प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २० सात्त्वतसंहिता
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
सात्त्वतसंहितायाः अध्यायाः


(1) एकविंशः परिच्छेदः
नारद उवाच(2)
भगवानथ विश्वात्मा चोदितस्तालकेतुना।
द्विजप्रधाना यत् तन्मे आकर्णयत साम्प्रतम्।। 1 ।।
अथैकविंशः(3) परिच्छेदो व्याख्यास्यते । अत्र पुनर्भगवान् वासुदेवः संकर्षणेन यत्पृष्टस्तच्छृण्वित्याह---भगवानिति।। 1 ।।
(1.विंशः-अ.) (2.`उवाच'नास्ति----मु. अटी.) (3.विंशतिः---म.)
सङ्कर्षण उवाच (4)
नियमाः किं स्वरूपास्तु दातव्या दीक्षितस्य च।
गुरुणा प्रतिपन्नस्य शासनेऽस्मिन् जगत्प्रभो।। 2 ।।
प्रश्नप्रकारमाह---नियमा इति।। 2 ।।
(4.`उवाच' उ. विहाय कुत्रापि नास्ति।)
श्रीभगवानुवाच(5)
प्रत्येकस्मिन् हि नियमे निर्गते तु गुरोर्मुखात्।
प्रब्रूयाद् (6) बाढमित्येवं शिष्यः शोकाग्निशान्तये।। 3 ।।
एवं पृष्टो वासुदेव आचार्येणैकैकस्मिन् (7) नियमे उपदिष्टे शिष्यो बाढं बाढमिति ब्रूयादित्याह---प्रत्येकस्मिन्निति।। 3 ।।
(5.'उवाच' नास्ति---मु. अटी.)(6. ब्रूयाद्वै---बक. बख. अ. उ. )(7.र्येणैकस्मिन्--अ.।)
नाक्रम्या गौरवी च्छाया दैवी यानगता त्वपि।
गुरुवद् गुरुवर्गश्च द्रष्टव्यो नित्यमेव हि।। 4 ।।
शयनासनयानाद्यं तदीयमभिवादयेत्(8)।
अतन्द्रितः सदा कुर्याद् व्यापारं (9) तदृगृहेऽखिलम्।। 5 ।।
नासने तत्समक्षं च वस्तव्यं न च दक्षिणे।
सुयन्त्रितः संयतवाक् तदाज्ञासम्प्रतीक्षकः(10)।। 6 ।।
तत्सन्निधौ तु नान्येषां प्रत्युत्थानं समाचरेत्।
कुर्यात् संशयविच्छित्तिं न तदादेशतो विना।। 7 ।।
गुरोर्देवस्य तत्तद्वाहनस्य च छायोल्लङ्घनं न कार्यमित्याह---नेत्यर्धेन। आचार्यपुत्रकलत्रादिषु चाचार्यदृष्टिः कार्येत्याह---गुरुवादित्यर्धेन। गुरोः शयनासनादीनामपि नमस्कारः कार्य इत्याह---शयनेत्यर्धेन। आचार्यगृहकृत्येषु जागरूकेण भवितव्यमित्याह---अतन्द्रित इत्यर्धेन। गुरोः समक्षमासनोपरि वा तद्दक्षिणभागे वा न वर्तितव्यमित्याह---नेत्यर्धेन। गुरुसंनिधाववहितो मितभाषी तदाज्ञाप्रतीक्षकश्च भूयादित्याह---सुयन्त्रित इत्यर्धेन। गुरुसंनिधावन्येषां प्रत्युत्थानादिकं न कुर्यादित्याह---तदित्यर्धेन गुर्वाज्ञां विना पृच्छकाणां शसयविच्छेदनं न कुर्यादित्याह---कुर्यादित्यर्धेन।। 4--7 ।।
(8.वन्द---उ.)(9.रान्---उ.)(10.तदाज्ञां सम्प्रतीक्षते---मु. उटी.)
व्याख्यानमागमानां च योगाभ्यासश्च धारणा।
अवश्यकार्याण्येतानि(1) स्वगृहे न गुरोर्गृहे।। 8 ।।
आगमव्याख्यादीनां स्वगृह एव कर्तव्यत्वमाचार्यगृहे तन्निषेधं चाह---व्याख्यानमिति।। 8 ।।
(1) एवमादिकमन्यच्च---मु. अटी.।)
न शङ्खचक्रपद्माङ्के भोक्तव्यं भाजने तु वै।
तल्लक्ष्म चोपलं काष्ठं लोष्टं वा फलकादिकम्।। 9 ।।
क्रमणीयं न पादेन कल्प्यं नैवासनार्थतः।
भगवच्छासनज्ञानामाराधनरतात्मनाम्।। 10 ।।
यथोचितं(2) यथाशक्ति पूजा कार्या सदैव हि।
शङ्खचक्राद्यङ्कितपात्रे न भोक्तव्यमित्याह---नेत्यर्धेन। शङ्खचक्राङ्कितं शिलाकाष्ठलोष्टफलकादिकं च पादेन नाक्रमणीयम्, आसनार्थं न कल्पनीयमिति चाह--तल्लक्ष्मेति। भगवच्छास्त्राभिज्ञानां तदुक्तभगवदाराधननिष्ठानां च निरन्तरं यथाशक्त्यर्चनं कार्यमित्याह---भगवच्छासनेति।। 9--11 ।।
(2. चिताबख. उ.)
प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम्(3)।। 11 ।।
अश्वत्थं च वटं धेनुं सत्समूहं(4) गुरोर्गृहम्।
दूरात् प्रदक्षिणीकुर्यान्निकटत् प्रतिमां विभोः।। 12 ।।
(3.पञ्च---बख. अ. उ.)(4.सत्समीपं---उ.)
दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम्।
न यानपादुकारूढो न सोपानत्कपादभृत्(5)।। 13 ।।
भगवद्विमानादीनां प्रदक्षिणनमस्कारप्रकारावाह---प्रासादमिति द्वाभ्याम्। छायाक्रमणभिया दूरादित्युक्तमिति ज्ञेयम्।। 11--13 ।।
(5. नह---बख.।)
(1) न विक्षिप्तमना भूत्वा संविशेद् भगवद्गृहम्।
भगवन्मन्दिरप्रवेशकाले पादुकामुपानहं वा पद्भ्यां न स्पृशेदन्यत्र मनोवृत्तिं च न वर्तयेदित्याह---नेति।। 14 ।।
(1.विनि--मु. अटी.)
न व्याख्यावसरे कुर्यात् प्रत्युत्थानाभिवादने।। 14 ।।
नाभक्तानां न मूर्खाणां नास्तिकानां विशेषतः।
दातव्यः संप्रवेशश्च नोपहासरतात्मनाम्।। 15 ।।
आगमव्याख्यानकाले प्रत्युत्थानप्रणामनिषेधमभक्तादीनां तत्र प्रवेशनिषेधं चाह---नेति सार्धेन। नास्तिकानामित्यत्रापि नेत्यनुषङ्गः कार्यः।। 14--15 ।।
नापूजितं समुद्‌घाट्यं शासनं पारमेश्वरम्।
समक्षं नान्यभक्तानां न तत्सन्देहशान्तये।। 16 ।।
प्रकाशनीयं तल्लोभान्न (2) चाऽन्यायेन नो भयात्।
अयोग्यं प्रति वाऽन्यदेवताभक्तानां समक्षं वा लोभाद् भयादन्यायाद्वा भगवच्छास्त्रं न प्रकाश्यमित्याह---नेति।। 16---17 ।।
(2.चान्येन कुतो---मु. अटी.।)
सुगन्धफलपुष्पाद्यमपूर्वमुचितं(3)(4) च यत् ।। 17 ।।
अभोज्यं गुरुदेवाग्निनिवेदनविवर्जितम्(5)।
अपूर्वं योग्यं फलपुष्पादिकं वस्तु गुरुदेवाग्निसमर्पणमन्तरा न भोज्यमित्याह---सुगन्धेति।। 17---18 ।।
(3.ष्पाढ्य---बक.।) (4. मपूत--अटी.) (5. विनिवेदन---बख. विनिवेदित---अ. उ.।)
तस्करात् पतिताच्चण्डाद् दम्भलोभमदान्वितात्(1)।। 18 ।।
मात्रावित्तं न गृह्णीयादभक्तादुपचारतः।
गृहीत्वा भगवद्बिम्बं वृत्त्यर्थमटतीह यः।। 19 ।।
तस्करादिभ्यो मात्राद्रव्यप्रतिग्रहनिषेधमाह(2)---तस्करादिति। तथा च स्मरति(3)शाण्डिल्यः---
कुलटाषण्ढपतितस्वैरिभ्यः काकिणीमपि।
उद्यतामपि गृह्णीयान्नापद्यपि कदाचन।। 6/18) इति।। 18--19 ।।
(1. सम--मु. अटी. बक.)(2.दिव्य---अ.) (3.स्मरन्ति शाण्डिल्याः---म.।)
नगरापणवीथीषु (3) तस्य देवलकस्य च।
दर्शनं स्पर्शनं नैव(4)कुर्यात् सम्भाषणं तथा (5) ।। 20 ।।
स्वगृहे समाराध्यं भगवद्बिम्बमादाय द्रव्यार्जनार्थं नगरादिषु संचरमाणस्य देवलकस्य दर्शनादिकमपि न कार्यमित्याह---गृहीत्वेति सार्धेन। नन्वेतन्मन्दिरस्थभगवद्बिम्बविषयमपि स्यादिति चेन्न, तस्य राजाधीनतया बहिर्द्रव्यार्जनार्थमानेतुमशक्यत्वात्, तत्र तादृशशङ्काया एवानवकाशात्।। 19--20 ।।
(3.वीथीनां--बक. बख. उ.।) (4. चैव---मु. अटी. बक. अ.।)(5. नहि--मु. अटी.।)
गायेत् तु भगवद्गाथां यो ग्रामे नगरान्तरे।
तं प्रभुस्तावकं चैव पूजयेच्चैव सर्वदा।। 21 ।।
श्रीमद्बकुण्ठाभरणादिविरचितदिव्यप्रबन्धगाथागायकानां निरन्तरपूज्यत्वमाहगायेदिति।। 12 ।।
विष्णुव्रतपरं चैविष्ण्वायतनवासिनम्।
विष्ण्वालापकथासक्तं विष्ण्वायतनमार्जकम्।। 22 ।।
स्तावकं (6) वैष्णवानां च विष्णुधर्मपरायणम्।
पर्येष्टिकृद् वैष्णवानां मान्यो वै विष्णुवत् सदा।। 23 ।।
भगवत्कैङ्कर्यपराणां विष्णुवत् पूज्यत्वमाह---विष्ण्विति द्वाभ्याम्। वैष्णवानां पर्येष्टिकृद् वैष्णवधर्मान्वेषणपरः, पूजनार्थं भागवतान्वेषणपर इति वाऽर्थः। " पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा" (2/7/32) इत्यमरः। गायेदिति वचनं शठकोपाद्यर्चनपरम्, विष्णुव्रतपरमित्यादिकं शाण्डिल्याद्यर्चनपरमित्यपि सरसम्।। 22--23 ।।
(6. श्रावकं---मु. अटी. बक. बख.।)
प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि।
पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतः सदाः।। 24 ।।
यायादरण्यमथवा निर्बाधं हि तदार्जने(1)।
अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि।। 25 ।।
भगवदाराधनार्थं पुष्पादीनामाहरणप्रकारमाह--प्रातरिति सार्धेन। " अत्र वैशेषिकार्चनादिषु कदाचित् प्रातः शब्दस्य मुख्यार्थता, अन्यथाऽभिगमनविधिना प्रातः कालोपरोधात्, अन्येषु च सर्वेषु शास्त्रेषु द्वितीयकाल एव द्रव्यार्जनविधानात्। प्रातः शब्देन सन्निकर्षवशात् त्वरातिशयसिद्ध्यर्थं तदुचितकालो लक्ष्यते, " सायं प्रातर्द्विजातीनामशनं विधिचोदितम्" इतिवत्। अत एवात्रत्यमुत्थानं च न स्वापानन्तरभावि, (2)अपि तु---" ततः पुष्पकुशादीनामुत्थायार्जनमाचरेत्"(3) (22/69) इति जयाख्यसंहितोक्तमभिगमनानन्तरं देवसन्निधेरुत्थानम्" (पृ. 129) इति श्रीपञ्चरात्ररक्षायां व्याक्यातम्। एवं व्याख्यानं गृहार्चनप्रकरणे समञ्जसं भवति। मन्दिरे तु प्राभातिकार्चनादीनां कर्तव्यत्वात् तत्र प्रत्यहं प्रातः शब्दस्य मुख्यार्थतैव संभवतीति बोध्यम्।
ननु प्रातरुत्थाय चिन्वीयादित्यादिनियमः स्वगृहार्चनपर एव, मन्दिरार्चने तु पुष्पाद्याहरणं परिचारकैः क्रियत इति चेन्न, यत उभयत्रापि स्वार्जितं मुख्यम्, अन्यार्जितं गौणमिति सिद्धम्। ननु तर्हि स्वयमेवोपादानप्रवृत्तः कथं मन्दिरे प्राभातिकाद्यर्चनादि निर्वहेदिति चेत्, शक्तः सर्वं निर्वहत्येव। अशक्तस्य गौणानुष्ठानम्। अन्यथा मन्दिरार्चनपरस्याभिगमनादिपाञ्चकालिकानुष्ठानं कथं सिद्ध्येत्। अत एव हि पारमेश्वरादिषु(4) द्वादशकालार्चनप्रवृत्तस्यापि पाञ्चकालिकधर्मानुष्ठापनावकाशः प्रदर्शितः। परिचारकाश्चेदपि प्रातः कालं विना पुष्पाद्याहरणं पुनः कदा कुर्युः। गृहार्चनार्थमिव तैः संभवकाले संगृहीतं पुष्पादिकं कथं प्राभातिकार्चने उपयुज्यते।। 24--25 ।।
(1.र्जनैः--बक. बख.।)(2.स्वप्नान्तर--अ.।) (3.फला--मु.।) (4.पारमेश्वरेनवमाध्याये।)हृद्याः सुगन्धाः कर्मण्या ग्राह्याः सर्वे सितादयः।
उग्रगन्धा ह्यकर्मण्यास्त्वप्रसिद्धास्तथैव च।। 26 ।।
चतुष्पथशिवावासश्मशानावनिमध्यगाः।
क्षता अशनिपाताद्यैः क्रिमिकीटसमावृताः।। 27 ।।
वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः।
अम्बुजानि सुगन्धीनि सितरक्तादिकानि(1) च।। 28 ।।
योक्तव्यानि पवित्राणि नित्यमाराधने(2) तु वै ।
साङ्कुराणि च पत्राणि भूगतान्येवमेव हि।। 29 ।।
विहितान्यर्चने नित्यं यथर्तुप्रभवाणि च।
न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम्।। 30 ।।
विशेषतः सकामस्य सिद्धिभूतयुतस्य च।
अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभिः।। 31 ।।
सद्योहृतानां विहितस्त्वम्लानानां यथा (3) क्रयः।
प्रदानमम्बुसिक्तानां तेषां कार्यं न चान्यथा।। 32 ।।
निर्दोषतां प्रयान्त्याशु मन्त्रिणामवलोकनात्।
भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम्।। 33 ।।
न कांस्यपात्रे भोक्तव्यं न तत्र विनिवेदयेत्।
देवाय मधुपर्काद्यं तथा वै सति सम्भवे।। 34 ।।
मृण्मयायसपात्रेषु(4) न धूपमपि निर्दहेत्।
धूपार्थं गुग्गुलुः साज्यो देयश्चाभावतोऽपरः(5)।। 35 ।।
सह घण्टारवेणैव दीपार्थं परिवर्जयेत्।
मेदो मज्जाऽसतीतैलं घृतं तैलविमिश्रितम्।। 36 ।।
नाविकं(6) मधुपर्कार्थे दधिक्षीरादिकं शुभम्।
कौलत्थः(7) कौद्रवः कृष्णशाल्युत्थो नौदनो हितः।। 37 ।।
नापक्वान्नं न मांसश्च नारनालविभावितम्।
न चाराधनकाले तु समुत्तिष्ठेत् त्वरान्वितः।। 38 ।।
अथ पुष्पफलपत्राङ्कुराणां मधुपर्कधूपदीपद्रव्याणां हविः पाकोपयुक्तद्रव्याणां च ग्राह्याग्राह्यत्वनियममाह---अकण्टकद्रुमोत्थाश्चेत्यारभ्य नारनालविभावितमित्यन्तम्। एवं पुष्पादीनां हविः पाकद्रव्याणां च वर्ज्यावर्ज्यविभागः संहितान्तरेषु श्रीपञ्चरात्ररक्षायां (पृ. 127--134) च विस्तरेण विचारितो द्रष्टव्यः ।। 25--38 ।।
(1.क्तानि कानिचित्---मु. अटी. बक.।) (2. धकेन तु--मु. टी.।) (3.यदा--मु.।) (4.पात्राणां--बख. अ. उ.।) (5.श्च सुरभिः परः---मु. अटी.।) (6.नाधिकं--अ. उ.।) (7.कौलुत्थः कौलयः कार्ष्ण--मु. अटी.।)
आ समाप्तिक्रियां(1) चैव उपरोधेन केनचिद्।
आराधनकाले केनचित् कारणेन त्वरया नोत्थातव्यमित्याह---नेति।। 38--39 ।।
(1.क्रियां--अ. उ.।)
आधाराद् भगवद्बिम्बाद् भद्रपीठान्मलच्युतिः(2) ।। 39 ।।
न कार्या कण्टकैर्लोहैर्मृदुकूर्चादिना विना।
बिम्बादिशोधनं शिखिपक्षादिमृदुकूर्चैर्विना कण्टकादिभिर्न कार्यमित्याह--आधारादिति।। 39---40 ।।
(2. ज्जलच्युतिः---मु. अटी. बक.।)
न स्नायान्न स्वपेन्नग्नो न मौनं चाचरेद् गुरोः।। 40 ।।
नोच्छिष्टं संस्पृशेत् किञ्चिन्नाश्नीयाद् भगवद्गृहे।
सन्निकर्षे न चाग्नेस्तु न गृहे मद्यसंकरे।। 41 ।।
स्नानकाले स्वापकाले च विवस्त्रो न भवेत्, गुरुषु भौनं न कुर्यात्, उच्छिष्टं न स्पृशेत्, भगवन्मन्दिरादिषु न भुञ्जीतेति चाह---नेति सार्धेन। अत्र भोजननिषेधमात्रतात्पर्येण निकृष्टोत्कृष्टानां सह पाठः कृति इति बोध्यम्। यथा " श्वयुवमघोनाम्" (6/4/133) इति सहपठिताः पाणिनिना।। 40--41 ।।
भक्तानां कृतदीक्षाणां व्यङ्ग्यः (3)शास्त्रार्थ एव हि।
अन्येषां (4) धर्मशारत्रं च लोभनिर्मुक्तया धिया।। 42 ।।
शिष्याणां विष्णुभक्तानां नित्यं कुर्याच्च संग्रहम्।
कृतदीक्षाणामेव भगवच्छास्त्रो वाच्यः, तदन्येषां तु केवलधर्मशास्त्रमेव वाच्यमिति, द्रव्यसंग्रहणबुद्धिं विना केवलमुपकारार्थ वैष्णवानां शिष्याणां संग्रहणं कुर्यादिति(5) चाह---भक्तानामिति सार्धेन।। 42--43 ।।
(3. व्यङ्गं शास्त्रार्थमेव च---मु. अटी.।)(4.न कुर्यात् तैर्जिगीषुः सन्---मु. अटी.।) (5. दित्याह--अ.।)
मानमात्सर्यकार्पण्यलोभमोहादयोऽगुणाः।। 43 ।।
नेतव्यास्तानवं (6) सर्वे यावज्जीवावधि(7) क्रमात्।
स्वनिष्ठाः शिष्यनिष्ठाश्च मानादिदुर्गुणाः कार्श्यं नेतव्या इत्याह--मानेति। तानवं तनुत्वम्, कार्श्यमित्यर्थः।। 43---44 ।।
(6.वर्जनीयाः प्रयत्नेन--मु. अटी.।) (7.वधिं--बख. अ.।)
अकस्मादुपसन्नानां देशान्तरनिवासिनाम्।। 44 ।।
इष्टोपदेशः कर्तव्यो नारायणरतात्मनाम्।
देशान्तरादागतानां वैष्णवानामिष्टोपदेशः कार्य इत्याह---अकस्मादिति ।। 44--45 ।।
यो न वेत्त्याच्युतं तत्त्वं (1)पञ्चरात्रार्थमेव च।। 45 ।।
तथा सद्वैष्णवीं दीक्षां नानाशास्त्रोक्तलक्षणाम्।
न तेन सह सम्बन्धः कार्यो भिन्नक्रमेण तु।। 46 ।।
अवैष्णवेन सह संबन्धो न कार्य इत्याह---य इति सार्धेन ।। 45--46 ।।
(1. पाञ्च--बक.।)
न शास्त्रार्थस्य शास्त्राणां बुद्धिपूर्व उपप्लवः।
आचर्तव्य इहाज्ञानात् (2) पारम्पर्यक्रमं विना।। 47 ।।
शास्त्रशास्त्रार्थयोः साङ्कर्यं न कार्यमित्याह---नेति। एतद्वचनतात्पर्यमेवमुक्तं श्रीपञ्चरात्रक्षायाम्---" अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु परिदृश्यमानप्रमाणमूलान्याचारपरम्परागृहीतानि च कर्माणि न मात्रयापि परिहाप्यानि,(3)न च तद्विरुद्धान्युपादेयानीत्युक्तं भवति" (पृ. 5) इति।। 47 ।।
(2.इहाऽज्ञत्वात्--बक. बख., इहाऽज्ञात्वा--अ. उ.।)(3.हाप्य च तद्विरुद्धानीत्युक्तं भवतीति--अ. म.।)
प्रष्टव्यो भगवद्भक्त आप्तो लक्षणकोविदः।
प्रसिद्ध आर्जवे वृद्धो नष्टं शास्त्रार्थलक्षणम्।। 48 ।।
चिरकालराष्ट्रक्षोभादिना प्रस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु वृद्धमुखात् तज्ज्ञातव्यमित्याह---प्रष्टव्य इति।। 48 ।।
मुद्रामण्डलमन्त्रागां निस्सन्देहपरेण च।
भवितव्यं गुरूणां च सकासात् सर्वदैव हि।। 49 ।।
मुद्रामण्डलमन्त्राश्च गुरोः सकाशान्निः सन्देहं ज्ञातव्या इत्याह---मुद्रेति।। 49 ।।
न च सर्वज्ञमन्त्राणां विना भावांशकेन तु।
आनुकूल्यं गवेष्टव्यं मुक्त्वा मण्‍डलदर्शनम्(4)।। 50 ।।
भगवन्मन्त्राणां सिद्धारिवीक्षणादिनाऽऽनुकूल्यान्वेषणं न कार्यमित्याह---न चेति।। 50 ।।
(4.नात्--बक. बख.।)
नाभिचक्रे तु हृत्पद्मे कन्दमूले गलावटे(5)।
भ्रूमध्ये ब्रह्मरन्ध्रे च स्थानेष्वेतेषु मन्त्रराट्।। 51 ।।
स्मर्तव्यः सूर्यसंकाशः प्रवासे शयनेऽध्वनि।
स्वशरीरे मन्त्रनाथस्मरणस्थानानि तत्कालांश्चाह---नाभीति सार्धेन।। 51--52 ।।
(5. कुला--अ. उ.।)
मृगसूकरमांसानि नाद्यान्मीनोत्थितानि च।। 52 ।।
न हंसकच्छपीयानि न शृङ्गाटपलानि च।
सिंहसूकरादिरूपैर्भगवतोऽवतीर्णत्वात् (1) तत्तन्मांसानि न भक्षयेत्। तथा चतुष्पथविक्रीतमांसानि च न भक्षयेदिति चाह---मृगेति। मृगसूकरादिषु भगवद्बुद्धिरेव कार्येति भावः। उक्तं खलु नृसिंहकल्पे समयोपदेशप्रकरणे---
दूरादेव नमस्कार्यो मृगराड् व्याघ्र एव वा।
तदाकृतिर्मृगो वान्यो तच्चर्मापि च (2) नारुहेत्।। (17/129)इति।
एवं मांसनिषेधश्च कृतयुगविषयः, कलौ सामान्यतो निषेधात्।। 42--43 ।।
(1.तन्मांसानि--अ.।)(2.न चारु--म.।)
न तथा पद्मबीजानि न वटाग्रं समारुहेत्।। 53 ।।
छेद्यमानं न तत्पश्येत् तद्दलं नाङ्‌घ्रिणा स्पृशेत्।
एवं पद्मस्य भगवदाश्रितत्वात् तद्बीजानामभक्ष्यत्वम्, भगवतो वटपत्रशायित्वात् तदारोहणादिनिषेधं चाह--न तथेति।। 53--54 ।।
पुण्यक्षेत्रं महातीर्थं सिद्धाश्रममनुत्तमम्।। 54 ।।
वैष्णवीं पर्षदं वापि व्यक्तिस्थानं तथाच्युतम्।
आसाद्य मण्डलं कृत्वा चक्रं वा द्वादशारकम्।। 55 ।।
निर्वाहणीयं विधिवत् चातुर्मास्यं महामते।
गृहे संयमपूर्वं वा चक्रं (3)कृत्वा तु कुड्यगम्।। 56 ।।
चतुर्विधेन रजसा प्रतिमाया अथाग्रतः।
चातुर्मास्यव्रतानुष्ठानस्थानान्याह---पुण्यक्षेत्रमिति त्रिभिः।। 54--57 ।।
(3. क्रमं--मु. अटी.।)
संयुक्तानपि(4) पूर्वोक्तैरेतांश्च समयान्(5) सदा।। 57 ।।
निर्वाहकाणां भक्तानां प्रयच्छेत् सततं गुरुः।
एतान् समयान् निर्वाहकाणां शिष्याणामुपदिशेदित्याह--संयुक्तानिति। पूर्वोक्तैः श्रीनृसिंहकल्पोक्तैः(6) समयैरित्यर्थः।। 57--58 ।।
(4.नथ--अ.) (5.समयांस्तदा--अ.।) (6.सप्तदशे परिच्छेदे 124--139) श्लोकेषूक्तैः।)
ज्ञात्वा निर्वाहकं भक्तं तस्यादौ देशिकेन तु।। 58 ।।
समुद्दिश्यास्तु(1) ते सर्वे निर्वहत्यथ येषु वै।
पूर्वं शिष्यस्य निर्वाहकतां ज्ञात्वा तस्य समया उपदेष्टव्याः। ततस्तस्य येषु येषु निर्वाहः संभवति, स तेषु तेषु समयेषु पुनर्यथा समयच्युतो न भवेत्, तथा नियोजनीय इत्याह---ज्ञात्वेति सार्धेन।। 58--59 ।।
(1.श्याश्च मन्त्रार्हा--उ.।)
तेषु तेषु नियोक्तव्यो यथा न च्यवते पुनः।। 59 ।।
घावन्ति(2) समयघ्नस्य सविघ्नास्तु विनायकाः।
विमुखाः सिद्धयो यान्ति ह्यापदो हि भवन्ति च।। 60 ।।
ज्ञात्वैवं सावधानेन निर्वक्तव्यं(3) हि तान् प्रति।
समयभ्रष्टस्यानिष्टपरम्परा संभवति, अतः सावधानं समयाः पालनीया इत्याह---धावन्तीति सार्धेन। विनायका दुष्टग्रहविशेषा इत्यर्थः। " भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः (10/6/27) इति श्रीभागवते। समयघ्नस्य धावन्ति समयघ्नं प्रति धावन्तीत्यर्थः।। 60--61 ।।
(2.यावन्ति--अटी. बक. अ.।) (3.भवितव्यं--उ.।)
सारमादाय वै बुद्ध्या निर्मथ्य नियमोदधिम्।। 61 ।।
कृपया गुरुणा देयं(4)समयानां तु पञ्चकम्।
एतेषु समयेषु सारभूतमग्निभक्तिगुरुभवत्यादिपञ्चकं विशेषेणोपदेष्टव्यमित्याह---सारमिति सार्धेन।। 61--62 ।।
(4.देयमशठानां--मु. बक. बख. अ. उ.।)
भक्तिरग्नौ गुरौ मन्त्रे शास्त्रे तदधिकारिणि।। 62 ।।
नियतं पञ्चकस्यास्य(5) यथावत् परिपालनात्।
अनुष्ठानात् तु नान्येषां स्वातन्त्र्येण यथेच्छया।। 63 ।।
भव्यानां(6) मनसोऽभीष्टाः प्रवर्तन्ते हि सिद्धयः।
एतत्समयपञ्चकस्य परिपालनादन्येषां समयानामननुष्ठानेऽपि मनोऽभीष्टसिद्धिमान् भवतीत्याह---नियतमिति सार्धेन। अथवा गुर्वादिचोदनां विनाऽन्येषां कर्मणां स्वच्छन्दस्वातन्त्र्येणानुष्ठानाभावाच्चेत्यर्थः(7)।यद्वा (आनन्दः?) क्रियापदेनान्वये परिपालनादिति(8) ल्यब्‌लोपे पञ्चमी।। 63--64 ।।
(5.कं चास्य--मु. अटी. बक. बख.।) (6.हव्यानां-अ.)(7.स्वच्छन्दं--अ.।) (8.नमिति-अ.)
येऽनिर्मलेन मनसा उपरोधात् तु कुर्वते।। 64 ।।
पालनं समयानां च ते मज्जन्त्यसितेऽध्वनि।
सुप्रसन्नेन मनसा यथैतत् परिपाल्यते।।
तथा प्रसादमभ्येति स्व आत्मा तु (1) हितैषिणाम्।। 65 ।।
एवं समयपरिपालनं कुर्वतामपि मनः कालुष्ये सति नैष्फल्यं तदभावे साफल्यं चाह--य इति द्वाभ्याम्। अनिर्मलेनेति पदच्छेदः।। 64--65 ।।
(1. हि कर्मिणाम्--उ.।)
नूनं कालुष्यमुक्तानां स्थितानासिह सत्पथे।
(2)समयिसाधकाचार्यपुत्रकाणां भवेच्छुभम्।। 66 ।।
इति श्रीपाञ्चरात्रे(3) श्रीसात्वतसंहितायां समयविधिर्नाम(4)
(5) एकविंशः परिच्छेदः।।
अतश्चतुर्विधशिष्याणामपि मनः कालुष्यरहितानामेव शुभं भवेदित्याह--नूनमिति।। 66 ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये एकविंशः (6) परिच्छेदः।।
(2.समये--मु. बक. बख. अ. उ.।) (3.पञ्च--उ.।) (4.`नाम' नास्ति--बक. बख. उ.।)(5.एकविंशतितमः--उ., विंशतितमः--अ.।)(6.विंशतिः--म.।)


************---------------?