सात्त्वतसंहिता/अध्यायः १९
← अध्यायः १८ | सात्त्वतसंहिता अध्यायः १९ [[लेखकः :|]] |
अध्यायः २० → |
सात्त्वतसंहितायाः अध्यायाः |
---|
एकोन[1]विंशः परिच्छेदः।।
नारद उवाच[2]
अधिवासाभिधानेयं पूर्वदीक्षाऽच्युतेन वै ।
कथिता सीरेणे विप्रास्तेनाऽतश्चोदितः पुनः ।। 1 ।।
अथैकोनविंशः परिच्छेदो व्याख्यास्यते। एवमधिवासदीक्षां श्रुत्वा पुनः संकर्षणः पृच्छतीत्याह- अधिवासेति ।। 1 ।।
[1 अष्टादशः - अ.।]
[2 `उवाच' नास्ति- मु. अटी. बक.।]
सङ्कर्षण उवाच[1]
देव दीक्षाविधानं च त्वद्वक्त्रकमलादहम् ।
श्रोतुमिच्छामि संक्षेपाद् वैष्णवानां हिताय च ।। 2 ।।
प्रश्नप्रकारमाह- देवेति।। 2 ।।
[1 `उवाच' नास्ति- मु. अटी. बक.।]
श्रीभगवानुवाच[1]
एकानेकस्वरूपां वै दीक्षां संसारिणां[2] श्रृणु ।
आसाद्य यां समायान्ति देहान्तिऽभिमतं पदम् ।। 3 ।।
कैवल्यफलदाऽप्येका[3] भोगकैवल्यदा परा ।
भोगदैव तृतीया च प्रबुद्धानां सदैव हि ।। 4 ।।
आचार्यानु[4]मताः सर्वाः कार्याः सम्यक् फलाप्तये ।
भक्तिभावानुविद्धानां शिष्याणां [5]भावितात्मनाम् ।। 5 ।।
वृद्धानामङ्गनानां च बालानां भावितात्मनाम् ।
विनाचारसमूहेन दुश्शकेन च ता हिताः ।। 6 ।।
पुरा धिया विचार्यैवमुपसन्नेन[6] वै सह ।
तदीयमाशयं ज्ञात्वा सम्पाद्यैका महामते ।। 7 ।।
एवं पृष्टः श्रीभगवान् परव्यूहविभवभेदभिन्नदीक्षात्रयस्य फलभेदानुक्त्वा तत्र दीक्षात्रयेऽप्याचारवतां शिष्याणामधिकारं वृद्धबालाङ्गनानां तु दुश्शकाचारविरहेऽऽप्यधिकारं च दर्शयित्वा तेषां तत्तत्फलाभिसन्ध्यनुसारेण दीक्षात्रयेऽन्यतमा कर्तव्येत्याह- एकानेकेत्यादिभिः। अत्राशक्तविषये लघुतरानुष्ठानमप्युक्तं जया[7]ख्यलक्ष्मीतन्त्रयोः-
महामण्डलयागेन हवनाद्वाऽथ केवलात् ।
वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः ।।
[8]वित्ताढ्यस्याल्पवित्तस्य द्रव्यहीनस्य च क्रमात्। (ल. 41/9/10) इति ।। 3-7 ।।
[1 `उवाच' नास्ति- मु. अटी. बक.।]
[2 रिणः- मु. अटी.।]
[3 ह्येका- अ. उ. अटी.।]
[4 गताः- अ. उ., मतः- अटी.।]
[5 भविनां तु वै- बक. बख. उ., हविनां तु वै- अ.।]
[6 पन्नेन- अ.।]
[7 जयाख्यसंहितायाम् (16/4-6) एतदभिप्रायका श्लोका द्रष्टव्याः।]
अथाऽतीतेऽर्धरात्रे तु उत्थाय शयनाद् गुरुः[1] ।
कमण्डलुं समादाय बहिराचम्य संविशेत् ।। 8 ।।
संस्मरेदग्रतश्चास्त्रं हुतभुग्राशिसन्निभम् ।
तदन्तः[2]स्थं विशेद् देवं स्नानं [3]मान्त्रं कृतं भवेत् ।। 9 ।।
निद्रामोहमलं येन शश्वदायाति संक्षयम् ।
शङ्कून् वै घटिकास्तत्र[4] रजांस्यस्त्रवरेण च ।। 10 ।।
समादाय च संस्मृत्य[5] निष्पिष्या[6]यैर्महीतले ।
शुष्क[7]गोमयसंघृष्टे[8] मण्डलं यत् पुरोदितम् ।। 11 ।।
भद्रत्वपरिरक्षार्थं[9] न्यस्याः कोणेषु शङ्कवः ।
कमलभ्रमसिद्ध्यर्थमेकं मध्ये निवेश्य च ।। 12 ।।
ईषन्न याति वैषम्यं तद् रात्रिसमये यथा ।
महानूनाधिके दोषः सशिष्यस्य यतो गुरोः ।। 13 ।।
अतस्तद् रक्षणीयं च यत्नेन महता सदा ।
निर्वर्त्य नित्यं प्रत्यूपे पुरा वै स्नानपूर्वकम् ।। 14 ।।
शिष्यमाहूय[10] संचोद्य स्वप्नप्राप्तिं शुभाशुभाम् ।
अथातीतेऽर्धरात्रे आचार्यस्य शयनादुत्थानमाचमनं मन्त्रस्नानं मण्डललेखनं प्रत्यूषे नित्यकर्मानुष्ठानं शिष्यस्वप्नपरीक्षां चाह-
अथातीतेऽर्धरात्रे त्वित्यादिभिः ।। 8-15 ।।
[1 गुरोः- मु. अटी. बक. बख.।]
[2 न्तः संविशेदेवं- मु. अटी. अ.।]
[3 मात्रं- मु. अटी. बक. बख. अ., मास्त्रं- उ.।]
[4 खटिका सूत्रं- अ. उ.।]
[5 संस्कृत्य- अटी.।]
[6 ष्यार्घ्यै- अ. उ.।]
[7 पङ्क्तिरेषा न दृश्यते- अ.।]
[8 संपृष्टे- बक. बख.।]
[9 भद्रत्वक्- अटी.।]
[10 मादाय- बक. बख.।]
चतुर्मूर्तिसमूहं तु यथादिक्संस्थितं तु वै ।। 15 ।।
पश्येत् पङ्क्तिनिविष्टं च उपविष्टं तु[1] चोत्थितम् ।
तन्मध्याद् भगवत्तत्त्वमेकं वा भिन्नलक्षणम् ।। 16 ।।
प्रादुर्भावसमूहं च तल्लाञ्छनगणश्च यः ।
दैवीयं वनितावृन्दं सर्वमेक[2]मथापि वा ।। 17 ।।
भवोपकरणव्रातमशेषं वा पृथक् स्थितम् ।
रुद्रेन्द्रचन्द्रसूर्याम्बुहुतभुग्वातलक्षणम् ।। 18 ।।
पञ्चरात्रविदो विप्रा आराधनपरायणाः ।
त्रयीमुद्घोषयन्तश्च निगदन्तश्च वा द्विजाः ।। 19 ।।
यतयः शुद्धसत्त्वाश्च सद्ब्रह्मपदसंस्थिताः ।
नगस्रक्चन्दनाद्यानि सुगन्धानि तरूत्तमः ।। 20 ।।
उद्यानवनितारामवापीहर्म्यमहालयाः[3] ।
फलबीजौषधीः साम्बुकुम्भो वा पाकनिर्गतः ।। 21 ।।
गोगजाश्च नदी यानं कन्या सालङ्कृता शिशुः ।
मङ्गल्यगीतिर्मधुरा भेरी वंशश्च वल्लरी ।। 22 ।।
ससारसं सरः पद्मैः पूर्णं छत्रं[4] सितं ततम् ।
हेमादिधातवो रत्नजालं गोसम्भवानि च ।। 23 ।।
नवो नेत्रचयः[5] शुद्धं[6] वस्त्रवृन्दमनाहतम् ।
राजा पुरोधाः सामन्तो राजपत्नी च दर्पणम् ।। 24 ।।
तुषारपातः[7] सद्वृष्टिर्महामेघोदयो दिवि ।
शोणितं चार्द्रमांसानि खप्लुतिर्मदिरालयः ।। 25 ।।
सत्पक्षिमृगसङ्घातः सुरार्चा चामरं सितम् ।
एवमादीनि चान्यानि विद्धि सिद्धिप्रदानि च ।। 26 ।।
स्वप्नानि यान्यनिष्टानि तानि मे लेशतः श्रृणु ।
म्लानता क्षितिकम्पश्च उपरागोऽतिभीषणः ।। 27 ।।
नीहार उल्कापातश्च [8]निर्घातश्चित्तभङ्गकृत् ।
गर्तप्रवेशो दध्यन्नं स्विन्नमांसस्य भक्षणम् ।। 28 ।।
वर्तनं रथविध्वंश आज्यं स्वाङ्गद्विजच्युतिः ।
खरोष्ट्रं चोत्कटं हास्यं कपिऋक्षाकुलं वनम् ।। 29 ।।
स्थानं धूमाकुलं [9]दग्धमसिताम्बरवेष्टितम्[10] ।
शुष्कत्वं सरिदादीनां प्रतिस्रोतस्त्वमेव च ।। 30 ।।
पोतयानध्वजच्छत्रतरुभङ्गोऽप्यसिद्धिकृत् ।
अवतारो नगाद् वृक्षान्नग्नत्वं प्रेतदर्शनम् ।। 31 ।।
वसाकज्जलतैलाज्यलेपः सत्कर्दमे स्थितिः ।
महिषोऽहिर्नरः कृष्णो दक्षिणाशागमः क्षुधाः ।। 32 ।।
लुञ्छनं[11] नखकेशानामस्थिभङ्गादिकं द्रुतम् ।
एवमादीनि चान्यानि अशुभानि महामते ।। 33 ।।
शुभाशुभस्वप्नान्याह- चतुर्मूर्तिसमूहं त्वित्यादिभिः ।। 15-33 ।।
[1 द्वयो- उ.।]
[2 तमाथवा- मु. अटी. बक. बख. उ.।]
[3 लयम्- मु. अटी.।]
[4 चित्रं- मु. अटी. बक. बख.।]
[5 नेत्रः सितं- मु. अटी.।]
[6 शुक्लं- उ.।]
[7 तुरगश्चैव- मु. अटी.।]
[8 निर्यात- मु. अटी.।]
[9 चैव- मु. अटी., दण्ड- बख.।]
[10 वेष्टनम्- मु. अटी.।]
[11 लाञ्छनं- अटी., लुण्ठनं- बक. बख. अ., लुण्टनं- उ.।]
प्राप्ते शुभाशुभे स्वप्नेऽप्यभिसन्धाय वै हृदि ।
औत्सुक्यादशिवध्वंसि पूजाहोमं समाचरेत् ।। 34 ।।
अशुभस्वप्ने तच्छान्तिमाह- प्राप्त इति ।। 34 ।।
यथो[1]क्तविधिना देवमवतार्य क्रमाद् यजेत् ।
तर्पयित्वा यथान्यायं[2] पूर्णान्तं [3]चाचरेत् [4]ततः ।। 35 ।।
पुनर्यथाक्रमं कुम्भादिष्वर्चनमाह- यथोक्तविधिनेति ।। 35 ।।
[1 अथो- मु.।]
[2 न्यासं- मु. बक. बख.।]
[3 चार्पये- बक. बख.।]
[4 पुनः- बक. बख. अ. उ.।]
ईशकोणेऽथवा सौम्ये पदे यागगृहस्य च ।
मण्डले पूर्वनिर्दिष्टे वृत्ते वा चतुरश्रके ।। 36 ।।
स्नातं स्रग्वस्त्रभृच्छिष्यं कृतन्यासं [1]निवेशयेत् ।
निरीक्ष्य ताड्य संप्रोक्ष्य दर्भैरालभ्य पूर्ववत् ।। 37 ।।
संस्कृत्य[2] मूर्तिवत्[3] किन्तु अनुग्राह्यं[4] धरागतम्[5] ।
आ[6]पादान्मन्त्रहस्तेन परामृश्याऽथ मूर्धनि ।। 38 ।।
मन्त्रहस्तं ज्लवद्रूपं दद्याद् यो दुःखबीजजित्[7] ।
स्नातस्यालङ्कृतस्य कृतन्यासस्य शिष्यस्य गोमयलिप्ते मण्डले समुपवेशनं निरीक्षणादिसंस्कारांश्चाह- ईशकोणेति सार्धैस्त्रिभिः। निरीक्षणं नेत्रमन्त्रेण, ताडनमस्त्राभिमन्त्रिततिलसिद्धार्थैः, प्रोक्षणमस्त्राम्भसा, दर्भैरालभनम्, पीठं[8] तेनास्त्रमन्त्रेण, मूर्तिवत् संस्कारो[9] मन्त्रन्यासैरिति ज्ञेयम्। मन्त्रहस्तेन प्रधानमन्त्रत्वेन[10] भावितनिजदक्षिणहस्तेनेत्यर्थः ।। 36-39 ।।
[1 निवेद- मु. अटी.।]
[2 संस्तुत्य- बक.।]
[3 पूर्व- अ.।]
[4 गृह्य- मु. अटी., ग्राह्यान्तरा- उ.।]
[5 परादिकम्- अ.।]
[6 अप- मु., आप- अटी.।]
[7 भेद- अटी.।]
[8 पठन्ते- अ.।]
[9 संस्कारा- मु.।]
[10 मन्त्रवत्वेन- अ.।]
तमादाय कराद् देवधामसन्निकटं व्रजेत् ।। 39 ।।
कृत्वात्मनो वामभागे भूयः संच्छाद्य लोचने ।
प्रक्षेपयेत् तथा सार्घ्यमञ्जलिं मुक्तलोचनम् ।। 40 ।।
संपश्येत् परमं धाम मन्त्रमच्छ[1]फलप्रदम् ।
तस्मिन्नवसरे कुर्यान्नाम यस्य यथोचितम् ।। 41 ।।
रहस्यसंज्ञं मुख्यं च गौणं[2] वास्य यथास्थितम् ।
सामान्यं वासुदेवाद्यं नाम स्वाङ्गाच्चतुर्ष्वपि[3] ।। 42 ।।
सर्वेषां सविशेषं वा[4] यथा चानुक्रमेण तु ।
द्विषट्कमूर्त्यङ्कितं च स्वाम्यन्तं ब्राह्मणेषु ।। 43 ।।
देवान्तं क्षत्रियाणां च कुर्याद् द्वादशधा पुनः ।
पाण्यन्तं धारनिष्ठं[5] वा लाञ्छनास्त्रपुरस्सरम् ।। 44 ।।
ध्वजलाञ्छनसंज्ञं च यथावस्थं नृपेषु च ।
एवं वर्धननिष्ठं च मूर्तिलाञ्छनपूर्वकम् ।। 45 ।।
विहितं चापि वैश्यानां दासान्तं शूद्रजन्मनाम् ।
अथ शिष्यस्य वैष्णवनामकरणविधानमाह- तमादायेत्यारभ्य दासान्तं शूद्रजन्मनामित्यन्तम्। अस्मिन्नवसरे शिष्यस्य नामकरणात् पूर्वं सुदर्शनपाञ्चजन्यधारणमूर्ध्वपुण्ड्रधारणं च कार्यम्, यतः- "तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः" (ई. सं. 21/284) इति तयोर्नामकरणप्राक्कालीनत्वमुक्तम्। किञ्च, "पञ्चलोहमयं चक्रं सशङ्ख द्वादशारकम्" (18/35) इति पूर्वं सम्भारार्जनप्रकरणोक्ताभ्यां शङ्खचक्राभ्यां तापस्त्ववसरान्तरे[6](न?ण) प्रतिपादितश्च।
ननु सम्भारार्जनप्रकरणे चक्रशङ्खौ नहि तापार्थं प्रतिपादितौ, अपि तु -
मुद्रावसानं कृत्वैव सम्यक् तदनु चाहरेत् ।।
पाणिभ्यां शङ्खचक्रे द्वे स्वमन्त्रेमाभिमन्त्रिते ।
भूत्वा तदात्मना पश्चात् ते निधाय धरातले ।।
अवलोक्याखिलं तत्स्थं प्रवर्तेताथ कर्मणि । (18/59-61)
इत्येतावन्मात्रोपयोगार्थँ प्रतिपादिताविति चेत्, कस्तावता भवतो विरोधः, प्रसिद्धे तापे[7]ऽप्युपयुज्येतां नाम। न च वेदविरुद्धत्वमेव मम विरोध इति वाच्यम्, तस्य वेदोक्तत्वे परश्शतप्रमाणानि [8]सच्चरित्ररक्षायां तप्तमुद्राविद्रावणविद्राविण्यां सिद्धान्तचन्द्रिकायां च प्रतिपादितानि। सावधानं पश्यतु भवान्। अत एव वेदमूलेऽस्मिन्नपि तन्त्रे द्वादशपरिच्छेदे-
नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ।।
तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे ।
ललाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ।।
तनूरूहचये मूर्ध्नि कर्मिणां प्रतिपत्तये ।
अपि संसारिणो जन्तोः स्वभावाद् वैष्णवस्य च ।।
न जहात्याच्युतं लिङ्गं किं पुनर्विभवाकृतेः । (12/168-171)
इति वैष्णवभगवल्लाञ्छनधारणं सुस्पष्टं प्रतिपादितम्। किञ्च, एतद्वचनस्य सहजलाञ्छनपरत्वभ्रमोऽपि सच्चरित्ररक्षायामेव (पृ. 43) निवारितः।
नन्वस्तु नाम सुदर्शनपाञ्चजन्यधारणं प्रमाणसिद्धम्, तदिदानीमेव दीक्षाप्रकरणे कार्यमिति कोऽयं नियमः। तथा नियमे नामकरणवत् तदपि भगवतैव कण्ठरवेणोक्तं भवेत्। जयाख्यलक्ष्मीतन्त्रपाद्मादिष्वपि नहि तद्दीक्षाङ्गत्वेन प्रतिपादितमिति चेत्, सत्यम्। दीक्षाङ्गमिति केनोक्तम्। पूर्वमप्राप्तशङ्खचक्रलाञ्छनानामेव, "पञ्चलोहमयं चक्रं सशङ्खं द्वादशारकम्" (18/35)इति सम्भारप्रकरणे प्रतिपादितम्। उत्तरत्राचार्याभिषेकानन्तरं शिष्या[9]याचार्यलाञ्छनप्रदानसमयेऽपि- "स्रुक्स्रुवौ योगपट्टं च शङ्खचक्रे कमण्डलम्" (20/16) इति वक्ष्यति। किन्तु चक्रा(ङ्ग?ङ्क)नादीनां दीक्षायाः पूर्वमेव मुख्य[10]कालत्वाद् गौणकाले दीक्षामध्ये तन्न प्रतिपादितम्। [11]ईश्वरतन्त्रे तु गौणकाल एव प्रतिपादितम्। नहि तत्र दीक्षाकाले प्रतिपादितत्वमात्रेण तत्तदानीमेवानुष्ठेय[12]मिति नियमोऽस्ति, शङ्खचक्रधारणस्य जातकर्मनामकरणादिकालेषूपनयनात् पूर्वमुपनयनानन्तरं विवाहाद्यनन्तरं कर्तव्यत्वेन बहुविधसमयानां तत्र तत्र प्रतिपादितत्वात्। दीक्षाकालस्तु सर्वथा नोल्लङ्घनीयः। यतः पारमेश्वरे प्रतिष्ठाध्याये-
एवं तदीया विप्राश्च क्षत्रिया वैश्यजातयः ।।
मौद्गल्याद्यास्तथान्ये च न तच्चिह्नविवर्जिताः ।
भवेयुः सर्वथा तस्माच्छङ्खचक्रगदाम्बुजैः ।।
लोहैरनलसंतप्ते[13]स्तत्तन्मन्त्राधिवासितैः ।
पूजितैरर्घ्यगन्धाद्यैरङ्कितव्याः क्षणेन तु ।।
त्रय्यन्त[14]ज्ञानसंपन्ना यथोक्ताचारनिष्ठिताः ।
विप्राद्यास्ते च शूद्राश्च यदैव[15] कृतलक्षणाः ।।
तदा तु योग्या विज्ञेयाः समयश्रवणादिषु । (15/961-965)
इति कृतलक्षणानामेव दीक्षायां योग्यता प्रतिपादिता। नन्वेवम्-
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ।
उपनीय विधानेन पश्चात् कर्मसु योजयेत् ।।
इति कृतलक्षणस्यैव गायत्रीग्रहणादिकर्मयोग्यत्वं प्रतिपाद्यते,
भुजे चक्रं द्विजातीनां शिरश्चक्रं तु दैवतम् ।
अचक्रद्विजदेवानां पूजा दानं च निष्फलम् ।।
इत्युक्त्याऽकृतलक्षणस्य कन्यादानाद्यर्हत्वमपि नास्ति, अतश्चक्रादिलाञ्छने उपनयनविवाहकालावप्यनुल्लङ्घनीयाविति चेत्, कस्येष्टं[16] तदुल्लङ्घनम्। अनुपपत्तिवशात् स्मार्तसंस्कारोल्लङ्घनेऽपि दीक्षाख्यवैष्णवसम्प्रदायकालः सर्वथाऽनुल्लङ्घनीय इति निर्णयः। यतः पाद्मे- "चक्रेणैवाङ्कितो विद्वान् वासुदेवं समाश्रयेत्" इति प्रतिपाद्यते। अत एवेश्वरे दीक्षाकालस्याप्युल्लङ्घनभिया तत्प्रकरण एव चक्राङ्कनादिकमुक्तम्। तत्पूर्वमेव कृतचक्राङ्कनानां तु दीक्षाकाले तन्न प्रकृतम्। आचारे सति पुनर्दीक्षाकाले तत्प्रकरणेऽपि न प्रत्यवायः,
चक्रादि धारयेद् विप्रो ललाटे मस्तके भुजे ।
पातकादिविशुद्ध्यर्थं भवक्लेशविनाशनम् ।।
इत्यादित्यपुराणादिषु शुद्ध्यापादकत्वेन च प्रतिपादनात्, पूर्वं कृतलाञ्छनस्य देहोपचयादिना मलिनत्वे पुनः स्फुटत्वसिद्धेश्च। ननु-
विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते ।
शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ।।
इत्यादिवचनैर्दीक्षानन्तरमपि चक्राङ्कनमवगम्यत इति चेन्न, दीक्षितानामित्यस्य दीक्षार्हपरत्वात्। सिद्धान्तचन्द्रिकायां तु दीक्षितानामित्यस्य मुमुक्षुपरत्वमुक्तम्। तदसंगतम्, तन्त्रदीक्षाप्रवेशभिया तादृशार्थाङ्गीकरणात्। निर्निमित्तेयं भीतिः। यतो महाभारते शान्तिपर्वणि-
अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः ।
दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ।।
वसन्ते दीक्षयेद् विप्रं ग्रीष्मे राजन्यमेव च ।
शरदः समये वैश्यं हेमन्ते शूद्रमेव च ।।
स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः ।
इति ब्राह्मणादीनां सर्वेषामप्यविशेषेण तन्त्रदीक्षाप्रवेशो[17] विधीयते। एतद्वचनानामधिकारिविशेषत्वे कथिते विनिगमनाविरहेण-
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ।।
(द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।)
सात्वतं विधिमास्थाय गीतः संकर्षणेन यः ।। (66/39-40)
इति महाभारतभीष्मपर्ववचनानामप्यधिकारिविशेषपरत्वमेव संभवति। संभवतु नाम, तावताऽस्माकं का हानिरिति चेत्, आचार्योक्तिविरुद्धं वचो मा वोचः। पञ्चरात्ररक्षायां ह्येतद्भीष्मपर्ववचनान्युदाहृत्य - "एवमविशेषेण सर्वेषां ब्राह्मणादीनां श्रीमत्पञ्चरात्रोक्तमार्गेण भगवदर्चनादिकं कर्तव्यम्" (पृ. 21) इत्यभिहितत्वात्। "सर्वसूत्रनिष्ठानामपि भगवच्छास्त्रोक्तप्रक्रियया समाराधनादिकं प्रशस्ततमम्। तथा च शिष्टैरनुष्ठीयते" (पृ. 21) इति सिद्धान्तितम्। तत्रैव द्वितीयाधिकारेऽपि (पृ. 56) श्रीमद्भाष्यकारप्रभृतिभिः श्रीपाञ्चरात्रे[18] यत्किञ्चित् सिद्धान्तस्थां काञ्चित् संहितां प्रधानीकृत्य नित्याराधनं संगृहीतमित्यपि प्रतिपादितम्। अतस्त्वेकत्र निर्णीतोऽर्थः सर्वत्रेति न्यायेन दीक्षाप्रवेशविधायकशान्तिपर्ववचनानामप्यविशेषेण सर्वजनविषयत्वं बोद्ध्यम्। एतादृशे पञ्चमवेदवचने जागरूके सति भवतां तत्र दीक्षाप्रवेशे का भीतिः। तन्त्रदीक्षामन्तरा तदुक्तभगवदर्चनादौ भवतामधिकारः कथं सिद्ध्यति?
अन्येषां ब्राह्मणादीनां वर्णानां दीक्षया क्रमात् ।
अधिकारोऽनुलोमानामपि नान्यस्य कस्यचित् ।।
पूजाविधौ भगवतस्तेऽनुकल्पाधिकारिणः ।
इति पाद्मादिषु दीक्षितानामेव हि भगवदर्चनाधिकारः श्रूयते। किञ्च, अत्रापि द्वितीये परिच्छेदे- "चतुर्णामधिकारो वै वृत्ते दीक्षाक्रमे सति" (2/12) इति प्रतिपादितम्। इदं परार्थयजन[19]विषयमिति मावोचः, चतुर्वर्णानामविशेषेणाधिकारवर्णानात्। यद्यपि भवद्भिरपि सिद्धान्तचन्द्रिकायाम्- "वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वैष्णवः" इत्यत्र,
तन्त्रदीक्षां विना यस्तु शङ्खचक्रादिलाञ्छनम् ।
बिभर्ति स तु पाषण्डो विज्ञेयस्तत्त्वदर्शिभिः ।।
इत्यत्र च[20] तन्त्रदीक्षाऽङ्गीकृतैव, तथापि यावदर्थानुष्ठानभिया दीक्षाशब्दस्य देवतान्तरपरित्यागरूपनियमपरिग्रहमात्रपरत्वमुक्तम्। महाभारतादिवचनपर्यालोचनया दीक्षाप्रवेशे मा भीतिं भजन्तु भवन्तः। अलं प्रसक्तानुप्रसक्त्या। प्रकृतमनुसरामः। एषां चक्राङ्कनादिसंस्काराणां दीक्षाकालेऽनुष्ठानक्रम ईश्वर[21]संहितायां सम्यक् प्रतिपादितः। पृथक्कालेऽनुष्ठानेऽपि स एव क्रमोऽनुसरणीयः। तदानीमग्निस्तु-
विष्णोरायतनाग्नौ वा गुरोरात्मन एव वा ।
हुते होमादिभिस्तप्तैः सुरूपैरर्चितैः क्रमात् ।।
दासभूतं यदात्मानं बुद्ध्येत परमात्मनः ।
तदैव गात्रं कुर्वीत शङ्खचक्रादिलाञ्छितम् ।। (3/62-63)
इति भारद्वाजसंहितोक्तो ग्राह्यः। तत्र विष्ण्वायतनाग्निर्वैष्णव एव। गुरोरात्मनो वाऽग्निश्चेत्, स्वगृह्योक्तप्रतिष्ठापूर्वकमीश्वरतन्त्रोप[22]बृंहितवैष्णवीकरणप्रक्रियया संस्कार्यः। ऊर्ध्वपुण्ड्रधारणमपि चक्राङ्कनानन्तरमेव कार्यम्। नाममन्त्रयागाख्यसंस्कारत्रयं तु दीक्षाकाल एवानुष्ठेयम्, तस्य दीक्षाङ्गत्वेनैव प्रतिपादितत्वात्।
ननु तर्हि[23] पञ्चसंस्काराणां यौगपद्येनानुष्ठानं न संभवतीति चेत्, किं तावता प्रत्यवायः। जातस्य कुमारस्य द्वादशेऽहनि नामकरणप्रकरणे शङ्खचक्राङ्कनं शास्त्रेषूच्यते। तथैव शिष्टैरनुष्ठीयते,
द्वादशेऽहनि पुत्रस्य केशवो बन्धुभिः सह ।
तेन श्रीशैल[24]पूर्णेन गुरुणाऽमिततेजसा ।।
शङ्खचक्राङ्कनं पूर्वं कारयित्वाऽथ[25] लीलया ।
लोके रामानुज इति नाम चक्रे सुमङ्गलम् ।। (2/38-39)
इति प्रपन्नामृतादिषु श्रीभाष्यकारादिशिष्टाचारोऽप्युद्घुष्यते च। अतो न पञ्चसंस्काराणां यौगपद्येनानुष्ठाननियमोऽस्ति।
ननु तदानीं तेषां यौगपद्येनानुष्ठानासंभवेऽपि पुनरुपनयनानन्तरं विवाहानन्तरं वा पञ्चसंस्काराणां यौगपद्येनानुष्ठानं संभवति, तथैव भाष्यकारादिशिष्टाचारश्च प्रतिपादित इति चेत्, सत्यम्। अत एव हि दीक्षाकाले तेषां पुनः करणहेतुः पूर्वमस्माभिरपि प्रतिपादितः ।। 39-46 ।।
[1 मिच्छा- अ. उ.।]
[2 गणं- बक. बख.।]
[3 र्ष्विव- मु. अटी.।]
[4 या- मु.।]
[5 धर- बक. बख. अ. उ.।]
[6 सरान्तेन- मु.।]
[7 तावप्यु - अ.।]
[8 सुदर्शनपाञ्चजन्यधारणविधिनामके प्रथमाधिकारे।]
[9 शिष्याचार्च- मु.।]
[10 मुक्त- मु.।]
[11 ईश्वरसहितायां (21/283) इत्यादितो विस्तरेणायं विषयः प्रतिपादितः।]
[12 ज्ञेय- मु.।]
[13 प्तैः सूत्र- अ. मु.।]
[14 त्रैविद्या- मु.।]
[15 यदैवं- मु.।]
[16 कस्येदं- अ.।]
[17 शोऽभिधीयते- मु.।]
[18 पञ्च- मु.।]
[19 `यजन' नास्ति- अ.।]
[20 `च' नास्ति- अ.।]
[21 ईश्वरसंहितायां 21 तमेऽध्यायं 283-325 श्लोकेषु विषयोऽयं द्रष्टव्यः।]
[22 अग्नेर्गर्भाधानादयः संस्कारा ईश्वरे (5/147-158), पारमेश्वरे (7/106-117) च द्रष्टव्याः। ]
[23 `तर्हि' नास्ति- अ.।]
[24 श्रीश्रीश- अ.।]
[25 सलीलया- अ. मु.।]
अथोत्थाय नमस्कृत्य मण्डलं कलशं गुरुम् ।। 46 ।।
यायात् कुण्डसमीपे तु शिशुना[1] सह देशिकः ।
कृतस्य कर्मणोऽच्छिद्रसिद्धये च हुते सति ।। 47 ।।
सन्ताड्यास्त्रात्मको भूत्वा प्राग्वत् तद्हृदयं विशेत् ।
प्राणशक्तिवियुक्तं च कृत्वानीय समासतः ।। 48 ।।
संप्रवेश्य स्वकं स्थानं तत्राग्निकणवच्च तम् ।
नीत्वा सम्यक् पृथग्भावं विरेच्य सह वायुना ।। 49 ।।
स्वभूमौ वाममार्गेण हृदाद्यन्तं[2] निरोधितम् ।
जन्मग्रहमनेनैव मन्त्रयुक्तेन कर्मणा ।। 50 ।।
भावध्यानानुविद्धेन पितृमातृमयं त्यजेत् ।
ततः कवचमन्त्रेण दद्यात् सप्ताभिमन्त्रितम् ।। 51 ।।
ततो मण्डलसमीपादुत्थाय गुरुदेवनमस्कारं कृतवता शिष्येण सह कुण्डसमीपं गत्वा प्रायश्चित्तहोमानन्तरमस्त्राभिमन्त्रितसिद्धार्थादिभिः शिष्यसन्ताडनं दहनाप्यायनाख्यधारणाद्वयेन तद्भूतशोधनं च कुर्यादित्याह- अथोत्थायेति पञ्चभिः श्लोकैः ।। 46-51 ।।
[1 शिष्येण- अटी.।]
[2 द्यन्त- अ.।]
ततः कवचमन्त्रेण दद्यात् सप्ताभिमन्त्रितम् ।। 51 ।।
तस्योपवीतमपरमुदितं चापि यस्य यत्[1] ।
उपवीतधारणार्हस्य त्रैवर्णिकस्य शिष्यस्य नूतनोपवीतधारणमाह- तत इति ।। 51-52 ।।
[1 तत्- बक. बख.।]
सर्वदा[1] दासभावत्वमापन्नस्य च तत्त्वतः ।। 52 ।।
अमद्य[2]पाऽन्वयोत्थस्य लोकधर्मोज्झितस्य च ।
आप्तवद् ब्रह्मनिष्ठस्य कर्मतन्त्ररतस्य च ।। 53 ।।
गोदानं शूद्रजातेर्वै विहितं चैव नान्यथा ।
योग्यस्य शूद्रस्य तु गोदानं विहितमित्याह- सर्वदेति द्वाभ्याम् ।। 52-54 ।।
[1 सर्वथा- बक. बख. अ. उ.।]
[2 अमध्यमा- अटी.।]
वौषट्स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया ।। 54 ।।
नमस्कारेण मन्त्राणां कार्ये प्राप्ते ह्यनुग्रहे ।
तदीयमर्घ्यपुष्पाद्यं यत्किञ्चिद् यागसाधनम् ।। 55 ।।
सुसंस्कृतमसिद्धं वा भक्त्या कर्मण्यतां व्रजेत् ।
शूद्रस्य वषट्[1]काराद्यनर्हत्वान्मन्त्रशरीरे तत्प्रतिनिधित्वेन नमस्कारो योज्य इत्याह- वौषडिति। पाद्मे तु-
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् ।
मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ।।
केवलं वैष्णवं नाम नमःप्रणववर्जितम् ।
हुंफडादिवषट्स्वाहावर्जितं केशवादिकम् ।।
अध्याप्य स्त्रीषु शूद्रेषु तद्वदेवानुलोमजे ।
सावित्रीं येऽनुतिष्ठन्ति तेषां विप्रवदिष्यते ।।
इति शूद्रादीनां प्रणवनमस्कारावपि निषिद्धौ। अन्यत्र-
न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयः स्मृताः ।
स्त्रीणां च शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते ।।
इति प्रणवमात्रं निषिद्धम्। अतः सहिताभेदेन व्यवस्था ज्ञेया। पुष्पाञ्जल्यादिसमर्पणार्थं शूद्राहृतं पुष्पादिकमपि तद्भक्तिवशेन कर्मार्हं भवतीत्याह- तदीयमिति ।। 54-56 ।।
[1 वौषट्- मु.।]
अतोऽन्येषां तु भक्तानां विहिता यागसाधने ।। 56 ।।
सम्यक् [1]सत्त्वनिवृत्तिः प्राग् दर्शन[2]प्रोक्षणान्वितम् ।
एवं त्रैवर्णिकानामपि यागसाधनद्रव्येषु स्वीयत्वाभिमाननिवृत्तिर्विहितेत्याह- अतोऽन्येषामिति त्रिभिः पादैः ।। 56-57 ।।
[1 सत्त्वनिवृत्त्यर्थं- अटी.।]
[2 दर्शनं- मु. अटी. बक. बख.।]
मूर्तौ[1] वा मण्डलाग्रे तु पुष्पक्षेपं महामते ।। 57 ।।
शिष्यैः पुष्पाञ्जलिसमर्पणं बिम्बाग्रे मण्डलाग्रे वा कार्यमित्याह- दर्शनेति त्रिभिः पादैः। दर्शनं नेत्रमन्त्रेणावलोकनमित्यर्थः। अनेन दीक्षाकाले मण्डलबिम्बयोरन्यतरार्चनं सूच्यते ।। 57 ।।
[1 मूर्ते- अ.।]
नक्तं वा परिपीडं[1] च व्रतार्थं[2] त्वेकमेव[3] हि ।
एवं संस्कारसंशुद्धं कृत्वा वर्णगणं पुरा ।। 58 ।।
साङ्गेन विभुना कुर्यात् तत्प्राय[4]श्चित्ततर्पणम् ।
सदशांशं[5] सहस्रं तु यथा चानुक्रमेण तु ।। 59 ।।
गत्वाऽभ्यर्च्य च कुम्भेशं सूत्रमादाय तत्स्थितम् ।
ऋजुभूतं शिशुं कृत्वा तद्वत् सूत्रं प्रसार्य[6] च ।। 60 ।।
दीक्षाव्रतार्थं शुद्धोपोषणं नक्तभोजनं वा विहितमित्याह- नक्तमित्यर्धेन ।।
एवं ब्राह्मणादीनां संस्कारानन्तरं वर्णानुक्रमेण साङ्गमूलमन्त्रैः सदशांशसहस्रसंख्यया प्रायश्चित्तहोमं कुम्भस्थितभगवदभ्यर्थनपूर्वकं तत्समीपस्थापितमायासूत्रग्रहणम् ऋजुभूतस्य शिष्यस्या पादाच्छिखान्तं तत्सूत्रप्रसारणं चाह- एवमिति सार्धद्वाभ्याम् ।। 58-60 ।।
[1 पिण्डं- बक. बख.।]
[2 भूता- बक. बख.।]
[3 चैव- बक. बख. उ.।]
[4 प्रायश्चित्तं च- बक. उ.।]
[5 शांश- मु. अटी.।]
[6 प्रचार्य- मु. अटी.।]
व्यक्तरूपं च मन्त्रेशं संस्मरेदग्निमध्यगम् ।
पश्येद् विभौ शिशौ[1] सूत्रे स्वात्मन्यध्वानमञ्जसा ।। 61 ।।
अग्निमध्ये व्यक्तरूपं भगवन्तं संस्मृत्य तस्मिन् भगवति शिशौ सूत्रे स्वात्मनि चाध्वानं स्मरेदित्याह- व्यक्तेति ।। 61 ।।
[1 शिशुं- मु. अटी. बक. बख. अ.।]
तत्राध्यात्मस्वरूपं च संस्मरेन्मन्त्रदेहगम् ।
अधिदैवस्वभावं च तत्स्वात्मन्यवतार्य च ।। 62 ।।
अधिभूतमयं सूत्रे त्रिविधं शिष्यविग्रहे ।
अध्वस्मरणक्रममाह- तत्रेति सार्धेन। त्रिविधम् अध्यात्माधिदैवाधिभूतभेदभिन्नस्वरूपमित्यर्थः ।। 62-63 ।।
मूलमन्त्रावसाने तु सनमस्कं परात्मने ।। 63 ।।
पदं कृत्वा तु जुहुयादाहुतीनां चतुष्टयम् ।
तथा सूक्ष्मात्मने चोक्त्वा ततः स्थूलात्मने तु वै ।। 64 ।।
सर्वात्मने च तदनु ततोऽध्वनिचयं हितम् ।
आ पादा[1]ग्राच्छिखान्तं च सर्वं ध्यात्वा स्वदेहगम् ।। 65 ।।
यथोद्दिष्ट[2]क्रमेणैव विभिन्नं त्रिविधं त्वपि ।
तेषां सन्तर्पणमन्त्रानाहुतिसंख्यां ततस्तेषां स्वशरीरे आ पादाच्छिखान्तं यथाक्रमं व्याप्तिस्मरणं चाह- मूलमन्त्रेति त्रिभिः ।। 63-66 ।।
[1 पदा- मु. अटी. बक.।]
[2 ष्टं क्र- मु.।]
रचनासन्निवेशो यः क्ष्मादीनां चाधिभूतता ।। 66 ।।
बोद्धव्यमधिदैवत्वं सामर्थ्यं यस्य यत् स्वकम् ।
तदधिष्ठातृमन्त्राणामध्यात्मत्वं विधीयते ।। 67 ।।
अधिभूताधिदैवाध्यात्मपदार्थविवरणमाह- रचनेति सार्धेन। तदधिष्ठातृमन्त्राणां पूर्वोक्तवराहादिमन्त्रणामित्यर्थः ।। 66-67 ।।
अथ मार्गद्वयं त्यक्त्वा द्वादशान्तं समाश्रयेत् ।
मूलमन्त्रमयो भूत्वा संव्रजेत् स्वधिया ततः ।। 68 ।।
ब्रह्मद्वारपदं [1]शैष्यं ततस्तन्मध्यवर्त्मना ।
पार्थिवं पदमाक्रम्य कुर्यात् तच्छक्तिमात्मसात् ।। 69 ।।
बीजभूतां च हृन्मन्त्रसंरुद्धां सन्धि[2]विग्रहाम् ।
नानाण्डबीजसंयुक्ताम् अनेकरचनान्विताम् ।। 70 ।।
एवमादाय वै सर्वा बुद्धिनिष्ठास्तु शक्तयः ।
पृथक् पृथक् क्रमेणैव तस्मिन् हृन्मन्त्रसम्पुटे ।। 71 ।।
स्वेनाध्यात्मगु[3]णेनैव परेण[4] व्यापकात्मना ।
तद्देहं धारयन्तं[5] च स्मरेत् तमु[6]भयात्मकम् ।। 72 ।।
कालं[7] भोगक्षयान्तं च तत्कालात्[8] तु महामते ।
कृत्वैवं भूतशक्तीनां संहारं शिशुविग्रहात् ।। 73 ।।
सौत्रं देहमथाक्रम्य सम्यक् तेनैव वर्त्मना ।
प्रोल्लसंस्तद् व्रजेत्तत्र व्यञ्जयेत् तु धियादि[9]वत् ।। 74 ।।
आदायाध्यात्ममन्त्रांश्च भूतभूतान्वितानथ ।
नि[10]त्यैर्ज्ञलक्षणैः शुद्धैः समन्त्रैः[11] स्वस्थितानपि ।। 75 ।।
अथ सूत्राद् विनिष्क्रम्य प्रयायादनलाश्रयम् ।
तत्रावयवसन्धानान्मन्त्रसाम्यं[12] समाचरेत् ।। 76 ।।
समाहृतानां[13] मन्त्राणां परे सर्वज्ञलक्षणे ।
व्यापके सर्वसामान्ये कृत्वा स्वे स्वे पदे स्थितिम् ।। 77 ।।
स्वशरीरमथासाद्य ब्रह्मद्वारेण देशिकः ।
अथाचार्यस्य शिष्यब्रह्मरन्धद्वारा[14] तदन्तःप्रवेशं तत्र पृथिव्यादितत्त्वशक्तीनां संहारप्रकारं ततः सूत्रमयदेहान्तःप्रवेशं तत्र ध्याताऽधि[15]भूतध्यात्मादीनां च ग्रहणं ततोऽग्निस्थितं भगवन्तं प्राप्य तत्र समाहृतानां मन्त्राणां स्थापनं पुनः स्वशरीरान्तःप्रवेशनं चाह- अथ मार्गद्वयं त्यक्त्वेत्यादिभिः। मार्गद्वयं भुवनपदाध्वनोर्द्धयमित्यर्थः, तयोरशुद्धत्वात्। मन्त्राध्वानं प्रविष्टस्य हि मूलमन्त्रमयत्वं सिद्ध्यति ।। 68-78 ।।
[1 श्रैष्ठ्यं- अटी.।]
[2 गन्ध- अ. उ.।]
[3 गणे- उ.।]
[4 ध्यात्वा च- उ.।]
[5 न्तश्च- मु.।]
[6 तदु- बक. बख.।]
[7 काल- उ.।]
[8 लाच्च- उ.।]
[9 तु यत्- बक. बख. उ., दि तत्- अ.।]
[10 नित्यज्ञ- बख., नित्यैः स्व- अ., नित्यैर्ज्ञा- उ.।]
[11 मन्त्रैस्तु- बक., मन्त्रैस्तत्- बख. अ. उ.।]
[12 सात्म्यं समुच्च- उ.।]
[13 समाश्रिता- उ.।]
[14 द्वारं- मु.।]
[15 `अधि' नास्ति- अ.।]
स्रुवमादाय सन्तप्य मन्त्रवृन्दं यथोदितम् ।। 78 ।।
तत्त्ववृन्दसमेतं च स्वनाम्ना प्रणवादिना ।
भूयः संसृष्टि[1]योगेन द्विषट्कपरिसंख्यया ।। 79 ।।
पृथिव्यादितत्त्वानां तदधीशमन्त्राणां च संहारक्रमेण संतर्पणमाह- स्रुवमिति। ॐ क्ष्मां नमः क्ष्मातत्त्वाय स्वाहा क्ष्मातत्त्वायेदं न मम। ॐ सरश्शायिने स्वाहा शरश्शायिन इदं न मम। इत्यादिक्रमेण प्रयोगो बोध्यः। अत्र द्विषट्कपरिसंख्ययेत्यनेन पूर्वं संहारक्रमेऽप्याहुतीनां द्वादशसंख्याकत्वं ज्ञायते ।। 78-79 ।।
[1 संसृष्ट- उ.।]
पूरकेण समाकृष्य शिष्य[1]हृत्कमलाद् हृदि ।
अथ व्यक्तिनिरस्तं च क्ष्माबीजं परलक्षणम् ।। 80 ।।
ज्ञ[2]शक्त्या ज्ञानसंरुद्धं कृत्वादायानलाद् हृदि ।
प्रणवासनविश्रान्तं[3] विरेच्याब्जे तु शैशवे ।। 81 ।।
स्मृत्वाऽथ शिष्यचैतन्यमेकमेव[4] द्विरूपधृक् ।
शक्तिमच्छक्तिभावेन शक्तित्वेन तु संस्मरेत् ।। 82 ।।
क्ष्मातत्त्वान्तर्गतं कुण्डे शक्तिमत्तेन तत्पुनः ।
रेचयित्वा स्वनाम्ना च विग्रहे मध्यवर्त्मना ।। 83 ।।
नियोज्य तत्समाधौतं जपध्यानैकलक्षणे ।
तदेव पार्थिवं बीजं हृदा वै होमकर्मणा ।। 84 ।।
सम्यक् तस्योपकारार्थं नेतव्यं सूक्ष्मदेहताम् ।
स्वाहान्तं भोगसिद्ध्यर्थं नमोऽन्तं मोक्षसिद्धये ।। 85 ।।
भोगमोक्षाप्तये चापि तदेवोभयलक्षणम् ।
कर्मणामवसाने तु सम्पादयपदं न्यसेत् ।। 86 ।।
एवं तु[5] विग्रहे सूक्ष्मे तद्हृत्पद्मगतस्य च ।
शिरसा चाधिकारात्[6] तु तस्यापाद्य यथास्थितम् ।। 87 ।।
शिखामन्त्रेण[7] तद्भोगं निर्वर्त्य[8] शतसंख्यया ।
वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ।। 88 ।।
सुतृप्तिमथ नेत्रेण कुर्यात् तेनैव [9]संस्थितिम् ।
तत्त्यागश्चास्त्रमन्त्रेण विश्लेषेण युतो भवेत् ।। 89 ।।
मूलेनाथ गृहीत्वा तत् कुर्याच्चैवात्मसात् पुनः ।
तद्वच्छक्तिं तदीयां च कुण्डाद् व्यापकलक्षणाम् ।। 90 ।।
क्ष्मातत्त्वस्याथ[10] साध्यस्य ह्यसाधारस्य[11] शान्तये ।
पूर्वसंख्यं तु चास्त्रेण[12] कृत्वा होमं महामते ।। 91 ।।
स्रुवमाज्येन सम्पूर्य स्कन्धसूत्रात् तु पार्थिवम् ।
विकर्त्य पूर्णया सार्धं विलाप्याग्नौ[13] स्वके पदे ।। 92 ।।
मूलमन्त्रेण सहसा हृत्पद्मप्रेरितेन तु ।
स्वदेहाद् रेचकेनाथ प्रेर्य शक्तिं च शैशवीम्[14] ।। 93 ।।
तयाक्रान्त[15] मधःस्थं च संस्मरेद् व्यतिरिक्तया ।
कबिन्दु[16]नेवाब्जपत्रमाद्याध्वानं च भौवनम् ।। 94 ।।
शिष्यदेहे निरुद्धस्य व्यक्तिक्रोडीकृतस्य च ।
स्वशक्तिपरिपूर्णस्य क्ष्माबीजस्य त्वथोपरि ।। 95 ।।
विरेच्य शक्तिमन्तं च व्यस्तधर्मेण पूर्ववत् ।
शिष्यचैतन्यस्य स्वहृदि संकर्षणम् अग्निस्थस्य व्यक्तिनिरस्तस्य क्ष्माबीजस्य चाकर्षणं तस्य शिष्यहृत्कमले स्थापनं शिष्यचैतन्यस्याग्नौ क्ष्मातत्त्वान्तःशक्तित्वेन स्मरणं शक्तिमत्त्वेन पुनस्तस्य तद्विग्रहरेचनं क्ष्माबीजजपध्यानरूपे समये नियोजनम् ॐ ज्ञानाय हृदयाय नम इत्यस्य सूक्ष्मदेहतां सम्पादय स्वाहेति वा, सम्पादय नम इति वा, सम्पादय नमः स्वाहेति वा मन्त्रेण होमैः सूक्ष्मदेहतानयनं तथैव तदधिकारादिहोमं तद्विश्लेषणार्थं[17] होमं ततः शक्तिमतः शक्त्याश्च पुनरात्मसात्करणं क्ष्मातत्त्वस्य शान्त्यर्थं होमं सकर्मसूत्रपार्थिवांशखण्डेन सह पूर्णाहुतिं पुनः शिष्यदेहे तच्छक्तिभुवनाध्वनोर्जलबिन्दुपद्मपत्रयोरिव संबन्धं तथैव शक्तिवत् क्ष्माबीजयोरपि संबन्धं चाह- पूरकेण समाकृष्येत्यारभ्य व्यस्तधर्मेण पूर्ववदित्यन्तम् ।। 80-96 ।।
[1 शिष्यं- मु. अटी. बक. बख.।]
[2 भू- बक. बख., स्व- अ.।]
[3 विश्रान्तिं- अ.।]
[4 मेवं- उ.।]
[5 तद्वि- अ. उ.।]
[6 कारं तु- अ. उ.।]
[7 शिरो- अ.।]
[8 निकर्त्य- अ.।]
[9 तत्स्थितम्- बख., तत्स्थितिम्- उ.।]
[10 थवाद्ध्यस्य- मु. अटी.।]
[11 ह्यना- मु. अटी.।]
[12 शास्त्रेण- अ. उ.।]
[13 विलप्या- मु., विलिप्या- अटी.।]
[14 शैशवम्- मु. अटी. ।]
[15 तयाक्रान्तं मयस्थं- मु. अटी.।]
[16 कुबिन्दुनो- बक. बख.।]
[17 श्लेषार्थं- अ.।]
तत्क्षणे बीजसंस्थं तु अध्वानं तु यथास्थितम् ।। 96 ।।
प्रकाशयन्ति[1] कृपया तन्नाथास्तस्य[2] सिद्धये ।
तदानीं भुवनाध्वाद्यधीशास्तद्बीजस्थितमध्वानं यथास्थितं कृपया शिष्याय प्रकाशयन्तीत्याह- तत्क्षण इति ।। 96-97 ।।
[1 यन्तं- मु. अटी. बक. बख.।]
[2 तन्नाथं- मु. अटी. बक. बख.।]
विरक्तं भावयेच्छिष्यं चिन्तयन्तमिदं[1] धिया ।। 97 ।।
इदं तत्पार्थिवं तत्त्वं [2]मुधा वै दुःखपञ्जरम् ।
भावतत्त्व[3] गतं चास्य[4] सुमहत्त्वं[5] च साम्प्रतम् ।। 98 ।।
कथमत्र त्वहं चासं यस्य मे न[6] तता इमाः ।
प्रकाशनेन[7] विरक्तस्य शिष्यस्य चिन्तनप्रकारमाह- विरक्तमिति द्वाभ्याम् ।। 97-99 ।।
[1 येत्तदिदं- मु. अटी.।]
[2 बुधा- मु. बक. बख., बुध्वा- अटी.।]
[3 तत्त्वं- मु. अटी. बक. बख.।]
[4 चापि- उ.।]
[5 समुद्धृत्य तु- उ.।]
[6 मेने ततामिमाम्- उ.।]
[7 तत्प्रका- मु.।]
विमुक्तः पञ्जराद् यद्वत् सुखमास्ते विहङ्गमः ।। 99 ।।
ऊर्ध्वपाती तदारूढस्त्वेवं मन्त्रबलाच्छिशुः ।
इतः परं शिष्यस्य पञ्जरविमुक्तविहङ्गमसादृश्यमाह- विमुक्त इति। शिष्यचैतन्यस्य मन्त्रबलात्[1] क्ष्मातत्त्वविमुक्तत्वेऽपि तदारूढत्वाद् विहङ्गमस्यापि पञ्जरोर्ध्वारूढत्वमुक्तम् ।। 99-100 ।।
[1 वरात्- अ.।]
समूहमथ विज्ञाप्य तत्प्रभुत्वेन यः स्थितः ।। 100 ।।
सन्निरुद्धो भवत्वस्य[1] सर्वतः सर्वदैव हि ।
युष्मत्प्रसादसामर्थ्याद् यथावत् [2]पार्थिवो गुणः ।। 101 ।।
देहान्तं गन्धतन्मात्रं भवेदासीनमस्य वै ।
सम्यक् संप्रतिपन्नस्य शासने [3]पारमेश्वरे ।। 102 ।।
क्ष्मातत्त्वस्थितपातालशयनादिमन्त्रसमूहविज्ञापनं तत्प्रकारं चाह- समूहमिति सार्धद्वाभ्याम् ।। 100-102 ।।
[1 भवेत्तस्य- मु. अटी. बक. बख. अ.।]
[2 प्रथितो- उ.।]
[3 परमे- उ.।]
हे धराधिपते नाथ अस्याद्य प्रभृति त्वया ।
ध्वंसिना[1] मोक्षविघ्नानां भवितव्यं च कर्मिणः ।। 103 ।।
तदधीनवराहविज्ञापनप्रकारमाह- हे धराधिपते इति ।। 103 ।।
[1 ध्वंसाय- बख. अ. उ.।]
इति विज्ञाप्य चाज्ञाप्य आपाद्याहुतयः क्रमात् ।
सह शक्त्या समाकृष्य भूयात् तत्पूरकेण तु ।। 104 ।।
इति विज्ञापनानन्तरं पूर्वोक्तक्ष्मातत्त्वतदधीशमन्त्रैर्होमं शिष्यदेहात् पूरकेण शक्तिमच्चैतन्यस्य शक्त्या सहाकर्षणं चाह- इतीति। आज्ञाप्येत्यत्र गन्धमिति शे,ः, "रसमाज्ञाप्य गन्धवत्" (19/109) इति वक्ष्यमाणत्वात् ।। 104 ।।
तद्देहे चाम्मयं[1] बीजं साधारं पूर्ववद् न्यसेत् ।
कुण्डमध्ये[2]ऽनुसन्धाय जीवशक्तिं च पूर्ववत् ।। 105 ।।
विरेच्य शक्तिमांस्तत्र नियोज्यस्तदनन्तरम् ।
तत्समाधौ यथापूर्वं कुम्भकेन महामते ।। 106 ।।
अथाप्यं[3] देहमापाद्य होमध्यानादिना[4] परम् ।
तत्राधिकारपूर्वं तु सर्वं निर्वर्त्य तस्य वै ।। 107 ।।
आप्येन[5] सूत्रस्कन्धेन सह पूर्वा[6]न्निपात्य च ।
अप्[7]तत्त्वं पदसंयुक्तं तेनाक्रान्तं स्मरेत् तथा ।। 108 ।।
तत्स्थं मन्त्रसमूहं तु सह तत्पतिना तु वै ।
पूर्ववच्छ्रावयित्वा च रसमाज्ञाप्य गन्धवत् ।। 109 ।।
अथाप्तत्त्वसंस्कारमाह- तद्देह इति पञ्चभिः। तद्देहे शिष्यदेह इत्यर्थः। अम्मयं बीजं अप्तत्त्वं बीजमित्यर्थः। ॐ अं नम इति यावत्, "नीत्वा स्वनाम्न आद्यर्णं क्ष्मान्तानां बीजतां गतम्" (18/135) इति पूर्वोक्तेः। साधारं प्रणवासन[8]विश्रान्तमित्यर्थः। शक्तिमान् शक्तिमत्त्वेन ध्यातं शिष्यचैतन्यमित्यर्थः। तत्र शिष्यविग्रह इत्यर्थः। तत्समाधौ पूर्वोक्तजपध्यानैकलक्षणे समाधावित्यर्थः। आप्यं देहमापाद्य सूक्ष्मदेहं संपाद्येत्यर्थः। होमध्यानादिना हृन्मन्त्रहोमादिनेत्यर्थः। अधिकारपूर्वम् अधिकारभोगाधिकमित्यर्थः। पदसंयुक्तं ण्दाध्वसंयुक्तमित्यर्थः। तेनाक्रान्तं शक्तिसहितशक्तिमताक्रान्तमित्यर्थः। तत्स्थं मन्त्रसमूहं नारायणादिसप्तमन्त्रसमूहमित्यर्थः। तत्पतिना सह सरश्शायिना सार्धमित्यर्थः। पूर्ववत् श्रावयित्वा पूर्वोक्तप्रार्थनाश्लोकान् श्रावयित्वेत्यर्थः। किन्तु तत्र यथावत् पार्थिवो गुण इत्यत्र यथावच्चाम्मयो गुण इति, गन्धतन्मात्रमित्यत्र रसतन्मात्रमिति, हे धराधिपते इत्यत्र हे जलाधिपते इति च योज्यम्। एवमुत्तरत्रापि ज्ञेयम् ।। 105-109 ।।
[1 चामयमिति सार्वत्रिकः पाठः।]
[2 मध्ये तु- अ. उ.।]
[3 अथान्यं- मु. अटी.।]
[4 दाना- बक.।]
[5 अन्येन- मु. अटी.।]
[6 पूर्णानि - उ.।]
[7 आप्तत्त्व- मु.।]
[8 सनमवि- अ.।]
मनोऽवसानं नीत्वैवं तं वर्णाध्वोर्ध्वगोचरम् ।
निष्ठाङ्गेन महाबुद्धे तेजसाऽस्त्रेण चेच्छया ।। 110 ।।
समुद्धृत्याथ वै प्राग्वद् यो[1]क्तव्यं बुद्धिगोचरे ।
षडध्वमुक्तमूलेन प्राप्तसंज्ञं च तं शिशुम् ।। 111 ।।
तत्त्वकञ्चुकनिर्मुक्तं शान्तात्मन्येकतां गतम् ।
स्मृत्वा[2] शक्त्यात्मनाऽग्नौ तु लब्ध[3]लक्षं परे पदे[4] ।। 112 ।।
ऐश्वरेण तु बीजेन प्रोक्तसत्त्वान्वितेन च ।
ततः संवेद्यनिर्मुक्ते समाधौ विनियोज्य च ।। 113 ।।
न वेत्ति यत्र संलीनं सानन्दं[5] द्वैतमात्रकम् ।
एवं तेजस्तत्त्वप्रभृतिमनस्तत्त्वान्तानां मन्त्राध्वादिवर्णाध्वान्तसहितानां चतुर्णां क्रमेण संस्काराः कार्या इत्याह- मनोऽवसानमित्यर्धेन ।।
अथ नेत्रमन्त्रेणास्त्रमन्त्रेण वा शक्तिमतः शिष्यचैतन्यस्य [6]बुद्धिमयेऽध्वनि योजनं तच्छक्त्याः पूर्ववदग्नौ योजनम्। ऐश्वरेण बीजेन जपध्यानैकलक्षणे समाधौ नियोजनं चाह- निष्ठाङ्गेनेति चतुर्भिः। निष्ठाङ्गेन चरमाङ्गेनेत्यर्थः। इदं तेजोऽस्त्रमन्त्रयोरुभयोरपि विशेषणं बोध्यम्। यतः-
प्राधान्येन त्वथैश्वर्यं मोक्षो यत्रानुषङ्गतः ।।
तत्र तद्विघ्नशान्त्यर्थमस्त्रान्तं विद्धि मन्त्रपम् ।
विपर्यये तु नेत्रान्तो[7] मन्त्रो [8]यस्मान्महामते ।। (2/39-40)
इति फलाभिसन्धिभेदेनोभयोरपि चरमाङ्गत्वं द्वितीयपरिच्छेदे प्रतिपादितम् ।। 110-114 ।।
[1 वक्तव्यं- मु. अटी. बक. बख.।]
[2 स्मृत्या- उ.।]
[3 लक्ष्म- उ.।]
[4 पदे- परे- मु. अटी.।]
[5 स्वानन्द- अ. उ.।]
[6 कृत्वा- मु. अटी. बक. बख.।]
[7 भूशुद्धि- अ.।]
[8 मन्त्रान्तो- अ.।]
[9 यस्मिन्- अ.।]
आहुतीनां शतं हुत्वा[1] तदापादनकर्मणि ।। 114 ।।
नीत्वा समानतां सर्वं तेनैव[2] स्वधियाऽखिलम् ।
सह संवेद्य[3]जालेन[4] वाक्प्रबन्धं यथास्थितम् ।। 115 ।।
निस्तरङ्गमयो भूत्वा दद्यात् पूर्णाहुतिं पराम् ।
होमविधिमाह- आहुतीनामिति द्वाभ्याम् ।। 114-116 ।।
[1 कृत्वा- मु. अटी. बक. बख.।]
[2 तेन च- उ.।]
[3 संवेष्ट्य - अ.।]
[4 कालेन- बक. बख.।]
अथास्मितां[1] प्राप्य गुरुः प्रदद्यादाहुतीः[2] पुनः ।। 116 ।।
बीजनाथेन शिष्यस्य त्वपमोक्षनिवृत्तये ।
पदैरोङ्कारसंरुद्धैः पदाव[3]स्थितमानसः ।। 117 ।।
सर्वज्ञो भव चोक्त्वैवं[4] जुहुयाद् द्वादशाहुतीः ।
भवैवमेव[5] भगवन्निरवद्यो निराश्रयः ।। 118 ।।
सर्वेश्वरः सर्वशक्तिः सुसम्पूर्णोऽच्युतो वशी[6] ।
व्यापी निरुद्धषाड्गुण्यो निर्विकारो निरञ्जनः ।। 119 ।।
नित्यो नित्योदित[7]ज्ञानो नित्यानन्दः सुनिष्कलः ।
अनाद्य[8]नन्तोऽनिधनो वासुदेवो विभूतिमान् ।। 120 ।।
भूत्वैवं[9] च ततः कुर्यात् पूर्णया पुनरेव हि ।
पुनरपमोक्षनिवृत्त्यर्थं होममाह- अथेति पञ्चभिः। बीजनाथेन ऐश्वर्यबीजेनेत्यर्थः। विशाखयूपबीजेनेति यावत् ।। 116-121 ।।
[1 अथास्थितां- मु. अटी.।]
[2 हुतिं- बख. उ.।]
[3 पदाया- उ.।]
[4 व- उ.।]
[5 भवैक- उ.।]
[6 हरिः- बक. बख.।]
[7 तोऽनूनो- अ. उ.।]
[8 अनाद्यन्तो ह्यनि- बक. बख., अनाद्यन्तो निधानो वा- अटी.।]
[9 हुत्वै- अ. उ.।]
स्थितं[1] वैभवदीक्षायां मुमुक्षोरैश्वरे पदे ।। 121 ।।
यत्रस्थो धाम चाभ्येति ह्यचिरात् पारमेश्वरम् ।
ईश्वरेच्छावशेनैव देहपातान्महामते ।। 122 ।।
भोगेच्छोः[2] पद्मनाभीय उभयेच्छोः[3] पदद्वये ।
शक्तिमच्छक्तियोगेन त्वथ बुद्धिमयेऽध्वनि ।। 123 ।।
निवेश्यो देहपातान्तं कालमुद्धृत्य तत्पदात् ।
अन्तरूढो[4] यथा काष्ठात् पावकश्च पृथक् कृतः ।। 124 ।।
न भूयः सह काष्ठेन साम्यमेति[5] तथा पुमान् ।
योजितोऽध्वान्तरे भूयो नैति तन्मयतां ततः ।। 125 ।।
अथ बुद्धिपदाद् वैशाखयूपपदे पद्मनाभाभिधपदे वा शक्तिमच्छक्तिभेदेनोभयत्र वा तत्फलाभिसन्ध्यनुसारेण शिष्यचैतन्यस्थापनं पुनस्तस्मात् पदादुद्धृत्य देहपातान्तं कालं बृद्धिमयेऽध्वन्येव स्थापनं तथा बुद्धिपदे स्थापितस्यापि चैतन्यस्य काष्ठवह्निदृष्टान्तेन तन्मयाभावत्वं चाह- स्थितमिति सार्धैश्चतुर्भिः ।। 121-125 ।।
[1 स्थिति- उ.।]
[2 भोगेप्सोः- अ. उ.।]
[3 येप्सोः- अ. उ.।]
[4 अन्तर्गूढो- बख. अ. उ.।]
[5 स्वात्म्य- उ.।]
समाधिप्रच्युतिं कृत्वा विनिवेश्यात्मनोऽग्रतः ।
यथावदुपदेष्टव्यस्तस्याध्वा च सितासितः[1] ।। 126 ।।
संस्थितो [2]यस्त्वभेदेन भिन्नरूपः परात्मनि ।
अथ शिष्यं पूर्वोक्तसमाधिविमुखं कृत्वाऽऽत्मनोऽग्रे निवेश्य तस्य वक्ष्यमाणप्रकारेण षडध्वोपदेशं कुर्यादित्याह- समाधीति सार्धेन ।। 126-127 ।।
[1 ततः- बक. बख.।]
[2 यः स्वदेहेन- अ.।]
वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत्परम् ।। 127 ।।
तच्छब्दब्रह्मभावेन स्वशक्त्या स्वयमेव हि ।
मुक्तयेऽखिलजीवानामुदेति परमेश्वरः ।। 128 ।।
परंब्रह्मैव निखिलचेतनसंरक्षणार्थं शब्दब्रह्मभावं भजतीत्याह- वेद्येति सार्धेन ।। 127-128 ।।
तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः ।
पृथग्वर्णात्मना याति स्थितयेऽनेकधा स्वयम् ।। 129 ।।
तन्त्रीशब्दवदव्यक्ताक्षरं तच्छब्दब्रह्म अकारादिक्षकारान्तवर्णरूपेण पुनर्व्यक्ततां भजतीत्याह- तदिति। एतद्व्यक्तरूपं सर्वैरपि ज्ञायते ।। 129 ।।
नो यान्ति निश्चयं यत्र चातुरात्म्यादनुग्रहात् ।
ऋते वेदविदो विप्रास्त्वेतस्मिन् प्रथमेऽक्षरे ।। 130 ।।
अव्यक्ताक्षरे शब्दब्रह्मणः प्रथमरूपे तु भगवदनुग्रहं विना वेदविदामपि निर्णयो न संभवतीत्याह- नो यान्तीति ।। 130 ।।
स शब्दमूर्तिर्भगवानभ्येति च कलात्मना ।
तद्ग्रहो[1] युज्यते येन तन्निष्ठानां हि कर्मिणाम्[2] ।। 131 ।।
एष वर्णाध्वैव कलाध्वरूपेण परिणमतीत्याह- स इति। कलात्मना ज्ञानादिषड्गुणेनेत्यर्थः। तन्निष्ठानां भगवज्ज्ञानादिषाड्गुण्यानुभवनिष्ठानां कर्मिणां तदाराधनादिकर्मवतां चेतनानां तद्ग्रहो ज्ञानादिगुणग्रहणं येन युज्यते कलाध्वरूपपरिणामेन संभवतीति पूर्वेणान्वयः ।। 131 ।।
[1 तद्गृह्यो- मु. अटी.।]
[2 कर्मणा- मु.।]
न षाड्गुण्यकलोत्था[1] च यावन्मूर्तिर्निरञ्जना[2] ।
वद केनाऽन्यथाऽमूर्तं तद्ग्रहीतुं नियुज्यते ।। 132 ।।
एवं शब्दमूर्तेः षाड्गुण्यात्मना परिणामाभावे तन्मय भगवन्मूर्तिज्ञानं कथं भवतीत्याह- नेति ।। 132 ।।
[1 मलो- मु. अटी.।]
[2 र्तिनिरञ्जनम्- मु. अटी. बक.।]
तत्त्वाः कलामयाः सर्वे प्रभवाप्ययलक्षणाः ।
पूर्वोक्ता वासुदेवाद्या अध्यक्षान्ता यथोदिताः ।। 133 ।।
अस्मात् कलाध्वनो वासुदेवमूर्त्यादितत्त्वोत्पत्तिमाह- तत्त्वा इति ।। 133 ।।
तत्त्वेभ्यो[1] निर्गता मन्त्रास्त्वणिमादिगुणैर्युताः ।
षट्कलाङ्गलवैर्युक्ता येषु संख्या न विद्यते ।। 134 ।।
व्यञ्जितं तैः सनिर्माणं[2] तुर्याद्यं[3] पदसंज्ञकम् ।
कर्मिणामात्मलाभार्थं मोहार्थं तत् क्षयाय च ।। 135 ।।
द्विसप्तभुवनं विश्वं गुणत्रयमयं[4] हि यत् ।
तदशुद्धं जगन्नित्यं[5] भोग्यं प्राप्यं[6] पृथक् स्थितम् ।। 136 ।।
तत्त्वाध्वनो मन्त्राध्वसमुत्पत्तिं तस्मात् पदाध्वसमुत्पत्तिं ततो भुवनाध्वोत्पत्तिं चाह- तत्त्वेभ्य इति त्रिभिः। षट्कलाङ्गलवैर्युक्ता ज्ञानैश्वर्यादिषड्गुणात्मकहृदयाद्यङ्गमन्त्रैरन्विता[7] इत्यर्थः। तुर्याद्यमित्यत्र आद्यपदेन सुषुप्तिस्वप्नजाग्रत्पदत्रयमुच्यते ।। 134-136 ।।
[1 तेभ्यो विनि- मु.।]
[2 स्व- अ., स्त्व- उ.।]
[3 तस्याद्यं- मु. अटी. बक. बख.।]
[4 युतं- उ.।]
[5 जडं नित्यं- अ. उ.।]
[6 व्याप्यं- बक. बख. अ., चाप्यं- उ.।]
[7 तामि- अ.।]
इत्यध्वषट्कमुद्दिष्टं हेयोपादेयलक्षणम्[1] ।
भुवनाध्वा पदाध्वा च विना तुर्यपदेन तु[2] ।। 137 ।।
हेयः शेषमुपादेयं कर्मिणां तदपेक्षया ।
व्यपेक्षयाऽप्युपेयश्च हेयपक्षे प्रयाति च ।। 138 ।।
उक्तार्थनिगमनपूर्वकं तस्मिन्नध्वषट्के भुवनाध्वनः पदाध्व(नि?नः) सुषुत्प्यादिपदत्रिकस्य च हेयत्वं तुर्यपदस्य मन्त्राध्वादीनां चोपादेयत्वं चाह- इत्यध्वषट्कमिति सार्धेन। एवमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि-
तुर्यवर्जं[3] सुषुप्त्यादिरशुद्धां भजते गतिम् ।
मायादिक्षितिपर्यन्तां[4] योक्ता भुवनपद्धतिः ।।
भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः । (22/27-28)
इति ।। 137-138 ।।
[1 लक्षणः- मु. अटी.।]
[2 तत्- उ.।]
[3 तुर्यं वर्ज्यं - अ. मु.।]
[4 पर्यन्तं- अ.।]
किन्तु तत्प्राप्त्युपायं वै निस्तरङ्गे परे पदे ।
विवेकपदसंस्थस्य दीक्षया[1] संस्कृतस्य च ।। 139 ।।
विचार्यमाण एवं हि विश्रामो[2] यत्र वै स्फुटम् ।
जायते तत्परं ब्रह्म वासुदेवाख्यमव्ययम् ।। 140 ।।
मुमुक्षोः शुद्धाः[3] सन्तोऽप्यनपेक्षया तस्य तेऽपि हेयपक्षान्तर्गता भवन्तीत्याह- व्यपेक्षयेत्यर्धेन ।
तर्हि मुमुक्षुप्राप्यं किमिति चेत् तदाह- किन्त्विति द्वाभ्याम्। विश्राम इत्यत्र षडध्वनामिति शेषः ।। 139-140 ।।
[1 सुदीक्षा- बख. उ., दीक्षायां- अ.।]
[2 विश्रमो- अ. उ.।]
[3 शुद्धास्वप्य- मु.।]
अम्बरं परमाणूनां बहूनामास्पदं[1] यथा ।
तथाऽनाद्य[2]प्रबुद्धानां जीवानां हि निकेतनम् ।। 141 ।।
विज्ञेयं भुवनानां च पदानामन्तरं[3] हि यत् ।
भुवनपदाध्वद्वयमप्यसंख्यातवेतनास्पदमित्याह- अम्बरमिति सार्धेन ।। 141-142 ।।
[1 ब्रह्म- मु. अटी. बक. बख.।]
[2 चाद्या- बख.।]
[3 मान्तरं- मु.।]
विनेश्वरेच्छया तेषां मन्त्रा वै क्रीडयन्ति च ।। 142 ।।
मायीयेऽध्वद्वये तस्मिन् सुखदुःखमयैः फलैः ।
तत्राम्बरे[1] इच्छाविधुरान् जीवान् सुखदुःखफलानु[2]भवैर्मन्त्राः क्रीडयन्तीत्याह- विनेति। मायीये प्राकृत इत्यर्थः ।। 142-143 ।।
[1 स्वराच्चाविधूरान्- मु.।]
[2 दुःखानुभवै- अ.।]
ईश्वरेच्छानुविद्धानां भक्तानां परमेश्वरे ।। 143 ।।
गुरूणां दीक्षितानां चाप्या[1]राधनरतात्मनाम् ।
भवन्त्यध्वद्वयोर्ध्वस्था मन्त्राश्चाज्ञाप्रतीक्षकाः ।। 144 ।।
नयन्ति कर्मिणः[2] सम्यग् मायीयाध्वद्वयाद् बलात् ।
स्वस्थानमणिमादीनां भोगानां प्राप्तये तु वै ।। 145 ।।
ईश्वरेच्छानुविद्धानां तु स्वयं वश्या भूत्वा तान् भोगार्थं स्वस्थाने नयन्तीत्याह- ईश्वरेति सार्धद्वाभ्याम् ।। 143-145 ।।
[1 च आ- अ.।]
[2 कर्मणः- मु. अटी.।]
वरक्तस्य[1] च तद्भोगात् स्वशक्त्या प्रेरयन्ति च ।
स्वव्यापारवशेनापि तत्त्वाध्वन्यमृतोपमे ।। 146 ।।
यत्रा[2]णिमादि मन्येत तृणानीव च संस्थितः ।
तत्र भोगविरक्तं चेतनं तु मन्त्राः स्वशक्त्यैव वासुदेवादितत्त्वाध्वानं प्रापयन्तीत्याह- विरक्तस्येति सार्धेन। यत्र [3]तत्त्वाध्वनि संस्थितः पुरुषोऽणिमादि मन्त्राध्वन्यनुभावभोगान् तृणानीव मन्येत तृणसदृशान् भावयेदित्यर्थः ।। 146-147 ।।
[1 विरतस्य- मु. बक. बख.।]
[2 यन्त्राणीमानि- मु. अटी.।]
[3 तत्रा- अ.।]
अनुग्रहपरास्तस्य तत्त्वाध्यक्षादयोऽमलाः ।। 147 ।।
नयन्त्य[1]प्ययतां सम्यक् [2]सकलाध्वनि शाश्वते ।
तत्रापि विरक्तं पुरुषमनिरुद्धादयः कलाध्वनि योजयन्तीत्याह- अनुग्रहेति। ततो विकलाध्वमूर्तिर्वासुदेवो वर्णाध्वानं प्रापयति ।। 147-148 ।।
[1 न्त्यव्यय- मु. अटी.।]
[2 सत्कला- मु. अटी. अ.।]
स षाड्गुण्यमयो ब्रह्म वासुदेवोऽध्वमूर्तिभृत् ।। 148 ।।
नित्ये स्वात्मनि सम्बन्धे शब्दब्रह्माभिधेऽध्वनि ।
करोति योजनां तस्य यत्रस्थः स्वयमेव हि ।। 149 ।।
प्राप्नोति तत्परिज्ञानात् सुशान्तं भगवत्पदम् ।
तत्र स्थितः पुरुषः स्वयमेव वर्णाध्वपरिज्ञानाद् भगवत्पदं प्राप्नोतीत्याह- स इति द्वाभ्याम् ।। 148-150 ।।
सङ्कर्षण उवाच[1]
देव वर्णाध्वविज्ञानं वद किंलक्षणं मम ।। 150 ।।
प्राप्नोति यत्परिज्ञानादध्वी सद्वासुदेवताम् ।
संकर्षणः प्रसक्तं वर्णाध्वज्ञानं पृच्छति- देवेति ।। 150-151 ।।
[1 `उवाच' नास्ति - मु. अटी.।]
श्रीभगवानुवाच[1]
पञ्चाध्वकोशमुक्तस्य लब्धसत्तस्य[2] चात्मनः ।। 151 ।।
यो[3]नुभूतिपदं याति [4]धारासन्तानरूपधृक्[5] ।।
भिन्नवर्णमयः शब्दः पूर्वलक्षणलक्षितः ।। 152 ।।
स चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना ।
प्रभवाप्यययोगेन शब्दभास्वरलक्षणः ।। 153 ।।
सकारान्तस्त्वकाराच्च हकारादान्त[6] एव हि ।
प्रभवे द्वादशान्तस्तु हकार[7]श्चतुरात्मनाम् ।। 154 ।।
एवं पृष्टो वासुदेवः पूर्वोक्तं वर्णाध्वानं प्रभवक्रमेऽकारादिसकारान्तम्, अप्ययक्रमे हकाराद् आकारान्तं च चातुरात्म्यसमूहरूपेण भावयेदित्याह- पञ्चेति त्रिभिः। पञ्चाध्वकोशमुक्तस्य भुवनादिपञ्चाध्वनः समतिक्रान्तस्येत्यर्थः। शब्दभास्वरलक्षणो भास्वरध्वनिलक्षण इत्यर्थः। तथा च लक्ष्मीतन्त्रे-
मच्चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना ।।
प्रभवाप्यययोगेन भारूपध्वनिलक्षणः । (20/10-11)
इति ।। 151-154 ।।
[1 `उवाच' नास्ति- मु. अटी.।]
[2 सत्त्वस्य- बक. बख. उ.।]
[3 सोऽनु- मु. अटी.।]
[4 धरा- मु. अटी. बक. बख.।]
[5 धृत्- मु.।]
[6 दन्त- मु. अटी. बक. बख.।]
[7 भकार- मु. बक. बख. अ. उ.।]
प्रभवे द्वादशान्तस्तु हकारश्चतुरात्मनाम्[1] ।। 154 ।।
अकारस्त्व[2]प्यये चैव तुल्यताऽतोऽनयोः स्मृता ।
अकारहकारयोर्द्वादशान्तत्वेन साम्यमाह- प्रभव इति। चतुरात्मनां द्वादशान्त इत्यन्वयः। द्वादशान्तो धारणाद्विषट्कान्त इत्यर्थः। अत्राकारादिहकारादिष्वेकोनचत्वारिंशद्वर्णेष्वकारादिसकारान्तं वर्णचतुष्टयक्रमेण द्वादश व्यूहा भवन्ति। तदुपर्यवशिष्टस्य हकारस्य द्वादशान्तत्वम्, एवमप्ययक्रमे हकारमारभ्याऽऽकारान्तं व्यूहद्विषट्कानन्तरमवशिष्टस्याऽकारस्य द्वादशान्तत्वमिति भावः ।। 154-155 ।।
[1 भकार- मु. बक. बख. अ. उ.।]
[2 स्त्वव्ययेनैव- मु. अटी. बक. बख.।]
वर्ण[1]व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना ।। 155 ।।
विश्राम उदयो व्याप्ति[2]र्व्यक्तिरा वासुदेवतः ।
अत्रैकैका परिज्ञेया मूर्तिर्वै त्वेवमेव हि ।। 156 ।।
युक्ता विश्रामपूर्वेण चतुष्केण समासतः ।
दण्डवत् सन्निवेशेन संस्थिता ह्येवमेव हि ।। 157 ।।
द्विषट्कं धारणानां च द्वादशा[3]ध्यात्मलक्षणम् ।
सोपानभूतं यत् क्रान्त्वा द्वादशान्तं विशेत् परम् ।। 158 ।।
तस्मिन् वर्णाध्वन्यकारादिक्रमेण विश्रामादिचतुष्टयेनास्य ज्ञेयत्वं वासुदेवाद्येकैकमूर्तेरपि विश्रामादिचतुष्केण युक्तत्वं दण्डवत् सन्निवेशेन संस्थितिं तस्यां द्वादशधारणानां द्वादशान्तारोहणे सोपानभूतत्वं चाह- वर्णव्यूहेति सार्धैस्त्रिभिः। आ वासुदेवतो वासुदेवमारभ्येत्यर्थः। अस्यैकैका मूर्तिरित्यत्रान्वयः। विश्रामो वर्णानां सूक्ष्मावस्थेत्यर्थः। उदयः पश्यन्त्यवस्था। व्याप्तिर्मध्यमावस्था। व्यक्तिर्वैखर्यवस्था। तथा च लक्ष्मीतन्त्रे-
शान्तरूपाऽथ पश्यन्ती मध्यमा वैखरी तथा ।
चतूरूपा[4] चतूरूपं[5] वच्मि वाच्यं स्वनिर्मितम् ।।
वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात् । (18/29-30)
एवं वासुदेवाद्येकाकमूर्ति[6]रपि विश्रामादिचतुष्टयेन युक्ता ज्ञेया। तत्र विश्रामस्तुरीयव्यूहावस्था। उदयः सुषुप्तिव्यूहावस्था। एवं विश्रामादिशब्दवाच्यतुरीयव्यूहावस्थादिचतुष्टयविशिष्टा वासुदेवादिमूर्तिर्विश्रामादिशब्दवाच्यसूक्ष्मावस्थादिचतुष्टयविशिष्टेष्वकारादिवर्णेषु दण्डवत्सन्निवेशेन संस्थितेति फलितोऽर्थः। अथवा वर्णानां सूक्ष्माद्यवस्था इदानीं न विवक्षिताः, किन्तु विश्रामादिशब्दैर्वासुदेवादिमूर्तेस्तुरीयव्यूहावस्थादय एव विवक्षिताः। तामामवस्थानामेकैकस्मिन् वर्णे एकैकावस्थाक्रमेण प्रत्येकं वर्णचतुष्टयेऽवस्थाचतुष्टयं बोध्यम् ।
एवमवस्थाचतुष्टयात्मके वर्णचतुष्टये वासुदेवाद्येकैका मूर्तिर्ज्ञेया। एवं चाकारादिषोडशवर्णानां चतुष्टयचतुष्के जाग्रद्व्यूहवासुदेवादयश्चतस्रो मूर्तयः, (अ?क)कारादिचतुष्टयवर्णानां चतुष्टयचतुष्के सुषुप्तिव्यूहमूर्तयः, एतद्द्वादशान्ते हकारे-
[7]अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ।
सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ।।
चातुरात्म्यं तदाद्यं वै शुद्धसंविन्मयं महत् । (5/81-82)
इत्युक्तलक्षणा तुरीयव्यूहमूर्तिरित्यर्थो ज्ञेयः। एवं हकाराद्यकारान्तं प्रातिलोम्येनापि ज्ञेयम्। यद्वाऽकारादिवर्णषोडशके व्यक्तिशब्दवाच्या जाग्रदवस्था, ककारादिवर्णषोडशके व्याप्तिशब्दवाच्या स्वप्नावस्था, [8]थकारादिसकारान्तवर्णषोडशके उदयशब्दवाच्या सुषुप्त्यवस्था, द्वादशान्ते हकारे विश्रामशब्दवाच्या तुरीयावस्था। तत्र तत्र तत्तद्व्यूहमूर्तयः पूर्वोक्तक्रमेणैव बोध्याः।
नन्वत्र भवदुक्तं त्रिविधं व्याख्यानमप्यसङ्गतम्, जगज्जननीकृतव्याख्याविरोधात्। लक्ष्मीतन्त्रे हि-
वार्णे[9] व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना ।
विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः ।।
अत्रैकैका[10] परिज्ञेया मूर्तिर्वै[11] त्वेवमेव हि ।
युक्ता विश्रामपूर्वेण चातुष्केण समासतः ।।
विश्रामं चिन्तयेद् देवं वासुदेवं सनातनम् ।
अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् ।।
संकर्षणादि[12]तत्त्वानि विश्रामन्ति लयेऽत्र हि ।
ततः संकर्षणं देवमाकारमुदयं स्मरेत् ।।
उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम् ।
व्याप्तिं[13] प्रद्युम्नदेवं तमिकारं परिचन्तयेत् ।।
त्रिविधं[14] प्राप्यते तेन त्रयीकर्मात्मना जगत् ।
अनिरुद्धं व्यक्तिरूपमीकारान्तमनुस्मरेत् ।।
व्यज्यन्ते शक्तयो ह्यत्र जगत्सृष्ट्यादयेऽखिलाः ।
दण्डवत् सन्निवेशेन संस्थिता ह्येवमेव हि ।।
आ सकारा[15]च्चतूरूपयुक्ता मे चतुरात्मता ।
स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम् ।।
हकारं वासुदेवं तु विश्रामं परिचिन्तयेत् ।
संकर्षणं सकारान्तमुदयं[16] त्वप्यये स्मरेत् ।।
एवमाकारतो दिव्यं चिन्तयेच्चतुरात्मनाम् ।
द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् ।।
सोपानभूतं यत्क्रान्त्वा द्वादशान्तं विशेत् परम् ।
एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता ।। (20/13-23)
इति विश्रामोदयव्याप्तिव्यक्तिशब्दानां वासुदेवादिचतुर्मूर्तिपरत्वं सुस्पष्टं व्याख्यातमिति चेत्, अस्मदुक्तप्राथमिकव्याख्यानस्य लक्ष्मीवचनानुसारित्वमजानन्नेवमात्थ। तत्राकारादिवर्णेषु चतुर्षु चतुर्षु वासुदेवादीनां चतुर्णा चतुर्णामवस्थानं किमस्माभिर्निरुद्धम्, अपि तु विश्रामादिशब्दानां सूक्ष्मावस्थादिवाचकत्वमस्माभिरुक्तम्। लक्ष्मीतन्त्रे तु तदर्थस्य सुप्रसिद्धत्वात् तद्विवरणं विना वासुदेवादिवाचकत्वं दुर्ज्ञेयं सुस्पष्टं व्याख्यातम्। तावता तेषां शब्दानां वासुदेवादिवाचकत्वमेव, सूक्ष्माद्यवस्थावाचकत्वं न संभवतीति न[17] नियमोऽस्ति, उत्तरत्र- "युक्ता विश्रामपूर्वेण चतुष्केण समासतः" (लक्ष्मी. 20/14) इत्यत्र विश्रामादिशब्दानामवस्थावाचकत्वस्य दुर्निवारत्वात् ।। 155-158 ।।
[1 वर्णे- मु. अटी. बक. बख.।]
[2 रराध्वासु च देवताः- मु. अटी., र्व्यक्तिराध्वासु- बक. बख.।]
[3 शाथा- मु. अटी.।]
[4 चित्ररूपा- अ., चित्ररूपात्- मु.।]
[5 चित्ररूपं वाचि- अ. मु.।]
[6 मूर्ते- अ.।]
[7 धकारा - अ.।]
[8 अभेदोऽनादि - अ.।]
[9 धकारा- अ.।]
[10 वर्ण- अ.।]
[11 कोपरि- मु.।]
[12 र्वेत्येव- अ. मु.।]
[13 णानि- अ. मु.।]
[14 व्याप्तं- मु. मु.।]
[15 विविधं- मु.।]
[16 काशाच्च भू- अ. मु.।]
[17 रं तमु- मु.।]
[18 `न' नास्ति- अ.।]
नीत्वैवं व्यक्तिभावेन हृत्पद्मोदरसंस्थितम् ।
वर्णाध्वानं दीक्षितस्य [1]शब्दब्रह्मेति या[2] स्थितिः ।। 159 ।।
एवंभूतस्य वर्णाध्वनः प्रकारः शिष्याय सुव्यक्तमुपदेश्य इत्याह- नीत्वेति। हृत्पद्मोदरसंस्थितम्
तत्राब्जं[3] चार्कमालम्ब्य परा वाग् भ्रमरी स्थिता ।
या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ।।
नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् ।
अकारपूर्वो हान्तश्च धारासन्तानरूपधृक् ।। (2/67-68)
इत्युक्तप्रकारेण हृदयकमलान्तः स्थितमित्यर्थः। अत्र दीक्षितस्येत्यनेन षडध्वमोचनपर्यन्तस्यैव कर्मणो दीक्षाशब्दाभिधेयत्वं ज्ञायते। एवमेवोक्तं जयाख्यलक्ष्मीतन्त्रादिष्वपि। एतेन सिद्धान्तचन्द्रिकायां दीक्षाशब्दस्य नियमपरिग्रहणवाचित्वमुक्तं निरस्तं भवति, नियमानामुत्तरत्र वक्ष्यमाणत्वात् ।। 159 ।।
[1 वर्ण- अटी.।]
[2 यः स्थितः- बक. बख. उ., यत्- अ. अटी.।]
[3 तत्रार्कं चाब्ज- मु.।]
संसेच्य[1] हुतभुग्भूमिं प्राणीतेनोदकेन तु ।
सह शिष्येण चात्मानं तेनैवाच्छिद्रसिद्धये ।। 160 ।।
पूर्ववद् भूतिना कृत्वा लक्ष्म चाग्निं प्रणम्य च ।
समुत्थाय ततो यायात् तं गृहीत्वाऽच्युतालयम् ।। 161 ।।
पूजयित्वा जगन्नाथं निवेद्य नियमान् शिशोः ।
सविशेषान्[2] समासेन सान्तरान् योग्यतावशात् ।। 162 ।।
यथावदुपदेष्टव्यं ततस्त[3]स्यार्चनं हृदि ।
मुद्रासमन्वितो मन्त्रो न्यासध्यानपुरस्सरः ।। 163 ।।
इतिकर्तव्यताशास्त्रसंक्षिप्ता च सविस्तरा ।
तत्समक्षं ततस्तेन सर्वं कार्यं यथास्थितम् ।। 164 ।।
गुर्वर्चनं[4] ततः कुर्यादात्मना च[5] धनादिना ।
पूरयित्वाऽम्भसा पाणिमर्घ्यपात्रात् तु दक्षिणम् ।। 165 ।।
षडङ्गमन्त्रसंजप्तं क्षेप्तव्यं तस्य मस्तके ।
मण्डलं[6] प्रणवेनाथ पाणौ सूर्यप्रभं स्मरेत् ।। 166 ।।
तत्राभिन्नं न्यसेत् प्राग्वद् वैभवं देवतागणम् ।
कृत्वा धियार्चितं[7] दद्यात् साशिषं[8] तस्य मूर्धनि ।। 167 ।।
यथोक्ता च यथाभीष्टा[9] त्वचिरादेव पुत्रक ।
तवास्तु वैभवी सिद्धिर्मोक्षलक्ष्मी[10]समन्विता ।। 168 ।।
अथ प्रणीतोदकेन कुण्डादिसेचनं भस्मना तिलकधारणम् अग्निप्र(माणा?णामा)दिकं मण्डलस्थस्य बिम्बस्थस्य वा भगवतोऽभ्यर्चनपूर्वकं तत्संनिधौ शिष्याय नियमोपदेशं मानसाराधनक्रममुद्रान्यासध्यानसमन्वितमन्त्रोपदेशम् आराधनादीनामितिकर्तव्यताक्रमोपदेशं स्वसमक्षमेव शिष्येण भगवदाराधनाद्यनुष्ठापनं[11] गुर्वर्चनं शिष्यस्य मस्तके मन्त्रोदकसेचनम् आशीर्वचनपूर्वकं तन्मस्तके मन्त्रहस्तदानमाशीर्वचनप्रकारं चाह- संसेच्य हुतभुग्भूत[12]मित्यारभ्य मोक्षलक्ष्मीसमन्वितेत्यन्तम्। तवास्तु वैभवी सिद्धिरित्यत्र व्यूहदीक्षायां तवास्तु व्यूहसंसिद्धिरिति, ब्रह्मदीक्षायां तवास्तु ब्रह्म[13]संसिद्धिरिति योज्यम्। अत एवास्मत्तातपादैः सात्वतामृते व्यापकमन्त्रदीक्षाप्रकरणात्- "तवास्तु विभवादीनां सिद्धिर्मोक्षश्रियान्विता" इति प्रतिपादितम् ।
ननु केवलं परव्यूहविभवदीक्षात्रयमत्र प्रतिपादितम्, व्यापकमन्त्रदीक्षानुष्ठाने किं मूलम्, तावतैकमन्त्रेण विभवादिसर्वदेवीया सिद्धिः [14]कथं जायत इति चेत्, अस्ति तत्र च सात्वतोपबृंहणमीश्वरतन्त्रं पाद्मादिकं च मूलम्, एकमन्त्रस्यापि व्यापकत्वेन विभवादिसर्वदेवाविष्कृतत्वात्। तेन सर्वदेवीया सिद्धिर्निरङ्कुशा सिद्ध्यतीति बोध्यम्।
ननु सिद्ध्यतु नाम तादृशी सिद्धिः, तदानीं व्यापकमन्त्र एव तद्दीक्षितस्याधिकारः। नहि विभवादिदीक्षां विना तत्तन्मन्त्रेष्वधिकारः सिद्ध्यतीति वाच्यम्, तनैव सर्वदीक्षाणां चारितार्थ्यात्। तथा चैश्वरे तन्त्रे-
एवं दीक्षात्रयं चापि दद्यादेकस्य वा क्रमात् ।
सर्वाराधनयोग्यत्वसिद्धये मुनिपुङ्गवाः ।।
यद्वाऽष्टाक्षरमन्त्रादौ व्यापक[15]त्रितये द्विजा ।.....
शक्तिभूषणवाहास्त्रमन्त्रांश्चोपदिशेद् गुरुः ।। इति । (21/460-461,463)
पाद्मेऽपि-
ध्यात्वा च दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम् ।
मन्त्रं दद्यादृषिच्छन्दोदैवतं चाङ्गमेव च ।।
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् ।
मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ।।
इति व्यापकमन्त्र[16]दीक्षाप्रकरण एव समस्तमूर्तिमन्त्राणामप्युपदेशः प्रतिपादितः। एवं च यथा प्रधानमन्त्रदीक्षायाः शक्तिभूषणवाहनास्त्रमन्त्रेष्वप्यधिकारः सिद्ध्यति, तथा व्यापकमन्त्रदीक्षयैव विभवादिमन्त्रेष्वधिकारः सिद्ध्यतीति ज्ञेयम्।। 160-168 ।।
[1 संसेव्य- बख. अ. ।]
[2 साव- अ.।]
[3 यत- अटी.।]
[4 नमतः- अ. उ.।]
[5 द्वयवादिना- मु., ध्ययनादिना- अटी.।]
[6 कमलं - अ. उ.।]
[7 र्चनं- अ.।]
[8 सशिष्यं- अ. उ.।]
[9 ष्टम- मु. अटी.।]
[10 लक्ष्म- मु. अटी.।]
[11 ष्ठानं- मु.।]
[12 भूमिमिति मूले सार्वत्रिकः पाठः।]
[13 ब्राह्म- अ.।]
[14 `कथं जायत ...... सर्वदेशीया सिद्धि' नास्ति- अ.।]
[15 `व्यापकत्रितये..... क्षरमादौ तु' नास्ति- अ.।]
[16 मन्त्रे- मु.।]
इति वैभवदीक्षाया लक्षणं समुदाहृतम् ।
तत्प्रयुक्तस्य सामान्यं सर्वमन्त्रगणस्य च ।। 169 ।।
अथोक्तमर्थं निगमयति- इतीति। तत्प्रयुक्तस्य वैभवार्चनासक्तस्य शिष्यस्येत्यर्थः। सर्वमन्त्रगणस्य पद्मनाभादिपातालशाय्यन्तविभवदेवमन्त्रसमूहस्येत्यर्थः ।। 169 ।।
येन येन हि मन्त्रेण दीक्षा कार्या[1] हि कस्यचित् ।
तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ।। 170 ।।
कार्योऽत्रावयवानां तु विनियोगो यथोदितः ।
समूहवद् हृदादीनां [2]मूलान्तानां समाचरेत् ।। 171 ।।
सह तत्त्वगणेनैव सर्वदा[3]ऽध्यात्मरूपताम्[4] ।
समभ्यूह्य ततः कुर्यात् प्राग्वदभ्यर्चनं तु वै[5] ।। 172 ।।
एतेषु विभवमन्त्रेष्वेकैकेनैव मन्त्रेण यस्य दीक्षाऽभिमता तस्य तादृशदीक्षायां विशेषानाह- येनेति त्रिभिः। अवयवानामङ्गमन्त्राणामित्यर्थः। समूहवत् पातालशयनादिपद्मनाभान्तसमूहवदित्यर्थः। एकमन्त्रदीक्षाप्रकरणात् पृथिव्यादिसप्तके पूर्वोक्तविभवदेवसमूहं विना तत्स्थाने हृन्मन्त्रादिमूलमन्त्रान्तानां सप्तानां विनियोगः कार्य इति फलितोऽर्थः ।। 17-172 ।।
[1 र्याऽथ- बख. अ. उ.।]
[2 ज्ञाना- मु. अटी. बक. बख.।]
[3 सर्वम्- मु. अटी. बक.।]
[4 रूपता- मु. अटी.।]
[5 वा- अ.।]
नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते ।
निरङ्गानां तु मन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ।। 173 ।।
प्रणवो विनियोक्तव्यः सह कर्मपदेन तु ।
सम्पाद्या[1] विधिनानेन व्यूहदीक्षार्थिनां सदा ।। 174 ।।
पञ्चाङ्गमन्त्रदीक्षायां निरङ्गमन्त्रदीक्षायां च गतिमाह- नेत्रेति सार्धेन ।। 173-174 ।।
[1 सम्पाद्य- मु. अटी. बक. बख. उ.।]
सम्पाद्या[1] विधिनानेन व्यूहदीक्षार्थिनां सदा ।। 174 ।।
किन्तु वै तत्र योक्तव्यं प्रत्येकस्मिन् हि कर्मणि ।
चतुष्कं वासुदेवाद्यं बीजानां यत् पुरोदितम् ।। 175 ।।
व्यूहदीक्षायां विशेषमाह- संपाद्येति सार्धेन। पुरोदितम् अष्टमे परिच्छेदे "सान्तं षष्ठस्वरारूढम्" (8/10) इत्यादिभिः प्रतिपादितमित्यर्थः।। 174-175 ।।
[1 सम्पाद्य- मु. अटी. बक. बख. उ.।]
एवमेवाद्यमन्त्रस्तु निःशेषः कर्मसंग्रहे ।
योक्तव्यो ब्रह्मदीक्षायां षोढा भक्त्वा[1] च पूर्ववत् ।। 176 ।।
स्वरूपेण यथावस्थमुक्तेष्ववसरेषु च ।
किन्त्वेकवचनेनात्र देवानां प्रार्थना मता[2] ।। 177 ।।
योजना त्वधिवासोक्ता विज्ञातव्या समासतः ।
ब्रह्मदीक्षायां विशेषानाह- एवमेवेति सार्धद्वाभ्याम्। आद्यमन्त्रस्य षोढाविभजनप्रकारस्तु द्वितीयपरिच्छेद (2/32-35) एव प्रदर्शितः। एकवचनेन प्रार्थना "युष्मत्प्रसादसामर्थ्यात्" (19/101) इत्यादिस्थलेषु ज्ञेया।
नन्वत्र देवानामिति बहुवचनमस्ति, कथं तेषामेकवचनेन प्रार्थनेति चेत्, सत्यम्। तत्रापि चातुरात्म्यसत्त्वाद् बहुवचनमुक्तम्। तथापि-
अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ।
सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ।।
चातुरात्म्यं तदाद्यं वै शुद्धं संविन्मयं महत् । (5/81-82)
इत्यादिमूर्तेरेव प्राधान्यादेक एव मन्त्र उक्तः, एक[3]वचननैव प्रार्थनेति बोध्यम्। अधिवासोक्ता योजना नाम,
ओमादिश जगन्नाथ सर्वज्ञ हृदयेशय ।
तत्राहं योजयाम्येनं [4]यत्कर्म त्वत्परायणम् ।। (18/232)
इत्येवंरूपेत्यर्थः। इयं योजना ज्ञातव्या एतद्दीक्षाविषयत्वेन बोध्याऽनेनेत्यर्थः, एकवचनप्रयोगात्। एतेन व्यूहदीक्षायां विभवदीक्षायां च तस्मिन् योजनाश्लोके बहुवचनं योज्यमित्यर्थात् सिद्धम्। तत्राप्येकैकमन्त्रेणैव दीक्षायामेकवचनेनैव प्रार्थनायोजनादिकं कार्यम्। अत एवास्मत्तातपादैः सात्वतामृते युष्मत्प्रसादसामर्थ्यादिति प्रार्थनाश्लोके त्वत्प्रसादस्य सामर्थ्यादित्येकवचनं प्रयुक्तम्।
ननु सात्वतामृते व्यापकमन्त्रदीक्षा प्रतिपादिता। व्यापकमन्त्रस्य[5] परव्यूहविभवाख्यसर्वदेवविषयत्वं भवतैवोक्तम्। तादृशमन्त्रदीक्षायां सर्वे देवा अपि प्रार्थ्याः। तथा सति कथमेकवचनं समञ्जसं भवतीति चेत्, ब्रूमः- यथैक एव मन्त्रः सर्वान् विषयीकरोति, तथैकवचनमपीति बोध्यम्। अत एव हि पाद्मेऽष्टाक्षरकल्पे द्वादशाक्षरकल्पे चैकवचनेनैव ध्यानमुक्तम्- "चतुर्बाहुमुदाराङ्गम्" इत्यादिभिः।
ननु तर्ह्यष्टाक्षरेण परव्यूहविभवार्चनप्रकरणे सर्वत्र पाद्मोक्तध्यानमेवानुसरणीयं किमिति चेदुच्यते, अष्टाक्षरेण तेषामर्चनप्रकारेण सामान्यतः पाद्माद्युक्तप्रकारेण वा विशेषाकारेण वा ध्येयम्। तत्र न विवादः। अत एव हीश्वरपारमेश्वरयोर्व्यापकमन्त्रेणैवार्चने उक्तेऽपि तत्तद्दिव्यदेशस्थितमूर्तिध्यानमेव प्रतिपादितम् ।। 176-178 ।।
[1 भङ्क्त्वा- अ. उ.।]
[2 मताः- अ.।]
[3 क्तस्त्वेक- मु.।]
[4 कर्मिणं- मु.।]
[5 मन्त्रेऽस्य- मु.।]
नित्यदीक्षाद्वयस्यास्य नान्यन्मोक्षादृते फलम् ।। 178 ।।
तत्रापि चातुरात्मीया दीक्षा प्राक् कमलेक्षण ।
बलाद् ददाति षाड्गुण्यभोगाप्तिं भावितात्मनाम् ।। 179 ।।
फलं स्रक्चन्दनादीनां होमद्रव्यस्य चापि यत् ।
प्रकृत्या सह चाभ्येति विलयं ब्रह्मदीक्षया ।। 180 ।।
किं बहुना, व्यूहब्रह्मदीक्षयोः केवलमोक्षप्रदत्वेऽपि तत्रैहिकफलानामप्यानुषङ्गिकत्वमस्तीत्याह- नित्येति सार्धद्वाभ्याम् ।। 178-180 ।।
इति श्रीपाञ्चरात्रे[1] श्रीसात्वतसंहितायां दीक्षाविधिर्नाम[2] एकोनविंशः[3] परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये एकोनविंशः[4] परिच्छेदः।।
[1 पञ्च- उ.।]
[2 `नाम' नास्ति- उ.।]
[3 अष्टादशः- अ.।]
[4 विंशतिः- मु.। ]52