलक्षकम्। यतो हेमरत्नादिभिरपि गर्भपूरणमुपबृंहितमीश्वरादिषु। मुखवासं मुखं वास्यतेऽनेनेति मुखवासः। कर्पूरमित्यर्थः। रोचनं गोरोचनसहितम्। प्राकारं चित्रकुसुमैः रत्नप्रभोज्ज्वलं रत्नसदृशनिजप्रभाभासुरमित्यर्थः। अत्र विशेषणान्तराण्यप्युक्तानीश्वरादिषु ग्राह्याणि-
प्रभूतैस्तु महाज्वालैस्तिलतैलाज्यपूरितैः ।।
अभुक्ताहतसुश्वेतरचितैर्वर्तिवेष्टितैः ।
ग्रन्थीकृतत्वगेलाद्यैः पूजयेत् तदनन्तरम् ।। (4/183-184) इति।
मृष्टधूपसमायुक्तं [17]कृतधूपेनागर्वादिना वा विमिश्रितमित्यर्थः। कर्पूरमेलनमप्युक्तमीश्वरादिषु- "कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु (4य185) इति। अत्राज्यमिश्रणमपि कार्यम्, "धूपार्थं गुग्गुलुः साज्यो देयश्चाभावतोऽपरः" (21/35) इति समयपरिच्छेदे वक्ष्यमाणत्वात्। चाल्यमानेन बाहुना परिकल्पितैरिति शेषः। अत्र दीपधूपयोरुभयत्रापि घण्टानादसहितत्वं बोध्यम्। यतः- "आवाहने[18]ऽर्घ्ये धूपे च दीपे नैवेद्यजोषणे" (3/83) इतीश्वरादिषूक्तम्। वाहनं सुवर्णादिमयमित्यर्थः। तथा च लक्ष्मीतन्त्रे- "प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्[19]" (39/24) इति। मात्रावित्तं मीयते परिच्छिद्यते पूर्यत इति मात्रा, [20]मात्रार्थं वित्तं द्रविणम्। औपचारिकभोगानां दृष्ट्यानन्दजनकानां दीपादीनाम्, श्रोत्रानन्दजनकानां स्तुतिवादित्रगीतानां चेत्यर्थः। एत एव भोगा लक्ष्मीतन्त्रे सांदृष्टिकत्वेनाभिमानिकत्वेन च प्रतिपादिताः। तथाहि-
दृष्ट्यैव जन्यते प्रीतिर्यैस्ते सांदृष्टिका मताः ।।
शुभा रूपोल्बणास्ते च दीपप्रवहणादयः ।
भोगाः शुभकरास्तद्वत्[21] तर्पयन्ति रसैर्हि ये ।।
प्रापणाचमनीयाद्यास्ते स्युराभ्यवहारिकाः ।
[22]सुखरम्यमृदुस्पर्शा भोगैर्ये तर्पयन्त्यजम् ।।
भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः ।
गन्धाः सांस्पर्शिके केचित् [23]केचिदाभ्यवहारिके ।।
[24]निविष्टा अनिलाद्याः स्युरन्त्याः[25] पाकजगन्धिनः ।
स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये ।।
दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः ।
इत्थं चतुर्विधैर्भोगैः शास्त्रदृष्टेन वर्त्मना ।। (36/87-92) इति।
अत्र तु[26] पवित्रोत्सव[27]प्रकरणे औपचारिकसांस्पर्षिकाभ्यवहारिकत्वेन भोगत्रैविध्यस्यैव वक्ष्यमाणत्वाद् औपचारिकशब्देनैव लक्ष्मीतन्त्रोक्ताः सांदृष्टिका आभिमानिकाश्च भोगाः संगृह्यन्ते। किञ्चात्र औपचारिकभोगानामिति सांस्पर्शिकानामित्युपलक्षणम्। यतोऽत्र- "सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम्" (14-6) इति मात्रावित्तस्य सांस्पर्शिकभोगपूरकत्वमपि वक्ष्यति। अत एव पारमेश्वरे- "संपूरणार्थं भोगानां सर्वेषां द्विजसत्तम" (6/359) इति मात्रावित्तस्य सर्वभोगपूरकत्वमुपबृंहितम्। अपि च, औपचारिकभोगानां छिद्रपूरकं[28] मात्रान्तरमपि वक्ष्यति पवित्रप्रकरणे- "औपचारिकभोगानां बीजानि विहितानि वै" (14/7) इति।
एतद्बीजमात्रादानस्य कालस्तु ईश्वरपारमेश्वरयोर्भोज्यासने[29] मधुपर्काङ्गगोमात्रानिवेदनानन्तरमुक्तः[30]। बीजानि च ग्राम्याणि ग्राह्याणि, "मधुपर्कं च गोमात्रा साध्यबीजानि पश्चिमे" (18/365) इति तत्रैव महाहविःप्रकरणे उक्तत्वात्। साध्यबीजानि कर्षणा[31]दिकृतिसाध्यबीजानि[32]। ग्राम्यबीजानीति यावत्। आरण्यकबीजानां कृतिसाध्यत्वाभावादिति भावः। बीजानामलाभे गतिरप्युक्ता पारमेश्वरे-
बीजानामप्यलाभे तु [33]फलमेकं प्रशस्यते ।
बीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ।। (18/27) इति।
तत्प्रमाणादिकमपि तत्रैव विस्तरेणोक्तं द्रष्टव्यम्। तण्डुलमात्रापि द्रव्यमात्रानिवेदनसमय एव दातव्या, अन्यत्रानुक्तत्वात्। गोमात्रातिलमात्रयोः कालभेदमत्रैव वक्ष्यति। लक्ष्मीतन्त्रे तु- "मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः" (39/25) इति बहुवचनोक्त्या द्रव्यमात्रा- तण्डुलमात्रा- बीजमात्रा- तिलमात्राणां चतसृणामपि युगपद्दानमिति ज्ञायते। शालिमात्रायास्तु स्नपनमात्रनियतत्वं प्रतिपादितं पारमेश्वरे-
शालिमात्रा न कर्तव्या यागे स्नपनवर्जिते ।।
अन्या मात्राः प्रकल्प्याः स्युः सर्वस्मिन्नर्चनाविधौ । (18/29-30) इति।
अत एव लक्ष्मीतन्त्रेऽपि[34] स्नानासन एव शालिमात्रा प्रतिपादिता; गोमात्रा तु मधुपर्कानन्तरमुक्ता, पाद्मे तु सर्वा अप्येकदैव प्रतिपादिताः-
तिलान् वस्त्रं तथा हेम ताम्बूलं तण्डुलानपि ।
फलानि गव्यमाघारं गाश्च धान्यं यथा वसु ।।
गोग्रासं देशिकायैतद् दद्याद् देवस्य संनिधौ । इति ।
स्तोत्रमन्त्रैः जितन्ताद्यैरित्यर्थः। तथा च पारमेश्वरे-
स्तोत्रमन्त्रजपं कुर्याज्जितन्ताद्यं महामते ।
व्यस्तं चैव समस्तं च वाक्ययुक्तं विशेषतः ।। (6/361)
इति ।। 50-63 ।।
[1 मुकुटा- मु.।]
[2 करणा- मु., कण्ठा- उ. ।]
[3 चित्रितं- अ.।]
[4 पूजितं- मु. अटी. ।]
[5 नाम्- मु. अटी. ।]
[6 सके पुष्पे- बक. बख. अ. उ. ।]
[7 प्रकारं- बक. बख. ।]
[8 आद्य- म. ।]
[9 व्यजनं- मु. ।]
[10 शनं- अ. ।]
[11 सितैः- अ. ।]
[12 परमाद्भूताः- मु. ।]
[13 प्रकारः- अ. म. ।]
[14 सुमश्रृङ्गगैः- अ. ।]
[15 विप्र- पा. ।]
[16 दुकूले- अ., कूले- म. ।]
[17 कृतम्- म. ।]
[18 नार्घ्ये- मु., नेऽर्घ्य- अ. ।]
[19 तरम्- अ. म., चेतनेतरत्, वाहनमित्यर्थः।]
[20 वित्तार्थं द्रवि- अ. ।]
[21 राः शश्वत्- मु. ।]
[22 सुखा रम्या- मु. ।]
[23 क्वचिद- अ., केचिद- मु.।]
[24 अनिलोमाः- म., न लोमा- अ. ।]
[25 रस्याः- अ. म.।]
[26 `तु' नास्ति- अ. ।]
[27 चतुर्दशे परिच्छेदे ।]
[28 पूरक- अ.।]
[29 भोज्यासनप्रकरणमीश्वरे पञ्चमाध्याये पारमेश्वरे च षष्ठाध्यायसमाप्तौ सप्तमाध्याये च वर्तते ।]
[30 `निवेदना' नास्ति - अ. ।]
[31 णाकृति- अ. ।]
[32 `नि। ग्राम्यबीजा' नास्ति- अ. ।]
[33 मुद्ग- नु. ।]
[34 तन्त्रे हि- अ. ।]

छन्नं दुकूलतूलोत्थ[1]मसूरकवरेण तु ।
अथार्हण[2]जलं[3] स्वच्छं सुगन्धं पात्रतः[4] कृतम् ।। 64 ।।

मधुपर्कं दधिमधुघृतयुक्तमनन्तरम् ।
शीतलं तर्पणजलमथ[5] चूर्णं पुरोदितम् ।। 65 ।।

देयं निष्पुंसनार्थँ तु पुनराचमनं विभोः ।
स्वलङ्कृतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ।। 66 ।।

प्रभूतमथ नैवेद्यं भक्ष्यभोज्यान्यनेकशः ।
मधुराद्या रसाः सर्वे शाकाः सफलमूलकाः ।। 67 ।।

पानकानि पवित्राणि स्वादूनि[6] मधुपर्कवत् ।
सर्वमाचमनार्थं[7] तु प्रदद्यादर्हणोदकम्[8] ।। 68 ।।

तिलान्यथ [9]सुरत्नानि ताम्बूलं पुनरेव हि ।

अथ भोज्यासनोपचारानाह- सपादपीठमित्यादिभिः। दुकूलतूलोत्थमसूरकवरेण क्षौमाद्याच्छादितदुकू[10]लोत्थितमृद्वास्तरणेनेत्यर्थः। [11]अर्हणजलं मधुपर्काङ्गमापोशनरूपं प्रधाना[12]र्घ्योदकं पात्रतः कृतं पृथक्पात्रे[13] प्रणीतमित्यर्थः। तथा च वक्ष्यति दीक्षाधिवासपरिच्छेदे प्रधानार्घ्यविनियोगविवरणप्रकरणे- "तदम्भसा चार्हणं तु तथैव परिषेचनम्" (18/71) इति। दधिमधुघृतयुक्तमित्यत्र क्षीरमपि योज्यम्, "नाविकं मधुपर्कार्थे दधिक्षीरादिकं शुभम्" (21/27) इति लक्ष्मीतन्त्रोक्तेश्च। तर्पणजलं मधुपर्कनिवेदनानन्तरं तृप्त्यर्थं पानीयम्। तदपि प्रधानार्घ्योदकमेव, "कुर्यात् प्रणयनादानम्" (18/72) इति प्रधानार्घ्यविनियोगस्य वक्ष्यमाणत्वात्। प्रयणनं पात्रान्तरे सेचनम्, तत्पूर्वकमादानं ग्रहणमित्यर्थः। तथा च व्यक्तमुपबृंहितमीश्वरपारमेश्वरयोः- "तर्पणं संप्रतिष्ठाप्य वासितं चार्घ्यवारिणा" (ई. सं. 5/3; पा. सं. 6/376) इति। पुरोदितं चूर्णं स्नानासनोक्तमुद्वर्तनचूर्णमित्यर्थः। निष्पुंसनार्थं हस्तोद्वर्तनार्थम्। गां विनिवेद्य। इदं गोविनिवेदनं मधुपर्कछिद्रसंपूरणार्थमिति ज्ञेयम्। तथा च लक्ष्मीतन्त्रे- "देयमाचमनं पश्चान्मात्रा [14]गौर्माधुपर्किकी" (39/30) इति। एतद्गोमात्रानन्तरं बीजमात्रा[15] विनिवेदनीया। "ओषधीः शालिपूर्वाश्च स्रक्फलाढ्यं वनस्पतिम्। मूर्तिं निवेदयेत् पूर्वम्" (ई. सं. 5/7; पा. सं. 6/379-380) इतीश्वरादिषु प्रतिपादनात्। प्रभूतं प्रचुरमित्यर्थः। नैवेद्यं पायसान्नादिहविरष्टकम्। भक्ष्याणि अपूपानि, भोज्यानि फलानि। तथा च पारमेश्वरे- "भक्ष्याण्यपूपपूर्वाणि भोज्यानि तु फलानि च। लेह्यानि मधुपूर्वाणि चोष्याण्याम्रादिकान्यपि।। पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च।" (18/386-387) इति। मधुराद्या रसा सर्वे इत्यनेन षण्णामपि रसानां भगवन्निवेदर्नाहत्वमुक्तं भवति। यद्यपि-
अपक्वव्रीहिविहिततण्डुलेनैव साधितम् ।
[16]भक्ष्यं दुग्धाज्यसंसिक्तं गुलखण्डफलान्वितम् ।
अक्षारलवणोपेतं देवानां हविरुच्यते ।।
(ई. 25/88-89; पा. 18/164-165)
इति मधुररसमात्रस्य देवतार्हत्वमुक्तम्, तथापि व्रतयज्ञादिविषयत्वमात्रं बोध्यम्; अन्यत्र सर्वेषामपि रसानां समर्पणीयत्वोक्तेः। तथा चेश्वरपारमेश्वरयोः-
अक्षारलवणं सिद्धं गुलक्षीरफलान्वितम् ।
शान्तये[17] व्रतयज्ञे च संसाध्यं हविरुत्तमम् ।। इति।
(ई. 25/90-91; पा. 18/167)
शाकफलमूलानां[18] ग्राह्याग्राह्यत्वविवेचनं हविःसाधनविधानं पानकादिप्रकल्पनं तत्तन्निवेदनप्रकारादिकं सर्वमीश्वरादिषु[19] विस्तरेणोक्तं द्रष्टव्यम्। सरत्नतिलमात्रा सुवर्णादिपात्रेण निवेदनीया। तथा चेश्वरे-
तिलान्यथ सुरत्नानि सुवर्णे वाथ राजते ।।
पात्रे कृत्वाऽथ मात्रार्थं देवाय विनिवेदयेत् । (5/22-23) इति।
ताम्बूलम्
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ।
जातीपूगफलोपेतं ससुगन्धच्छदं बहु ।।
कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णविमिश्रितम् ।
मातुलुङ्गफलोपेतं नालिकेलफलान्वितम् ।।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतः पतेः ।।
(ई. सं. 5/23-25)
इत्युक्तलक्षणं ज्ञेयम्। पूर्वलङ्कारासने ताम्बूलस्य समर्पितत्वात् पुनरित्युक्तम्।। 63-69 ।।
[1 त्थं- बक. अ., त्थमधूकप्र- मु. अटी. ।]
[2 णं- मु. अटी. बक. बख. ।]
[3 णं च पूजायां- अ. ।]
[4 पत्रतः- मु. अटी. ।]
[5 जलं मधि- मु., जलमधि- अटी. ।]
[6 त्वत्रापि- बक. बख. अ. उ. ।]
[7 नान्तं च- अ. ।]
[8 णादिकम्- बक. बख. अ. उ. ।]
[9 स- अ. ।]
[10 लपूरित- म. ।]
[11 हर्षण- अ.।]
[12 नार्घ्यं पा- अ. ।]
[13 `पात्रे' नास्ति- अ. ।]
[14 गौमाधुपर्किकीम्- अ.।]
[15 मात्रेऽपि निवे- अ. ।]
[16 गव्य- मु. ।]
[17 शान्तिके- पा. ।]
[18 मूलफलानां- अ. ।]
[19 ईश्वरसंहितायां पञ्चमे पारमेश्वरे च षष्ठसप्तमाध्याययोर्द्रष्टव्यम्।]

गन्धदिग्धौ करौ कृत्वा मुद्राबन्धमथाचरेत् ।। 69 ।।

मध्यमानामिकाभ्यां तु[1] द्वन्द्व[2]युक्तं करद्वयात् ।
पराङ्मुखं च सुस्पष्टं कृत्वा [3]योज्यं परस्परम् ।। 70 ।।

आमूलान्नखपर्यन्तं नैरन्तर्येण यत्नतः ।
समुत्ताने कग्तले शेषाश्चाङ्कुलस्तथा ।। 71 ।।

अधरोत्तरयोगेन वामदक्षिण[4]तस्तथा ।
तर्जन्यामूर्ध्वतोऽङ्गुष्ठे सम्मुखे सम्प्रसार्य च ।। 72 ।।

निविष्टा हृदयोद्देशे कार्याऽथ जपमाचरेत् ।

मुद्राबन्धलक्षणमाह- गन्धदिग्धावित्यारभ्य कार्येत्यन्तम्। अत्र हस्तयोर्ग्रन्थलेपनात् पूर्वं द्वितीयार्घ्योदकेन हस्तप्रक्षालनं गन्धलेपनानन्तरं तेनैवार्घ्येण हस्तयोः परस्परमर्चनं च कार्यम्। यतः- "मुद्राबन्धे कराभ्युक्षं[5] तदर्चा क्षालनं तथा" (ई. 3/96; पा. 6/117) इतीश्वरपारमेश्वरयोर्द्वितीयार्घ्यविनियोग उक्तः। तथैव मुद्राबन्धप्रकरणेऽपि-
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै ।
पाणियुग्मं यथा वै स्यात्[6] स्वच्छमत्यन्तनिर्मलम् ।।
नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम् ।
कृत्वा सद्[7]गन्धदिग्धौ तावर्घ्येणार्च्य परस्परम् ।।
मुद्रा[8] मूलादिमन्त्राणां दर्शयित्वा यथाक्रमम् ।
(ई. 5/26-28; पा. 6/400-402)
इति व्यक्तमुक्तम्। मुद्राबन्धप्रकारस्तु- मध्यमानामिकायुगलं पराङ्मुखं सुस्पष्टम् आमूलान्नखपर्यन्तं निरन्तरं यथा तथा परस्परं संयोज्य समुत्तानयोः करतलयोस्तर्जनीद्वितयं कनिष्ठाद्वितयं [9]चोत्तरोत्तरयोगेन वामदक्षिणतः कृत्वा तर्जन्यामूर्ध्वतः संमुखेऽङ्गुष्ठे संप्रसार्य इमां मुद्रां हृदये निविष्टां कुर्यात्। इयं व्यूहानां मूलमुद्रेति ज्ञेयम् ।। 69-73 ।।
[1 तु- अ. ।]
[2 युग्मं- अ. ।]
[3 चैव- अ. ।]
[4 योर्यथा- अ., योः स्थितः- उ. ।]
[5 भ्युक्षां- पा. ।]
[6 मोहात्- अ. ।]
[7 तु- पा.।]
[8 मुद्रां- ई. ।]
[9 चाधरोत्तर- म. ।]

स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ।। 73 ।।

यथाभिमतसंख्यं[1] च जपान्ते स्रग्वरैः सह ।
सम्पूज्य गन्धधूपैश्च ततस्तु भगवन्मयान्[2] ।। 74 ।।

यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च ।
तेषां मात्रावसानं चाप्यग्नौ सन्तर्पयेत् ततः ।। 75 ।।
जपमाह- [3]अथेति। स्फाटिकेनाक्षसूत्रेणेत्यत्राक्षमालाप्रतिष्ठादिकं [4]जयाख्यानुसारेण ईश्वरादिषु प्रतिपादितं[5] द्रष्टव्यम्। स्वकैर्वा करपर्वभिरित्यत्र [6]पाञ्चरात्ररक्षायां (पृ. 108) विशेष उक्तः-
कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण तु ।
अनामिकान्तं देवेशं जपेत् कोटिसहस्रकम् ।। (अर्च., पृ. 19) इति।
जपस्य वाचिकादिभेदेन फलभेद उक्तो लक्ष्मीतन्त्रे-
वाचिकं क्षुद्रकर्मार्थमुपांशुः सिद्धिकर्मणि ।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् ।। (39/35) इति ।
जपान्ते पुनर्भगवदुपचारानाह- [7]स्रग्वरैरिति कारि[8]प्रदानविधिमाह- तत इति। भगवन्मयान् भागवतानित्यर्थः, पाञ्चरात्रिकानिति यावत्। अत्र बहुवचनेन चत्वारो विवक्षिताः। तथा वक्ष्यति चतुर्दशे परिच्छेदे- "एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान्" (14/30) इति।
समभ्यर्च्येत्यत्रार्ध्यगन्धपुष्पधूपैरिति बोध्यम्। तथा चोक्तं पारमेश्वरे- "अर्घ्यालभनपुष्पैश्च धूपैरभ्यर्च्य वै ततः" इति। नैवेद्यं प्रतिपाद्य चतुर्धा विभक्तेष्वेकं भागं दत्वेत्यर्थः। तथा च पारमेश्वरे-
प्राङ्निवेदनकाले तु चतुर्धा संविभज्य तम् ।
प्रापणं मधुपर्काद्यमन्यच्चाभ्यवहारिकम् ।।
तेभ्यो [9]दद्यादेकभागमर्घ्योदकपुरस्सरम् । इति ।
मात्रावसानं मात्रादानान्तमित्यर्थः। तथा च तत्रैव - "[10]मात्रां चतुर्विधां चापि आचार्याय प्रदापयेत्"। चतुर्विधां शालितण्डुलबीजतिलभेदभिन्नामित्यर्थः। आदौ भगवन्निवेदितानामेव मात्राद्रव्याणाम्, इदानीं भागवतेभ्यः प्रदानं पार्थक्येनेति बोध्यम्। भगवन्निवेदनसमय एव आचार्याय मात्रादाने कृते पुनरिदानीं मास्त्वित्युक्तमीश्वरे-
यद्वैभ्यो देवयज्ञान्ते तन्मात्रान्तं प्रदाय तु ।
अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं निवेदयेत्[11] ।। (5/85) इति ।
एवंकारिणां पूजनमपि भगवदर्चनवद् भगवन्मन्त्रैरेव कार्यम्। तथा च लक्ष्मीतन्त्रे-
ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् ।
प्रदद्यात् प्रापणार्थं तु तेभ्यो मन्मन्त्रमुच्चरन् ।। (40/29-30) इति।
एवंकारिप्रदानस्य पञ्चमाङ्गत्वमुक्तं जयाख्ये-
अन्तःकरणयागादि यावदात्मनिवेदनम् ।।
तदाद्यमङ्गं [12]यागस्य नाम्नाऽभिगमनं महत् ।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ।।
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद ।
मध्वाज्याक्तेन दध्ना च पूजा च पशुना[13] च या ।।
तत्तृतीर्यं हि यागाङ्गं तुर्यमन्नेन पूजनम् ।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ।।
संप्रदानं तु [14]तन्नाम यागाङ्गं पञ्चमं स्मृतम् ।
वह्निसंतर्पणं षष्ठं पितृयागस्तु सप्तमः ।।
प्राणाग्निहवनं नाम्ना अनुयागस्तदष्टमम् । (22/75-80)
इति ।। 73-75 ।।
[1 संख्यां- मु. अटी. बक. बख. ।]
[2 न्मयः- मु. ।]
[3 `अथेति' नास्ति- अ. ।]
[4 जयाख्यसंहिताचतुर्दशपटलानुसारमीश्वरसंहितायां पञ्चमाध्यायारम्भे पारमेश्वरसंहितायां च षष्ठाध्यायान्ते विषयोऽयं प्रतिपादितः।]
[5 `प्रतिपादितं' नास्ति- अ. ।]
[6 पञ्च- म. ।]
[7 `स्रग्वरैरिति' नास्ति- अ. ।]
[8 कार्यप्रधान- अ. ।]
[9 दत्वा एकपाद- अ. ।]
[10 मात्रा चतुर्विधान्तापि- अ. ।]
[11 समर्पयेत्- ई.।]
[12 योगस्येत्युभयमातृकापाठः ।]
[13 नाऽपि वा - मु. ।]
[14 यन्नाम- अ. ।]

प्रमाणपरिशुद्धं च विभवानुगुणं[1] शुभम् ।
चतुरावरणं कुण्डं[2] कृत्वा[3]ऽङ्गुष्ठविभूषितम् ।। 76 ।।

त्र्यंशेना[4]र्धांशतो वापि खाताद् व्यासो[5] विधीयते ।
चक्रशङ्खा[6]म्बुजाकारं वृत्तं वा चतुरश्रकम् ।। 77 ।।

गदाद्यैश्चक्रपर्यन्तै[7]र्लाञ्छनैर्लाञ्छितं तु वा ।
अथ षष्ठमङ्गं वह्निसंतर्पणं निरूपयन्नादौ कुण्डलक्षणमाह- प्रमाणपरिशुद्धमिति सार्धद्वाभ्याम् ।। 76-78 ।।
[1 विभा- उ. ।]
[2 कुम्भं- उ. ।]
[3 ह्येष- बक., ह्योष- बख., नाभ्यष्ट- अ., भ्योष्ट- उ.।]
[4 र्धो नवांशेन- बक. बख., द्विनवांशेन- अ.।]
[5 द्वासो- मु. अटी. ।]
[6 शङ्खचक्रा- बक. ।]
[7 न्तला- मु. अटी. ।]

अग्निकार्योपयोगीनि[1] तानि यानि महामते ।। 78 ।।

स्रुक्स्रुवादीनि भाण्डानि त्वङ्कितव्यानि तैरपि ।
सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ।। 79 ।।

सुगन्धैश्च[2]न्दनाद्यैश्च पञ्चगव्यपुरस्सरैः ।

कुण्डवत् स्रुक्स्रुवादिपात्राणामपि चक्रशङ्खादिभगवल्लाञ्छनं कार्यमित्याह- अग्निकार्येति। कुण्डोल्लेखनादिकमाह- सुधाद्यैरिति। अत्रापेक्षिताः पुष्पताडनाद्यष्टविधकुण्डसंस्कारा [3]जयाख्योक्ता ईश्वरपारमेश्वरयोः संगृहीता ग्राह्याः ।। 78-80 ।।
[1 ग्यानि- बक. बख. उ. ।]
[2 न्धच- मु. अटी. ।]
[3 जयाख्यसंहितायां पञ्चदशे पटले प्रतिपादिता एते संस्कारा ईश्वरसंहितायां पञ्चमेऽध्याये पारमेश्वरसंहितायां च सप्तमाध्यायारम्भे संगृहीताः ।]

तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च ।। 80 ।।

आरभ्य दक्षिणाशाया लिखेल्लेखामुदग्गताम् ।
तस्यामुपरि संलिख्य लेखानां त्रितयं स्फुटम् ।। 81 ।।

प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम् ।

कुण्डमध्ये कुशाग्रेण प्राग्भागदक्षिणादि उत्तरान्तमेकामर्गलरेखां लिखेदित्याह- तन्मध्य इति। तदुपरि दक्षिणाद्युत्तरान्तं सान्तरालं प्रागग्रं रेखात्रयं कुर्यादित्याह- तस्यामिति। तद्रेखात्रयस्य सुषुप्नापिङ्गलेडादेवताकत्वमुक्तमीश्वर(5/67-68)पारमेश्वर(7/29)योर्ग्राह्यम् ।। 80-82 ।।

चतुर्धा प्रणवेनाथ प्रोक्षयेदर्घ्यवारिणा ।। 82 ।।

तद[1]भ्यर्च्यार्घ्यपुष्पाद्यैर्ध्यायेत् तद् भद्रपीठवत् ।
प्रणवैस्तु प्रतिष्ठानं प्राग्वदस्य समाचरेत् ।। 83 ।।
प्रणवेनार्घ्यवारिणा चतुर्धा प्रोक्षणम्, प्रणवेन पुष्पैरभ्यर्चनम्, कुण्डमध्यस्य भद्रपीठवद् ध्यान चाह- चतुर्धेति सार्धेन ।। 82-83 ।।
[1 तदर्घ्यं गन्ध- अ. ।]

चतुरश्रे स्थले कौण्डे[1] दिग्वि[2]दिगष्टके बहिः ।
सम्पूर्णपात्रं कुम्भानामष्टकं विनिवेश्य च ।। 84 ।।
कुण्डस्याष्टदिक्षु पूर्णकुम्भाष्टकस्थापनमाह- चतुरश्र इति ।। 84 ।।
[1 कुण्डे- बक. बख. ।]
[2 दिशि दिश्य- बक. बख. अ. उ., दिग्विदिशा- मु. ।]

ऊर्ध्वाधो मेखलानां च चतुर्णां दिक्चतुष्टये ।
कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ।। 85 ।।

विदिक्ष्वप्य[1]ययोगेन [2]ह्यूर्ध्वान्तमधरात् तु वै ।
तद्वदेवार्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु[3] ।। 86 ।।
कुण्डस्य बहिः प्रागादिचतुर्दिक्षु मेखलास्थकुशकूर्चेषु ऊर्ध्वाद्यधरान्तं प्रभवक्रमेण वासुदेवादीनामर्चनम्, तथैवाग्नेयादिविदिक्ष्वप्ययक्रमेणाधराद्यूर्ध्वान्तमनिरुद्धादीनामर्चनं चाह- ऊर्ध्वाध इति द्वाभ्याम्। एवं द्वात्रिंशत्कुशकूर्चेष्वर्चनं चतुर्मेखलकुण्डमात्रविषयकम्, अन्यत्रैवमनवकाशात्। अत्र विदिक्ष्वप्ययक्रमेणानिरुद्धादीनामर्चने ॐ पुरुषाय नमः, ॐ सत्याय नमः, ॐ अच्युताय नमः, ॐ भगवते वासुदेवाय नम इति पूर्वोक्तमन्त्रचतुष्टयं ज्ञेयम्,
अप्ययावसरे प्राप्ते स्मरणे चार्चने विभोः ।
शृणु मन्त्रचतुष्कं तु पुनरन्यत् समासतः ।। (5/68-69)
इत्युक्तेः। प्रभवक्रमेणार्चने जाग्रद्व्यूह[4]मन्त्रचतुष्टयं जागर्त्येव ।। 85-86 ।।
[1 प्यथ- मु. ।]
[2 तू- अ. उ. ।]
[3 वै- उ. ।]
[4 व्यूहे- म. ।]

मृदुदर्भसमूहं च नीरसं चाश्मकुट्टिमम्[1] ।
शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना[2] सह ।। 87 ।।

कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च ।
ताम्रपात्रेऽथवाऽन्यस्मिन् समादाय हुताशनम् ।। 88 ।।
कुण्डे शीघ्रमग्निप्रज्वालनसाधनदर्भचूर्णादिप्रक्षेपमाह- मृदुदर्भेति सार्धेन। गन्धाश्मना गन्धकेन, "गन्धाश्मनि तु गन्धकः" (2/9/102) इत्यमरः ।। 87-88 ।।
[1 तम्- अ. ।]
[2 गन्धम्मनासहा- मु., क्तगन्धात्मना- अटी. ।]

आरण्यं लौकिकं वाथ मणिजं दर्पणोद्भवम् ।
कालवैश्वानराख्यस्य हृदयेशस्य वै प्रभोः[1] ।। 89 ।।
अग्न्यानयनमाह- ताम्रपात्र इति। आरण्यं अर(ण्य?)संभवमित्यर्थः। अरणिनिर्मथनप्रकार उक्तो लक्ष्मीतन्त्रे-
ध्यायेत् सर्वात्मिकां शक्तिं तामेव त्वधरारणिम् ।
उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ।।
मथ्नीयात् तारया सम्यक् तथा चैवानुतारया । (40/41-42) इति।
एवमरणिजनितस्याग्नेरिदमेव जातकर्मेति ज्ञेयम्। इतः परं नामाद्यग्निसंस्काराः कार्याः, मणिजाद्यग्निस्तु गर्भाधानादिभिरेव संस्कार्यः। तथा च लक्ष्मीतन्त्रे-
लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते ।
लौकिके वापि संस्कारं निषेकादि समाचरेत् ।। (40/46) इति।
अग्नेर्निषेकादिसंस्कारविधानं तु श्रीजया[2]ख्यानुसारेणेश्वरपारमेश्वरयोः प्रतिपादितम्। तदर्थं कुण्डमध्ये लक्ष्म्यावाहनादिकमप्युक्तम्, अन्येऽपि बहवो विशेषास्तत्र तत्रापेक्षितास्तयोरेव संगृहीता ग्राह्याः ।। 89 ।।
[1 विभोः- बक. बख. अ. उ.।]
[2 जयाख्यसंहितायां पञ्चदशे पटले प्रतिपादिता एते संस्कारा ईश्वरसंहितायां पञ्चमेऽध्याये पारमेश्वरसंहितायां च सप्तमाध्याये द्रष्टव्याः।]

मारुतानुगता भासा योज्या बाह्याग्निना सह ।
भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ।। 90 ।।
स्वहृदयस्थितभगवत्तेजसः पात्रस्थाग्निना संयोजनमाह- कालेति। प्रसिद्धं[1] हि कालवैश्वानराख्यत्वं भगवतः। तथा च पौष्करे विष्वक्सेनार्चनप्रकरणे-
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो[2] विभोः ।
स एव द्विज देवो[3] हि विष्वक्सेनः प्रकीर्तितः ।।
स्थित आहवनीयादिभेदेन मखयाजिनाम् ।
[4]ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ।। (20/54-55) इति।
मारुतानुगता मारुतो रेचकरूप इत्यर्थः। मन्त्र एव मारुत इत्यर्थः, उभयथाप्युक्तमीश्वरादिषु[5]- "मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्" (5/86) इति, "विरेच्य[6]विरेच्य विन्यसेत् तस्मिन् वह्निपात्रे पुरार्चिते" (5/87) इति। भासा तेजस्संज्ञो भगवतः षष्ठो गुण इत्यर्थः। तथा वक्ष्यति नृसिंहकल्पपरिच्छेदे-
व्यस्तो गुणगणात् षष्ठस्तेजो नाम गुणो हि यः ।।
परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् ।
ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ।। (17/111-112) इति ।। 90 ।।
[1 प्रसिद्धमिति- अ. ।]
[2 त्मना- अ. ।]
[3 वः स्याद्- मु. ।]
[4 पिततमित्यशोभनः पाठः - मु. ।]
[5 आदिना पारमेश्वर (7/47-48)परिग्रहः।]
[6 विरोच्य- म. ।]

भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ।। 90 ।।

पूतं समिच्चतुष्कं तु प्रणवैरभिमन्त्रितम्[1] ।
दत्वा तदूर्ध्वे तदनु कुर्यात् परिसमूहनम् ।। 91 ।।

प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु ।
तिर्यक्[2] चाधोमुखस्तेन नखपृष्ठ[3]मदर्शयन् ।। 92 ।।
कुण्डेऽग्निस्थापनं तदूर्ध्वे प्रज्वालनार्थं समिच्चतुष्कप्रक्षेपं चाह- भ्रामयित्वेति। अत्र समिच्चतुष्कमिति याज्ञीयेन्धनानामुपलक्षणम्। तथा वक्ष्यति सप्तदशे परिच्छेदे- "पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम्" (17/113)। परिसमूहनमाह- तदन्विति। परिसमूहनं नाम कुण्डमध्ये विशकलितानामग्नीनां पुञ्जीकरणम् ।। 90-92 ।।
[1 रथ- अ. उ.।]
[2 कुर्यात्- बक. बख. ।]
[3 प्रष्ठ- मु., पृष्ठं विमर्शयन्- अटी. ।]

ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैः स्तरम् ।
दिशि दिश्युत्तराशान्तं याम्याशादौ तु [1]सान्तरम् ।। 93 ।।

चतुर्गुणैश्चतुर्धा तु [2]अग्रच्छन्नैः परस्परम् ।
प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ।। 94 ।।
परिस्तरणमाह- तत इति द्वाभ्याम्। अभग्नमूलाग्रैः समैः कुशैर्दिशि दिशि स्तरं परिस्तरणं दद्यादिति सामान्यमुक्तम्। याम्याशादौ तु उत्तराशान्तं दिक्त्रये च[3] क्रमेण चतुर्भिश्चतुर्भिः सान्तरम् अन्तरसहितं स्तरं दद्यादिति विशेष उक्तः। अत्र याम्यादित्रये चतुर्धा सान्तरालपरिस्तरणकथनं द्वन्द्वप्रसङ्गेन करिष्यमाण[4]पात्रासादनार्थमिति ज्ञेयम्। दक्षिणादित्रय एव द्वन्द्वक्रमेणासादनस्य वक्ष्यमाणत्वात् प्राग्दिशि तथा[5]सादनाभावान्निरन्तरालमेव षोडशदर्भैः परिस्तरणमिति च बोध्यम्।
अत्र प्राक्प्रान्तैरित्यनेन पूर्वपश्चिमपरिस्तरणा[6]नामुत्तराग्रत्वमप्युपलक्ष्यते। दिशि दिशि स्तरं दद्यादिति पूर्वं सामान्यत उक्तत्वात् पुनः पूर्वभागाच्च यावदुत्तरगोचरमिति विशेषः प्रदर्शितः। एत एव श्लोका बहुशः [7]पारमेश्वरादिषु प्रतिपादिताः।
अत्र पारमेश्वरव्याख्याने- "याम्याशादौ तु वा इति विकल्पः" इत्युक्तम्। तद्बुद्धिविकल्प एव, तथा पाठवर्णनेऽन्तरपदस्यागतिकत्वात्, [8]प्राग्भागेऽपि वृथा चतुर्धा परिस्तरणप्रसक्तेः, पूर्वभागाच्च यावदुत्तरगोचरमित्यस्य पौनरुक्त्यापत्तेश्च।। 93-94 ।।
[1 सादरम्- उ.।]
[2 मग्न- म. ।]
[3 चक्रश्वभ्रैः- अ. ।]
[4 पात्रसाधना- अ.।]
[5 साधया- अ.।]
[6 `मुक्ताद्युपयुक्तकूर्चः कौशेयं धूतकेशं कुण्डशोधनोपयुक्तः कुशकूर्चो विष्टरं प्रागादिकलशार्चनप्रणीतासंस्कारादिरूप' इति पाठोऽड्यारपुस्तके `णाना....मुत्तरा' इत्यस्य मध्ये दृश्यते। स चात्रानावश्यकः 77 श्लोकव्याख्यायां संशोध्य स्थापनीयः।]
[7 ईश्वरे पञ्चमाध्याये पारमेश्वरे च सप्तमाध्याये।]
[8 प्रागभावेऽपि- म. ।]

होमोपकरणं सर्वं होमभाण्डपुरस्सरम् ।
अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथात्मनः ।। 95 ।।

द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् ।
द्विरष्टसंख्यमिध्यं तु संयुक्तं च महामते ।। 96 ।।

द्वितीयेनाष्टसंख्येन मुक्तदर्भैस्तरण्डिकाम् ।
स्रुक्स्रुवौ[1] च चतुष्कं यदेकत्र विनिवेश्य तत् ।। 97 ।।

स्रग् धूपं[2] मधुपर्कं च बीजान्येकत्र वै ततः ।
कौशेयं धूतकेशं[3] तु विष्टरं च घृतं चरुम् ।। 98 ।।

आज्यस्थालीचतुष्कं[4] च निधाय तदनन्तरम् ।
प्रणीतापात्रयुगलं करकं चार्घ्यभाजनम् ।। 99 ।।
अथ परिस्तरणोपरि होमोपकरणसंनिधापनमाह- होमेति। होमभाण्डपुरस्सरं स्रुक्स्रुवपुरस्सरमित्यर्थः। "स्रुक्स्रुवादीनि भाण्डानि" (6/79) इति पूर्व[5]मेवोक्तत्वात्। प्रथमं दक्षिणपरिस्तरणे आसादनक्रममाह- दक्षिणस्यामित्यादिभिः। मुक्तदर्भैः कूर्चादिरूपेणाग्रथितैः, केवलकुशैरित्यर्थः। तैरु[6]पलक्षिता परण्डिका। स्रुक्स्रुवरजोमार्जन[7]शोधनाद्युपयुक्तः कूर्चः। कौशेयं धूतकेशम्। कुण्डशोधनोपयुक्तः कुशः कूर्चः। विष्टरं प्रागादिकलशार्चनप्रणीतासंस्काराद्युपयुक्तकूर्चम् ।। 95-99 ।।
[1 स्रुग्- सार्वत्रिकः पाठः।]
[2 धूमं- मु. ।]
[3 धौत- मु. बक. बख.।]
[4 स्थालीं - मु. अ. उ. ।]
[5 पूर्वमुक्त- अ.।]
[6 तरूप- अ.।]
[7 `मार्जनशोधककूर्चमाह' इत्येव पाठः- अ.।]

प्रणीतापात्रयुगलं करकं चार्घ्यभाजनम् ।। 99 ।।

चतुष्कमेतदपरमग्रतो विनिवेश्य च ।
प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ।। 100 ।।

पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च ।
अर्घ्यपात्रोदकेन प्राक् कृत्स्नं पावनतां नयेत् ।। 101 ।।

पश्चिमपरिस्तरणोपर्यासाद्यद्रव्याण्याह- प्रणीतेति। उत्तरपरिस्तरणे आसनान्याह- प्रादेशमात्रा इति। पक्ष्मकं (वक्ष्य?पक्ष्य)तेऽग्निप्रज्वालनार्थँ परिगृह्यत इति पक्ष्मकं व्यजनमित्यर्थः। `पक्ष परिग्रहे' (चु. 17) इति धातोः। पारमेश्वरव्याख्याने पक्ष्मकं सूक्ष्ममिति स्वेदहृद्वस्त्रविशेषणं कृतम्, तदसंगतम्, द्वन्द्वक्रमेणासादनासंभवात्। क्वचित् पारमेश्वरप्रयोगे समस्तपदभ्रान्त्या[1] पक्ष्मस्थं कं बाष्पमित्यभिप्रायेण बाष्पस्वेदहृद्वस्त्रद्वयमिति लिखितम्, तदपि विरुद्धम्, दीक्षापरिच्छेदे-
प्रागुक्तं स्रुक्स्रुवाद्यं च होमोपकरणं च यत् ।।
सर्वं पक्ष्मकपर्यन्तं बृहत्पात्रद्वयान्वितम् । (18/46-47)
इति वक्ष्यमाणत्वात्। किञ्च, पारमेश्वरव्याख्यायामासादनविषये- "अत्रैवं विवेकः" इति प्रक्रम्य स्वच्छन्दमासादनमुक्तम्। तदविवेकोत्थापितम्, यतस्तत्र दक्षिणपरिस्तरणोपरि परिध्यादीनां [2]स्रगादीनां धूतकेशादीनां चतुर्णां चतुर्णामासादनम्[3], अतः स्वाग्रतः पश्चिमपरिस्तरणोपरि प्रणीतादीनां चतुर्णामासादनम्, उत्तरपरिस्तरणोपरि समिदादीनां चासादनं कार्यमित्यर्थः सुस्पष्टमुपलभ्यते। आसादितानां प्रोक्षणमाह- अर्घ्येति। अस्मिन्नवसरे कुण्डस्य चतुर्दिक्षु परिधिस्थापनं कार्यम्, "[4]पलाशपूर्वाः समिधः साग्राः परिधयस्तु वै" (18/45) इत्यष्टादशपरिच्छेदे परिधीनां वक्ष्यमाणत्वात्। "चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत्" (5/102) इतीश्वराद्युपबृंहितत्वाच्च। एवं परिधिन्यासानन्तरं प्रागादिषु कुम्भेषु कूर्चन्यासपूर्वकमिन्द्राद्यर्चनं च कार्यम्,
विष्टराणि ततो दद्याद् हृदा कुम्भाष्के ततः ।
तेषु क्रमात् पूजयेच्च लोकपालान् स्वदिक्स्थितान् ।। (5/103)
इतीश्वरोक्तेः। जयाख्यपारमेश्वरयोः परितः कुम्भानां केवलकूर्चेष्वेव लोकपालार्चनमुक्तम्।। 99-101 ।।
[1 स्रज्या- अ. ।]
[2 स्रुगा- म. ।]
[3 `चतुर्णाम्' नास्ति- अ.।]
[4 पालाश- म. मु. ।]

आदाय सोदकं चाथ प्रणीताख्यं च भाजनम् ।
पवित्रकं तु तन्मध्ये चतुर्दर्भकृतं न्यसेत् ।। 102 ।।

उद्धृत्योद्धृत्य हस्तेन जलं तत्रैव [1]निक्षिपेत् ।
चातुरात्मीयं मन्त्रं च जपमानो हि साधकः ।। 103 ।।

भूयस्तदम्भसा सर्वं प्रोक्षयेद् विष्टरेण तु ।
शेषस्या[2]स्रावणं कुर्यात् सर्वदिक्षु [3]स्तरोपरि ।। 104 ।।

पुनरेवाम्भसाऽऽपूर्य तन्मध्ये परमेश्वरम् ।
ध्यात्वाऽर्चयित्वा संस्थाप्य त्वग्रतस्तदनन्तरम् ।। 105 ।।
प्रणीतासंस्कार[4]विधिमाह- आदायेति चतुर्भिः। चातुरात्मीयं मन्त्रं पूर्वोक्तं वासुदेवादिमन्त्रचतुष्टयमित्यर्थः ।। 102-105 ।।
[1 च- मु. अटी. ।]
[2 स्य स्रा- बक. बख. ।]
[3 ततो- अटी., स्वको- उ.।]
[4 रमाह- म. ।]

सम्प्रोक्ष्यार्घ्याम्भसा चेध्मांश्चतुर्धा संविभज्य च ।
पूजयेदर्घ्यपुष्पाभ्यां द्वादशाक्षरविद्यया ।। 106 ।।
इध्मप्रक्षेपणमाह- संप्रोक्ष्येति। द्वादशाक्षरविद्यया व्यापकद्वादशाक्षरमन्त्रेणेत्यर्थः ।। 106 ।।

प्रणीते चापरस्मिन् वै पात्रे चाग्रे कृते सति ।
सपवित्रं[1] तु तत्रार्घ्यं दत्वा चक्रं तु विन्यसेत् ।। 107 ।।

चतुर्मूर्तिं तदूर्ध्वे तु ध्यात्वाऽभ्यर्च्य[2] यथाक्रमम् ।
तत्पात्रमुत्तरस्यां च कृत्वा सम्पूज्य वै पुनः ।। 108 ।।
अन्यप्रणीतासंस्कारमाह- प्रणीत इति द्वाभ्याम् ।। 107-108 ।।
[1 सपात्रं तु तदत्रार्घ्यं - अ. उ. ।]
[2 न्यत्र- उ.।]

आज्यस्थालीमथादाय त्वाज्यं यत्प्राग् द्रवीकृतम् ।
विनिक्षिप्याज्य[1]भाण्डान्तमुच्चस्थेन करेण तु ।। 109 ।।

पुनरादाय[2] कृत्वाग्र आधारोपरि यत्नतः ।
दार्भं काण्डचतुष्कं तु द्वादशाङ्गुलसम्मितम् ।। 110 ।।

तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम् ।
अनामाङ्गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ।। 111 ।।

तैराज्यं चतुरो वारानानयेच्चतुरुन्नयेत् ।
अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु सम्मुखम् ।। 112 ।।

प्रणवेनोक्त[3]संख्येन कुण्डमध्येऽथ[4] निक्षिपेत् ।
आज्यसंस्कारमाह- आज्यस्थालीमिति सार्धैश्चतुर्भिः। अत्र द्रवीकृतमाज्यमाज्यस्थाल्यां विनिक्षिप्येत्यनेन जयाख्योक्तदशविधाज्यसंस्कारेषु - "उपाधिश्रयणं नाम [5]यदाद्रावणमुच्यते। परिवर्तनमन्यस्मिन् भाण्डे दोषा[6]पनुत्तये।। प्रसादीकरणं ह्येतत्" (15/117-118) इत्युक्तसंस्कारद्वयमुक्तं भवति। तैराज्यं चतुरो वारान् आनयेच्चतुरुन्नयेदित्यनेन-
नयेत्तच्चानयेद्विप्र [7]प्रतपाग्नौ क्षिपेत् कुशम् ।
संप्लवोत्प्लवनावेतौ संस्कारौ परिकीर्तितौ ।। (ज्या. 15/116)
इत्युक्तसंस्कारद्वयं चोक्तं भवति। अन्ये षड्विधसंस्काराश्च जयाख्योक्ता[8] ईश्वरतन्त्रे संगृहीता ग्राह्याः। उक्तसंख्यानप्रणवेन अष्टवारेणेत्यर्थः। चतुरो वारानानयेत्, चतुरुन्नयेदित्युक्तत्वात्।। 109-113 ।।

[1 भाण्डेन तूच्च- अ., आण्डेन उच्च- उ. ।]
[2 राधाय- मु. अटी. ।]
[3 वोक्तेन- मु. अ. उ.।]
[4 तु-अ., च-उ. ।]
[5 आद्रा- अ., यत्तद्- मु. ।]
[6 दोषपुनत्तये- अ. ।]
[7 प्रतापा- मु., तमग्नौ नि-मु. ।]
[8 जयाख्यसंहितायां पञ्चदशे पटलेऽत्रैवोक्ता ईश्वरसंहितायां पञ्चमेऽध्याये द्रष्टव्याः।]

स्रुक्स्रुवावथ चादाय दर्भपु[1]]ञ्जीलकेन तु ।। 113 ।।

रजोपनयनं कुर्यात् प्रक्षाल्योष्णेन वारिणा ।
निर्मलीकृत्य कूर्चेन ज्वालाभिः सम्प्रताप्य च ।। 114 ।।

प्रोक्षयित्वाऽर्घ्यतोयेन पूजयित्वा निधाय च ।
स्रुक्स्रुवसंस्कारमाह- स्रुक्स्रुवाविति द्वाभ्याम्। पूजयित्वेत्यत्र स्रुक्स्रुवाधिदेवतास्तन्मन्त्राश्च [2]जयाख्योक्ता ईश्वरपारमेश्वरयोरेव संगृहीताः ।। 113-115 ।।
[1 पुञ्जलिकेन- अटी. ।]
[2 पूर्वोक्तेष्वेव प्रकरणेषु ।]

बहुशाखैरभग्नाग्रैः समूलैः सुसमैः कुशैः ।। 115 ।।

चतुर्भिर्वामहस्तेन त्वादायाथ पवित्रकम् ।
दक्षिणा[1]मिकायां तु चतुष्काण्डविनिर्मितम् ।। 116 ।।

अङ्गुलीयकरूपं च कृत्वा वै तदनन्तरम् ।
संस्कृता[2]ज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम् ।। 117 ।।
अथ वामहस्ते वलयपवित्रधारणं दक्षिणानामिकायां पवित्रधारणं चाह- बहुशाखैरिति द्वाभ्याम्। पवित्रलक्षणं तु पारमेश्वरे-
चतुरङ्गुलमात्रं[3] तु सदा विष्ण्वधिदैवतम् ।
महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ।।
विष्ण्वधिदैवं वलयं द्वयमङ्गुलमुच्यते । (3/22-23) इति।
समिदादिषु संस्कृताज्यसेचनमाह- संस्कृतेति। विप्रुड्भिः बिन्दुभिरित्यर्थः।। 115-117 ।।
[1 णेऽना-बक. बख. अ. उ. अटी. ।]
[2 तनुं पञ्च- अ. ।]
[3 त्याज्यस्य- मु. बक. बख. उ. ।]

निःशेषदोषशान्त्यर्थमथाग्नेराहृतस्य च ।
शतं शतार्धं पादं वा त्वाहुतीनां स्वशक्तितः ।। 118 ।।

तिलानां घृतसिक्तानां शुद्धेन हविषा सह ।
होतव्यं कर्मसिद्ध्यर्थं यथा तदवधारय ।। 119 ।।

आहुत्यामुद्धृतायां च मूलमन्त्रावसानतः ।
प्रणवान्तं पदं ब्रूयादग्निं शोधय शोधय ।। 120 ।।

यथावस्थितरूपेण ततस्तेनैव बुद्धिमान् ।
दद्यात् पूर्णाहुतिं पश्चात् कृतेन तु[1] चतुष्पलीम् ।। 121 ।।
अथाग्निशुद्ध्यर्थं होममाह- निःशेषेति चतुर्भिः। चतुष्पलीं चतुष्पलमितामित्यर्थः। पलप्रमाणं तु पारमेश्वरे-
चत्वारो व्रीहयः कुञ्ज[2]स्तेऽष्टौ माञ्जिष्ठमुच्यते ।।
तच्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम् । इति ।
(18-131-132)
अस्मिन्नवसरेऽग्नेर्निषेकादिविवाहान्तसंस्कारा जिह्वाकल्पनाश्चेश्वरपारमेश्वरादिषु संगृहीता ग्राह्याः ।। 118-121 ।।

तस्य संशुद्धदोषस्य पुनरेव समाचरेत् ।
सम्बोधजनकं होमं जडभावप्रशान्तिदम् ।। 122 ।।

उच्चार्य मूलमन्त्रं तु प्रणवद्वित[1]यान्वितम् ।
जुहुयादाहुतीनां च सहस्रं शतमेव वा ।। 123 ।।

तद्वदाज्येन सन्तर्प्य दद्यात् पूर्णाहुतिं तथा[2] ।

अथाग्नेः संबोधजनकहोममाह- तस्येति सार्धद्वाभ्याम् ।। 122-124 ।।
[1 द्विद्वया- बक. बख. अ.।]
[2 तदा- बक. ।]

तदा स[1] लब्धसत्तः[2] स्यात् पश्यत्यन्तर्गतं विभुम् ।। 124 ।।

प्राणभूतमजं विष्णुं तन्मयत्वमथाश्रयेत्[3] ।
अथ सद्यज्ञनिष्ठस्य कर्मिणोऽस्यापवर्गिणः ।। 125 ।।

याति यागा[4]ङ्गभावित्वं स्वयमेव त[5]दिच्छया ।
विभजत्यात्मनात्मानं चतुर्धा कुण्डमध्यतः ।। 126 ।।

अधिभूतस्वरूपेण समाश्रित्य च दिक्क्रमम् ।
पू[6]र्वमाहवनीयाख्यस्वरूपेणाथ दक्षिणे ।। 127 ।।

समास्ते सभ्यवपुषा पश्चिमस्यामनन्तरम् ।
गार्हपत्याख्यभेदेन ततस्तिष्ठति चोत्तरे ।। 128 ।।

ओदनम्पचनात्मा तु सर्वात्मत्वेन मध्यतः ।
आधाराधेयभावेन त्वास्ते संवलिताकृतिः ।। 129 ।।
अनेन होमेनाग्निर्लब्धसत्ताको भूत्वाऽन्तर्गतं भगवन्तं दृष्ट्वा तन्मयत्वं प्राप्य स्वयमेव[7] याजककर्तृकयागाङ्गत्वमाश्रित्य चातुरात्म्याराधनार्थं स्वयमपि चतुर्धा आहवनीय-सभ्य-गार्हपत्यौदनंपचनात्मभेदैः प्रागादिषु स्वात्मत्वेन मध्ये चाधाराधेय[8]भावसंवलिताकृतिस्तिष्ठतीत्याह- तदेति सार्धैः पञ्चभिः।। 124-129 ।।
[1 `स लब्ध...याति' नास्ति- उ. ।]
[2 सत्तस्य- मु. अटी.।]
[3 श्रितम्- अटी.।]
[4 गान्न- मु. अटी. ।]
[5 यदू- मु. अटी. ।]
[6 पूर्व आ- अ. उ.।]
[7 स्वयमेव स्वयमेक एव - अ.।]
[8 तस्तुति- अ. ।]

अङ्गाराण्यर्चिषश्चैव शक्तिर्या दहनात्मिका ।
त्रिलक्षणोऽयमाधार आधेयो हुतभुग् विभुः ।। 130 ।।

आत्मयोनिस्तु[1] विश्वेशो वासुदेवः सनातनः ।
एवं ज्ञात्वा पुरा सम्यक् सत्तां वैश्वानरीं पराम् ।। 131 ।।

ततः कर्मणि वर्तेत नैष्ठिकः कृतनिश्चयः ।
कुर्यादुदकपूर्वं तु प्राग्वदावाहनं ततः ।। 132 ।।
आधाराधेयविवरणमाह- अङ्गाराणीति सार्धेन। एवं सम्यगनेन सत्तापरिज्ञानानन्तरमेव कर्मणि प्रवृत्तिमाह- एवमिति। अस्मिन्नव[2]सरेऽग्न्यर्चनमीश्वराद्युपबृंहितं ग्राह्यम् ।। 130-132 ।।
[1 योने-अ., नोऽग्ने-मु. अटी. बक. बख.।]
[2 सरेऽर्चन- अ. ।]

कुर्यादुदकपूर्वं तु प्राग्वदावाहनं ततः ।। 132 ।।

व्यक्तेर्विगलितेनैव तत्त्वेनाप्यव्ययात्मना ।

अथाग्निमध्ये भगवदावाहनमाह- कुर्यादिति। व्यक्तेर्विगलितेनेत्यनेन बिम्बादिष्वर्चितस्यैवात्रावाहनमित्यवगम्यते। तत्त्वेन मान्त्ररूपेणेत्यर्थः ।। 132-133 ।।

सर्वेश्वरस्य वै यस्माद् यद्यन्मान्त्रं महद्वपुः ।। 133 ।।

वाच्यवाचकरूपं तद् विज्ञेयममलेक्षण ।
तत्पुनः शुद्ध[1]सामान्यमुपचारविधौ स्थितम् ।। 134 ।।

यद्भोगदानमन्त्रैस्तु रहितं मान्त्र[2]मैश्वरम् ।
मन्त्रशरीरस्यैव मुख्यत्वं तस्य वाच्यवाचकरूपेण द्वैविध्यं चाह- सर्वेश्वरस्येति द्वाभ्याम्। अत्रावाहनमित्यनेन [3]भद्रपीठपरिकल्पनादिलयभोगार्चनान्तविधयोऽप्युपलक्ष्यन्ते। तथैवोपबृंहितमीश्वरादिषु[4] च ।। 133-135 ।।

[1 दद्यान्मात्रं- मु. अटी., दद्यान्मान्त्रं - बक. बख.।]
[2 शब्द- अ. उ.।]
[3 मात्र- मु. अटी.।]
[4 `भद्र' नास्ति- अ.।]

प्राक् चतुर्धा विभक्तो यस्तमादायेध्मसञ्चयम् ।। 135 ।।

आज्येनोभयतः[1] सिक्तं ब्रह्मक्षीरद्रुमोद्भवम् ।
कुण्डस्य ब्रह्मभित्तिभ्यां मध्ये भागचतुष्टये ।। 136 ।।

निदध्यादुत्तराशान्तं प्राग्भागादादितः क्रमात् ।
ईशानाग्नेयपादाभ्यां पतितं प्राक् चतुष्टयम् ।। 137 ।।

आग्नेयनैर्ऋताशाभ्यां विश्रान्तमपरं न्यसेत् ।
नैर्ऋतानिलसंस्पर्शि[2] तृतीयं विनिवेश्य च ।। 138 ।।

वाय्वीशपदसंरुद्धं चतुर्थं तु चतुष्टयम् ।
एवं चतुर्विभक्तेन सामिधेन समासतः ।। 139 ।।

कुण्डमेकं चतुर्धा वै चतुर्णां संविभज्य च ।
अग्नीनामेकदेहानां चातुरात्म्यव्यपेक्षया ।। 140 ।।

यदा य उपयोग्यः[3] स्यात्[4] यस्मिन् यस्मिन् हि वस्तुनि ।
स्वमूर्तेस्तर्पणार्थँ च कर्मणि स्थापनादिके ।। 141 ।।

तदा तदा स आदेयः स्वकात् स्थानाच्च यत्नतः ।
ततः पूर्वं प्रणीतासंस्कारकाले चतुर्धा विभक्तस्य षोडशेध्मस्येदानीं कुण्डमध्ये आ(वाह?हव)नीयादिविभागार्थं प्रागादिषु ब्रह्मस्थानभित्योर्मध्ये तत्तत्कोणद्वयसंरोधेनेध्म[5]प्रक्षेपमाह-प्राक् चतुर्धेत्यादिभिः स्वकात् स्थानाच्च यत्नत इत्यन्तैः ।। 135-142 ।।
[1 र्शं- अ., र्श-अटी.।]
[2 समिद्धेन-मु. अटी. बख.।]
[3 ग्यस्य-बक. बख.।]
[4 स्याद्धविरस्मिन्- अ.।]
[5 रोधेन प्रक्षेप- म.।]

द्वितीयमिध्ममादाय त्वष्टकाष्ठमयो हि यः ।। 142 ।।

द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तम् ।
निधाय दक्षिणस्यां च मध्य आग्नेयदिग्गतम् ।। 143 ।।
इध्मविभागादिकमाह- द्वितीयमिति। इध्माष्टकं पुरा द्विधा कृत्वा तदनन्तरं पूर्ववदुभयत आज्येन सेचनीयम्। यद्यपीश्वरपारमेश्वरयोः- "आज्येनो[1]भयतः सिक्तं ब्रह्मक्षीरद्रुमोद्भवम्। [2]समादाय द्विधा कृत्वा" (ई. सं. 5/186; पा. सं. 7/148) इति चोक्तत्वाद् इध्मानामाज्यसेकानन्तरं द्वेधा विभजनं प्रतीयते, तथापि मूलाविरोधेनार्थस्य वर्णनीयत्वात् मूले च द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तमित्युक्तत्वात्, षोडशेध्मप्रकरणेऽपि चतुर्धा विभजनानन्तरमेवाज्यसेकस्योक्तत्वाच्च पाठक्रमादर्थक्रमस्य बलीयस्त्वेन तयोरपि द्वेधाकरणानन्तरमेवाज्यसेचनमित्यर्थो वर्णनीयः। अत एवास्मत्तातपादैरीश्वरानुसारिण्यपि सात्वतामृते मूलाविरोधेनार्थो वर्णितः। कस्मिंश्चित् पारमेश्वरप्रयोगे- "आज्येन सर्वतः संसिच्य द्विधा कृत्वा" इत्युक्तम्, तद्विरुद्धम् ।। 142-143 ।।
[1 न सर्वतः- पा.।]
[2 इध्माष्टकं समा- ई.।]

निधाय दक्षिणस्यां च मध्य आग्नेयदिग्गतम् ।। 143 ।।

विश्रान्तं[1] नैर्ऋतपदे चोत्तरस्यां तथाऽपरम् ।
[2]वाय्वीशपदसंरुद्धमाज्यमादाय वै ततः ।। 144 ।।
इध्मप्रक्षेपक्रममाह- निधायेति सपादेन। अग्नौ दक्षिणस्यां मध्ये नैर्ऋताग्नेयको(ण)संरुद्धमिध्मचतुष्टयं निधाय तथैवापरं चतुष्कमुत्तरस्यां मध्ये वायव्येशानकोणसंरुद्धं निदध्यादित्यर्थः। एवं नैर्ऋताग्नेयसंरुद्धत्वोक्त्या वायव्येशानसंरुद्धत्वोक्त्या चाग्नौ दक्षिणस्यामुत्तरस्यां च पूर्वपश्चिमायतने वेध्मप्रक्षेपः कार्य इत्यर्थः सिद्ध्यति।
ननु पूर्वपश्चिमान्तमिध्मप्रक्षेपः स्वतः सिद्ध इति चेन्न, पूर्वं षोडशेध्मप्रक्षेपप्रकरणे- "ईशानाग्नेयपादाभ्यां [3]पतितं प्राक्चतुष्टयम्" (6/137) इति, "नैर्ऋतानलसंस्पर्शि [4]तृतीयं विनिवेश्य" (6/138) इति च दक्षिणोत्तरायतमपीध्मप्रक्षेपस्योक्तत्वात्। इममर्थमविज्ञाय कस्मिंश्चित् पारमेश्वरप्रयोगे वृथा पाण्डित्यं कृतम्। तथाहि- इध्माष्टकपक्षे कुण्डादन्तः दक्षिणभित्तौ मध्यत ऊर्ध्वाग्रमेकमिध्मं मूलेन संयोज्य तथा कुण्डमध्यत आग्नेये नैर्ऋते चेध्मत्रितयं निधाय तथापरचतुष्कमुत्तरभित्तिकुण्डमध्यवाय्वीशानकोणेषु निदध्यादिति ।। 143-144 ।।
[1 श्रान्तनै- बक. बख. उ.।]
[2 वारीश- मु., वागीश- उ. ।]
[3 `पतितं' नास्ति- अ.।]
[4 स्पर्शत्रितयं- अ.।]

चतुःसंख्येन मन्त्रेण प्रणवालङ्कृतेन च ।
दक्षिणे स्रुक्चतुष्कं तु जुहुयादुत्तरे तथा ।। 145 ।।

सूर्यसोमात्मकं चाग्नेर्विद्धि [1]तल्लोचनद्वयम् ।
ततोऽग्नौ दक्षिणे उत्तरे चेध्मप्रक्षेपस्थाने तत्संख्यानुगुणमाज्यहोमं तत्स्थानद्वयस्य सूर्यसोमात्मकाग्निलोचनत्वं चाह- चतुःसंख्येनेति सार्धेन। [2]जयाख्ये तु- सूर्यसोमयोस्तत्तन्मन्त्राभ्यामाहुतिद्वाराऽग्नौ दक्षिणोत्तरयोः संयोजनमुक्तम्। तदपि संगृहीतमीश्वरपारमेश्वरयोः। किञ्च, एवमाज्यभागाभ्यां पूर्वमाघारहोमोऽपि संगृहीतस्तत्रैव-
.... .... .... [3]आघाराज्यं ततः क्षिपेत् ।
इध्ममूलादथा[4]क्रान्तमिध्मोपरि संस्थितम् ।।
स्रुवमाज्येन संपूर्य सूर्यबीजेन चिन्तयेत् ।
सहस्रां[5]शुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ।।
अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु ।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात् तत[6] उत्तरे ।। इति ।। 145-146 ।।
(ई. सं. 5/188-190; पा. सं. 7/150-152)
[1 तं लो- मु. अटी. बक. बख.।]
[2 जयाख्यसंहितायां पञ्चदशे पटले, ईश्वरसंहितायां पञ्चमे, पारमेश्वरसंहितायां सप्तमे चाध्याये विषयोऽयं द्रष्टव्यः।]
[3 आघाराभ्यन्ततः- ई.।]
[4 ग्रान्त - पा.।]
[5 स्रांशुश्च- म., स्रान्तं च - अ.।]
[6 त्तु तदुत्तरे- पा.।]

एतयोरन्तरं यद् वै तदग्नेर्वदनं स्मृतम् ।। 146 ।।

तत्र[1] वै जुहुयात् पूर्वं[2] समिधां सप्तकं क्रमात् ।
एतयोरन्तरालस्य वदनत्वं तत्र सप्तसमिधां होतव्यत्वं चाह- एतयोरिति। समिधां सप्तकं समित्- पुष्प- धूप- मधुपर्क-बीज-चरु-घृतानीत्यर्थः। समिध्यते दीप्यतेऽग्निरनयेति व्युत्पत्त्या समित्पुष्पादीनां सप्तानामपि समिदित्येव व्यवहारात् ।। 146-147 ।।
[1 तत्रैव- उ.।]
[2 पूर्णं- अटी. ।]

घृतसिक्तां चतुःसंख्यामेकैकां हि सुपुष्कलाम् ।। 147 ।।

प्राक् कुङ्कुमादिना लिप्तां काष्ठसंख्यां तु होमयेत् ।
[1]स्रग्धूपं मधुपर्कं च बीजान्नाज्यं यथा[2]क्रमम् ।। 148 ।।

तत्रान्नसमिधो दाने विशेषोऽयं विधीयते ।
साधितं संस्कृताऽनौ प्राक् तन्निधायाग्रतश्चरुम् ।। 149 ।।

समुद्घाट्यावलोक्यादौ सम्प्रोक्ष्यार्घ्याम्भसा ततः ।
दर्भकाण्डचतुष्केण साग्निना तदनुस्पृशेत् ।। 150 ।।

तन्मध्ये स्रुक्चतुष्कं तु मन्त्रैराज्यस्य निक्षिपेत् ।
अथादाय स्रुचं तत्र तद्वद् दद्याच्चतुष्टयम् ।। 151 ।।

चतुरङ्गुलमानेनाऽप्यन्नग्रासमथाहरेत् ।
तन्निधाय स्रुचा[3] दर्भे तदूर्ध्वे पूर्ववद् [4]घृतम् ।। 152 ।।

दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः ।
[5]भूयोऽग्नौ स्रुक्चतुष्कं तु[6] चाज्यस्यापाद्य यत्नतः ।। 153 ।।

ततोऽन्न[7]माज्यसंसिक्तं प्राग्वत् कृत्वाहुतिं पुनः ।
दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् ।। 154 ।।

हुत्वाऽप्यन्नाहुतीनां च[8] ह्याज्याख्यां[9] जुहुयात् ततः ।
तासां होमक्रममाह- घृतसिक्तां चतुःसंख्यामित्यारभ्य आज्याख्यां जुहुयात् तत इत्यन्तम्। घृतसिक्तां घृतेनोभयतः सिक्तामित्यर्थः, "आज्येनोभयतः सिक्तम्" (6/136) इति पूर्वोक्तेः। एकैकाम् पूर्वमिध्महोमप्रकरणे चतुश्चतुस्समिधां युगपत् प्रक्षेपस्योक्तत्वादत्रापि तादृशत्वशङ्काया निवृत्त्यर्थमेकैकामित्युक्तम्। सुपुष्कलामित्यनेन कृमिभक्षितत्वादिदोषराहित्यमुच्यते। प्राग् आसादनकाल इत्यर्थः। कुङ्कुमादिना, आदिशब्देन [10]कर्पूरकस्तूर्यौ गृह्येते, स्रग्धूपमधुपर्कं स्रक् पुष्पमित्यर्थः। "ततः पुष्पमयीं दद्यात्" (40/68) इति लक्ष्मीतन्त्रोक्तेः। धूपः गुग्गुल्वादि। मधुप(र्क?र्कः) संमिलितपयोदधिमध्वाज्यम्। बीजानि मुद्गादीनि। अन्नानि पायसादीनि। आज्यं गोघृतम्। आहत्य सप्त समिधो ज्ञेयाः। यथाक्रमम् उक्तक्रममनतिक्रम्येत्यर्थः। पूर्वं काष्ठसमिधम्, ततः पुष्पम्, ततो धूपम्, [11]ततो मधुपर्कम्, ततो बीजानि, ततश्चरुम्, ततस्त्वाज्यं क्रमेण जुहुयादिति यावत्। क्वचित् सात्वतपुस्तकेषु ईश्वर(5/194)पारमेश्वर[12]पुस्तकेषु च "बीजान्याज्यं यथाक्रमम्" इत्यशुद्धपाठो लिखितः। तदनुसारेण केषुचित् पारमेश्वरप्रयोगेषु बीजाहुत्यनन्तरमाज्याहुतिस्तदनन्तरं चर्वाहुतिरिति लिखितम्, तदसंगतम्, यतः पूर्वं सामान्यतोऽन्नसमिद्दानोक्तिमन्तरा तत्रान्नसमिधो दाने विशेषोऽयं विधीयत इत्युक्तेरवतरणासंभवात्, आज्याख्यां जुहुयात् तत इति चर्वाहुत्यनन्तरमाज्याख्यसमिद्दानस्योक्तत्वाच्च। प्राक् संस्कृताग्नौ साधितमित्यत्र चरुसाधनप्रकारस्तु दीक्षा[13]प्रकरणे वक्ष्यमाणो ज्ञेयः। तन्मध्ये चरुमध्ये। आज्यस्य स्रुक्चतुष्कं निक्षिपेत्, स्रुचाज्येन चतुर्वारमभिघार्येत्यर्थः। अन्नग्रासं कुक्कुटाण्डप्रमाणमन्नकबलमित्यर्थः। "कुक्कुटाण्डप्रमाणं तु ग्रास इत्यभिधीयते" (अ[14]. सं. 121-122) इति स्मृतेः। अथादाय स्रुचं तत्र तद्वद् दद्याच्चतुष्टयमित्यत्र, तदूर्ध्वे पूर्ववद्घृतमित्यत्र, दद्यादग्नौ चतुष्कं तु इत्यत्र च स्रुवेणेति ज्ञेयम्। ततोऽन्नमाज्यसंसिक्तं प्राग्वत् कृत्वा स्रुचाऽज्येन चरुं चतुर्वारमभिघार्येत्यर्थः। पूर्वप्रयोगेणेत्यनेन स्रुचि स्रुवेण चतुरभिघारः, तत्र चरुनिक्षेपः, तदुपरि पुनश्चतुरभिघारस्रुवेणाज्याहृतिचतुष्टयम्, चर्वाहुत्यनन्तरं पुनः स्रुचाऽऽज्याहुतिचतुष्टयं च संगृह्यते। एवमन्नाहुतीनां चतुष्टयं हुत्वेत्यनेनान्नाहुतीनामपि चतुःसंख्याकत्वमेव ज्ञेयम्। एवं काष्ठसमिधोऽन्नसमिधश्च चतुःसंख्याकत्वोक्त्या पुष्पादीनां पञ्चसमिधामपि चतुःसंख्यया होमो ज्ञायते। पारमेश्वरव्याख्याने तत्प्रयोगे च षोडशसंख्ययाऽन्नाहुतयस्तत्संख्ययाऽऽज्याहुतयश्च प्रतिपादिताः। तद्भ्रान्तिमूलकम्, दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम्। हुत्वाप्यन्नाहुतीनां त्वित्यन्नाहुतिचतुष्टयस्य कण्ठरवेणोक्तत्वात्, एकैकान्नाहुतेः पुरस्तात् प्ररस्ताच्च चतुश्चतुःसंख्याक्रियमाणाज्याहुतीनां द्वात्रिंशत्संख्याकत्वाच्च।
वस्तुतस्तु बहुशः पारमेश्वरपुस्तकेष्वस्मिन् प्रकरणे च चतुष्कं तु मन्त्रैराज्यस्य निक्षिपेदित्यादि दद्यादग्नावित्यन्तग्रन्थपातादेवं व्याख्यातारः प्रयोगकार प्रयोगकाराश्च बभ्रमुरिति ज्ञेयम्। अत एव पारमेश्वरव्याख्याने- "तत्रान्तसमिधविशेषमाह- तत्रान्नसमिधो दान इति पञ्चभिः" इति लिखितम्। मध्ये पतितं श्लोकद्वयं न किञ्चिदपि तेषामाकाङ्क्षापदवीमधिरूढम् ।। 147-155 ।।
[1 स्रुग् धूपं- बक. बख. ।]
[2 क्रमात्- मु. अटी.।]
[3 स्रुचो गर्भे- अ. ।]
[4 द्रुतम्- अटी.।]
[5 श्लोकद्वयं नास्ति- बक.।]
[6 त्वप्याज्य- अ.।]
[7 न्य- मु. अटी.।]
[8 चाप्या- अ.।]
[9 भ्यां- मु.।]
[10 कस्तूरकर्पूर्यौ- अ. ।]
[11 `ततो मधुपर्कम्' नास्ति- अ.।]
[12 मुद्रिते पारमेश्वरपुस्तके `बीजान्नाज्यम्' (7य156) इत्येव पाठः।]
[13 अष्टादशे परिच्छेदे।]
[14 पाठान्तरेण सहात्र वचनमेतदुपलभ्यते।]

तदन्ते तोयनिर्मुक्तैः कुसुमैरर्घ्यमिश्रितैः ।। 155 ।।

पूजयेच्चतुरो वारान् मन्त्रैर्वा प्रणवैः प्रभुम् ।
ततोऽग्निस्थदेवानां पुष्पैश्चतुर्वारमर्चनमाह- तदन्त इति। अर्घ्यमिश्रितैराज्यर्घ्यमिलितैरित्यर्थः, अन्यथा तोयनिर्मुक्तैरित्यनेन विरोधात्। अत एवाज्येनैवार्घ्यदानादिकमुक्तं पाद्मे- "अर्घ्यपूर्वं निवेद्यान्तं सर्पिषा जुहुयात् सकृत्" इति। मन्त्रैः वासुदेवादिमन्त्रैरित्यर्थः। यद्वा प्रणवैः, बहुवचनेन चतुर्वारमुच्चरितैरित्यर्थः। मूर्तिमन्त्राः प्रतिव्यक्तिविभिन्नाः, प्रणवस्तु व्यापकत्वात् सर्वेषामेक एवेति भावः। अत्र प्रणवैरित्यनेनाष्टाक्षरादयश्चत्वारो मन्त्रा अप्युपलक्ष्यन्ते, तेषामपि प्रणवार्थविवरणरूपतया व्यापकत्वात्, तेषु प्रणवपदमन्त्रत्वेनोक्तत्वाच्च। तथा च लक्ष्मीतन्त्रे-
पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्च[1]रात्रिके ।।
विष्णवे नम इत्येवं नमो नारायणाय च ।
नमो भगवते पूर्वं वासुदेवाय चेत्यपि ।।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।।
पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरन्दर ।
ॐकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ।।
केवलस्तारकश्चैव चत्वारश्च तदादिकाः ।
पञ्चैते व्यापका मन्त्राः [2]पञ्चरात्रे प्रकीर्तिताः ।। इति।
(24/67-70, 74)
अत एव-
संप्रोक्ष्यार्घ्याम्भसा चेध्मान् चतुर्धा संविभज्य च ।
पूजयेदर्घ्यपुष्पाभ्यां द्वादशाक्षरविद्यया ।। (6/106)
इति वासुदेवाद्युद्देशेन चतुर्धा विभक्तानामिध्मानां तन्मन्त्रैरर्चनीयत्वेऽपि द्वादशाक्षरस्य व्यापकत्वाद् द्वादशाक्षरविद्ययेत्युक्तम्। एवं भद्रपीठशोधनप्रकरणेऽपि- "प्रक्षाल्य द्वादशा[3]र्णेन प्रणवाद्यन्तकेन तु" (6/4) इत्युक्तम्।
नन्वत्रोभयत्रापि व्यापकं वासुदेवद्वादशाक्षरमिति को वा नियमः, तस्य पूर्वमनुक्तत्वात्। उक्तेष्वेव योऽसौ द्वादशाक्षरः, स तु ग्राह्यः। स चाप्ययार्चनप्रकरणोक्तश्चतुर्थमन्त्रः स्यादिति चेन्न, तस्याप्ययक्रमेणार्चनप्रकरण एवोपयुक्तत्वात्, एकव्यक्तिमात्रनियततया चातुरात्म्यार्चनप्रकरणेऽनुपयुक्तत्वाच्च, अत्र केवलप्रणवेनाप्यर्चनोक्त्या उक्तेष्वेवान्यतमो ग्राह्य इति नियमाभावाच्च व्यापकं द्वादशाक्षरमेव ग्राह्यमिति सिद्धम्। एवं पुष्पार्चनान्तं नित्ययागो ज्ञेयः। तथा च लक्ष्मीतन्त्रे-
पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेत्[4] ततः।
नित्ययागोऽय[5]मेतावानूर्ध्वं(6) कामाहुतिं[7] क्षिपेत् ।।
यदि कामयमानः स्यात् तत्तद्विध्यनुरूपिणीम् । (40/71-72)
इति ।। 155-156 ।।
[1 पञ्च-म.।]
[2 पाञ्च- मु.।]
[3 शास्त्रेण- अ.।]
[4 येद् धिया- मु.।]
[5 गो ममै- मु.।]
[6 न् पूर्वं- अ.।]
[7 हुतीः- अ. म.।]
ततो मोक्षाप्तये होमं यथाशक्ति समाचरेत् ।। 156 ।।

शतपूर्वं सहस्रान्तं दद्यात् पूर्णाहुतिं ततः ।
एकं[1] मन्त्रचतुष्केण चतुर्भिश्चतुरोऽथवा ।। 157 ।।
ततः शतादिसंख्यया यथाशक्ति मोक्षार्थं होमम्, तदन्ते वासुदेवमन्त्र[2]चतुष्टयेन सकृदेव[3] पूर्णाहुतिम्, यद्वा प्रतिमन्त्रं पूर्णाहुतिचतुष्टयं जुहुयादित्याह- तत इति सार्धेन। अत्रापेक्षिताः काम्याहुतिभेदा होमद्रव्यप्रमाणादीनि स्विष्टकृत्प्रायश्चित्तपूर्णाहुतिप्रकारादयो बहवो विशेषा ईश्वरादिषु[4] प्रतिपादिता ग्राह्याः ।। 156-157 ।।
[1 एकां- अ.।]
[2 `मन्त्र' नास्ति- अ.।]
[3 स तदेव- अ.।]
[4 ईश्वरे पञ्चमाध्याये, आदिना पारमेश्वरे सप्तमाध्याये विषया इमे प्रतिपादिताः।]

प्राग्वत् पूजां पुनः कुर्याद् दर्भैः संमार्ज्य च स्रुचम् ।
यथा भवति निःस्नेहमथ प्राक्स्थापितेन तु ।। 158 ।।

पुरतश्चाम्भसाऽऽपूर्य तां च पात्रेण तेन वा ।
प्रागादौ कुण्डबाह्ये तु प्रादक्षिण्येन सेचयेत् ।। 159 ।।

पवित्रकेणाथ ऊर्ध्वे विनिक्षिप्य करेण वा ।
शेषं स्वशिरसो दद्यात् स्वस्थानेऽथ त्वधोमुखे ।। 160 ।।

निदध्याद्धोमभाण्डे ते भस्मना तदनन्तरम् ।
उत्तरपूजापूर्वकं स्रुक्स्रुवसंमार्जनपरिषेचनादिकमाह- प्राग्वदिति सपादैस्त्रिभिः। प्राग् आसादनकाले पुरतः स्वाग्रतः स्थापितेनाम्भसा अर्घ्योदकेनेत्यर्थः, "अर्घ्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम्" (ई. सं. 5/276; पा. सं. 7/245) इतीश्वरपारमेश्वरोक्तेः। तां स्रुचमित्यर्थः। चकारेण तस्या अपि दर्भैः संमार्जनमर्घ्यपूरणं चोच्यते। पात्रेण तेन वा स्रुचा स्रुवेणेत्यर्थः। ऊर्ध्वे कुण्डोर्ध्व इत्यर्थः। स्वस्थाने पूर्वं यत्रासादितौ तत्रेत्यर्थः। होमभाण्डे स्रुक्स्रुवावित्यर्थः।। 158-161 ।।

जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम् ।। 161 ।।

हृद्यंसयोर्ललाटे च कुर्याद् दीपशिखाकृति[1] ।
होमाङ्गं तिलकधारणमाह- [2]भस्मनेति। अत्र मन्त्राश्चोक्ताः पारमेश्वरे- "शिरस्तनुत्रहन्मन्त्रैर्ललाटे चांसयोर्हृदि" (7/141) इति।
एवं भस्मना तिलकधारणं वैष्णवानां विरुद्धमिति न शङ्कनीयम्, अग्निकार्याङ्गत्वात्। तथा च सच्चरित्ररक्षायामूर्ध्वपुण्ड्राधिकारे- "तत्र हि पूर्वमेव धृतोर्ध्वपुण्ड्रस्य समाराधितवासुदेवस्याग्निकार्यसमनन्तरमिदं विधीयमानं [3]तत्रैवाग्निकार्यानुप्रविष्टं मन्तव्यमायुष्मता" (पृ. 69) इति।। 161-162 ।।
[1 कृतिम्- अ., कृति- उ.।]
[2 भस्मेनेति- मु.।]
[3 तत्रत्या- मु.।]

एवं परिसमाप्ते तु अग्निकार्येऽर्पिते सति ।। 162 ।।

संविभागः पितॄणां च यथा कार्यस्तथोच्यते ।
एवं कृतस्य होमस्य भगवदर्पणानन्तरं पितृसंविभागः कार्य इत्याह- एवमिति। भगवते होमसमर्पणप्रकारस्त्वीश्व[1]रादिषु प्रदर्शितो ग्राह्यः ।। 162-163 ।।
[1 ईश्वरे पञ्चमाध्यायसमाप्तौ पारमेश्वरे सप्तमाध्यायमध्ये प्रकारोऽयं द्रष्टव्यः।]

कुण्डस्य योनिनिकटे दक्षिणाग्रान्[1] स्तरेत् कुशान् ।। 163 ।।

भद्रपीठसमीपे तु क्ष्मातले वा तदूर्ध्वतः ।
संविभागस्थानमाह- कुण्डस्येति।। 163-164 ।।
[1 शान्- अ.।]

स्तरोपरि विकीर्याथ[1] तिलान् सरजतोदकान् ।। 164 ।।

क्रमेण भावयेत् तत्र पितॄनथ पितामहान्[2] ।
तत्र दक्षिणाग्रकुशास्तरणोपरि तिलोदकविकिर[3]णपूर्वकं पित्रादीनां भावनामाह- स्तरोपरीति। अत्र पितृपितामहशब्दाभ्यां प्रतितामहवृद्धप्रतितामहौ चोपलक्ष्येते,
स्तरोर्ध्वे स्वस्वसंज्ञाभिरग्रान्तं तु यथाक्रमम् ।
भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ।।
पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।
तत्पितॄंश्चाथ शंसन्तः [4]सन्तानं स्वविभागतः ।। (7/294-295)
इति पारमेश्वरोक्तेः ।। 164-165 ।।
[1 कायार्थं- मु.।]
[2 इतः परम्- `तर्पयेदथ सर्वांश्च देवस्य विनिवेदनात्' इति पाठोऽनावश्यको दृश्यते- उ.।]
[3 विकीरण- मु.।]
[4 सन्तानमिति पदं त्रुटितम्- अ.।]

तृप्तये[1] ह्यथ सर्वेषां देवाय[2] विनिवेद्य च ।। 165 ।।

प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा[3] ।
स्तरोर्ध्वे तु निधायाथ सम्पूज्यार्घ्यादिना ततः ।। 166 ।।

क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ।
ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ।। 167 ।।

सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम् ।
अथ तेषां पिण्डनिर्वापणमर्घ्याद्यर्चनं तिलोदकप्रदानं चाह- तृप्तय इति त्रिभिः। अत्र देवाय विनिवेद्येत्यत्र पाकपात्रावशिष्टान्नादिकमिति ज्ञेयम्, निवेदितस्य पुनर्निवेदनायोगात्। तथा च पारमेश्वरे-
ये यजन्ति पितॄन् देवान् गुरूनपि तथैव च ।
स्थापितस्त्वनुयागार्थं प्रापणांशः पुरा तु यः ।
तस्मात् किञ्चित् समादाय संविभागं समाचरेत् ।
पितॄणां चैव बन्धूनामाश्रितानां तथैव च ।
संविभागावशिष्टेन स्वानुयागं समाचरेत् ।
यद्वा स्थाल्यवशिष्टं च किञ्चिदादाय पात्रगम् ।
प्राग्वन्निवेद्य देवाय तेन पित्र्यं समाचरेत् ।
ये वैश्वदेवनिरता विप्राद्या वैष्णवाश्च ते ।
यल्लभ्यं भगवद्भुक्तं तस्मादादाय चांशकम् ।
तेन कृत्वा वैश्वदेवमवशिष्टांशकेन तु ।
कुर्युः प्राणादियात्रां तु विधानेन द्विजोत्तम ।। इति ।।
सच्चरित्ररक्षायां (पृ. 127-128) चोदाहृता इमे श्लोकाः। अन्नपात्राणीत्यत्र पारमेश्वरे-
तमालकदलीपूर्वदलेषु क्षालितेषु च ।।
संविभज्य चतुर्धान्नं निधाय प्रणवेन तु । (7/299-300)
इत्युक्तं ज्ञेयम्। स्तरोर्ध्वे निधायेत्यत्र मन्त्रश्चोक्तः पारमेश्वरे-
प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोङ्कारपूर्वकैः ।
हृन्मन्त्रा[4]लङ्कृतैर्विप्र तथा संज्ञापदान्वितैः ।।
पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् । (7/303-304) इति।
पिण्डोपरि [5]दर्भैराश्छादनं पूर्वमास्तरणोपरि भावितानां पितृपितामहादीनां तत्रावाहनं च प्रतिपादितं तत्रैव-
प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना[6] ।।
नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत् ।
प्रविष्टान् भावयेन् तेषु नाडीमार्गैरनुक्रमात् ।।
पितॄनावाहयामीति स्तरोर्ध्वे प्राक्स्थितांस्ततः । (7/304-306) इति।
अर्घ्यादिनेत्यत्रादिशब्देन गन्धादयो ग्राह्याः। अप्य(थ योऽत्र नाव? ययोगतः पितॄनावाह)यामीति स्तरोर्ध्वे गतः। चातुरात्मीयैर्मन्त्रैः ॐपुरुषाय नम इत्यादिभिश्चतुर्भिः पूर्वोक्तैर्मन्त्रैरित्यर्थः। नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकं दद्यादित्यत्रैवं प्रयोगः- [7]ॐ पुरुषाय नमः, मौञ्ज्यायनगोत्राय नृसिंहशर्मणे पुरुषरूपेणे पित्रे इदं तिलोदकं ददामीति। एवं पिता[8]महादीनामप्यूह्यम्। अर्घ्यादिसमर्पणेऽप्येवमेव[9] मन्त्रा ज्ञेयाः ।। 165-168 ।।
[1 तृप्त्यर्थमथ- अ.।]
[2 देवस्य- उ.।]
[3 च-मु. अटी.।]
[4 लिङ्गितैः- मु.।]
[5 र्भैश्छा- अ.।]
[6 णुना- अ.।]
[7 पुं- अ.।]
[8 महाना- अ.।]
[9 प्येव मन्त्राः- अ.।]

ता[1]दर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ।। 168 ।।

लब्धलक्षान् परे तत्त्वे ब्राह्मणान् पाञ्चरात्रिकान् ।
प्राङ्मुखं द्वितयं चैव द्वितयं चाप्युदङ्मुखम् ।। 169 ।।

सम्पत्त्यभावेऽप्येकं वा विनिवेश्योत्तराननम् ।
अथ तेषां क्रमात् कुर्यादर्चनं चातुरात्म्यवत् ।। 170 ।।

अर्घ्यानुलेपनाद्यैस्तु भोगैर्मा[2]त्रावसानिकैः ।
तत्तत्कालोचितैः सर्वैरनुपादेयवर्जितैः ।। 171 ।।
अथ पितॄनुद्दिश्य ब्राह्मणचतुष्टयमेकं ब्राह्मणं वा भोजयेदित्याह- तादात्म्येनेति। दत्तदृष्टीन्, ब्रह्मज्ञानिन इति यावत्। भोगैः आभ्यवहारिकैरित्यर्थः। मात्रावसानिकैः भोजनानन्तर्यतिलमात्रादानान्तैरित्यर्थः। अत्रापि पितृतृ(प्ति?प्तये) पूर्वोक्त(ा) एव मन्त्राः। अन्यत् सर्वं श्राद्धवज्ज्ञेयम्। अत्रापेक्षिता बहवो विशेषाः पार[3]मेश्वरोक्ता ग्राह्याः ।। 168-171 ।।
[1 तादात्म्ये- अटी.।]
[2 र्मन्त्रा-मु. अटी. बक. बख. अ.।]
[3 पारमेश्वरे सप्तमाध्याये उक्ताः ।]

तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः ।
वाग्यताः शुद्ध[1]लक्षाश्चाप्यन्न[2]मूर्तौ जनार्दने ।। 172 ।।

येऽश्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् ।
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः ।। 173 ।।
श्राद्धभोक्तॄणां मौनं पितृतृप्तिकरमित्याह- तैरिति सार्धेन ।। 172-173 ।।
[1 बद्ध- अ.।]
[2 प्यन्ने- मु. अटी. बक. बख.।]

शुभमव्यभिचारं यत् तत् कार्यं सर्ववस्तुषु ।
यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः ।। 174 ।।
तत्रापि दुष्टस्य मौनस्य त्याज्यत्वमदुष्टस्य ग्राह्यत्वमाह- अत इति ।। 174 ।।

यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः ।। 174 ।।

कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् ।
स्वयमेव सु[1]बुद्ध्या यत् सर्ववस्तुषु [2]वर्तते ।। 175 ।।

शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ।
मौनस्य दोषगुणावाह- यदिति द्वाभ्याम् ।। 174-176 ।।
[1 स्व- बक. बख. अ. उ.।]
[2 वर्त्यते- अटी.।]

तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि[1] ।। 176 ।।

दद्यान्नैवेद्यवत्[2] सर्वं मर्यादाभ्यन्तरे[3]ऽग्रतः ।
येनाचमनपर्यन्तं कालं तिष्ठन्ति[4] वाग्यताः ।। 177 ।।
[5]अथोत्तराचमनपर्यन्तमङ्गसंकेतादिदोषाभावसिद्ध्यर्थं तदपेक्षितसर्ववस्तून्यपि तत्पुरतो मर्यादान्तराले [6](त्यादी? स्थापनीयानी)त्याह- तस्मादिति। मर्यादाकल्पनाप्रकारस्तूक्तः पारमेश्वरे- "अथास्त्रपरिजप्तेन भूतिना वाऽथ शङ्कुना। [7]मसृणेनाश्मचूर्णेन परिघां स्वधयाऽथवा।।" बहिस्तदासने कुर्यादिग्रे[8] दैर्घ्याच्छमाधिकम्[9]। [10]वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ।। (7/327-328) इति ।। 176-177 ।।

[1 पित्र्य- अटी.।]
[2 दिकं- उ.।]
[3 रे गतः- अटी.।]
[4 ति वाग्यतः- अ. उ.।]
[5 अत उत्त- उ.।]
[6 `त्यादी.....शङ्कुना' नास्ति- अ.।]
[7 स्रलयनात्म- अ.।]
[8 त्त्वग्रे- मु.।]
[9 काम्- मु.।]
[10 वैफल्या- अ.म. ।]

विधिनानेन वै नित्यं यागयज्ञे तु वैष्णवे ।
संविभागः पितॄणां च कार्यः सद्रविणैर्नरैः ।। 178 ।।
एवंविधपितृसंविभागस्य धनिकविषयतामाह- [1] विधिनेति ।। 178 ।।
[1 तस्मादिति त्रिभिः- अ.।]

कृत्वा तिलोदकान्तं वा फलमूलैः स्वशक्तितः ।
तदर्थं[1] ग्रासमात्रं तु दद्याद् गोष्वथ भैक्षुके ।। 179 ।।

तदन्यैस्तु तिलोदकं कृत्वा पितॄनुद्दिश्य यथाशक्ति फलमूलैर्ग्रासमात्रं गवे वा भिक्षवे वा देयमित्याह- कृत्वेति ।। 179 ।।
[1 तदर्धं- अटी.।]

यस्माद् दिव्यैर्महामन्त्रैर्दत्तं यत्पूजितेऽच्युते ।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ।। 180 ।।
एवं पितॄनुद्दिश्य किञ्चिद् दत्तमपि मन्त्रमहिम्ना तदनन्तं भवतीत्याह- यस्मादिति। एवमेव पितृसंविभागस्त्रिकालेष्वनुष्ठीयमानेष्वपि प्राभातिकार्चनानन्तरं माध्याह्निकार्चनानन्तरं वा सकृदेव कार्य इति ज्ञेयम्, "वह्निसंतर्पणं षष्ठं पितृयागस्तु [1]सप्तमम्" (जया. 22/79) इति। पितृसंविभागस्य भगवदाराधनाङ्गत्वोक्त्या साङ्गानुष्ठानसिद्ध्यर्थं प्रत्याराधनमनुष्ठेयमित्याशङ्का त्वीश्वरपारमेश्वरयोः परिहृता।
तथाहि-
यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् ।
तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम् ।।
अङ्गद्वयं तु पाश्चात्त्यं विना वा[2] तां समाप्य च ।
पितॄणां संविभागं च अनुयागं यथोदितम् ।।
देशिकः [3]स्वेच्छया कुर्यान्नित्यं माध्यन्दि[4]नेऽर्चने ।
त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद् द्वयम् ।। इति ।
(ई. सं. 6/76-78; पा. सं. 7/431-434)
एतेन स्वार्थपरार्थार्चनद्वयेऽप्येकेनैवानुष्ठिते सत्यपि न प्रत्येकं पितृसंविभागः कार्य इति सिद्धम्, तस्यैकस्मिन्नहनि सकृदेव कर्तव्यत्वात्।
नन्वभिगमनोपादानेज्यास्वाध्याययोगरूपपाञ्चकालिकधर्मानुष्ठानं भागवतस्य विहितम्, तत्र परार्थानधिकारिभिः स्वार्थेज्या क्रियते, तदधिकारवतां युष्माकं परार्थसंज्ञकश्रीयादवाद्र्यादिदिव्यस्थलाविर्भूतश्रीमन्नारायणाद्यर्चनेनैव कृतकृत्यत्वात् पुनः किं स्वार्थसंज्ञकस्वगृहार्चनेनेति चेत्, सत्यम्, "परार्थः सूर्यसदृशः स्वार्थस्तु गृहदीपवत्" इतीश्वरोक्तेः, सूर्यप्रकाशेनैव कृतार्थत्वेऽपि स्वगृहेऽपि दीपारोपणवत् स्वार्थार्चनस्याप्यपेक्षितत्वात्,
केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ।।
इति स्वगृहेऽपि भगवद्बिम्बार्चनस्यावश्यकत्वोक्तेः। "स्वार्थस्यापि परार्थस्य पूजायामधिकारिणः" इत्युभयत्राप्यधिकाराच्चास्माकमपि स्वार्थँ भगवदाराधनमावश्यकमिति बोध्यम् ।
ननु चाऽस्तु नाम भवतां स्वार्थपरार्थार्चनयोरधिकारः, स्वगृहे भगवदर्चनावश्यकत्वमपि। स्वार्थपरार्थाधिकारिणो भवदीया बहवः सन्ति। न हि सर्वैरपि सर्वदा परार्थयजनं क्रियते। अतः परार्थाराधनं कुर्वतैव स्वार्थाराधनमपि कार्यम्। पितृसंविभागस्तु प्रत्येकं न कार्य इति को वा नियम इति चेत्, केनोक्तं तथा। जनान्तराविद्यमानत्वदशायामेकेनैव स्वार्थपरार्थार्चनद्वयमपि कृतं चेत्, तदा परार्थं भगवन्मन्दिरे स्वगृहे [5]वाऽस्तु देवपितृसंविभागानुष्ठानम्, [6]कर्तृभेदे तु प्रत्येकानुष्ठानमित्यस्माकमप्याशयो ज्ञेयः।
नन्वेवं सति परार्थभगवन्मन्दिरेऽपि प्राभातिकार्चनादिषु कर्तृभेदे सति प्रत्यर्चनं पितृसंविभागः स्यादिति चेन्न, तत्र कर्तृभेदस्यानुक्तत्वात्, एकं कर्तारमुद्दिश्यैव प्राभातिकार्चनादिद्वादशकालविभागोक्तेः, प्रत्यर्चनं पितृसंविभागस्य कर्तव्यत्वानुक्तेश्च। न च स्वार्थेऽपि होमः पितृसंविभागश्च नोक्त एव, अत्र तु "कुण्डस्य योनिनिकटे दक्षिणाग्रांस्तरेत् कुशान्" (6/163) इति वह्निसमर्पणानन्तरं कुण्डसमीपे कर्तव्यत्वेनोक्तः पितृसंविभागः परार्थार्चनविषय इति वाच्यम्, स्वार्थे चाराधनस्यैकरूप्येणानुष्ठेयत्वात्।
ननु तर्हि भवदुक्तसंप्रदायप्रदीपिकायां स्वार्थार्चने बहुशो वैरूप्यं दृश्यते। होमः पितृसंविभागश्च नोक्त इति चेत्, सत्यम्। तत्र स्वार्थमात्राधिकारिणां सुखबोधाय श्रीमद्भाष्यकारोक्तरीत्यनुसारेणाराधनक्रमः प्रदर्शितः। स्वार्थपरार्थोभयाधिकारिभिरस्माभिस्तु स्वसिद्धान्तस्व[7]संहितोक्तक्रमेणैवोभयत्राप्याराधनप्रतिष्ठादेरनुष्ठेयत्वं बोध्यम्।
ननु श्रीसात्वताद्युक्तप्रकारेणानुष्ठानं कुर्वद्भिरपि स्वार्थे वह्निसंतर्पणं कुतो न क्रियत इति चेदुच्यते,
मुख्यकल्पे तु होमान्तां[8] नित्यनैमित्तिकात्मिकाम्[9] ।।
पूजां क्रमेण वै[10] कुर्यात् तत्तद्धोमावसानिकाम् ।
अनुकल्पे तु जप्यान्ताम्[11] (पा. सं.9/9-10)
इति जपान्तानुष्ठानस्यापि पारमेश्वराद्युपबृंहितत्वाज्वाज्जपान्तमस्माभिरनुष्ठीयत इति बोध्यमायुष्मता। अत एव नित्ये जपान्तमाराधनमुक्तम्। नित्यानुसारिण्यपि क्रियादीपे होमान्तो मुख्यकल्प एव दर्शितः ।
ननु भवत्कृतेश्वरसंहिताव्याख्याने एवं [12]पितृसंविभागः प्राभातिकार्चनमात्रानुष्ठाने होमानन्तरं कार्य इत्युक्तम्, तदसंगतम्,
प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम् ।
तदानीमवशिष्टास्तु[13] घटिकाः स्वस्य कर्मणः ।।
अनुकल्पे तु कालः स्यादेको मध्यन्दिनोऽथवा[14] ।
माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज ।। (पा. सं. 9/36-37)
इति माध्यन्दिनार्चनमात्रस्य पारमेश्वराद्युक्तत्वात् प्राभातिकार्चनमात्रस्य कुत्राप्यनुक्तत्वादिति चेत्, उच्यते- प्राभातिकार्चनमात्रस्याप्यनुष्ठानं द्वादश्यादिषु संभवतीति संतोष्टव्यमायुष्मता ।। 180 ।।
[1 सप्तमः- मु.।]
[2 घातां- ई.।]
[3 स्वेज्यया- ई.।]
[4 नार्चने- ई. पा.।]
[5 वा सकृ- अ.।]
[6 अत्र - अ.।]
[7 `स्व' नास्ति- अ.।]
[8 `न्ता....त्मिकाः । पूजाः....निकाः ।।' इति बहुवचनान्तः पाठः- पा.।]
[9 कात्मनाम्- अ. ।]
[10 वा- अ.।]
[11 जप्यान्तम्- अ.।]
[12 प्रति-अ.।]
[13 ष्टा स्व- अ. म.।]
[14 न्दिने- अ.।]

पश्चाच्छरीरयात्रार्थमभ्यर्थ्य परमेश्वरम् ।
लब्धानुज्ञस्तु[1] वै कुर्यादात्मयागं यथाविधि ।। 181 ।।

भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ।
विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ।। 182 ।।

सत्यरूपा ह्यलक्ष्या[2] चाप्यन्नदोषक्षयङ्करी ।
चेतसा चातुरात्मीया भावनीया च भावना ।। 183 ।।

रसात्माऽध्यक्षसंज्ञोऽ[3]न्ने स्वादु[4]भावे व्यवस्थितः ।
प्रद्युम्नो भगवान् रूपे चैत[5]द्वीर्ये तु लाङ्गलिन्[6] ।। 184 ।।

भोक्ता महात्मा भगवान् वासुदेवः स्वयं ह्यजः[7] ।
चतुःप्रणवसंजप्तं[8] ततोऽम्भश्चुलुकं पिबेत् ।। 185 ।।

वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् ।
हुत्वा चाभिमतैर्ग्रासैस्ततोऽश्नीयाद् यथारुचि ।। 186 ।।
अथानुयागविधिमाह- पश्चादिति षड्भिः। आत्मयागम् अनुयागमित्यर्थः।
अ[9]बात्मतत्त्वं विज्ञेयं विहितं[10] तस्य सर्वदा ।
आत्मनैवात्मसिद्ध्यर्थं यागमन्नेन तेन च ।।
सह यज्ञावशिष्टेन साम्बुना च फलादिना ।
(पौ. सं. 31/171-172)
इति पौष्करोक्तेः। पवित्रीकृत्य चाम्भसेत्यत्र सच्चरित्ररक्षायाम्- "अयोग्यजननिरीक्षितत्व-यातयामत्वादिदोषसंभावनायां[11] तन्निवृत्त्यर्थं पवित्रीकरणोक्तिः" (पृ. 125) इति व्याख्यातम्। विनिवेद्य च देवायेत्यत्राऽन्तरात्मनिवेदनं बोध्यम्। तथा च सच्चरित्ररक्षायाम्-
हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः ।
मध्यमानामिकाङ्गुष्ठैर्गृहीत्वान्नं मितं[12] पुनः ।।
प्राणाय चेत्यपानाय व्यानाय च ततः परम् ।
उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ।। (पृ. 97)
इति कर्मकाण्डवचनमुदाहृतम्। पारमेश्वरव्याख्याने तु- "देवाय स्वगृहार्चाभूताय विनिवेद्य" इति लिखितम्, तदप्रकृतम्,अस्य वाक्यस्यान्तरात्मनिवेदनपरत्वात्। तथा च सच्चरित्ररक्षायाम्- "ओदनपचने [13]शुच्यन्नं श्रपयित्वा वेद्यां भगवते [14]नयति। वेद्यां भगवन्तमिष्ट्वा तत्कारिभ्यः प्रयच्छति। कारिणोऽपि[15] प्राप्तेनान्नेन वेद्यां[16]भगवन्तमिष्ट्वा तद्धात्र उपनयन्ति। उपनीतेन [17]धाता स्वयं च कुरुते [18]शिष्टेन च भृत्यान् बिभर्ति"इत्यादिरहस्याम्नायवाक्यार्थविचारणप्रकरणे धात्र उपनयन्तीति वाक्यस्यान्तरात्मपरत्वमुक्त्वा तत्साधकत्वेन च- "विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा" (6/182) (पृ. 124) इत्यादिसात्वतवचनमुदाहृतम् ।
ननु भवदुदाहृतरहस्याम्नायवाक्येष्वेव भगवन्निवेदितान्नस्य कारिभ्यः प्रदानम्, तेनैवान्नेन कारिभिः स्वार्थभगवद्यजनं कार्यमित्युक्तं खलु, तत्पुनः कथमप्रकृतमिति चेत्, अनभिप्रायज्ञोऽसि। तस्मिन्नर्थे को वा[19] विवादः। तथा कारिप्राप्तान्नेनभगवद्यजनं सर्वसंमतम्। [20]किन्तु विनिवेद्य च देवायेत्यत्र तादृशार्थो वर्णितुं न शक्यते। यत एतद्वाक्यं नहि कारिणां कर्मानुष्ठाननिरूपकम्, अपि तु भगवन्तमिष्टवतः कारिप्रदानं कृतवतोऽनुयागं कुर्वतस्तत्प्रकारनिरूपकमिति बोध्यम्।
ननु परार्थमिष्टवता स्वार्थे भगवान् परित्याज्यः किमिति चेत्, ब्रूमः- परिग्राह्य एव [21]पत्रादिभिः पूजनीयः, स्वेन साष्टाङ्गप्रणामादिना सेव्यश्च। किन्त्वस्यापि साष्टाङ्गयजनं कर्तुं स्वस्यानवकाश इति ज्ञेयम्। अत एव पारमेश्वरादिषु द्वादशकालार्चनं कुर्वतः कालत्रयेऽप्याह्निकमात्रस्यावकाश उक्तः[22], न तु स्वार्थाराधनस्य प्रत्येकं कालः प्रदर्शितः। न च द्वादशकालार्चनं कुर्वतः स्वार्थार्चनावकाशो माऽस्तु, त्रिकालाद्यर्चनं कुर्वतः स्वार्थार्चने को विरोध इति वाच्यम्, तदानीमपि स्वार्थार्चनकालस्यानुक्तत्वमेव विरोधः। ननु-
प्रातर्मध्यन्दिनं सायं त्रयः कालाः प्रकीर्तिताः[23] ।
तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः[24] ।।
इति स्वार्थाविरोधेन परार्थाधिकृतस्य च[25] ।
एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ।।
तथैव[26] दीक्षितस्यापि सिद्धान्तरतचेतसः ।
(पा. सं. 9/36, 152-153)
इति पारमेश्वरोक्तः किं न श्रुत इति चेत्, ब्रूमः- तत्र स्वस्य कर्मण इत्यनेन स्वार्थाविरोधेनेत्यत्र स्वार्थशब्देन च स्नानादिनित्यकर्माण्येवोच्यन्ते, न स्वार्थाराधनमपि। यतस्तत्परार्थयजनवद् बह्वीभिर्घटिकाभिः कर्त्रन्तरेणैव साध्यम्। (नास्ति? अस्ति) च स्वार्थपरार्थयोरुभयोरप्येकेनैवाराधनं कार्यमिति पूर्वं भवदुक्तं खलु। तत्र किं नियामकमिति, अनुपपत्तिरेव नियामिका ।
ननु तदानीं बहुघटिकासाध्यं स्वार्थार्चनं कथं शीघ्रं साध्यत इति चेदुच्यते-
उत्सवावधिकं श्रेष्ठमाराधनमुदाहृतम् ।
होमान्तं मध्यमं प्रोक्तं प्रापणान्तमथाधमम् ।।
क्षुद्रं तु धूपदीपान्तमिदमाराधनं हरेः ।
इति पाद्मोक्तेः,
संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः ।।
नैव कुर्या[27]दपच्छेदं यजेदञ्जलिनापि माम् । (40/104-105)
इति लक्ष्मीतन्त्रोक्तेश्च लघुपक्षः साध्यत इति बोध्यम्। तथा चोक्तं पाञ्चरात्ररक्षायां तृतीयेऽधिकारे- "ईषच्छक्तौ संकुचितपूजनम्, एकोपचारमारभ्य तत्तच्छक्त्याद्यनुसारेण सहस्रोपचारान्तविधानात्" (पृ. 168) इति। "यत्पुनरुपचारलोपे प्रत्यवायादिकमुक्तम्-
गन्धहीने भयोक्तिश्च[28] पुष्पहीने[29] तु संकुलम् ।
नैवेद्यहीने दुर्भिक्षं मरणं मन्त्रहीनके ।।
अमन्त्रमविधिं चैवमकालं चैव पूजनम् ।
नित्यं राष्ट्रभयं कुर्यात् [30]तत्तद्ग्रामं तु नश्यति ।।
इत्यादि, तदेतत्सर्वं राजराष्ट्रादिसमृद्ध्यर्थं काम्याराधनेष्वन्येष्वपि पूर्णानुष्ठानशक्तस्य संपूर्णानुष्ठानद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकल्पसमर्थस्यानुकल्पेन वृत्तौ च दोषमाह, न तु नित्ये कर्मणि निष्कामस्य यथाशक्तिकरणे" (पृ. 175-176)इति च स्पष्टमुक्तम्। रसात्माऽध्यक्षसंज्ञोऽन्न इत्यत्रान्नस्य वीर्यरूपरसेषु क्रमेण संकर्षणादीनां केवलं बलवीर्यतेजोरूपेणावस्थानं भाव्यम्, बलादीनां भोज्यगुणत्वात्। भोक्ता वासुदेवस्तु ज्ञानैश्वर्यशक्तिरूपेण भाव्यः, ज्ञानादीनां भोक्तृगुणत्वात्। तथा च पारमेश्वरे महाहविः- प्रकरणे-
बलं वीर्यं च तेजश्च अर्घ्यपुष्पं समुत्क्षिपेत् ।
केव[31]लेन च सास्त्रेण[32] नेत्रमन्त्रेण भावयेत् ।।
ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः ।
स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ।।
स्पृष्ट्वा स्पृष्ट्वा यथाभोगं बद्धया ग्रासमुद्रया ।।
निवेदनीया वै विष्णोरन्नमूर्त्यन्तरस्थिताः ।
रसवीर्या[33]दिभेदोत्थास्तेजोवीर्यबलात्मकाः[34] ।। इति।
(18/378-381)
लक्ष्मीतन्त्रेऽपि-

तारिकामुच्चरन् कुर्यान्मामन्नस्थां[35] विभावयेत् ।।
सोमानन्दमयीं दिव्यां क्रमाद्यन्नाद्यतां गताम् ।
वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् ।।
ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम् ।
आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् ।। (40/96-98) इति।
अम्भश्चुलुकं पिबेदित्यत्र परिषेचनमपि कार्यम्। तथा च लक्ष्मीतन्त्रे-
अस्त्रेण तारया प्रोक्ष्य तारया परिषिच्य च ।
उपस्तीर्य तत[36]श्चापो दद्यात् प्राणाहुतिं[37] ततः ।। (40/95) इति।
वक्त्रकुण्डेऽथ तेनैवेति प्रणवेनैव प्राणाहुतयः प्रतिपादिताः। अतः प्रसिद्धप्राणाहुतिमन्त्रपरित्यागान्न भेत्तव्यम्। यतः सच्चरित्ररक्षायाम्- "येषां[38] तु तत्र भगवदसाधारणमन्त्रैर्वक्त्रकुण्डे होमो विहितः, न तेषु वैदिकमर्यादाविरोधः शङ्कनीयः, कल्पसूत्रप्रतिनियतधर्मान्तरवत् तदुपपत्तेः" (पृ. 130) इति प्रत्यपादि। एवं च प्रणवेनैव प्राणाहुतिरिति नियमोऽपि नास्ति। यतः सच्चरित्ररक्षायाम्-
येन येन तु मन्त्रेण बहिराराधनक्रमे ।
वेद्यादिस्थस्य[39] देवस्य प्रापणं विनिवेदितम् ।।
तेन तेन तु मन्त्रेण जुहुयुर्वक्त्र[40]कुण्डके ।
चतुःपञ्चत्रिधा वापि प्राण[41]पूर्वैर्द्विजोत्तम ।।
केवला भक्तिपूतास्तु त्रयीधर्मरता द्विजाः ।
प्राणापानादिभिर्मन्त्रैर्जुहुयुः पञ्चधा क्रमात् ।।
हृदयस्थाय देवाय विष्णवे सर्वजिष्णवे । (पृ. 130) इति।
नन्वेवं प्राणापानादिमन्त्रान् विना साक्षात् तदन्तरात्मभगवदसाधारणमन्त्रैराहुतिपक्षे निवेदितशेषं विना पृथगनेनानुयाग उदितः। अन्यथा निवेदितनिवेदनाख्यदोषः संभवति। अत एवात्र भोज्यं नैवेद्यपूर्वं तु समादायाथ पात्रगमिति नैवेद्यशब्दः प्रयुक्तः, न निवेदितशब्दः। नैवेद्यम् अन्तरात्मनिवेदनाय कल्पितमित्यर्थः स्वरसः। तथा सति पवित्रीकृत्य चाम्भसेत्युक्तेरपि सार्थक्यं भवतीति चेति सच्चरित्ररक्षादिकं कदापि न श्रुतवानसि, यतस्तत्र[42] सवन्दनाभिषेकन्यायेन निवेदितनिवेदनाख्यदोषः परिहृतः। निवेदितार्थकनैवेद्यशब्दा अपि बहुशस्तत्र तत्रोदाहृताः ।। 181-186 ।।

[1 ज्ञः स- बक.।]
[2 क्ष्यात्मा- अटी.।]
[3 ज्ञो वै- मु. अटी अ.।]
[4 साधु- मु. अटी.।]
[5 एत- बख. अ. उ.।]
[6 ली- अ. उ.।]
[7 त्वजः- अ. उ.।]
[8 संभक्तं- मु. बक., संभुक्तं- अटी. बख.।]
[9 असावात्मत्वं- अ.।]
[10 विहितस्य- अ. म.।]
[11 नया- मु.।]
[12 समाहितः- मु.।]
[13 शुद्ध्यन्नं- अ. म.।]
[14 नयेति- अ. म.।]
[15 `अपि' नास्ति- मु.।]
[16 `वेद्यं' नास्ति- अ. मु.।]
[17 याताः- मु., यातायाः-मु.।]
[18 शिष्येण - अ.।]
[19 `वा' नास्ति- अ.।]
[20 किञ्च- अ.।]
[21 तत्रा- अ.।]
[22 नवमाध्याये ।]
[23 यथाक्रमम्- मु.।]
[24 कर्मिणः- मु.।]
[25 तु- मु.।]
[26 तथा वै- मु.।]
[27 दव- अ. म.।]
[28 त्पत्तिः- मु.।]
[29 पुष्टि- अ.।]
[30 तद्ग्रामं तु विनश्यति- मु.।]
[31 कवचेन - मु.।]
[32 शास्त्रेण- अ.।]
[33 रूपादि- मु.।]
[34 त्मिकाः- अ. म.।]
[35 मां चान्तःस्थां - मु.।]
[36 तया चापो- मु.।]
[37 हुतीस्तया- मु. ।]
[38 एषां- अ.।]
[39 स्थलदेवस्य- म.।]
[40 जुहुयाद्- अ. ।]
[41 प्रान्तपर्वै- अ.म.।]
[42 तत्र सच्चरित्ररक्षायां 122-131 पृष्ठेषु विषयोऽयं प्रपञ्चितः ।]

समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् ।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।। 187 ।।

कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ।
प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा ।। 188 ।।

अष्टाङ्गेन नमस्कृत्य ह्युपविश्या[1]ग्रतः प्रभोः ।
आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणम्[2] ।। 189 ।।
अथैवमनुयागानन्तरं पुनराचमनपूर्वकं भगवद्गृहप्रवेशं तत्र कर्तव्याष्टाङ्गप्रणामप्रकारमागमाध्ययनरूपस्वाध्यायं चाह- समाचम्येति त्रिभिः। अष्टाष्टाङ्गेनेत्येकवचनेन सकृत्प्रणामप्रतिपादकश्लोकद्वयमिद[3]मेवेति सूच्यते। अत एव श्रीमद्भाष्यकारैरपि नित्यग्रन्थे- "भगवन्तमष्टाङ्गप्रणामेन प्रणम्य" (पृ. 187) इत्येकवचनमेव प्रयुक्तम्, अष्टाङ्गप्रणामप्रतिपादकश्लोकद्वयमिदमेवोदाहृतं च (पृ. 188)।
नन्वत्र समयपरिच्छेदे-
प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ।।
अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् ।
दूरात् प्रदक्षिणं[4] कुर्यान्निकटात् प्रतिमां विभोः ।।
दण्डवत् प्रणिपातैस्तु नमस्कुर्याच्चुतुर्दिशम् । (21/11-13)
[5]इति बहुवचनमपि वक्ष्यति। तस्य का गतिरिति चेत्, सत्यम्। तत्र चतुर्दिशमिति स्थानभेदोऽप्यस्तीति ज्ञेयम् ।
ननु च- "एकत्रिपञ्च[6]सप्तादिगणनाविषमं हि यत्" (37/53) इति विषमप्रणामनिषेधकपौष्करोक्तिः, तदनुसारिणी[7]- "तत्र प्रदक्षिणानि प्रणामांश्च युग्मान् कुर्यात्" (पृ. 114) इति पञ्चरात्ररक्षोक्तिश्च भवता न श्रुता किमिति चेत्, उच्यते- पौष्करनिष्ठानामेव तदुक्तानुष्ठानम्, सात्वतनिष्ठानां तु सकृदेव प्रणामानुष्ठानं बोध्यम्, "सकृत्ते नमः, द्विस्ते नमः" इत्यादिभिः पक्षद्वयस्यापि श्रुत्युक्तत्वात्, तथैव शिष्टाचाराच्च। आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणमित्यत्र [8]पञ्चरात्ररक्षायाम्- "तदिह भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादीनां श्रवणमननप्रवचनजपादयो वादसंवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमानाः
पारुष्यमनृतं चैव पैशुन्यं चैव[9] सर्वतः ।
[10]अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ।। (मनु. 12/6)
इत्यादिनि[11]दर्शितवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासंभवं संभूय पृथग्भूय वा स्वाध्यायीभवन्ति" (पृ. 149) इति संगृहीतं द्रष्टव्यम् ।। 187-189 ।।
[1 तो विभोः- बक. बख. अ. उ.।]
[2 णाम्- अ. उ.।]
[3 मिदह्लैः- अ.।]
[4 क्षिणी- मु. ।]
[5 इत्यपि- अ. ।]
[6 सत्तादि- अ.।]
[7 सारीणि- अ.।]
[8 पाञ्च- मु.।]
[9 चापि सर्वशः- मु.।]
[10 असंबद्ध- मु.।]
[11 इत्यादीनि- अ.।]

प्राप्ते तु सन्ध्यासमये स्नात्वा वा जघनावधि ।
क्षालयित्वा ततः कुर्याद् [1]वासःसम्परिवर्तनम् ।। 190 ।।

अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्निं यजेत् ततः ।
यथाशक्ति जपं कुर्यादासाद्य शयनं ततः ।। 191 ।।

समाधाय बहिर्देवं निरालम्बपदे स्थितम् ।
अप्रयत्नेन वै तावदनिरुद्धेन तेजसा ।। 192 ।।

सह तेनैव वै निद्रा यावदभ्येति साम्प्रतम् ।
समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ।। 193 ।।
अथ सायन्तनस्नानादिनिद्रान्तं कर्तव्यकर्मणां क्रमं संक्षेपेणाह- प्राप्त इति सार्धैस्त्रिभिः। अत्र स्नात्वेत्यादिना सन्ध्योपासनादिकमुपलक्ष्यते। देवमर्चयित्वेत्यत्रार्चनप्रकारः, अग्निं यजेदित्यत्र होमप्रकारश्च पूर्वोक्त एव ग्राह्यः। एतेन स्वार्थपरार्थयोरुभयत्रापि कालद्वयार्चनं मुख्यं भवति, अविशेषेणोक्तत्वात्। सति विभवे पारमेश्वराद्युक्तं द्वादशकालार्चनादिकं परार्थे कार्यम्, तदुद्दिश्यैवोक्तत्वात्। सायमाचमनं चानुयागान्तमिति ज्ञेयम्,
सायंप्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ।। (मनु. 2/52)
इति रात्रिभोजनस्यापि शास्त्रीयत्वात्।
नन्वत्रानुयागः कण्ठरवेण नोक्तः, लक्ष्मीतन्त्रेऽपि-
सन्ध्यामुपास्य विधिवदभिगम्य च मां धिया ।
योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा ।। (40/102)
इत्यत्रानुयागो नोक्तः, ईश्वरपारमेश्वरयोरपि- "सायन्तनार्चनं कुर्यात् षडङ्गं बलिपश्चिमम्" (ई. सं. 6/78; पा. सं. 7/437) इति, "त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चा[2]चरेद् द्वयम्" (ई. सं. 6/78; पा. सं. 7/434) इति च वह्निसंतर्पणा[3]न्तमेवार्चनमुक्तम्। एवं वचनेषु जागरूकेषु कथं रात्रावनुयागः शास्त्रीयो भवतीति चेत्, सत्यम्। अत्र सर्वत्रापि रात्रिभोजनस्य नैयत्याभावात् तथोक्तमिति ज्ञेयम्। यतः पाद्मे-
ततः पश्चिमसंध्यायां प्राप्तायां तत्र चोदितम् ।
जपहोमादिकं सर्वं कृत्वा परमपूरुषम् ।।
अर्चयित्वा यथान्यायं यथापूर्वमशेषतः ।
भुक्त्वा संविश्य शयने समुत्थाय महानिशि ।।
आचम्य प्रयतो भूत्वा ध्यात्वा परमपुरुषम् ।
इति[4] रात्रिभोजनमप्युक्तम्। ननु रात्रिभोजनस्य नैयत्याभावेन तदप्रतिपादने समर्थित एकादश्याद्युपवासदिवसेषु[5] दिवाभोजनस्यापि नैयत्याभावात् तत् कथं प्रतिपादितमिति चेत्, ब्रूमः- दिवोपवासस्य क्वाचित्कत्वाद् रात्र्युपवासस्य पञ्चपर्वादिषु बाहुल्याद् दिवारात्र्यनुयागयोः प्रतिपादनाप्रतिपादने बोध्ये ।
नित्यग्रन्थेषु[6] दिवानुयागस्याप्यनुक्तिरेवमेव समर्थिता वेदान्ताचार्यैः पञ्चरात्ररक्षायाम्- "तथाह्यपवासदिवसेष्वेकादश्यादिष्वनुयागस्य लोपो भवति। सप्ताङ्गमेव तदानीं यजनम्। अत एवानुयागस्यानियत्वव्यञ्जनाय भाष्यकाराणां तदनुक्तिः। तदर्थकालश्च तस्मिन् दिवसे स्वाध्याययोगादिष्वन्यतमेन यथोचितं [7]यापनीयः" (पृ. 167) इति। अत्र सप्ताङ्गमित्यनेनैकादश्यादिष्वपि पितृसंविभागः कार्य इत्युक्तं भवति। स च तिलोदका(न्तरूपं? न्नरूपो) न ब्राह्मणभोजनरूप इति ज्ञेयम्, यतस्तत्रैव कदाचिद् द्वादश्यादिषु प्रभाते पारणं भवति। तदर्थं पूर्वं यजने कृतेऽपि स्वकालप्राप्तं मध्यन्दिनयजनं सप्ता[8]ङ्गमिति भोजनानन्तरमपि पितृसंविभाग उक्तो नान्नश्राद्धरूपः, अपि तु तिलोदका(न्त?न्न)रूप एव ।
ननु भवता द्वादश्यादिषु प्राभातिकार्चनानन्तरमपि पितृसंविभागः कथमुक्त इति चेत्, सत्यम्। [9]तत् परार्थविषयम्, तत्र प्राभातिकार्चनस्याप्युक्तत्वात्, "तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम्" (ई. सं. 6/76; पा. सं. 7/432) इति कण्ठोक्तेश्च। स्वार्थे माध्याह्निकार्चनमात्रस्योक्तत्वात्। तदनन्तरमेव पितृसंविभागानुष्ठानमप्यस्माकमप्यविरुद्धं बोध्यम्।
ननु च स्वार्थे इज्याकाले माध्याह्निकार्चनमात्रमुचितम्। सायन्तनार्चनमपि भवता कथमङ्गीकृतमिति चेत्, सत्यम्। तद्योगाङ्गं जयाख्यपाद्मादिष्वपि कण्ठरवेणोक्तं द्रष्टव्यम्। यथाशक्ति जपं कुर्यादित्यत्रागमाध्ययनरूपस्वाध्यायमन्त्रजपो बोध्यः, प्रसिद्धजपयज्ञस्य हविर्निवेदनानन्तरमेव कर्तव्यत्वात्। तथा च पञ्चरात्ररक्षायां संग्रहः- "अथ लोहितायति भास्करे यथासूत्रं सायंसन्ध्योपासनं सायंहोमः, पुनर्यथाशक्ति भगवदभिगमनहविर्निवेदनपूर्वकं भोजनम्। केनचिन्निमित्तेन विलुप्ते भोजने प्राणाग्निहोत्रमन्त्रजपः, ततश्च रात्रियोग्यस्वाध्यायो योगश्चेति क्रमः" (पृ. 150)इति।
समाधाय बहिर्देवमित्यत्र तेन सह बहिःस्थितेन भगवता सहेत्यर्थः। निद्रा यावदभ्येति तावदन्तं बहिर्निरालम्बपदे स्थितं देवं समाधाय ध्यात्वेत्यर्थः। इह प्रयत्नपूर्वकं चित्तनिरोधं कृत्वा ध्याने कृते निद्रा न संभवति। तदभावे योगं कर्तुं चित्तस्वास्थ्यं न जायत इत्याशयेनाप्रयत्नेनानिरुद्धेन[10] चेतसेत्युक्तम्। [11]अस्य पदद्वयस्यापि समाधायेत्यत्रान्वयः। पारमेश्वरव्याख्याने तु - "अबहिः हृत्कमले" इति व्याख्यातम्। तन्मन्दम्, यतः सात्व[12]तेश्वरपारमेश्वरादिषु पञ्चरात्ररक्षादिषु (पृ. 164)च समाधाय बहिर्देवमित्येकरूपः पाठो दृश्यते। तथा पाठाङ्गीकारेऽर्थ(ा)सामञ्जस्यमपि न संभवति ।। 190-193 ।।
[1 वाससां परि- बक. बख. अ., द्वाससः परि- उ.।]
[2 चापरे- अ. म.।]
[3 नन्तर- अ.।]
[4 इति ननु- अ. ।]
[5 सेऽपि- अ.।]
[6 ग्रन्थे तु- अ.।]
[7 व्याप- अ.।]
[8 संप्राप्ताङ्ग- म.।]
[9 `तत्' नास्ति- अ.।]
[10 यत्निरु. म. ।]
[11 अद्य- अ.।]
[12 तपा- अ.।]

समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ।। 193 ।।

कमण्डलुस्थितेनैव समाचम्य तु वारिणा ।
गुरुं देवं नमस्कृत्य [1]ह्यपविश्याजिनासने ।। 194 ।।
अथ योगं दर्शयन् तत्पूर्वकृत्यमाह- समुत्थायेति सार्धेन। अयं श्लोकः पञ्चरात्ररक्षायामेव व्याख्यातः। तथाहि- "एतत्संहितानिष्ठानामेष योगकालनियमः। निश्शब्दे सर्वसुप्तिकाले चैकाग्र्यातिशयसंभावनया च तद्विधिः। तत्तत्पुरुषशक्त्याद्यनुसाराच्च तत्तत्कालविधेर्न विरोध इत्युक्तम्।" [2]तत्र-
वैणवीं[3] धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ।। (4/36)
इत्यादिभिर्मन्वाद्युपदिष्टसोदककमण्डलुधारणादिकं भगवद्योगिनोऽपि[4] विहितमिति ज्ञापनाय कमण्डलुस्थितेनैवेत्युक्तम्, निद्रान्तनिमित्ततयोत्तरकर्माङ्गतया च तन्त्रेणाचमनम्। तुशब्देन स्वाशास्त्रोक्तविशेषः, तोयालाभदशायां दक्षिणश्रवणस्पर्शश्च [5]व्यज्यते। स्मरन्ति हि-
"एवमाचमनाशक्तावलाभे सलिलस्य च ।
पूर्वोक्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् ।।" (प. पृ. 82-83)इति।
अजिनासन इति "चेलाजिनकुशोत्तरम्" (भ. गी. 6/11) इति गीते प्रधानांशग्रहणमिति ।। 193-194 ।।
[1 उप- बक.।]
[2 अत्र- मु.।]
[3 वैष्णवीं- प. अ. म.।]
[4 नोऽप्यनपोदितमिति- मु.।]
[5 व्यज्येते- मु.।]

न्यासं मन्त्रचतुष्केण कुर्यात् संहारलक्षणम् ।
आपादाज्जानुपर्यन्तमनिरुद्धं च विन्यसेत् ।। 195 ।।

प्रद्युम्नाख्यं न्यसेन्मन्त्रं नाभ्यन्तं जानुमण्डलात् ।
नाभेराकर्णदेशं[1] तु मन्त्रं[2] साङ्कर्षणं न्यसेत् ।। 196 ।।

आकर्णाद्[3] ब्रह्मरन्ध्रान्तं चतुर्थं विनिवेद्य[4] च ।
ततस्त्वभिमतेनैव त्वास्ते पद्मासनादिना ।। 197 ।।

स्वात्मना चातुरात्मीयमभिमानं समाश्रयेत् ।
समं कायशिरोग्रीवं सन्धाय[5] सह वक्षसा ।। 198 ।।
अथ वासुदेवादिमन्त्रचतुष्टयस्य स्वशरीरे संहारक्रमेण न्यासं पद्मासनादिष्वन्यतमेनोपवेशनं स्वस्मिन् चातुरात्मीयाभिमानावलम्बनं चाह- न्यासमिति सार्धैस्त्रिभिः। चातुरात्मीय[6]मभिमानं समाश्रयेदित्यत्र तत्तन्मन्त्रजपध्यानकाले तत्तन्मूर्तितादात्म्यावलम्बनं बोध्यम्, अन्यथा युगपत्सर्वमूर्तितादात्म्याश्रयणस्याशक्यत्वात् तस्य प्रत्येकमेव वक्ष्यमाणत्वाच्च। अत्र चातुरात्म्यार्चनप्रकरणादेव[7] चतुर्भिर्मन्त्रैर्योगानुष्ठानादिकमुक्तम्। नह्येकमूर्त्यर्चनविभवार्चनादिप्रकरणेऽप्येतैरेव मन्त्रैर्योगोऽनुष्ठेय इति नियमः, अपि तु तत्तत्प्रकरणानुसारिमन्त्रैरिति बोध्यम्।
ननु [8]पञ्चरात्ररक्षायामत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितान्तरनिष्ठानामपि साधारणमित्युक्तम्। एतेनैतत्संहितानिष्ठानां सर्वप्रकरणेष्वपि मन्त्रचतुष्केणैव योग इति ज्ञायते, यतस्तत्र प्रकरणान्तरनिष्ठानामपीति नोक्तमिति चेत्, ब्रूमः- अत्र[9] चातुरात्म्याराधनस्यैव विस्तरात् प्रकरणान्तरस्य संकुचितत्वात् प्रकरणान्तरेऽपि साधारणमिति नोक्तम्। संहितान्तरनिष्ठानामपि साधारणमित्यनेनैव तदर्थोऽपि किंपुनर्न्यायेन सिद्धो भवतीति ज्ञेयम्। अन्यथा सर्वेषामपि व्यूहचतुष्टयेनैव योगानुष्ठाननियमे-
कैवल्यफलदा ह्येका भोगकैवल्यदा परा ।
भोगदैव तृतीया च प्रबुद्धानां सदैव हि ।। (19/4)
इति वक्ष्यमाणपरादिमन्त्रदीक्षितृफलभेदानुसारेण कैवल्येच्छया केवलं परात्परमन्त्रं प्राप्तवतां काम्येच्छया विभवमन्त्रमात्रमधिकृतवतां च योगानुष्ठानं न संभवेत्। अतो यस्य यस्मिन् मन्त्रेऽभिरतिस्तस्य तेन योगानुष्ठानमिति सिद्धम् ।। 195-198 ।।
[1 कण्ठ- उ.।]
[2 साङ्कर्षणं च मन्त्रराट्- बक. बख. अ. उ.।]
[3 कण्ठा- उ.।]
[4 योज्य- बक. बख. अ.।]
[5 धार्य- बक. बख. अ. उ.।]
[6 त्मिकयाभि- अ., रात्मीकयाऽभि- म.।]
[7 णात्, एवं म.।]
[8 श्रीपञ्च- म.।]
[9 अतः- अ.।]

दृङ्नासाग्रगता कार्या विनिमीलितलक्षणा ।
जिह्वा तालुतलस्था च सान्तरे[1] दशनावली ।। 199 ।।

ईषदोष्ठपुटौ लग्नौ धार्ये द्वे बाहुकूर्परे[2] ।
ऊरुमध्यप्रदेशे तु हस्तौ नाभावधो[3] न्यसेत् ।। 200 ।।

अधरोत्तरयोगेन वामदक्षिणतः क्रमात् ।
अचलं योगपट्टेन त्वेवं सन्धार्य विग्रहम् ।। 201 ।।

सङ्कोच्यापानदेशं [4]त्वप्युपरिष्टात् तमेव हि ।
विकास्या[5]वर्णहीनेन हार्णेनालक्ष्यमूर्तिना ।। 202 ।।
अथ योगानुष्ठानकाले कायशिरःप्रभृत्यवयवानां [6]सन्धारणक्रममाह- सममिति सार्धैश्चतुर्भिः[7] ।। 198-202 ।।
[1 रा- उ.।]
[2 कोप- बक. बख. अ. उ.।]
[3 धस्त्यजेत्- अ. उ.।]
[4 तु उ- बक. बख. अ.।]
[5 स्य- बक. बख, र्या- अ.।]
[6 साधा- अ.।]
[7 सार्धैः पञ्चभिः- अ.।]

विषयान्तर्निविष्टं तु क्रमाच्चित्तं समाहरेत् ।
कुर्याद् वै बुद्धिलीनं तु तां[1] च कुर्यात् स्वगोचरे ।। 203 ।।
ततो विषयेभ्यश्चित्तमाकृष्य बुद्धौ संयोज्य बुद्धिं स्वगोचरे भगवति न्यसेदित्याह- विषयेति। तथा च [2]पञ्चरात्ररक्षायां शाण्डिल्यस्मतौ-
ईदृशः परमात्माऽयं प्रत्यगात्माऽयमीदृशः[3] ।
तत्संबन्धानुसंधानमिति योगः प्रकीर्तितः ।।
योगो नामेन्द्रियैर्विश्यैर्बुद्धेर्ब्रह्मणि सस्थितिः ।
प्रयुक्तैरप्रयुक्तैर्वा भगवत्कर्मविस्तरैः[4] ।। (पृ. 59) इति।
(शा. स्मृ. 5/13-14)
तत्रैव तृतीयेऽधिकारे (पृ. 158) पराशरः-
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ।। इति ।। 203 ।।
(विष्णु. पु. 6/7/31)
[1 तच्च- मु. अटी.।]
[2 पाञ्च- अ.।]
[3 तथेदृशः- मु.।]
[4 विस्तरः- अ. म.।]

समाधायात्मनात्मानं सह मन्त्रैस्ततः क्रमात् ।
आ जाग्रत्पद[1]भूमेर्वै यथा तद् गदतः श्रृणु ।। 204 ।।
जाग्रत्पदमारभ्य तुर्यपदान्तं तत्तत्पदस्थितेन परमात्मना सह तत्तन्मन्त्रजपपुरस्सरं प्रत्यगात्मनः संयोगभावनामुक्त्वा तां विस्तरेण वक्ष्यामि शृण्वित्याह- समाधायेति। तथा च पञ्चरात्ररक्षायां दक्षः-
सर्वभा[2]वविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।
एतद्ध्यानं च योगश्च शेषोऽन्यो ग्रन्थविस्तरः ।। (द. स्मृ 7/20) इति।
याज्ञवल्क्यश्च- "[3]वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं ब्रह्मणि[4] न्यसेत्" इति। वृत्तिहीनं बाह्यवृत्तिरहितमित्यर्थः" (पृ. 76) ।। 204 ।।
[1 पाद- बक. बख. अ.।]
[2 सर्वोपाधि- मु.।]
[3 एतद्वचनमपि दक्षस्मृतौ (7/15)समुपलभ्यते।]

मध्याह्नभास्कराकारैः सर्वैः संशान्तविग्रहैः ।
स्मरेत् पूर्वोदितं पद्मं चातुरात्म्यैरधिष्ठितम् ।। 205 ।।

ततो जाग्रत्पदस्थं चाप्यनिरुद्धं च मन्त्रराट् ।
परावर्त्य शतं बुद्ध्या तदभिन्नेन चात्मना ।। 206 ।।

तन्मन्त्र[1]जपसामर्थ्यात् तादात्म्यस्थितिबन्धनात् ।
महिमा तु सविज्ञानस्तदीयस्तस्य जायते ।। 207 ।।

अभ्यासाद् वत्सरान्ते तु तदद्वैतसमन्वितम्[2] ।
अथ प्रद्युम्नमन्त्रं तु परावर्त्य[3] शतद्वयम् ।। 208 ।।

योऽयं सोऽहमनेनैवा[4]प्यद्वैतेन सदैव हि ।
एवमेव समभ्यासाद् मतिमांश्छिन्नसंशयः ।। 209 ।।

तत्प्रभावाच्च तेनैव तथा कालेन जायते ।
अनेन क्रमयोगेन जपवृद्ध्याऽन्वितेन तु ।। 210 ।।

निखिलं चाप्यधीकुर्याद्[5] मन्त्रवृन्दं पुरोदितम् ।
यावदाभाति भगवान् स्थाने पूर्वोक्तलक्षणे ।। 211 ।।

प्रलीनमूर्तिरमलो[6] ह्यनन्तस्तेजसां निधिः ।
चिदानन्दघनः शान्तो [7]ह्यनौपम्यो ह्यनाकुलः ।। 212 ।।

समाधायात्मनात्मानं तत्र त्यक्त्वा जपक्रियाम् ।
ध्यातृध्येया[8]विभागेन यावत् तन्मयतां व्रजेत् ।। 213 ।।

यदा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अभ्यासाद् भगवद्योगी ब्रह्म सम्पद्यते तदा ।। 214 ।।
विस्तरेण योगप्रकारमाह- मध्याह्नभास्कराकारैरित्यारभ्य ब्रह्म संपद्यते तदेत्यन्तम्। अस्यार्थः- स्वहृदयकमलं तत्तत्पदभेदेन चातुरात्म्यैरधिष्ठितं स्मृत्वा जाग्रत्पदस्थेनानिरुद्धेन सह [9]आत्मानमेकीभूतं ध्यायन् प्रत्यहं तन्मन्त्रं शतवारं जपेत्। एवं तन्मन्त्रजपसामर्थ्याच्च तदीयं ज्ञानं माहात्म्यं च स्वस्यापि संभवति। एवमेकं संवत्सरं योगाभ्यासे कृतेऽनिरुद्धतादात्म्यसमन्वितो भवति। तदनन्तरमनिरुद्धं मन्त्रेण सह प्रद्युम्ने[10] संहृत्य प्रद्युम्नोऽहमिति तादात्म्यभावनां कुर्वन् प्रत्यहं तन्मन्त्रं शतद्वयं जपन् पुनरेकं संवत्सरं नयेत्। एतेन प्रद्युम्नप्रभावो[11] भवति। एवंरीत्या संकर्षणमन्त्रं वासुदेवमन्त्रं [12]स्वप्नव्यूहानिरुद्धादिवासुदेवान्तमन्त्रचतुष्टयं तथा सुषुप्तिव्यूहचतुष्टयं च प्रत्येकमेकैकं संवत्सरं जपवृद्धिक्रमेण तत्तादात्म्यभावनया सहाऽभ्यसन् तत्तन्मन्त्रं तदुत्तरमन्त्रे उपसंहरन् सुषुप्तिव्यूहवासुदेवमपि पूर्वोक्तलक्षण[13]तुर्यस्थाने स्थिते परात्परवासुदेवे उपसंहरन् तत्तादात्म्यभावनया तन्मन्त्रं ध्यातृध्येयाविभागेन यावत्तन्मयत्वं व्रजेत् तावदन्तं जपन् ततो जपक्रियां त्यजेत्[14]। एवमभ्यासाद् भगवद्यो(गि? गी)वेद्यवेदकभाव[15]रहिते समाधौ यदा स्थितिं लभते, तदा ब्रह्म संपद्यते। ब्रह्मैव भवतीत्यर्थः। परमसाम्यं भजतीति यावत्। यत्र यत्र योऽयं सोऽहमित्येवंरीत्या तत्तद्व्यूहतादात्म्याश्रयणमप्युक्तम्[16], तेन स्वस्य तदद्वैतसिद्धिश्च प्रतिपादिता। अत्र[17] सर्वनामस्वरूपैक्यं चिन्तनीयम्। यतः-
[18]योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं न तेन कृतं पापं चौरेणात्मापहारिणा ।।
इत्यन्यथा ज्ञानेन फलवैपरीत्यमुक्तम्। अपि तु तत्र सर्वप्रकारैक्यं बोध्यम्, यतः प्रकारैक्ये चास्ति तत्त्वव्यवहारः - सोऽयं गौरिति[19] ।
ननु "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" (छा. उ.6/2/1), "तत्त्वमसि" (छा. उ. 6/8/7)इत्यादिश्रुतिशतसिद्धं स्वरूपैक्यम्[20]पलपतां युष्माकमेवान्यथा ज्ञानमिति चेत्, ब्रूमः- किमिदानीमस्माभिस्तत्त्वनिर्णयः क्रियते? श्रीमद्भाष्यकारप्रभृतिभिर्निर्णीते विषये किमावयोर्विवादेन। नन्वत्र समाधायात्मनात्मानं सह मन्त्रैस्ततः क्रमादिति, तदभिन्नेन चात्मनेति, तदद्वैतसमन्वितविति, योऽयं सोऽहमनेनैवाप्यद्वैतेन सदैव हीति, ध्यातृध्येयाविभागेन यावत्तन्मयतां व्रजेदिति, ब्रह्म संपद्यते तदेति च सुस्पष्टं शुद्धाद्वैतमसकृदुपदिश्यते। एतद्वाक्यजातं सर्वमद्वैतमनङ्गीकुर्वतां भवतां विरुद्धम्, भवद्भाष्यादिषु न विचारितं च। अतोऽस्मिन् विषये वयं विप्रतिपद्यामहे, इति चेत्, सत्यम्। स्वशास्त्रतया न तद्वचनजातं भाष्यादिषु (न?) विचारितम्, तथाप्येतत्सजातीयश्रुतीतिहासपुराणवाक्यानां विचारितत्वादेषामपि चारितार्थ्यं बोध्यम्। विचारितं चैतत् सर्वमपि वेदान्ताचार्यैः [21]पञ्चरात्ररक्षायां द्रष्टव्यम् ।। 205-214 ।।
[1 जाप- अ. उ.।]
[2 तः- अ. उ.।]
[3 वृत्य- मु. अटी., वर्ति- बख.।]
[4 मतो नैव ह्यद्वैतेन सदेव- मु. अटी.।]
[5 सर्वोपाधि- मु.।]
[6 प्ययी- अ., प्यथे-उ.।
[7 मो-मु., नो- अटी.।]
[8 ह्यनु- बक. बख.।]
[9 आत्मना एकी- अ.।]
[10 प्रद्युम्नेन- अ.।]
[11 प्रकारो- अ.।]
[12 स्वप्नं- अ.।]
[13 ध्येय- मु.।]
[14 स्तुर्य- अ.।]
[15 त्यजन्- अ.।]
[16 पाप- अ.।]
[17 मुक्तम्- मु.।]
[18 तत्र- अ.।]
[19 मनुस्मृतौ (4/255) स्वरूपान्तरेण दृश्यतेऽयं श्लोकः।]
[20 गौरीति- अ.।]
[21 मफलयतां- अ.।]

ततः[1] श्रमजयं कुर्यात् त्यक्त्वा ध्यानासने क्रमात् ।
समाप्ते शयनस्थश्च कालं[2] रात्रिक्षयावधि ।। 215 ।।
एवं योगानुष्ठानानन्तरं पुन[3]र्ब्राह्ममुहूर्तपर्यन्तं विश्राममाह- तत इति ।। 215 ।।
[1 तत्र- मु., तत्राश्रमजपं- बक.।]
[2 काल- बक.।]
[3 `पुनः' नास्ति- अ.।]

ब्राह्मे मुहूर्ते सम्प्राप्ते ह्युत्थाय शयनात् ततः ।
स्नात्वाऽभ्यर्च्य जगन्नाथं समिद्दानं समाचरेत् ।। 216 ।।

जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत् ।
[1]ऊनातिरिक्तशान्त्यर्थं सर्वकर्मसमाप्तये ।। 217 ।।

दद्यात् पूर्णाहुतिं कृत्वा पूर्ववत् सेच[2]नादिकम् ।
ततो[3] देवं तु पीठस्थं कुण्डस्थमनलं ततः ।। 218 ।।

न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ।
निःशेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च ।। 219 ।।

या[4]गोद्देशात्तथा कुण्डात् स्तराद्यस्याखिलस्य च ।
सहो[5]पलेपनेनैव सर्वमम्भसि निक्षिपेत्[6] ।। 220 ।।
ब्राह्ममुहूर्तमारभ्य कर्तव्यक्रमं संक्षेपेणाह- ब्राह्म इति पञ्चभिः। न्यासद्वयं करन्यासाङ्गन्यासयोर्द्वयमित्यर्थः। एवं न्यासोपसंहारानन्तरमनुयागादिकं कार्यम्। तथा च जयाख्ये-
यागस्थानाच्च तिलकं कृत्वा न्यासं स्वविहग्रात् ।
उपसंहृत्य मेधावी कुर्याद् वै भोजनादिकम् ।। (15/261) इति।
लक्ष्मीतन्त्रेऽपि-
अर्घ्याद्यमुपसंहृत्य वर्मास्त्रैः[7] प्रतिगृह्य च ।
उपसंहृत्य च न्यासमनुयागं समाचरेत् ।। (40/94) इति।
एवं भोजनात् पूर्वं न्यासस्योपसंहृतत्वात् पुनः सायंपूजारम्भे न्यासोऽनुष्ठेय इति ज्ञायते। यद्यपिपारमेश्वरे-
श्रेष्ठः प्रभातकालः स्यात् त्रिषु कालेषु वै पुनः ।
यथावन्मन्त्रविन्यासमात्मनः करदेहयोः ।।
हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः ।
नित्यं प्राभातिके[8] कुर्यादन्यत्रेच्छानुसारतः ।। (9/4-5)
इत्युक्तम्, तथापि तन्माध्याह्निकार्चनादिष्वनुपसंहृतन्यासपूजकविषयम्। सायंपूजारम्भे तु [9]यासोऽवश्यमनुष्ठेयः, मध्याह्नानुयागात् पूर्वमेव न्यासस्योपसंहृतत्वात्, न्यासं विना पुजनानौचित्याच्च ।। 216-220 ।।
[1 न्यूना- बक. बख.।]
[2 स्नपना- अ.।]
[3 कृत्वा- बक. बख., क्षान्त्वा- अ. उ.।]
[4 यागा- मु. अटी.।
[5 सहोपलेन केनैव सर्वम्महसि- मु., सहोपलेन केन वै सर्वं मनसि- अटी., सहोपलेनैव सर्वं- उ.। ईश्वरसंहिता(6/115)ऽनुसारी पाठो मूले स्थापितः।]
[6 विक्षि- उ.।]
[7 वर्मास्त्रे प्रतिहृत्य- मु.।]
[8 प्रभातके- अ.।]
[9 सो वाक्य- अ.।]

सकृत् त्र्यहं च सप्ताहं पक्षं मासमथापि वा ।
यो यजेद् विधिनाऽनेन भक्तिश्रद्धासमन्वितः ।। 221 ।।

सोऽपि यायात् परं स्थानं किं पुनर्योऽत्र संस्थितः ।
यावज्जीवावधिं कालं बद्धकक्ष्यो महामतिः ।। 222 ।।
एवमाराधनस्य यथाशक्त्यनुष्ठानेऽपि साफल्यमाह- सकृदिति द्वाभ्याम् ।। 221-222 ।।

इत्युक्तं चातुरात्मीयं समासादमलेक्षण ।
सबाह्याभ्यन्तरं सम्यङ्मया[1] ते यजनं शुभम् ।। 223 ।।

यज्ज्ञात्वा क्षयमायाति त्वविद्याबीजमक्षयम्[2] ।
अचिरादेव भविनां[3] भक्तानां भावितात्मनाम् ।। 224 ।।
उक्तमर्थं निगमयति- इतीति द्वाभ्याम् ।। 223-224 ।।
[1 म्यक् प्रभाते- अटी.।]
[2 क्षरम्- मु. अटी.।]
[3 हविनां- अ.।]
इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां चातुरात्म्याराधनं नाम षष्ठः परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये षष्ठः परिच्छेदः ।।