← अध्यायः २३ सात्त्वतसंहिता
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
सात्त्वतसंहितायाः अध्यायाः


(1)चतुर्विंशः परिच्छेदः
श्रीनारद उवाच(2)
विप्रप्रधानाः श्रुत्वैवं मन्त्राणां लक्षणं स्फुटम्।
चोदयामास(3) भगवान् पुनः स तालकेतुना।। 1 ।।
अथ चतुर्विंशतिपरिच्छेदो व्याख्यास्यते। इह पुनः संकर्षणेन वासुदेवश्चोदित इत्याह--विप्रेति। अत्र दिव्यत्वादात्मनेपदस्थाने परस्मैपदं प्रयुक्तम्। यद्वा सत्तालकेतुनेति प्रथमैकवचनम्। सत्तालकेतुर्ना पुरुषः, संकर्षण इति यावत्।। 1 ।।
(1. त्रयोविंशतितमः---अ.।) (2. `उवाच' नास्ति--मु. अटी. बक.।) (3.चोदितो भगवानेवं पुनर्वै--मु. अटी.।)
सङ्कर्षण(4) उवाच
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भगवन्मयः।
नित्याराधनकामस्तु(5) यदि मन्त्रमयं वपुः।। 2 ।।
कर्तुमिच्छति लक्ष्यार्थं तत्र किंलक्षणो विधिः।
श्रीभगवानुवाच(6)
चित्रमृत्काष्ठशैलोत्थं सल्लोहमयमेव वा।। 3 ।।
चोदनाप्रकारमाह--ब्राह्मण इति सार्धेन।। 2--3 ।।
(4. `संकर्षण उवाच' नास्ति--बक. बख. अ. उ.।) (5.इत्या बख. उ.।) (6. `उवाच' नास्ति--मु. अटी.।)
भेदभिन्नं द्विजातीनां हितं बिम्बं फलार्थिनाम्।
तदभिन्नमकामानां प्राप्तं चाप्यविरोधकृत्।। 4 ।।
(7) अत्र चित्रमयं विद्धि भित्तिकाष्ठाम्बराश्रितम्।
पुनः(1) वर्णक्रमेणैव चतुर्धा चाम्बरोत्थितम्।। 5 ।।
तच्च कार्पासकौशेयक्षौमशाणमयं तु वै।
मृज्जमेवं सिताद्युत्थं वार्क्षं विविधमेव च।। 6 ।।
आश्वत्थं ब्रह्मवृक्षोत्थं श्रीपर्णीसुरदारुजम्।
सालतालमयं(2) चैव शाशवन्तीन्दुसारजम्(3)।। 7 ।।
एवं द्वयं(4) द्वयं विद्धि द्विजादीनां यथाक्रमम्।
अतोऽन्ये दृढमूलाश्च सारवन्तो हि याज्ञिकाः।। 8 ।।
साधारणाश्चतुर्णां तु प्रतिमाद्ये च कर्मणि।
सामान्यं भुक्तिमुक्त्यर्थमश्ममृण्मयवत् स्मृतम्।। 9 ।।
तारहाटकताम्रोत्थम् आरकूटमयं तथा।
एवं हि भूमयो वस्त्रपाषाणा धातवो द्रुमाः।। 10 ।।
वज्रादयोऽखिला रत्नाः सितरक्तादिलक्षणाः।
असामान्याः फलेप्सूनां लाभालाभवशात् पुनः।। 11 ।।
एवं चोदितो वासुदेवः प्रथमं चित्रमृत्काष्ठशिलालोहमयत्वेन पञ्चविधानां बिम्बानां प्रत्येकं ब्राह्मणादिवर्णक्रमेण चातुर्विध्यम्, एवं तत्तद्वर्णानुसारेण तत्तद्‌द्रव्यमयबिम्बग्रहणस्य सकामविषयत्वं बिम्बसामान्यग्रहणस्य निष्कामविषयत्वं चाह--चित्रमृत्काष्ठशैलोत्थमित्यारभ्य (5) लाभालाभवशात् पुनरित्यन्तम्।। 3--11 ।।
(1. पूर्वे-मु. अटी.।) (2. बाल--मु.।) (3. शैशुषं--मु. अटी.।) (4.द्वन्द्व--अ. उ.।) (5. फललाभवशात्--म.।)
सम्यक् स्वमूर्तिमन्त्रैस्तु जपहोमार्चनादिना।
नयेत् सामान्यभासित्वं(6) तथा तत्कारणार्चनात्।। 12 ।।
यजेत् सेन्द्रां धरां शैलं मृदापादनकर्मणि(7)।
एवं पटद्रुमार्थं तु वरुणं सवनस्पतिम्।। 13 ।।
सरत्नानां च धातूनां सम्बन्धेऽर्केन्दुपावकान्।
रत्नाश्रयेण धात्वर्थेनार्चादेशेन(8) वै विना।। 14 ।।
अथ तत्तद्बिम्बनिर्माणार्थं तदुपादानद्रव्यग्रहणकाले सामान्यतः करिष्यमाणतत्तन्मूर्तिमन्त्रैर्चनजपहोमादिकं विशेषतः सेन्द्रधरादितत्तत्कारणार्चनं(9) च कार्यमित्याह--सम्यगिति सार्धद्वाभ्याम्।। 12--14 ।।
(6.भावि--अ. उ.।) (7.दान--बक. बख. उ.।) (8.धातूत्थेनार्च्या--मु. अटी. बक.।) (9. धारा--म.।)
तथार्चनासनेनैव चक्रपद्मयादिना।
(1)न रात्नी प्रतिमा शस्ता ध्यायिनां ध्यानसिद्धये।। 15 ।।
केवला लघुमाना च प्रमाणावयवोज्झिता।
वर्णाश्रमगुरुत्वाच्च स्वामित्वादखिलस्य च।। 16 ।।
रत्नमयीं सुवर्णरजताख्योत्तमधातुमयीं वा प्रतिमां विनाऽन्यद्रव्यमयी प्रतिमा लघुमाना प्रमाणावयवरहिता(2) चेत्, न प्रशस्ता, तथैव भद्रपीठमपीत्याह--रत्नाश्रयेणेति द्वाभ्याम्। अर्चादेशेन भगवदर्चनास्पदेन, बिम्बेनेति यावत्। अर्चनासनेन केवलभद्रपीठेनेत्यर्थः। रत्नसुवर्णरजतबिम्बं चेद् वस्तुगौरवाल्लघुमानं प्रमाणरहितमपि ग्राह्यमिति फलितोऽर्थः।। 14--16 ।।
(1.नारत्नी--बक. बख.।)(2.च न--म.।)
भूतादिदेवरूपत्वाद् उत्तमाद्येषु वस्तुषु।
नृपश्चार्हति वै नित्यं सविशेषपदे स्थितः।। 17 ।।
किं पुनर्योऽफलाकाङ्क्षी भक्तिश्रद्धापरः सदा।
मुमुक्षुत्वमात्रेण निकृष्टवर्णोद्भव उत्कृष्टवर्णार्हेषु वस्तुषु कथमर्हतीत्याशङ्का किंपुनर्न्यायेन परिहरति--वर्णाश्रमेति द्वाभ्याम्। अफलाकाङ्क्षी मुमुक्षुरित्यर्थः।। 16--18 ।।
बुद्‌ध्वैवं चित्रबिम्बार्थी यत्नेनेदं समाचरेत्।। 18 ।।
गुह्यकान् गृहदेवांस्तु हृदाऽर्च्याऽर्घ्यादिना पुरा।
मलभस्मतुषाङ्गारकेशकीटनखास्तुणम्(3) ।। 19 ।।
मूलकण्टकचर्मास्थिसामान्येऽश्माह्निभित्तिका(4)।
(5) भवत्यनर्थदाऽवश्यमतः प्राक् चतुरङ्गुलम्।। 20 ।।
विहाय मृद्दलं भित्तेरीषद् बिम्बात् तु चाधिकम्।
उक्तदोषविमुक्ताऽथ(6) पञ्चगव्येन साम्भसा।। 21 ।।
मर्दितया(7) मृदा भूयस्तद्भित्त्यंशं प्रपूर्य च।
शस्त्रेण काष्ठफलकां मृगचर्मसमां पुरा।। 22 ।।
छविं विहाय शुद्ध्यर्थं तुरीमुक्तं तु वै पटम्(8)।
प्रक्षाल्य सलिलेनैव त्वस्त्रजप्तेन सप्तधा।। 23 ।।
प्रथमं चित्रबिम्बनिर्माणार्थं गुह्यकगृहदेवार्चनपूर्वकं भित्तिकाष्ठफलकपटानां संशोधनप्रकारानाह--बुद्‌ध्वेति सार्धैः पञ्चभिः।। 18--23 ।।
(3. नारत्नी--बक. बख.।) (4.श्मर्यभित्तिकाः--बक. बख. अ.।) (5. भवन्त्य--बख. अ. उ.।) (6. क्तायाः--अ.।) (7. मृद्दीर्घया--बक. बख., मृदीपया अ. उ.।) (8. घटम्--मु. अटी. बक. बख.।)
हृन्मन्त्रेण तु सास्त्रेण मूर्तिमन्त्राञ्चितेन(1) च।
तीर्थोद्देशान्नदीतीरात् पुण्यक्षेत्राच्च पर्वतात्।। 24 ।।
अपास्य दोषसङ्कीर्णामूर्ध्वादादाय मृत्तिकाम्।
साऽवचूर्ण्याऽथ संशोष्या(2) सूपलिप्ते धरातले।। 25 ।।
शाणमौर्णं(3) च कार्पासं सूत्रं(4) चालसिजं तथा।
कृत्वा पाषाणभिन्नं प्राग् योज्यं तत्र सवालुकम्।। 26 ।।
ईषद्गोमययुक्तेन भूरिक्षीरघृतादिना।
भावयेत् पञ्चगव्येन खादिरेण कषेण(5) च।। 27 ।।
सिद्धार्थकालसिस्नेहतिलोत्थेन (6) च वै सह।
क्लेदयेच्च त्रिसप्ताहं भाण्डे कृत्वाऽऽयसादिके।। 28 ।।
मारुतानलसूर्येन्दुदर्शनेन विनैव हि।
तया समाप्यं (7) तद्बिम्बं शुभकाष्ठान्तरीकृतम्।। 29 ।।
अथ मृद्बिम्बनिर्माणार्थं मृत्संग्रहणादिप्रकारानाह--हृन्मन्त्रेणेत्यारभ्य शुभकाष्ठान्तरीकृतमित्यन्तम्।। 24--29 ।।
(1.न्वितेन--उ.।) (2.शोष्य--अ. उ.।) (3.मूर्ण--बक. बख. उ.।) (4.ससूत्रं चावि--मु. अटी. बक. बख.।) (5. खषेण--अ.।) (6.तसि--बक. बख.।) (7.समाप्य--बक. बख.।)
वस्त्रवच्चैव लोहानां कृत्वा प्रक्षालनं ततः।
मार्जनं भूतिना भूयस्तथा तन्मन्त्रितेन च।। 30 ।।
लोहबिम्बनिर्माणार्थं लोहसंशोधनप्रकारमाह--वस्त्रवदिति। तन्मन्त्रितेन अस्त्राभिमन्त्रितेनेत्यर्थः।। 30 ।।
भक्त्या प्रवर्तमानस्तु (8) बिम्बसाधनकर्मणि।
सर्वत्र चास्त्रमन्त्रस्य कुर्यान्निर्विघ्नशान्तये।। 31 ।।
पूजनं हवनं भूतबलिदानं सदक्षिणम्।
(9) सम्यग् ग्रहणकाले तु एतत् सामान्यमेव हि।। 32 ।।
बिम्बनिर्माणप्रारम्भकाले सामान्यतस्तत्तन्मूर्तिमन्त्रार्चनादिकं कार्यमित्याह--भक्त्येति(10) द्वाभ्याम्।। 31--32 ।।
(8. मानास्तु--मु. बक. बख.।) (9.सन्मृद्--मु.।) (10. भक्तीति--अ.।)
सच्छैलदारुग्रहणे विशेषस्त्वधुनोच्यते।
सर्वत्रारम्भकाले तु निमित्तमुपलक्ष्य च।। 33 ।।
विशेषाद्(1) वनयात्रायां तच्छुभेन शुभोदयः।
अशुभेनं निमित्तेन यात्रा विघ्नवती भवेत्।। 34 ।।
विरामेण तु जप्येन शान्तिस्वस्त्ययनादिना।
निवर्तनेन तद्वन्याद् दहते शुभकृद् यतः।। 35 ।।
मन्त्रमभ्यर्च्य यात्रायामभ्यर्थ्याज्ञां विनन्द्य च।
नैवेद्यशेषभुग् वामचारस्थः(2) संयतेन्द्रियः।। 36 ।।
प्राङ्मुखः संस्मरेन्मन्त्रं समुत्थायामृतोदये।
परिज्ञाय पुरा(3) मूति तन्मूर्त्यन्तरमेव वा(4)।। 37 ।।
यायात् तदीयं दिग्भागं तदभावात् तु चान्यदिक्।
सहायैरप्रमत्तैस्तु शिल्पिभिः सह संवृतः।। 38 ।।
लाजदध्यक्षतैः कुम्भैर्यायात् पुष्पपुरस्सरैः।
सौमनस्यं महोत्साहस्त्वङ्गस्पन्दश्च(5) दक्षिणः।। 39 ।।
शुभा वाणी ध्वनिः शाङ्खस्तन्त्री वाद्यं फलादयः।
गोगजाश्वद्विजाः कन्या नवभाण्डं च मृद् दधि।। 40 ।।
आर्द्रमांसान्यलङ्कारो मदिराग्नी(6) घृतं पयः।
सिद्धान्नं(7) शालिबीजादि दर्भाः सद्रुममञ्जरी।। 41 ।।
छत्रवस्त्रध्वजा(8) यानं रोचना कुङ्कुमं मधु।
दर्पणं चामरश्चैव(9) धातवः शस्त्रवर्जिताः।। 42 ।।
रत्नानि वैबुधं बिम्बं मधुमत्तो ह्यकातरः।
जीवन्मत्स्या(10) निमित्तं च मनसो यदखेददम्।। 43 ।।
तत्सर्वं दर्शने श्रेष्ठं यत् खेददमशोभनम्।
स्वगृहद्वारदेशाच्च पथि सप्तपदावधि।। 44 ।।
क्रममाणे निमित्तं च फलं यच्छत्यनेन (11) हि।
निर्गत्य नगराद् ग्रामात् क्रोशार्धं क्रोशमेव वा।। 45 ।।
गृह्णीयाच्छाकुनं(12) चिह्नं नकुलादिमयं त्वतः।
पूर्णात् सार्धाधिकात् क्रोशाद् हितकृन्मृगदर्शनम्।। 46 ।।
दिङ्‌मुखे निर्मले सिद्धिर्व्रजेद्(13) यत्र विशेषतः।
(14)सिद्धिकृच्चाम्बरं स्वच्छं सुदीप्ता भास्करादयः।। 47 ।।
मरुत् सुखावहः स्निग्धः प्रदक्षिणगतिः स्थिरः।
दिव्याद्युत्पातनिर्मुक्तः स कालः सिद्धिसूचकः।। 48 ।।
हंसः शुको भरद्वाजः कोकिलः खञ्जरीटकः।
मयूरो भ्रमरश्चक्रवाकाद्याः खेचराः शुभाः।। 49 ।।
भूचरा नकुलाः (15) सौम्याः सिताहिर्गृहगोधिका(16)।
गन्धाखुर्जम्बुकश्चैव सर्वेषां दर्शनं शुभम्।। 50 ।।
मृगाणां हरिणः सिंहो व्याघ्रः शशकचित्रकाः।
सिद्धिसंसूचकाः सर्वे सर्वेषां विहितं तु वै।। 51 ।।
प्रदक्षिणं विशेषेण व्यत्यये जम्बुकः शुभः।
द्विजादिकं (17) रुतं स्निग्धं सिद्धिकृत् तच्च सौख्यदम्।। 52 ।।
समुत्पन्ने निमित्ते तु धातुसंक्षेपकर्मणि(18)।
प्रतीक्षितुं(19) न युज्येत यदा शान्तिं तदाचरेत्।। 53 ।।
पूर्वोक्तां चित्तशुद्ध्यर्थं सविशेषां सदक्षिणाम्।
प्रविश्य विधिवत् क्षेत्रं निरीक्षेत स्वतेजसा।। 54 ।।
पश्येच्छिलां गुणवतीं तरुं वा कर्मणि क्षमम्।
वर्जयेदतिवृद्धां च परिक्षीणत्वचं तथा।। 55 ।।
सभङ्गां दावदग्धां च निश्शब्दां रूक्षविग्रहाम्।
सवालुकां च सच्छिद्रां बन्दुयुक्तां पुटोद्वहाम्।। 56 ।।
आखुदर्दुरमीनाहिमार्जारशशकोपमाम्(20)।
सुवर्णपरवर्णोत्थशिराजालेन(21) सन्तताम्।। 57 ।।
प्रागुक्तरुपस्याभावादमीषां ग्रहणं हितम्।
पारावतशुकाब्जाभा मधुमाञ्जिष्ठमाषभा(22)।। 58 ।।
गुर्वी हृद्या शुभा स्निग्धा अतो वान्याभिशस्यते।
सुहृद्ये भूतले मग्ना(23) जलाशयतलस्थिता।। 59 ।।
छन्ना तरुवरेणैव वनराजिष्ववस्थिता(24)।
वेष्टिता वल्लिवृन्देन तथैवौषधिभिर्वृता(25)।। 60 ।।
ऊर्ध्वगा जानुदेशाच्च(26) एकपिण्डीकृता भृगोः(27)।
मोक्षदा च(28) खवक्त्रा वै भोगदा सुतलानना(29)।। 61 ।।
दिङ्मुखी चोभयकरी प्राङ्मूर्धा भूतिरायुषे।
अतोन्यमस्तका कीर्तिर्यशोवृद्विकरी मता।। 62 ।।
वंशवृद्धिदमारोग्यशान्तिकृत्वं(30) यदाप्यदिक्।
पुष्टि(31) मुन्नितिसन्मेधां यच्छत्युत्तरमस्तका।। 63 ।।
एवं पुरा परिज्ञाय पृष्ठोरुचरणं शिरः।
बलात्मना सवीर्येण प्रोद्‌धृत्य सह शिल्पिभिः।। 64 ।।
प्राङ्मुखं चोत्तरस्या(32) (33) दिक् प्राग्भागे चोत्तराननम्(34)।
स्थलेऽवतार्य मन्त्रेशमिष्ट्वा स्रक्चन्दनादिना।। 65 ।।
ध्यात्वा शिलान्तः संरुद्धं सम्पूज्य जुहुयात् ततः।
उक्तदिग्‌द्वितयस्यैकदेशे कुण्डेऽथवा स्थले।। 66 ।।
दत्वा पूर्णाहुतिं ध्यानजपयुक्तः क्षपेदहः।
निशागमेऽर्चनं कुर्याद् बलिभिर्भूततर्पणम्।। 67 ।।
नैवेद्यशेषमश्नीयान्मन्त्रविन्यस्तविग्रहः।
तद्दक्षिणेन दर्भेषु प्राक्छिराः प्रस्वपेज्जपन्।। 68 ।।
पूर्ववत् स्वप्नलाभार्थमुत्थाय रजनीक्षये।
कुर्यात् स्वकृत्यं जुहुयादशुभस्वप्नशान्तये।। 69 ।।
अभिनन्द्य शुभं स्वप्नं हृदयावर्जकं स्फुटम्।
पर्वतं च स्वमात्मानं स्थानं तदुपलं स्थलम्।। 70 ।।
स्फटिकामलसंकाशं पश्येद् वा तप्तहेमवत्।
निर्धूमाङ्गारकूटाभं तदाशु लभते शुभम्।। 21 ।।
सशस्त्रमथ चादाय मुद्‌गरं चास्त्रमन्त्रितम्।
प्राङ्मुखश्चतुरो वारंस्ताडयेन्मस्तकावधेः।। 72 ।।
पाददेशाच्च वा मध्यादवेक्ष्य च फलं पुरा।
चतुरश्रायतां कृत्वा भिन्नां पीठेन यन्त्रगाम्।। 73 ।।
आनाय्य वा पृथक्पीठां छन्नां(35) कर्मालयं शुभम्।
(36)आनुगुण्यपुराणेन विधिना चोद्धरेच्छिलाम्।। 74 ।।
पोठार्थं भिन्नवर्णां च तद्रूपां वा यथेच्छया।
अङ्गाङ्गिभावगुणवद्(37) दृषदां तु महामते।। 75 ।।
काष्ठलोहमणीनां (38) चाप्यलाभे सति वें (39) शुभम्।
सति लाभे न वै कुर्याद्वैषम्यं व्यत्ययं च वा।। 76 ।।
तत्कालमेव चाहृत्य रत्नाधारशिलां(40) शुभाम्।
पुंस्त्रीनपुंसकोत्थाभेः शिलाभिस्त्रितयं(41) हितम्।। 77 ।।
बिम्बाख्यं(42) विद्वि चाभावात् सर्वबिम्बोपलात् तु वै।
निषइद्धं भगवद्बिम्बं रत्नपीठमयोपलात्।। 78 ।।
लक्ष्म्याद्या देवताकाराः स्वोपलाः(43) सर्वसिद्धिदाः(44)।
याऽऽहताऽनलबिन्दून् (45) वै सनादमभिमुञ्चति।। 79 ।।
पुमानिति शिला सा वै निस्तेजा सस्वनाऽबला।
आदिमध्यावसानेषु नाग्निर्यस्या न च ध्वनिः।। 80 ।।
नपुंसकेति सा ज्ञेया स्वपदस्था फलप्रदा।
शिलाग्रहणमित्युक्तं (46) दारुग्रहणमुच्यते।। 81 ।।
आपर्वतान्तः सञ्चारो निर्व्रणं सरलं बृहत्।
रोगमुक्तं न सिंहाद्यैः(47) प्राङ्नखैः(48) सक्षतीकृतम्।। 82 ।।
नानिलाशनिदावाग्निहतवीर्यं न बाह्यगम्।
सलक्षणे (49) तु सुस्निग्धे भूभागे चोन्नते स्थितम्।। 83 ।।
प्राग्वत् तमधिवास्यादौ परेऽहन्यर्चयेत् ततः।
तदाश्रितामविज्ञातस्वरूपां देवतां पठन्।। 84 ।।
इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च।
क्षमस्वावतरान्यत्र सन्तिष्ठात्र चिदात्मना।। 85 ।।
अथास्त्रोदकशुद्धेन विलिप्तेन घृतादिना।
जपन् मन्त्रवरं वौषट् छिन्द्याद् वै क्रकचादिना।। 86 ।।
प्राच्यामुदीच्यामैशान्यां पतत्यभिमुखं यदि।
परिज्ञेयं शुभं कुर्यादन्यपातेऽर्चनादिकम्।। 87 ।।
अनाय्या(50) देवभागं चाप्यनादेयेन (51) वै विना।
बिम्बमिच्छति वै कर्तुं वार्क्षं चैवातिविस्तृतम्(52)।। 88 ।।
अनेकभुजवक्त्रास्त्रभूषितं(53) तत् तरूत्थितैः।
भिन्नैरवयवैर्मानयुक्तैः (54) शिष्टैर्न दूष्यति।। 89 ।।
भक्तिश्रद्धावशाच्चैव सर्वं चार्णमयं(55) यतः(56)।
एवमेकतमस्यापि भक्तिपूर्वस्य वस्तुनः।। 90 ।।
विशेषेण शिलादारुसंग्रहणविधानमाह---सच्छैलदारुग्रहण इत्यारभ्य सर्वं चार्णमयं तत इत्यन्तम्। एतत्प्रयोगस्तु श्रीसात्वतामृते सुविशदं प्रतिपादितो द्रष्टव्यः।। 33--90 ।।
(1.षार्चन--मु. बक. बख.।)(2.वामी--अ. उ.।)(3.परा--बक. बख. उ.।)(4.च-अ.।)(5.स्तु--उ.।)(6.ग्नि--अ. उ.।) (7.सिद्धार्थ--बक. बख.।)(8.छत्रं वस्त्रं ध्वजो--अ.।)(9.रो हारो--बक. बख. अ. उ.।)(10.मत्स्यान्नि--बक. बख. अ.।)(11. ति तेन--अ. उ.।)(12. च्छ-बख. उ.।)(13. द्धिः पूजयेत् तु-बक.।)(14. अस-मु. अटी.।)(15. नकुलः सौम्यः--उ.।)(16. तादि--बक. बख., तामि--अ.।)(17.दीनां--मु., तिकं--बक.।)(18.यातुः--अ. उ.।)(19.तं च--बक.।)(20.र्मार्जार--अ. उ.।) (21. वर--बक., खर--उ.।) (22. मा--मु. अटी.।) (23.श्यामा--उ.।) (24. जी--अ.।) (25.भिः स्मृता--बक. बख. अ. उ.।) (26. जान--मु. अटी.) (27.मृदुः--मु. उ. बख., मृग--बक.।) (28. खगवक्त्रा--उ.।) (29.लना--मु.।) (30. त्वं--उ.।) (31.मन्नति--बख. उ.।) (32.चोत्तरास्यं--अटी.।) (33. स्यां वै--मु.।) (34. ननः--बक.।) (35.जन--अ.।) (36. विन्यस्य वै पुरा तेन--मु. अटी.।) (37. भावं---अ.।) (38. च अ--अ. उ.।) (39. वा--अ.।) (40. धारां--मु. अटी.।) (41. भिः स्यात् तथा--मु. अटी.।) (42. बिम्बाद्यं--बख. अ. उ.।) (43. सो--उ.।) (44. कृत्--बक. बख. अ. उ.।) (45. बिम्बौघं--अ. उ. बिम्बोऽयं-बक. बख.।)(46. तनु--उ.।) (47. हिंस्त्रा--अ.।) (48. मूलैः--अ.।) (49. सु--अ. उ.।) (50. र्या--बक. अ. उ.।) (51. च अना--अ. उ.।) (52. स्मयम्--अ., स्मृतम्--उ.।) (53. स्त्रैर्भू--अ.।) (54.क्तैर्दुष्टै--मु. अटी.।) (55.चाणु--अ. उ.।) (56. तत इति भाष्यानुसारी पाठः--अटी.।)
संग्रहं च पुरा कृत्वा कुर्यादाकारमीप्सितम्।
तादर्थ्येन तु सामान्यं सौम्यमानं(1) पुरा शृणु।। 91 ।।
ऋज्वाख्यमविकारं च व्यापकं त्वेकमूर्तिमत्।
भूभागे सुसमे श्लक्ष्ये मानमुत्कीर्य(2) तेन वै।। 92 ।।
निरूप्यावयवानां च लक्ष्म विस्तृतिपूर्वकम्।
अष्टाधिकशतांशो यः स्वोन्नतेरङ्गुलं च तत्।। 93 ।।
द्वे अङ्गुले कलानेत्रं गोलकं भाव एव च।
अङ्गुलादष्टभागो यः स यवः परिकीर्तितः।। 94 ।।
षट्कलं च परिज्ञेयं तालं बिम्बादिकर्मणि।
मुखाङ्गनाभिमेढ्रक्ष्मास्तालमानास्त्वथोरुयुक्(3)।। 95 ।।
द्विकले (4) च तथा जङ्घे (5)गुल्फं जानुर्गलाञ्चकम्(6)।
त्र्यङ्गुलं त्र्यङ्गुलं ज्ञेयमित्युन्मानमुदाहृतम्।। 96 ।।
जटाधराणां बिम्बानां दीर्घह्रस्ववशेन तु।
चतुष्कलं च त्रिकलं मानं मानाद् बहिः क्षिपेत्।। 97 ।।
त्रिपञ्चसप्तशिखरो मौलिरष्टकलोन्नतः(7)।
निर्जटानां ललाटोर्ध्वे मकुटं वा सुशोभनम्।। 98 ।।
तालेन(8) ह्रासवृद्धी तु कार्ये त्वत्र व्यपेक्षया।
यथोदितेषु भागेषु एकैकेनाङ्गुलेन तु।। 99 ।।
आस्यनासाललाटार्थं वदनांशं भजेत् त्रिधा।
ततोऽग्रतः कलामानं घ्राणं स्यात् तिलपुष्पवत्।। 100 ।।
कलार्धेन तु विस्तारः सोन्नतिस्तत्पुटद्वये।
नासाग्रग्रासनिर्मुक्तं गोजीमानं चतुर्यवम्।। 101 ।।
तच्चतुर्यवमानेन घ्राणाग्रेणान्तरीकृतम्।
अर्धाङ्गुलं चोत्तरोष्ठमधरोष्ठं तु चाङ्गुलम्।। 102 ।।
गोलकं चिबुकं विद्धि सृक्किण्यौ(9) चतुरङ्गुले।
आद्यस्य नासिकांसशस्य मध्यभागसमाश्रिते।। 103 ।।
कुर्यान्नेत्रश्रु(10) तिच्छिद्रे तत्र नेत्रे कलान्तरे।
कलायामसमं दैर्घ्यात् कलार्धेन तु विस्तृतम्।। 104 ।।
यदुत्पलदलाकारं द्वियवेनाधिकं तु तत्।
कुर्यात् पद्मदलाकारं नेत्रार्धं वृत्ततारकम्।। 105 ।।
तारादै(11) र्घ्यत्रिभागेन त्वाद्यस्यान्यस्य (12) वाधिका।
यवेनैकेन सार्धेन ज्योतिस्तत्पञ्चभागिकम्।। 106 ।।
त्रिभागेनापि(13) विहितं तत्पद्मदललोचन(14)।
द्विषड्यवं नेत्रकोशं विस्तरेण(15) यवाधिकम्।। 107 ।।
सार्धाङ्गुलद्वयं दैर्घ्याद् भ्रूलते (16) द्विकले स्मृते।
मध्यतो द्वियवे बालचन्द्रतुल्ये क्रमक्षते।। 108 ।।
तदन्तरं कलार्धं च तत्कोटी समसूत्रके।
श्रोत्रे द्व्यङ्गुलविस्तीर्णे आयामेन द्विगोलके।। 109 ।।
द्वियवः कण्ठपरिधिः (17) पर्वणी द्वे चतुर्य वे।
मध्यं ताभ्यां तथा विद्धि द्रोणी सार्द्धाऽङ्गुलाऽत्र वै।। 110 ।।
कलार्धेन तु तच्छिद्रं पाशमानं यथारुचि।
अङ्गुलाद् द्विकलान्तं (18) तु वैषम्यमपि तत्र यत्।। 111 ।।
अन्तश्छिद्रविनिर्मुक्तं तद्विज्ञेयं चतुर्यवम्।
सदलं करणोपेतमेवं श्रोत्रद्वयं स्मृतम्।। 112 ।।
चतुष्कलं ललाटं तु शिखरे द्वे द्विगोलके।
उच्छ्रायात्(19) त्र्यङ्गुले चैव अग्रतोऽङ्गुलविस्तृते।। 113 ।।
केशभूमेः समुद्‌भूतं ललाटोपरि संस्थितम्।
कुर्यात् कलार्धमानं तु वक्त्रं चालकसंचयम्।। 114 ।।
कपोलपरिधिं कुर्यात् कर्णात् कण्ठगतं (20) समम्।
तन्मध्ये वर्तुलौ गण्डौ परिच्छिन्नौ पुरोदितैः(21)।। 115 ।।
शिरसः परिणाहं तु(22) विद्धि षट्‌त्रिंशदङ्गुलम्।
श्रोत्रकोटिद्वयाच्चैव मस्तकस्य यदन्तरम्।। 116 ।।
तत्षोडशाङ्गुलं विद्धि वर्तिभ्यां पृष्ठतस्तथा।
सार्धतालं परिज्ञेयं ललाटात्(23) कगुहान्तरम्।। 117 ।।
सत्कम्बुसदृशी ग्रीवा मूलमध्याग्रतो हि सा।
परिधेर्द्वादशकला एकविंशाङ्गुलाग्रतः।। 118 ।।
अष्टादशाङ्गुला चैव स्वांशात् त्र्यंशेन विस्तृता।
तन्मूलं विस्तृतौ स्कन्धौ तुङ्गौ वृत्तायतौ समौ।। 119 ।।
षडङ्गुलं तद्बाहुल्यं बाहुमानमथोच्यते(24)।
स्कन्धोत्तमाङ्गं त्रिकलं सन्ध्यन्तं षट्कलं स्मृतम्।। 120 ।।
(25) सन्धेर्वै(26) मणिबन्धान्तं मानं नवकलं स्मृतम्।
मणेर्मध्यमशाखान्तो(27) हस्तः सप्ताङ्गुलो मतः।। 121 ।।
परिज्ञेयं कलाहीनं तन्मानं मध्यमाङ्गुलेः(28)।
तच्चतुयवहीना च साऽनामा तु प्रदेशिनी।। 122 ।।
द्विकला च परिज्ञेया साङ्गुष्ठा तु कनीयसी।
द्विपर्वा च स्मृतोऽङ्गुष्ठः सर्वाश्चाङ्गुलि(29) विस्तृताः।। 123 ।।
सर्वासां मूलपर्यन्ताद् ह्वासयेच्च यवं यवम्।
अग्रपर्वार्धमानेन कार्या लिङ्गोपमा नखाः।। 124 ।।
मानमङ्गुष्ठमूलस्य परिधेश्चतुरङ्गुलम्।
तच्चतुर्यवहीनं च ज्ञेयं त्रिष्वङ्गुलीषु च।। 125 ।।
न्यूनाङ्गुले(30) कला सार्धा(31) प्राग्वद् ह्रासश्च वेष्टनात्।
अङ्गुष्ठमङ्गुलं चाग्रात् त्रिस्रोऽन्याः षड्यवाः स्मृताः।। 126 ।।
अर्धाङ्गुलाग्रतो न्यूना विद्धि मध्यं क्रमक्षतम्।
(32) निजलक्ष्मोपलं चाग्रात् साङ्गुलं द्विकलं करम्।। 127 ।।
ईशन्निम्नतलं चैव लक्ष्मरेखाविभूषितम्।
शाखामूलावधेः पाणी(33) बाहुल्यं द्वे यवेऽङ्गुलम्।। 128 ।।
चतुर्यवाधिकं चैव मणिबन्धावधेः स्मृतम्।
मध्ये कलार्धहीनं(34) तु तद्बाहुल्यमुदाहृतम्।। 129 ।।
मणिबन्धावधेर्वाहुवेष्टनं षट्कलं स्मृतम्।
सन्धेः सप्तकलं विद्धि साङ्गुलं (35) त्रियवच्युतम्(36) ।। 130 ।।
(37) हीनमर्धाङ्गुलेवैव मूलाद् वै नवगोलकम्।
तथैव सन्धेरू(38) र्ध्वात् तु विस्तारः प्राग्वदत्र च।। 131 ।।
अत्रापि पूर्ववद् दृष्ट्या कार्याऽन्तः स्था क्षितिः स्वयम्।
तालं गलावधेस्त्यक्त्वा तन्मानेनान्तरीकृतम्(39)।। 132 ।।
स्तनद्वयं समं कुर्यात् तद्धारा च समांसला।
निम्नं हृद्गोलकार्धेन ऊर्ध्वतो रत्नराड्युतम्।। 133 ।।
स्तनाभ्यां त्रिकलौ पार्श्वौ त्रियवं स्तनमण्डलम्।
यवोन्नतं तथा चाग्राद् विस्तृतं तेन चूचुकम्।। 134 ।।
लोचनं त्रियवं सार्धं कक्षमानमुदाहृतम्।
स्कन्धमानविनिर्मुक्तं पृष्टमंसावधेः(40) समम्(41)।। 135 ।।
दोणी(42) निकाशसदृशं(43) मध्यराशेः(44) समांसलम्।
(45) कक्षान्तर्वेष्टनं विद्धि पञ्चतालं सुलोचनम्(46)।। 136 ।।
विनाङ्गुलद्वयेनैव द्वे ताले द्विगुणीकृते।
यवत्रयसमायुक्ते विद्धि तत्कुक्षिवेष्टनम्।। 137 ।।
त्रियवोनं कलामानं विज्ञेयं नाभिमण्डलम्।
(47)तन्मानं (48) त्रियवोनं तु तन्निम्नत्वं विधीयते।। 138 ।।
परिधिर्नाभिमध्ये तु त्रितालः(49) सत्रिलोचनः।
(50) षङ्गोलकं च तन्मानपरिद्व्यर्थं कटेः(51) स्मृतम्।। 139 ।।
करिकुम्भोपमौ पीनौ परितः पञ्चगोलकौ।
स्फिजौ कौपीनराजी च द्व्यङ्गुला मूलतः स्मृता।। 140 ।।
परितोऽङ्गुलमाना(52) सा मेढ्रं तु त्रिकलं स्मृतम्।
चतुर्यवं च तत्कोशं वेष्टनं तु षडङ्गुलम्।। 141 ।।
द्व्यङ्गुलौ वृषणौ दैर्घ्यान्मूलान्तसमविस्तृतौ।
परितो (53) द्व्यङ्गुलं विद्धि वायुरन्ध्रं सुवर्तुलम्।। 142 ।।
ऊरुमानं परिज्ञेयं मध्यभूमेर्नवाङ्गुलम्।
षट्कलं मूलदेशाच्च (54)अग्रान्तं त्रिकलं स्मृतम्।। 143 ।।
हीनमेकाङ्गुलेनैव द्विकलं जानुमण्डलम्।
विस्तारेणोन्नतत्वेन चतुर्यवसमं तु तत्।। 144 ।।
जङ्घामूले परिज्ञेयं (55) वेष्टनं नवगोलकम्।
द्विसप्ताङ्गुलकं मध्ये सार्धपञ्चाङ्गुलं(56) ततः।। 145 ।।
अत्रापि वेष्टनाद् विद्धि तृतीयांशेन विस्तृतम्।
मध्यमूलावसानेभ्यो विस्तारमनुगुण्य तु।। 146 ।।
भुजाभ्यां मध्यदेशस्य तथाङ्गुलिगणस्य च।
ऊरुयुग्मस्य जङ्घाभ्यामापाद्या द्विपहस्तता(57)।। 147 ।।
सतार्लभागमानं(58) च दैर्घ्यं वै चारणं स्मृतम्।
पार्णी द्विगोलकतते तन्मध्ये साङ्गुले कले।। 148 ।।
त्रिकलं चाग्रतश्चैव बाहुल्येन कलासमम्।
पादमङ्गुष्ठनिकटात्(59)(60) त्रियवोनं प्रकीर्तितम्।। 149 ।।
बाहुल्यं (61) च कलामानं गुल्फदेशाच्च साङ्गुलम्।
कनीयोऽङ्गुलिमूलाच्च गुल्फान्तं पिण्डिकाङ्गुलम्।। 150 ।।
जङ्गावसानदेशाच्च(62) वेष्टनं सप्तलोचनम्।
कलाहीनं तदैवाग्रात् परिणाहौ(63) विधीयते।। 151 ।।
चरणं विधिनानेन(64) कूर्मपृष्ठं समाप्य च।
त्र्यङ्गुलेन च तद्दैर्घ्यादङ्गुष्ठस्य च दीर्घता।। 152 ।।
पञ्चाङ्गुलः परिज्ञेयः परिधिस्तस्य लाङ्गलिन्।
यवद्वयाधिका कार्या तद्दैर्घ्यात् तु प्रदेशिनी।। 153 ।।
अङ्गुष्ठायामतुल्याऽथ कार्या वै (65) पादमध्यमा।
मध्याङ्गुलेर्द्विरष्टांशहीना तदनु या स्थिता।। 154 ।।
तद्वत् तदनुगा या च त्रिपर्वास्तास्तु पूर्ववत्।
संयुक्ता नखजालेन कूर्मपृष्ठोपमेन च।। 155 ।।
द्विकलं तु कलार्धोनं (66) पादतर्जनिवेष्टनम्।
चतुश्चतुर्यवोनं च तच्छेषाणां प्रकीर्तितम्।। 156 ।।
त्र्यंशेन वेष्टनाद् विद्धि सर्वासां चैव विस्तृतिम्(67)।
सर्वे समांसलाः सौम्याः समास्त्ववयवाः शुभाः।। 157 ।।
दशनावलिबाह्यस्थे दंष्ट्रे सप्तयवोन्नते।
यवद्वयोन्नतं(68) मानं मध्यदन्तचतुष्टये।। 158 ।।
तत्पक्षगाणां(69) सर्वेषां मानं विद्धि चतुर्यवम्।
त्रियवं द्विजविस्तारमग्रान्मूलाद् यवद्वयम्।। 159 ।।
तत्सार्धं मध्यदेशाच्च सर्वे दन्ता निरन्तराः।
लोम प्रदक्षिणावर्तमयुग्‌जन्मोत्थितं(70) शुभम्।। 160 ।।
अथ बिम्बस्य सामान्यतो मानोन्मानादिलक्षणमाह--एवमेकतमस्यापीत्यारभ्य अयुग्‌जन्मोत्थितं शुभमित्यन्तम्।। 91--160 ।।
(1.सौम्यं--अ. उ.।) (2.मुद्गीय--मु. अटी. बक. बख.।)(3.मानस्त्व--बक. बख. उ.।) (4.द्विताले--बक. बख. अ., विशाले--उ.।) (5.ल्फजानुग--बक. बख. अ.।) (6. लं चरुम्--मु. बक. बख. उ., लुञ्छकम्--अटी.।) (7. लोऽन्ततः--मु अटी. बक. बख.।) (8. कलेन--बक. बख. उ.।)(9.सृग्विण्यौ--अ. उ.।) (10. श्रुती--अटी.।) (11. दैर्घ्यात्--अ. उ.।) (12. चा--अ.।) (13. नाभिवि--बक. बख.।) (14. चने--अ.।) (15.विस्ता--मु. अटी.।) (16. कले--अ., तले--मु. बक. बख.।) (17. कर्ण--उ.।) (18. न्तस्तु--मु. अटी. बक. बख.।) (19.यत्र्य--अ. उ.।) (20. कर्ण--उ.।) (21. दितौ--अ.।) (22. च--उ.।) (23.टाच्च--अ. टात् ककुभा--उ.।)(24. नं त--उ.।)(25. पङ्‌क्तिरेषा नास्ति--उ.।) (26. स्कन्धेर्वै--मु. अटी. बक.)(27.न्तौ हस्तौ सप्ताङ्गुलौ मतौ--अ.।)(28. ले--बक. बख.।) (29. ल--अ. उ..।)(30. मूला--मु. अटी.।) (31.सार्धात्--अ.।) (32. न च लक्ष्मापमं--मु. बक. बख. अ. उ.।) (33. पाणि--अ. उ.।) (34.तुल्यं--अ. उ.।) (35. लं त्र्यवम--मु. अटी. बख., ल्यक्रम--बक. लं त्रयम--उ.।) (36.प्युत--बक. बख., च्युत--उ.।) (37.मध्या--मु. अटी. बक. बख.।) (38. रूर्ध्वं तु--मु. अटी. बक. बख.।) (39.कृते--मु. अटी. बक. बख.।) (40.मांसा--मु. अटी.।) (41. शमम्‌---बक. बख.।) (42. णनी--बक.।) (43. शम--बक. बख. उ.।) (44. मध्ये राजेः--उ.) (45. पङ्‌क्तित्रयं नास्ति--उ.।) (46.स्व--अ., स--बक. बख.।) (47. तन्मानात्--अ.।0 (48. तत् त्र्यवोनं--मु. अटी. बक. बख.।) (49. कालः--मु. अटी. बक. बख.।) (50. सषड्गोलं च तन्मानं--अ. उ.।) (51. कटे--मु. अटी.।) (52. नाऽसौ--बक. बख.।) (53. द्वियवं--मु. अटी.।) (54. आयात्तु--अ.।) (55. ज्ञेये--मु. अटी. बक. बख.।) (56. पञ्चकलं--अ. उ. मु.।)(57. द्विवि--अ.।) (58. सतालं--अ. उ.।) (59. पद--मु. अटी.।) (60. रात्--मु. अटी.।) (61. लं--मु. अटी. बक. बख. उ.।) (62.स्थान--बक.।) (63.णामो--अ.।) (64.तेन--बक. बख.।) (65. पदमध्यगा--बक. बख. अ. उ.।) (66. यवा--बक. बख. उ.।)(67.तम्--बक. बख. ।) (68. तान्मानं--बक.।) (69. काणां अटी.।) (70. युं जन्मार्थिदं--अ.।)
सुनिश्चितं हितं चैतन्मानमव्यभिचारि(1) यत्।
मनोहारित्वमेकत्र रूपलावण्यभूषितम्।। 161 ।।
सर्वदा चानेयोर्विद्धि (2) अन्योन्यत्वेन संस्थितिम्(3)।
(4) सुसौन्दर्यं तु मानस्य क्वचिदाक्रम्य वर्तते।। 162 ।।
लावण्यस्य क्वचिन्मानं समाच्छाद्यावतिष्ठते(5)।
यथातिरूपवान् लोके दरिद्रोऽप्येति (6) मान्यताम्।। 163 ।।
विरूपोऽप्यतिवित्ताढ्यो नारूपो नैव निर्धनः।
एवं द्वयोज्झितं बिम्बमनादेयत्वमेति च।। 164 ।।
आदेयमेकयुक्तं च नित्यं (7)यस्मान्महामते।
(8)सम्यङ्माने च सौन्दर्ये भक्तानुग्रहकाम्यया।। 165 ।।
(9) मान्त्रसन्निधिशक्तिर्वै सफला ह्यवतिष्ठते।
सा सम्यक् प्रतिपन्नस्य बिम्बे दृग्गोचरस्थिते(10)।। 166 ।।
(11) आमूर्ता ह्लादयत्याशु ज्ञात्वैवं यत्नमाचरेत्।
मानोन्मानप्रमाणानामथ सौन्दर्यसिद्धये।। 167 ।।
एवं बिम्बस्य प्रमाणवत्त्वे सौन्दर्यवत्त्वे च "आभिरूप्याच्च बिम्बस्य" (12) इत्युक्तरीत्या निरतिशयाह्लादजननी भगवत्सान्निध्यशक्ति(बि? र्बि) म्बे(13) स्वत एवाविर्भूता सफलाऽवितिष्ठते, अतस्तदर्थं सुतरां यत्नः कार्य इत्याह--सम्यङ्माने चेति सार्धद्वाभ्याम्।। 166--167 ।।
(1.चैव त्मानं व्यभि---बक. बख.।) (2. अन्यूनत्वेन--अटी.।) (3. तम्--बक. अ.।) (4.स-मु. अची. अ., सं--बक. ।) (5.च्छिद्या--अ.।) (6. ह्येति--अ., भ्येति--उ.।)(7. यः स्या--बक. बख.।) (8.साम्य--बक.।)(9. मन्त्र--मु. अटी., मान्त्री--अ. उ.।) (10.चरे--अ. उ.।) (11. अमूर्ता--अटी.।) (12. `अर्चकस्य तपोयोगादर्चनस्यातिशायनात्। आभिरूप्याच्च बिम्बानां देवः सन्निधिमृच्छति।।' इत्ययं श्लोको देवीपुराणवचनत्वेन समुद्धृतो धर्मसिन्धौ तृतीये परिच्छेदे प्रतिमानिर्णयविचार-प्रकरणे)(13. तत--अ.।)
ऋजोः (1) सुसमपादस्य त्र्यङ्गुलं चरणान्तरम्।
तद् वै विषमपादस्य (2) अग्रात् तालसमं स्मृतम्।। 168 ।।
तत्पार्ष्णिद्वयमध्यात् तु परिज्ञेयं द्विगोलकम्।
स्थित्यर्थं ब्रह्मनाड्या वै तथा मार्गद्वयस्य च(3)।। 169 ।।
सूत्रेण सुसमे कुर्याद् देहोत्थे दक्षिणोत्तरे।
समपादस्य बिम्बस्य ललाटान्मेढ्रमस्तकम्।। 170 ।।
प्रसार्य सूत्रमाच्छाद्य तेन नाभिहृदन्तरम्।
घ्राणाग्रमलकानां च सन्धिर्यस्तिलकोर्ध्वगः।। 171 ।।
एवं विषमपादस्य दक्षाङ्गुष्ठाग्रगं नयेत्।
गात्रसाम्यं समापाद्यं क्षेत्रात् क्षेत्रगतेन च।। 172 ।।
सूत्रेण सर्वबिम्बानां वैषम्यविनिवृत्तये।
(4) चतुस्त्रिद्व्यश्रिपरितः (5)परिशुद्धा यतः शुभाः(6)।। 173 ।।
अशुभाऽपरिशुद्धा (7) तु बिम्बोत्थाऽवयवी(8) स्थितिः।
ललाटमश्ववक्त्रस्य विस्ताराद् द्वादशाङ्गुलम्।। 174 ।।
समपादविषमपादबिम्बानां सूत्रेणावयवसाम्यपरीक्षामाह--ऋजोः सुसमपादस्येत्यारभ्य बिम्बोत्थाऽवयवी स्थितिरित्यन्तम्।। 168--174 ।।
(1. सुलभ--उ.।) (2. अग्राज्जाल--बक.।) (3. तु--उ.।)(4. चतुस्त्रिश्रीपरिमितः--अ. उ.।) (5. परतः--मु.।) (6. परतः-मु.।) (6. शुभः--बक. बख. अ. उ.।) (7. वृत्ता--अ.।) (8.यव--बक. बख., त्थोऽवयवः स्थितः--उ.।)
अष्टलोचनमायामाद् अग्रतश्चतुरङ्गुलम्।
कलार्धसुषिरे घ्राणरन्ध्रे(1) भागान्तरीकृते।। 175 ।।
अष्टाङ्गुले तु हनुके (2)सृक्किण्यौ द्वेऽथ तत्समे।
मध्यतः श्रोत्रशुक्ती(3) द्वे द्व्येङ्गुले द्विकलोन्नते।। 176 ।।
द्व्यङ्गुलं घ्राणवंशं तु तदूर्ध्वं द्विकलं स्मृतम्।
विद्धि वक्त्रविकासं च द्वियवं चाग्रतः क्रमात्।। 177 ।।
तमेव हि यवांसेन हन्वन्तं तनुतां नयेत्।
घ्राणवंशस्य पक्षौ द्वौ(4) मध्यनिम्नौ च (5) संहतौ।। 178 ।।
यवद्वयेन सार्धेन दृग्‌घ्राणाभ्यां तु चान्तरे(6)।
(7) अतो दलं तु दृग्‌द्रोणेर्यवमानेन (8) साञ्चितम्।। 179 ।।
ललाटं(9) सालकं प्राग्वद् दृङ्‌मध्यं साङ्गुला कला।
नृसिंहस्य मुखे विद्धि परितश्चाष्टलोचनम्।। 180 ।।
अथ हयग्रीवबिम्बस्य मुखलक्षणमाह--ललाटमश्ववक्त्रस्येत्यादिभिः।। 174--180 ।।
(1.घ्राणे--मु. अटी., ज्ञाने--श.।)(2. क्वि--मु. बक. बख., ग्वि--अ.।) (3. तृश--अ., त्रश--उ.।) (4.तु--अ.।) (5. सौहृ--बक., संहृ--अ., संस्मृ--उ.।) (6.रा--अ. उ.।) (7.अधो--बक. बख. उ.।) (8. कु--अ. उ.।) (9. मा--उ.।)
(1)ततोऽष्ट(2) कण्ठदेशाच्च कुर्यात् कर्णद्वयोज्झितम्(3)।
तत्कर्णद्वयमानेन ललाटान्तं नयेत् पुनः।। 181 ।।
प्रमाणात् प्राक् प्रणीताच्च (4) संरम्भाघ्रातलक्षणम्(5)।
(6) प्रफुल्लविकसच्छिद्रं घ्राणवंशान्वितं भवेत्।। 182 ।।
तच्छिद्रे(7) पूर्वमानाच्चाप्यस्य(8) वै त्रियवाधिकम्।
(9) सगोलमुत्तराङ्गेषु सकलांशं च लोचनम्।। 183 ।।
अधरोष्ठं परिज्ञेयं सचतुर्यवमङ्गुलम्।
सार्धं चतुष्कलं वक्त्रं शेषायामो(10) हनोः स्मृतः।। 184 ।।
तद्धिकासः परिज्ञेयो नेत्रमानं यवाधिकम्।
अग्रतो ह्वासमायाति(11) सृक्किण्यन्तं(12) हि चाङ्गुलम्।। 185 ।।
सर्ववृत्तं तदर्धेन नेत्रयुग्मं सविस्मयम्।
पूर्ववद् विस्तृतं श्रोत्रं कलार्धोनं(13) तदुन्नतेः।। 186 ।।
तुल्या चेन्दुकला युग्मयोगस्य भ्रूस्त्रिगोलका(14)।
तन्मध्यं तु कलामानं शङ्खावर्तोपमं महत्।। 187 ।।
भागमानं सटावृत्तं(15) कार्यं तच्छिरसि स्फुटम्।
श्रीनृसिंहवक्त्रलक्षणमाह--श्रीनृसिंहस्येत्यादिभिः।। 180--188 ।।
(1.ततोष्ठ--मु.।) (2.खण्ड--बक. बख.।) (3.त्थितम्--बक., त्थितः--अ.।) (4. णः--बक.।) (5.प्रप्लुतं--बक. बख., प्रफुल्लं--उ., प्रफुल्लविकजं सान्द्र--अ.।)(6.द्र--मु. अटी. बक. बख.।)(7. च्च अ--अ.।) (8.सगोम चत्वरं--गोष्ठं--अ., यगोमुच्चत्तरङ्गेषु--उ.।)(9. शेष--बक. बख. उ.।) (10.ग्रास--मु. अटी. ।)(11.क्वि--मु. अटी. ग्वि--अ.।) (12.र्धेन--मु. अटी. उ.।) (13. क--अ.।) (14. समा--बक. बख., सदा--उ., सत्य--अ.।)
दैर्घ्येण सार्धतालं च क्ष्माधरस्याननं स्मृतम्।। 188 ।।
विस्तारेण ललाटाच्च तन्मानं द्व्यङ्गुलोज्झितम्(1)।
(2) सौम्यरूपस्य च विभोः प्रोद्यतस्य कलोज्झितम्।। 189 ।।
तच्चतुर्थांशमानेन पोत्रदेशस्य विस्तृतिः।
तस्योपरिष्टाद् बाहुल्यं तत्समं चाङ्गुलं त्वधः(3)।। 190 ।।
हनुद्वयस्य वै मानं सार्धं सप्ताङ्गुलं स्मृतम्।
शेषमाननरन्ध्रं तु सृक्किणीभ्यां (4) यदन्तरम्।। 191 ।।
तद्विकाशश्च सार्धेन कलार्धेनाग्रदेशतः।
स एवाङ्गुलमानेन विज्ञेयः सृक्कि(5) णीद्वयात्।। 192 ।।
घ्राणरन्ध्रं च वक्त्रोक्ते दंष्ट्रे (6)द्व्यर्धकलोन्नते।
नासावंशं यथापूर्वं कदलीनाडिपृष्ठवत्।। 193 ।।
श्रोत्रे वाजिमुखोक्ते तु कोटेः सप्तकलान्तरे।
तत्तुल्ये लोचने किन्तु प्रान्ततीक्ष्णे यवोज्झिते(7)।। 194 ।।
अथ वराहवक्त्रलक्षणमाह--दैर्घ्येण सार्धतालं चेत्यादिभिः।। 188--194 ।।
(1.त्थितम्--अ.।) (2.नास्त्येषा पङ्क्तिः--उ.।) (3. द्यतम्--अ.।) (4. ततः--उ.।) (5. क्वि--मु. अटी., ग्वि--अ. उ.।)(6.त्वर्ध--बक. बख. अ.।)(7.त्थिते--अ.।)
एतेषां विबिता(1) ग्रीवा ह्यङ्गुलद्वितयेन तु।
प्रत्येकदेशात् संयुक्ता(2) सौम्यमूर्त्युदिता च या।। 195 ।।
विनोच्छ्रायेण नृहरेर्यस्य गात्रस्य या प्रमा(3)।
सा सा सवेष्टनाद् व्यासात् कलार्धेनाधिका भवेत्।। 196 ।।
वक्षः कट्‌युदरांसस्फिक्‌कलामानाधिकानि च।
तथैव नखपत्राणि देहश्चास्य समांसलः।। 197 ।।
सम्पूर्णो दक्षिणावर्तैर्लोमभिश्चातिकुञ्चितैः।
त्रिचतुः पञ्चवक्त्रस्य विनैवोर्ध्वमुखेन तु।। 198 ।।
दक्षिणोत्तरवक्त्राभ्यां ह्रासं कुर्याद् द्विगोलकम्।
विकासः सिंहवक्त्रोक्त उद्ग्वक्त्रस्य तत्र च।। 199 ।।
समो दृक्सन्निवेशस्तु चतुर्णां मोक्षसिद्धये।
आरोग्यभोगकैवल्यप्राप्तयेऽर्धाङ्गुलेन तु।। 200 ।।
कुर्यात् सव्यापसव्याभ्यामधो दृक्सन्निवेशनम्।
सह पूर्वोननेनैव(4) साम्यं प्रत्यङ्मुखस्य च।। 201 ।।
(5) निष्कासायामविस्तारघ्राणदृग्‌भ्रूश्रुतिष्वथ।
ईषत्तिर्यक्क्षितिन्यस्तदृङ्‌मुखं(6) दक्षिणं शुभम्।। 202 ।।
तद्वच्च पोत्रदृग्वक्त्रमुत्तरं सर्वसिद्धिकृत्।
स्वकार्यसूचनान्न्यू(7) नं नन्मन्त्रस्य च सन्निधिः।। 203 ।।
अतोऽन्यथा समाश्रित्य शान्तिमास्ते च मन्त्रराट्।
नित्यं (8) तत्सन्निधानाच्च भूतवेतालराक्षसाः।। 204 ।।
आ दर्शनात् पलायन्ते आविशन्ति च दर्शनात्।
आदाय शिरसा (9) मन्त्रिसमाज्ञां सम्प्रयान्ति ते।। 205 ।।
अतः समाचरेद् (10)यत्नाद् येन स्याद् बिम्बसन्निधिः।
नहि तत्सन्निधानाद् वै कश्चिदारभते शुभम्।। 206 ।।
वराहदंष्ट्रं सिंहाक्षं तथा चिपिटनासिकम्।
विधेयं पञ्चमं वक्त्रं पञ्चवक्त्रस्य वै विभोः।। 207 ।।
अस्याधरोत्तराभ्यां त्वप्योष्ठाभ्यां समता भवेत्।
विभिन्नताऽङ्गुलार्धेन (11) ताभ्यां तन्मध्यगा स्फुटा।। 208 ।।
कार्या दशनपाली वै मूलमध्याग्रतः समा।
कलार्धेनोल्बणं वृत्तं तद्गण्डद्वितयं ततः।। 209 ।।
द्विकलं चाग्रतः श्मश्रु कला चार्धकला क्रमात्।
(12) सम्बन्धवेणिः पूर्वोक्तमानेन शुभकृद् भवेत्।। 210 ।।
सिंहसूकरवाज्याख्यवक्त्राणां(13) सौम्यतां नयेत्।
प्रमाणं दृग्गताल्लक्षाद् व्यवहारमयात् तु वै।। 211 ।।
विकासशअचाश्ववक्त्रोक्तः सौम्यरूपस्य भूभृतः।
तदाद्योक्तस्तु नृहरेः प्रागुक्तो यः स(14) चोदितः।। 212 ।।
तथा वक्त्राङ्गभावित्वे विभोः शक्तीश्वरस्य च।
हारनुपूरवस्त्रस्रक्कटकाङ्गदभूषिता(15) ।। 213 ।।
माल्योपवीतकेयूरमकुटाद्युपशोभिता(16) ।
प्रतिमा मन्त्रमूर्तीनां कृता भवति सिद्धिदा।। 214 ।।
अथ हयग्रीवादीनां ग्रीवाद्यवयवलक्षणानि त्रिचतुः पञ्चवक्त्रादिबिम्बस्य मुखाद्यवयवलक्षणानि(17) चाह---एतेषां विहिता ग्रीवेत्यारभ्य कृता भवति सिद्धि देत्यन्तम्।। 195--214 ।।
(1.सहिता--बक. बख. उ.।) (2. संरुद्धात्--अ.।) (3. प्रभा--बक. अ.।) (4. चैव सम्यक्--मुद अटी.।) (5.निष्ठा--मु. अटी.।) (6.तिं न्यस्य दुर्मुखं--अ.।) (7. न्मानं--बक.।) (9. सत्--अ.।) (10.मान्त्री--उ.।) (11.यत्तो--बक. (12.विविक्तता--बख. अ. उ.।) (12.संबद्ध--अ. उ.।) (14. जीभ--अ., वान्मु--बक. बख. मु.।) (14.स चोद्यतः--मु., समाचरेत्-बक. बख. उ.।) (15. ताः--अ. उ.।) (16. ताः--अ. उ.।) (17.लक्षणं--अ.।)
यत्पुरा पञ्चधा प्रोक्तं वाहनं प्राणदेवतम्।
तस्य बिम्बसमुत्थेन तालेन मुखण्डलम्।। 215 ।।
द्व्यङ्गुलं तु ललाटोक्तं जटाबन्धो द्विचोचनः।
द्व्यङ्गुलेनोन्नतः कण्ठ(1) उरः पञ्चकलं स्मृतम्।। 216 ।।
अष्टाङ्गुलं तदुदरं कटिः पञ्चाङ्गुलोन्नता।
नवाङ्गुलोन्नतावूरू जानुनी द्व्यङ्गुले स्मृते।। 217 ।।
अष्टाङ्गुलोच्छ्रिते जङ्घे द्व्यङ्गुले पादपिण्डके(2)।
(3) (4)शममेककलाहीनं तद्ग्रीवायाश्च वेष्टनम्।। 218 ।।
बिम्बतुल्या परिज्ञेया सर्वदाऽस्याङ्गविस्तृतिः।
तद्विभागाधिकं विद्धि वेष्टनं ह्युदरस्य च।। 219 ।।
परिधिः कटिदेशस्य चतुर्नेत्राधिकस्तु वै।
बिम्बोक्तसदृशं(5) विद्धि तदूर्वोर्मूलवेष्टनम्।। 220 ।।
तदेव जङ्घामध्यस्य जङ्घान्तस्य तदेव हि।
पादं पञ्चकलायामं चतुरङ्गुलविस्तृतम्।। 221 ।।
त्र्यङ्गुलं पाणिदेशाच्च(6) अङ्गुष्ठोऽर्धकलासमः।
विज्ञेया अङ्‌घ्रिदैर्घ्याच्च(7) (8) यवोनाङ्‌गुलयः क्रमात्।। 222 ।।
नाभिरन्ध्रं सुविस्तीर्णं ह्यर्धलोचनविस्तृतम्।
(9) मघ्यमाङ्गुलिपर्यन्तं मणिब(10)न्धान्नवाङ्गुलम्।। 223 ।।
त्रिकलः पाणिविस्तारस्तन्नखा निशितोन्नताः।
तद्बाहुमस्तकं विद्धि उच्छ्रायेण द्विलोचनम्।। 224 ।।
भुजोपभुजयुग्मं यत् तद् द्वितालसमं स्मृतम्।
कलार्धेनाधिकं बिम्बं बाहोस्तद्बहुवेष्टनम्।। 225 ।।
(11)बिम्बोक्तां (12)सद्विधिं ह्येवं स्तनभूर्लोचनोल्बणा।
वृत्तवैपुल्यमानेन लोचने पद्मपत्रवत्।। 226 ।।
भ्रुयुगं नरसिंहोत्थं घ्राणाग्रं शुकचञ्चुवत्।
कलार्धमानं(13) दीर्घं च तद्वंशं गजपृष्ठवत्।। 227 ।।
स्वायामदीर्घं तत्पक्षयुगलं कुक्षिदेशगम्।
तदेव (14) वैर्घ्यादर्धेन विस्तृतं हंसपक्षवत्।। 228 ।।
स्वपक्षमानाद् द्विगुणं तत्पुच्छं शतशाखकम्(15)।
(16) सपक्षमिममायामं (17) सात्यं त्ववयवान्वितम्।। 229 ।।
सर्वेषां विद्धि(18) सामान्यं विशेषाख्यमथोच्यते।
ऊरुद्वयान्नयेद् ह्रासमङ्गुलानां त्रयं तथा।। 230 ।।
जङ्घाकाण्डोच्छ्रितेः कुर्याज्जङ्घाभ्यां चात्रे वेष्टनम्।
बिम्बाख्यं मणिबन्धस्य (19)सममूलान्महामते।। 231 ।।
(20) जानुदेशात् तदर्धेन सह चार्धआङ्गुलेन तु।
पादे (21) जालं परिज्ञेयं विस्तारेण षडङ्गुलम्।। 232 ।।
शेषं सत्योदितं सर्वं सर्वेषां विद्धि सर्वदा।
किन्तु पादोज्झितौ(22) पक्षौ दैर्घ्यात् तद्दलविस्तृतौ।। 233 ।।
(23) एषां (24)चोड्डीयमानानां स्वायामा पक्षविस्तृतिः।
पञ्चानां च परिज्ञेया स्थितानामर्धलक्षणा।। 234 ।।
एतदादाय मानं तु पुच्छभ्रूपक्षवर्जितम्।
विद्धि वामनरूपस्य लक्षणं किन्तु लाङ्गलिन् ।। 235 ।।
सत्यसुपर्णादिगरुडव्यूहलक्षणमाह--यत्पुरा पञ्चधा प्रोक्तमित्यारभ्य स्थितानामर्धलक्षणेत्यन्तम्।। 215--234 ।।
(1. कर्णः--उ.।) (2. पद--बख.।) (3.श्याम--उ.।) (4. मेकं--मु. अटी. उ.।) (5.बिम्बोक्तं--बक. बख. अ. उ.।) (6. पार्ष्णि--बक. बख. अ. उ.।)(7. देशाच्च--मु. बक. बख.।) (8.यवेना--मु. बक. बख.।) (9.पङ्‌क्तिद्वयमेतत् पङ्‌क्तिद्वयानन्तरं स्थापितम्--अ.।) (10.बन्धं--अ.।)(11.बिम्बोष्ठां--बक. बख. उ.।)(12.सद्विधि--बक. बख.,साद्विधी--अ., सद्वये--उ., सद्विती--मु. अटी. (13.मान--अ. उ.।) (14.दैर्घ्यदीर्घेण--अटी.।) (15.खिनम्--बक. बख. अ. उ.।) (16.स्व--बक. बख.।) (17.सत्यं--बक. बख. अ. उ.।)(18.सिद्धि--उ.) (19.मूलां--मु. अटी. बक. बख.।) (20. ज्वाला--मु., ज्वाल--अटी. जाल--बख. अ. उ.।0 (21. जाल--बक. बख.।) (22.त्थितौ--अ.।) (23.एषा--बख. अ. उ.।) (24.ड्डय--बख. अ., त्प्लव--उ.।)
एतदादाय मानं तु पुच्छभ्रूपक्षवर्जितम्।
विद्धि वामनरूपस्य लक्षणं किन्तु लाङ्गलिन्।। 235 ।।
ललाटनासावक्त्रेभ्यः समादायाङ्गुलत्रयम्।
मस्तकस्योपरिष्टात् तु जटाबन्धं प्रकल्पयेत्।। 236 ।।
जटावसानमायामं यथा स्यात् पञ्चतालकम्।
इत्युक्तं लेशतो बिम्बलक्ष्म(1) पीठमथोच्यते(2)।। 237 ।।
वामनलक्षणमाह--एतदिति सार्धद्वाभ्याम्।। 235--237 ।।
(1.बिम्बं--अ. उ.।) (2.पीत--उ.।)
बिम्बानामुपविष्टानां चतुरश्रं(1) तु तद् भवेत्।
चतुरश्रायतं(2) चैव प्रोत्थितानां सदैव हि।। 238 ।।
(3) वृत्तवृत्तायतत्वेन ह्यनयो रूपमन्यथा।
याऽङ्गुलैः परमाणूत्थैराराधकमयैस्तु वा(4)।। 239 ।।
(5) (6) धत्तेऽर्चा तु समायामं द्वाराद् वा मन्दिरोत्थितात्।
तन्मानेन तु पीठस्य (7) दैर्घ्यमर्धेन विस्तृतिः।। 240 ।।
द्वारोर्ध्वाच्च त्रिरन्तानि(8) एकपूर्वाणि वै पुरा।
सन्त्यज्य द्वादशांशाद् वै अधः(9) पीठोन्नतिस्त्रिभिः।। 241 ।।
(10) शेषेणास्त्रांशसङ्घेन प्रतिमा चोत्थिता भवेत्।
अथवा वाहनारूढा न्यूना वा मध्यमोत्तमा।। 242 ।।
चतुर्भिर्द्वादशांशैस्तदुपविष्टिस्य चोन्नतिः।
विहिता चास्य सर्वत्र प्रतिमार्धेन विस्तृतिः।। 243 ।।
तत् त्र्यंशपरिलुप्ता च (11) चतुर्थांशोज्झिता(12)ऽथवा।
परिवारवशेनैव चातुरात्म्यस्य वै पुनः।। 244 ।।
अलुप्तांशं च विहितं पीठायामं च सर्वदिक्।
चतुर्दिग्दृग्गतस्यैवमेकदिग्दृग्गतस्य च।। 245 ।।
तदेव (13) दैर्घ्यद्विगुणं लाञ्छनैरावृतस्य च।
सार्धं चानावृतस्यैव तद्बाहुल्यं पुरोदितम्।। 246 ।।
[चतुष्कमेकपीठानां(14) केवलं लक्ष्मवर्जितम्।]
एकैकं लक्ष्मभेदेन तत्संख्यं विद्धि वै पुनः।
अनन्तासनमाद्यं च द्वितीयं पक्षमन्दिरम्।। 247 ।।
कमलाङ्कं तृतीयं तु चतुर्थं चक्रभूषणम्।
एवं हि सर्वसामान्यं पीठानां हि द्विरष्टकम्।। 248 ।।
भेदभिन्नं समासेन पुनरेव निबोधतु।
दिक्षु लक्ष्माणि पीठानां विद्धि कण्ठगतानि च।। 249 ।।
अन्योन्यसन्निवेशाच्च तेषां बाह्वात्मना(15) पुनः।
चक्राम्बुजाभ्यां(16) तत्स्थाभ्यां लुप्ताभ्यामपि तत्क्षिते।। 250 ।।
ताभ्यामन्योन्ययोगाच्च(17) दिक्ष्वनन्तखगाश्रयात्।
द्विद्व्यात्मना(18) द्व्यात्मना वा बहुत्वमवधारय।। 251 ।।
पद्मेनोर्ध्वगतेनैव द्वयं चक्रेण तद्बहिः।
एवं ह्यधोगतेनैव परिज्ञेयं द्वयं द्वयम्।। 252 ।।
उपरिष्टात् तु पद्माभ्यामधश्चक्रं द्वयं द्वयम्।
द्वितयव्यत्ययाच्चान्यत्(19) परिज्ञेयं महामते।। 253 ।।
अन्तर्बहिः स्थितिवशाच्चक्रपद्मद्वयस्य च।
व्यत्ययादनयोर्विद्धि ऊर्ध्वभागाच्चतुष्टयम्।। 254 ।।
अधोभागदेवमेव चतुष्कमपरं तु वै।
पीठानामष्टकमिदमधस्तादूर्ध्वतस्तु(20 (21) वा।। 255 ।।
युक्तमेकेन वै कुर्याच्चक्रेण कमलेन वा।
चकाकारास्तु विहिता ह्येकभ्रमसमाश्रिताः।। 256 ।।
बहवो हि दलास्तद्वदीषद्(22) वै कर्णिकान्विताः।
इति लाञ्छनसञ्चारो बहुधा ते(23)मयोदितः।। 257 ।।
यस्मिन् प्रकृतिभूते तु पीठे तदधुना शृणु।
कृत्वा द्विर्दशधा पीठं पुरायामात् समैः पदैः।। 258 ।।
एकेन चरणं जङ्घा कलशौ च त्रिभिस्त्रिभिः।
कण्ठवीथिमथैकेन ड्षभिः कण्ठं तदूर्ध्वतः।। 259 ।।
भागेन कण्ठसूत्रं तु शुक्तिकांशत्रयेण तु।
उष्णीषं च तदूर्ध्वे तु कुर्यादंशद्वयेन वै।। 260 ।।
निर्गमः स्वदलेनैव विहितश्चरणस्य तु(24)।
चतुर्दिक्षु महाबुद्धे क्षेत्रेतोऽभ्यधिकः (25) म्मृतः।। 261 ।।
सर्ववृत्तं घटं कुर्यात् पल्लवैर्वारकैर्युतम्।
परितोंऽशद्वयेनैव (26) कण्ठपीठं प्रवेशयेत्।। 262 ।।
अन्तः (27)प्रवेशमेकेन विध्यंशेन गलस्य च(28)।
कुर्याद् गलप्रवेशस्य समां सूत्रस्य निः सृतिम्।। 263 ।।
शुक्तेरधः कण्ठसूत्रभागात् पादेन निर्गतम्(29)।
वदनान्तं समासेन शुक्तेः संकोचमाचरेत्(30)।। 264 ।।
उष्णीषघटजङ्घानामश्रिसाम्यं(31)(32) यथा स्थितम्।
घटवद् भूषयेच्छुक्तिमरकैर्वाब्जपल्लवैः।। 265 ।।
तत्रोपरिष्टात् परिधिं चतुरंशकसम्मितम्।
सन्त्यज्य निखनेद् द्रोणीमंशनिम्नां समन्ततः।। 266 ।।
विस्तृतेर्मध्यभागेऽथ स्वत्र्यंशेन च(33) निर्गमम्(34)।
तन्मानं चतुरश्रं तु पीठक्षेत्राद् विनिर्गतम्।। 267 ।।
तच्चाग्रतस्त्रिधा कृत्वा पक्षभागौ क्षयं नयेत्।
अनुपादेन चामूलात् सम्यग् लाङ्गलवक्त्रवत्।। 268 ।।
अग्रतो मूलदेशाच्च कृत्वादौ वै त्रिधा(35) त्रिधा।
भूयस्तन्निखनेन्मध्याज्जलं याति यथा द्रुतम्।। 269 ।।
सूकराननतुल्यं तु भवत्येवं महामते।
कुर्याद् वै शङ्ख्यसदृशं मकरास्योपमं (36) तु वा।। 270 ।।
जलनिर्गममेतद्(37) वै पीठेषूदितलक्षणम्।
न कुर्यात् कर्मबिम्बानामा(38) शमादिमितात्मनाम्।। 271 ।।
चित्रमृत्काष्ठजानां तु चलानां(39) तु विशेषतः।
(4) तथैव चतुरश्रस्य चतुर्मूर्तिगतस्य च।। 272 ।।
प्रणालमग्रगं मूर्तेर्यतः संसिद्धिहानिकृत्।
प्रयोजनं विना काचिन्न क्षतिस्तस्य तद्विना।। 273 ।।
सामान्यस्य तु वै यस्मादाधारस्य विशेषतः।
सप्रणालं भवेत् पीठमासनं च प्रणालकम्।। 274 ।।
भूरिनीरादिना स्नानं यत्र यच्छति साधकः।
प्रत्यहं तद्विना तत्र प्रत्यवायो भवेत् स्फुटम्।। 275 ।।
एवमेव बृहद्बिम्बभूषितानां विधीयते।
धातुशैलोत्थितानां च निमित्तस्नपनार्थतः।। 276 ।।
भद्रासनगते कर्मबिम्बे तस्य समाचरेत्(41)।
सततं च यथालाभ(42) दधिक्षीरघृतादिना।। 277 ।।
तोयेन तन्नयेद् यत्नाद् भूभागं वा प्रतिग्रहम्।
यथा नाक्रम्यते पादैर्जन्तुभिस्तन्महर्धिदम्।। 278 ।।
अतः प्रणालं विहितं निषिद्धमत एव हि।
(43) तत्संस्थापनकाले तु देवानां विग्विधेहि(44) तम्।। 279 ।।
प्राक्प्रत्यगाननानां च तदुदग्‌दिग्गतं शुभम्।
उदग्‌दक्षिणवक्त्राणां प्राग्भागे विहितं सदा।। 280 ।।
तत्पुनर्भद्रपीठीयदेवाद्(45) वामेऽर्थसिद्धिकृत्।
सदैवाराधकानां तु विलोमाद् विपरीतदम्।। 281 ।।
उक्तनि(र्ग?ग) मनपूर्वकं पीठलक्षणमाह--इत्युक्तं लेशतो बिम्बमित्यारभ्य विलोमाद् विपरीतदमित्यन्तम्।। 237--281 ।।
(1.स्रायतं--बक. बख.।) (2.रश्रं तथाप्यन्यं--बक. बख.।) (3.वृत्ता--बक.।) (4.वै--अ.।) (5.यत्तेऽर्चा--मु.।) (6.चानु--अ. उ.।)(7.अङ्गुल्यर्धेन--बक. बख., अर्घ्यमस्त्रेण--अ., अर्घ्यमर्धेन--उ.।) (8.रन्ध्राणि--अटी.।) (9.अयः--बक., रथः--अ.।) (10.णाक्रां--बक. बख., ण त्र्यं--अ.।) (11. वा--बख. अ. उ.।) (12. त्थिता--अ.।)(13.दैर्घ्य--अ. उ.।) (14.नास्त्येषा पङ्‌क्तिः--मु. अटी.।) (15.बह्वा--मु., बाह्या--अटी. सा ह्यात्मना--अ.।)(16.वक्त्रा--मु. अटी. बक. बख.।) (17.नाभ्या--मु.।) (18.विद्या--बक. बख. द्वित्वा--अ.।) (19. व्यक्तया चा--बक. बख. ।)(20. मिष्टक--बक. बख.।) (21.स्त्वतः--अ.।)(22. स्ताव--अ.।) (23. तन्मयोदितम्--बक. बख.।0 (24.च--मु. अटी.।) (25.तो ह्य अ. उ.।) (26.कर्ण--मु. अटी.।) (27.इतः 281संख्यापर्यन्ताः श्लोका वारद्वयं लिखिताः--उ.।) (28.तु--अ.।) (29.विस्तृतिम्--अ.) (30.निर्मितम्--बक. बख.।) (31. सं--बक. बख. उ.।) (32.मश्री--अटी. उ.।)(33.तु--मु. अटी.।) (34. निर्मितम्--बक. बख.) (35.धिया--अ.।) (36. मकर--अटी. बख.।) (37.मने तौ--अ.।) (38.मशमा--मु. अटी. बक. बख.।) (39. चपलानां---मु. अटी. बक.।) (40. पङ्‌क्तिचतुष्टयं नास्ति--मु. अटी.।) (41.तदा--अ. उ.।)(42.भागं--अ. उ.।)(43.इतः पूर्वम--`जन्मान्तं वा जगत्यन्तं कैरवान्तं गलन्तकम्। पट्टिमध्यं तलं पञ्चभेदं सर्वेषु यामसु।।' इत्येष श्लोकोऽदिको दृश्यते--बक. बख.।) (44.दिग्वये--अ. उ.।) (45.पीठीयं--अ.।)
पीठवच्च परिज्ञेयं प्रासादस्य च(1) उच्यते।
शुभे दिनेऽनुकूले च नक्षत्रे पूजिते ग्रहे(2)।। 282 ।।
लग्ने स्थिरे स्थिरांशे च दृक्‌शुद्वे चोत्तरायणे।
दिव्याद्युत्पातसंशुद्धे सितपक्षेऽमलेऽम्बरे।। 283 ।।
आ जलान्तं कृते खाते पूर्ववत् संप्रपूरिते।
विमुक्तदोषे भूभागे सर्वलक्षणलक्षिते।। 284 ।।
(3) पूरणादंशशेषे तु सूपलिप्ते धरातले।
चतुष्पष्टिपदीभूते(4) प्राग्वत् सूत्रेण सर्वदिक्।। 285 ।।
स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः।
सर्वसाधनसंयुक्तश्चार्घ्यपात्रसमन्वितः।। 286 ।।
मङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि।
सह चैकायनैर्विप्रैः सदागमपरायणैः।। 287 ।।
तथा ऋङ्मयपूर्वैस्तु आ मूलात् भगवन्मयैः।
विशेत् प्रासादभूभागं मध्ये कुम्भं निधाय तम्।। 288 ।।
कुर्यान्निरीक्षणं भूमेस्ताडनं प्रोक्षणं ततः(5)।
सेचनं पञ्चगव्येन सह (6)चास्त्रोदकेन तु।। 289 ।।
ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक् चतुष्टयम्।
पाठयेच्च सपुण्याहं ब्राह्मणान् (7)कृतमण्डनान्।। 290 ।।
बाह्वृचं शाकुनं सूक्तं ततो भद्रं यजुर्मयान्।
इडा मायेति(8)सामज्ञान् शान्ता द्यौरित्यथर्वणान्।। 291 ।।
ईशकोणात् समारभ्य प्रागादौ प्रतिपङ्‌क्तिषु।
द्वादशाक्षरमन्त्रेण स्वनाम्ना तु पदे पदे।। 292 ।।
नतिप्रणवगर्भेण दैवतं(9) देहलक्षणम्।
(10) यष्टव्यो वास्तुपुरुषो दधिस्रक्चन्दनादिना।। 293 ।।
सात्त्विकेनोपहारेण अग्नौ सन्तर्पयेत् ततः।
कुर्यात् कुम्भप्रतिष्ठानं यथा तदवधारय।। 294 ।।
पूर्ववत् तोरणाद्यैस्तु भूभागमुपशोभयेत्।
(11) कर्णिकालयवक्त्रस्य अग्रतस्तत्क्षितेर्बहिः।। 295 ।।
सर्वोपकरणोपेतं कुर्यान्मण्टपमुत्तमम्(12)।
कुण्डाष्टकान्तरस्थं च स्थलं तत्राष्टहस्तकम्।। 296 ।।
सपिण्डिका द्विहस्तास्तु कुण्डाः पूर्वोक्तलक्षणाः।
त्रिहस्तापचिता(13) वीथी स्यादेवं द्विनवः शमः।। 297 ।।
पूर्ववत् प्रतिकुण्डे तु विनिवेश्यं च साधनम्।
आत्मनश्चोत्तरे कुर्यात् कुण्डं चाथ(14) (15) समस्थले।। 298 ।।
दक्षिणे पूर्ववद् देवमवतार्य यजेत् क्रमात्।
स्थलायां(16) स्थण्डिलस्योर्ध्वे उन्नतायां च पूर्ववत्।। 299 ।।
तर्पयित्वा यथाकाममुद्‌धृत्याग्निगणं ततः।
दिक्कुण्डेषु विनिक्षिप्य संस्कृतेषु च पूर्ववत्।। 300 ।।
तथैव च विदिक्स्थेषु उद्‌धृत्याभ्यर्च्य वै क्रमात्।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत्।। 301 ।।
चतुरो वासुदेवादीन् नाम्ना एकायनान् द्विजान्।
स्वाभिः स्वाभिरसंख्यं तु तैः कार्यमभिधाय च।। 302 ।।
कर्मावसानं हवनं साज्यैस्तु तिलतण्डुलैः।
एतमप्यययोगेन (17) वाय्वादीसानगोचरम्।। 303 ।।
ऋग्वेदाद्यांस्तु चतुरः संस्कृत्यादौ तथा न्यसेत्।
तैरप्यच्युतलिङ्गेस्तु स्वशाखोक्तैश्च पावनैः।। 304 ।।
हवनं विधिवत् कार्यं भक्तियुक्तेन चेतसा।
अथेशकोणमासाद्य ब्राह्मणैरपरैः सह।। 305 ।।
(18) प्राङ्‌निर्दिष्टं न्यसेत् तत्र स्नानोपकरणं तु यत्।
दशार्धगव्यपूर्वं तु कलशेषु पृथक् पृथक्।। 306 ।।
तानर्च्यार्घ्यादिना पश्चाद् द्विषट्केनाभिमन्त्र्य च।
समानीय शिलोपेतान् कलशान् पूर्वसम्भृतान्।। 307 ।।
उत्कृष्टधातुसम्भूतान् नवशैलमयांस्तु(19) वा।
समान् सुपक्वान् सुघनान् मृण्मयांस्तदभावतः।। 308 ।।
द्वादशङ्गलिविस्तीर्णांस्तन्मानेन तु चोन्नतान्।
द्विगुणान् स्ति सामर्थ्ये नृपाणां हेमजान् हितान्।। 309 ।।
तत्संख्यं चतुरश्रं तु द्वादशाङ्गुलविस्तृतम्।
तत्त्र्यंशतुल्यं बाहुल्यात् शिलावृन्दं(20) समाहरेत्।। 310 ।।
संस्थाप्य विधिवत् कुम्भान् पूर्वोक्तेन क्रमेण तु।
कम्बुतुल्यमथैकं वा तत्कण्ठं त्र्यङ्गुलोन्नतम्।। 311 ।।
तद्‌गुणैरपि विस्तीर्णं तत्खातोऽष्टाङ्गुलः स्मृतः।
परितः(21) कर्णवर्जं तु शङ्खो वा सुसितो महान्।। 312 ।।
(22) विहितो (23) जननाथस्तु अन्तः शुद्धस्तु साक्षतः।
एवं हि सान्तराद् बाह्यात् समालभ्याधिवास्य च।। 313 ।।
फलैर्हेमादिकै रत्नैः सर्वौषधिमयैस्ततः।
गन्धैर्बीजैस्तथा धान्यैर्विद्रुमाद्यैस्तु मौक्तिकैः।। 314 ।।
नेत्रवस्त्रैरलङ्कारैर्भूषयेत् स्रग्वरैः शुभैः।
द्वातशाक्षरमन्त्रेण एकैकस्य समाचरेत्।। 315 ।।
मूर्तिसंसिद्धये न्यासं प्रणवैस्तच्चिदात्मना(24)।
ततश्चार्घ्यादिकैर्भोगैर्बल्यन्तैर्विविधैर्यजेत्।। 316 ।।
शिलास्वेवं (25)कृते पश्चान्निनयेत् कुण्डसन्निधिम्।
सशिलं कुम्भवृन्दं तु आधारेषु परिन्यसेत्।। 317 ।।
तदाधारशिलां पश्चात् तत्र वा मण्टपाद् बहिः।
एवमेव च संस्कृत्य भावयेत् प्रणवेन तु।। 318 ।।
ज्वलन्तीं गोसहस्रेण खचितां सूर्यबिम्बवत्।
ततशअचाराध्य मन्त्रं तु सन्तर्प्य शतसंख्यया।। 319 ।।
मध्ये तत्कलशं न्यस्य साङ्गं सपरिवारकम्।
निः शेषशक्तिगर्भं तु व्यापक(26)(27) ब्रह्मतत्त्ववित्।। 320 ।।
अत ऊर्ध्वे तिर्यगाभिर्वागाद्याभिश्च शक्तिभिः।
व्रतमूर्तिसमेताभिरभिन्नाभिस्तु तत्त्वतः।। 321 ।।
पाठयेद् ब्राह्मणांस्तत्र आत्मव्यूहं तु मन्त्रराट्।
तथैवात्मानुभावाय(28) प्रणवाद्यन्तगं तु वै।। 322 ।।
तमर्चयित्वा विधिवत् तर्पयित्वा त्वनन्तरम्।
दिक्स्थितानां च कुम्भानां (29)वासुदेवादिकान् न्यसेत्।। 323 ।।
पूर्ववच्चानिरूद्धाद्यान् (30)विदिक्संस्थापितेषु च।
पाठयेच्चातुरात्मीयं संज्ञामन्त्रचतुष्टयम्।। 324 ।।
प्रभवाप्यययोगेन ततः सूक्तं तु पौरुषम्।
ऋग्वेदान् पाठयेद् भक्त्या युञ्जतेत्यपरान्(31) यजुः।। 325 ।।
रथन्तसख्यं यत्साम सामज्ञान् भगवन्मयान्।
सहस्रशिरसं चेति (32)मन्त्रांश्चाथर्वणांस्ततः।। 326 ।।
एकस्मिन् वा महाबुद्धे सर्वोक्तं कलशे हितम्।
तथैव हवनं(33) कुण्डे मध्यमे विहितं स्वयम्।। 327 ।।
किन्तु क्रमेण वै मन्त्रान् पाठयेच्च यथास्थितान्।
एवं सम्पातहोमं तु कृत्वा पूर्णान्तिकं ततः।। 328 ।।
महाशक्तिसमूहस्तु परः सामर्थ्यलक्षणः।
अभेदेन च मन्त्रादिमूर्तीनां यः स्थितः स्फुटम्।। 329 ।।
 स सन्धेयः शिलानां च स्वनाम्ना प्रणवेन तु।
ज्ञानभासा निवसति तथाऽनन्तबला प्रभा।। 330 ।।
सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा।
सम्पूर्णा चेति कथिताः शक्तयो विश्वधारिकाः(34)।। 331 ।।
या शिला कलशाधारसंज्ञा(35) तां विद्धि सर्वगाम्(36)।
सामर्थ्यशक्तिसामान्यां निष्कलां पारमेश्वरीम्।। 332 ।।
सन्तर्प्य मूलमन्त्राच्च शिखामन्त्रेण लाङ्गलिन्।
अजस्य नाभावध्येकमन्त्रेणैकायनैस्ततः।। 333 ।।
तादर्थ्येन तु होतव्यमृङ्मयैस्तु तथैव हि।
होतव्यमस्यवामीयं गायत्रीभिरतोऽपरैः।। 334 ।।
होतव्यं ब्राह्मणैः सम्यक् तद्व्याप्तेरुपलक्षकैः।
दत्वा पूर्णां स्वयं कृत्वा स्थलस्थस्यार्चनं पुनः।। 335 ।।
बलिदानं च भूतानां समाचम्य ततो व्रजेत्।
प्रासादब्रह्मभूभागं न्यसेत्(37) तत्र महाशिलाम्।। 336 ।।
संस्मरंश्चक्रमन्त्रं तु सानन्तं प्रणवेन वै।
बीजभूतं तदन्तः स्थमध्वषट्कं स्मरन् यजेत्।। 337 ।।
निश्शेषमन्त्रवृन्देन तामर्घ्याद्यैरनन्तरम्(38)।
द्वारदिग्वीक्षमाणं तु मध्ये (39)मन्त्रघटं न्यसेत्।। 338 ।।
स्वदिक्ष्वन्यान् यथावस्थान् स्वैः स्वैर्मन्त्रैर्निवेशयेत्।
ततः स्वशक्तिपाषाणैरेकैकं स्थगयेद्(40) घटम्।। 339 ।।
पूरयेदस्त्रमन्त्रेण घटानामन्तरं ततः।
मृदुमृद्वालुकाभिस्तु सुधयाऽचलसिद्धये।। 340 ।।
संवेष्ट्य नेत्रवस्त्रैस्तु ऋग्वेदान् पाठयेत् ततः।
आ त्वा हार्षेति सूक्तं तु प्रतिष्ठा साम सामगान्।। 341 ।।
द्वादशाक्षरसंयुक्तं बलमन्त्रं(41) पुनः पुनः।
वक्तव्यं ब्रह्मनिष्ठैस्तु प्रणवान्तं सुभावितैः।। 342 ।।
तदेकतनुतां यातं संस्मरेत् प्रणवेत् प्रणवेन् तु।
मूर्त्यादिशक्तिनिष्ठं यन्नामरूपक्रियात्मकम्।। 343 ।।
द्वादशाक्षरमन्त्रेण भूयः सहृदयङ्गमैः(42)।
तत्राराध्यं स्वमूर्तिं तु संयजेत् तेजसां निधिम्।। 344 ।।
ततस्त्वों भगवन् भोगैः पाठयेत् पाञ्चरात्रिकान्।
अर्चामि तेति ऋग्वेदानर्चा साम च तद्विदः।। 345 ।।
ततः परिगृहीते तु क्षेत्रे देवगृहीयके।
द्वादशाङ्गुलमानं तु दिग्विदिक्ष्वष्टकं न्यसेत्।। 346 ।।
स्नापितं पूजितं सम्यक् शिलानां शुभलक्षणम्।
तदन्तः सन्निरोद्धव्या(43) बुद्धिधर्मगुणाः क्रमात्।। 347 ।।
धर्माद्याश्चाग्निकोणात् तु यावदीशपदं पुनः।
प्रागादावुत्तरान्तं च अधर्माद्यं चतुष्टयम्।। 348 ।।
शिलानामन्तरे भूमौ षट्कं क्रमेण तु।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम्।। 349 ।।
शब्दब्रह्मानुविद्धां च कृत्वैवं बुद्धिवागुराम्।
सूत्रभूतां न्यसेत् सम्यक् प्रासादतलसंस्थिताम्।। 350 ।।
न्यसेत् प्राङ्गणभित्त्यर्थं(44) तथैव(45) हि शिलाष्टकम्।
तासु संरोधयेत् सम्यक् प्रागुक्तांस्तु दिगीश्वरान्।। 351 ।।
चक्रं तदन्तभृमीनां भ्रमद्वह्निस्फुलिङ्गवत्(46)।
क्षार्णेन चिन्तयेद् व्याप्तं(47) भूभागं चाङ्गणीयकम्(48)।। 352 ।।
आभोगं तदधः शेषं तदूर्ध्वे गगनेश्वरम्।
(49) बहिः प्राङ्गणभित्तीनां सास्त्रं सपरिवारकम्।। 353 ।।
प्रागादावीशकोणान्तमिन्द्राद्यं चाष्टकं न्यसेत्।
तथाविधेषूपलेषु अन्तर्भूमिगतेषु च।। 354 ।।
तत् स्वनाम्नाऽर्चयित्वा तु ऋग्वेदान् पाठयेत् ततः।
क्लीबो न विद्धानिति वै ये देवास्तु(50) यजुर्मयान्।। 355 ।।
देवव्रतं च सामज्ञान् प्रविश्याभ्यन्तरं ततः।
स्थित्वाऽग्रतो मन्त्रमूर्तेरध्वव्याप्तिमनुस्मरेत्।। 356 ।।
बीजतश्चाङ्कुरीभूता(51) पुरस्ताद् व्यक्तिमेति या(52)।
प्रासादपीठपर्यन्तं (53) कुम्भाधारोपलात् तु वै।। 357 ।।
भुवनाध्वा यथावस्थो भावनीयः(54) पुरोदितः।
गर्भोच्छ्रायावधिं यावत् पदाध्वानं विलोकयेत्।। 358 ।।
मन्त्राध्वा शुकनासान्तस्तत्त्वा वेदिकावधिः।
कलाध्वा(55) ऽनुगलान्तश्च वर्णाध्वा च तदूर्ध्वतः।। 359 ।।
अथ प्रासादनिर्माणविधिं दर्शयन् तत्र वास्तुपुरुषार्चनपूर्वकं तन्मध्ये महाकुम्भस्थापनविधिमाह--पीठवच्च परिज्ञेयमित्यारभ्य वर्णाध्वा च तदूर्ध्वत इत्यन्तम्। आजलान्तं कृते खाते पूर्ववत्संप्रपूरित इत्यत्र पूर्ववदित्यनोनाष्टादशपरिच्छेदोक्तःक्ष्मा(56) परिग्रहो गृह्यते। एवं क्ष्मापरिग्रहादिकं(57) पौष्करे(58) विस्तरेणोक्तमत्रापेक्षितम्। अत एवेश्वरतन्त्रे(59) तत्संगृहीतं द्रष्टव्यम्। एवं क्ष्मापरिग्रहप्रयोगः कुम्भस्थापनादिप्रयोगश्च श्रीसात्वतामृते सुस्पष्टं प्रतिपादितः। एवं प्रासादभूमध्ये स्थापितकुम्भाधिदेवता(60) बिम्बप्रतिष्ठान्तं प्रत्यहं पूजनीयाः। तदनन्तरमपि प्रतिदिनं विमानार्चनप्रकरणे तदर्चनविधानमीश्वरपारमेश्वरयोरेव(61) सुस्पष्टं प्रतिपादितम्। किन्तु पारमेश्वरे विमानार्चनप्रकरणे पौष्करोक्तरीत्या " तेषांविदिक्‌स्थितानां च" (10/23)इत्यादिभिर्विदिक्‌स्थितकुम्भचतुष्के स्वमन्त्रेण लक्ष्मीम्, पूर्वादिदिक्‌स्थितकुम्भचतुष्के स्वमन्त्रेण कौस्तुभम्, मध्यकुम्भे षडक्षरेण निष्कलं(62) शब्द विग्रहं शक्त्यात्मानं भगवन्तं न्यसेदित्युक्तम्। " तत्र मध्यमकुम्भस्य" (10/23) इत्यादिभिर्मध्यमकुम्भपिधाने(63) परिशक्तिः प्रभाशक्तिश्च, दिक्षु स्थितकुम्भपिधानचतुष्के ज्ञानशक्तिः, विदिक्‌कुम्भपिधानचतुष्टये क्रियाशक्तिर्न्यस्तव्येति चोक्तम्। पुनः सात्वतोक्तरीत्या " पिधाननवके" (10/28) इत्यादिभिर्नवशक्तिन्यासपक्षोऽप्युक्तः(64)। पारमेश्वर व्याख्यातृभिस्तु " मध्यकुम्भस्य पिधाने मध्यतो निष्कलः शब्दविग्रहः षडक्षरः" इत्युक्तम्। तदज्ञानमूलकम्, "षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम्" (10/25) इति वाक्यस्य पूर्ववाक्य एव योजनीयत्वात्। एवमुत्तरत्र योजिते विरोधबाहुल्याच्च। पारमेश्वरमूलभूतपौष्करसंहितायां द्विचत्वारिंशेऽध्याये "ष़डक्षरेण" (42/166) इति वाक्यानन्तरं सार्धश्लोकषट्कमतिलङ्घ्यैव(65) "शक्तिर्वा या परा देवी" (42/173) इत्यादिकमुक्तम्, तदबुद्‌ध्वा पारमेश्वरसंहितादर्शनमात्रेणैव सर्वज्ञम्मन्यमानैर्व्याख्यातृभिरेवमुक्तम्।(66) किञ्च, " मध्यकुम्भपिधानस्य चतुर्दिक्षु विश्वसन्धारणक्षमा ज्ञानशक्तिः, तद्विदिक्ष्वानन्दलक्षणा क्रियाशक्तिः" इत्युक्तम्। (67) अत्र पराशक्तिः प्रभाशक्तिश्च ज्ञानक्रियाशक्त्योरिवात्मनोऽपि यथोक्तस्थानव्यत्ययः संभवेदिति(68) भिया व्याख्यातृदृष्टिगोचरतामेव न प्रापतुः। अत्र चतुः शक्त्यर्चनं पौष्करे कण्ठरवेणोक्तम्--
पिधाननवकं दद्यात् ताम्रं वा शैलजं समम्।
सुवृत्तं चतुरश्रं वा सुधनं द्वादशाङ्गुलम्।
चतुः शक्तिनिरुद्धं च (42/172-173) इति।
शक्तिचतुष्टयमपि तत्रैव विवृतम् " शक्तिर्वा या परा देवी" (42/173) इत्यादिभिः। प्रागादिचतुष्टये(69) ज्ञानशक्तिः, आग्नेयादिपिधानचतुष्टये क्रियाशक्तिरित्यर्थोऽपि पारमेश्वरे(70) विदिग्व्यक्तिसमूहे तु" (10/27) इत्यत्र व्यक्तिपदेनैव ज्ञायते। तदपि स्पष्टमुक्तं पौष्करे " विदिग्घटसमूहे तु" (42/174) इत्यत्र। अत्र घटशब्दस्य तत्पिधाने लक्षणा। अपि च, "पिधाननवके त्वस्मिन्" (पा. सं. 10/28) इत्याद्युक्तज्ञानभासादिशक्तिन्यासस्य पक्षान्तरत्वमपि न ज्ञातम्।
ननु तत्र यद्वाऽथवेत्यादिपक्षान्तरत्वगमकशब्दो न दृश्यते, ज्ञानक्रियाशक्त्योः प्रागादिपिधानाष्टके न्यासाङ्गीकारे " पिधाने मध्यतो न्यसेत् (पा. सं. 10/26) इत्यत्र मध्यशब्दस्य वैय्यर्थ्यं च स्यादिति चेत्, ब्रूमः--पक्षान्तरत्वमगमकशब्दाभावेऽप्यर्थपर्यालोचनया तस्य पक्षान्तरत्वं सिद्धमेव। मध्यशब्दप्रयोजनं तु " मन्त्रराट् कर्णिकामध्ये"(पा. सं. 5/130) इत्यत्र यथाङ्गीक्रियते, तथैवात्रापीति बोद्धव्यमायुष्मता। पारमेश्वरव्याख्यातृभिरत्र " नवकुम्भवत्त्वं(71) वृत्तायतविमानभेदविषयम्। "यत्र प्रासादभेदेषु"(72) (10/68) इति वक्ष्यमाणत्वात्" इत्युक्तम्। तदतीव मन्दम्, प्रासादनिर्माणार्थं खातदेशे नवकुम्भस्थापनं सर्वविमानसाधारणम्, " अनेकभेदभिन्नेषुप्रासादेषु महामते" (पा. सं. (10/3) इत्यारभ्य लोकव्याप्त्यादीनां सर्वसाधारण्येनोक्तत्वात्, अत्र पौष्करे चैवं नवकुम्भ स्थापनस्य सर्वविमानसाधारणत्वेनोक्तत्वाच्च। पारमेश्वरव्याख्यातृभिरेतन्नवकुम्भेषु शिखाकुम्भत्वभ्रान्त्या व्याख्यानमेवं(73) कृतमिति मन्यामहे। अलं प्रसक्ता नुप्रसक्त्या। प्रकृतमनुसरामः।। 282--359 ।।
(1.सदु--अटी. अ. उ.।) (2.गृहे--अटी. उ.।) (3.पुराण--बक. बख.।)(4.पदे--मु. अटी. बक. बख.।) (5.तथा--बक. बख.।)(6.सास्त्रो--बक. बख., शास्त्रो--अ. उ.।) (7. मङ्गालान् बक. बख.।)(8.मयेति--अटी. अ. उ.।) (9.देवतादेहलक्षणः--अ., देवतां देहलक्षणाम्--उ.।) (10. स वास्तुपुरुषो नाम--बक. बख.।) (11.निर्णिक्ता--बक. अ. उ.।) (12.मण्डल--बक. उ.।)(13.त्रिहस्तापरिता वीथि--बक. बख.।) (14.शम्बु--बक., शम्भु--बख., शम--अ.।) (15.समण्डले--अ.।) (16.याः--बक. बख.।) (17.वाय्वाशादीशगोचरम्--बख. अ.।) (18.`प्राङ्‌निर्दिष्टं---पश्चाद् द्विष' नास्ति--उ.।) (19.समां--मु.।) (20.प्रान्तं--बक.।) (21.कण्‍ठ--अ.।) (22. विहितं तोषितं ना स्याद्--बकध बख.।) (23. हतनाश--मु.।) (24. त्मने--अटी., त्मनाम्--अ. उ.।) (25. कृतैः---बक.।)(26. कब्रह्म--अ. उ.।) (27. तत् सब्रह्म--अटी.।) (28.वादं च--मु. अटी., भावं च--अ.।) (29.`वासुदेवा' `पाठयेद् भक्त्या' नास्ति--बक.।) (30. विदिक्‌स्थान् स्था--अ.।) (31. वारयेत् परान्--बक.।) (32. मन्त्रं चाथर्वणं ततः--बक. बख. अ. उ.।) (33.ह्यनलं कुण्डं--बक. बख. उ.।) (34.विविधारिकाः--बक. बख. उ.।)(35. धारा--बक. बख.।) (36.पूर्व--बक. बख.।) (37.न्यस्य तत्र--अ.।) (38. होमस्याद्यै--मु. अटी.।) (39. मन्त्रं--बख. अ. उ.।) (40. स्थाप--बक.।) (41. बलि--बक. बख. अ.।)(42. स्व--बक. (43. व्यो बुद्धिधर्मगुणः--उ..)(44. प्राङ्कण--बक. बख. अ. उ.,प्राक्कोण--अटी.।) (45.तदैव--अटी.।) (46. युक्‌-उ.।) (47.व्याप्तिं--बक. बख.।) (48.चाङ्क--बक. बख. अ. उ.।)(49.सव्यं--अटी.।) (50. देवांस्तु--बक. बख.।) (51. भूतां--अ. उ.।) (52. सा---मु. अटी.।) (53. `कुम्भा.....शुकना--सान्त' नास्ति--उ.।) (54.यस्तु सर्वदा--बख.।) (55.ध्वाऽण्डगजा--मु.,ऽनुकलान्तं च---अ. उ.।)(56.अष्टादशपरिच्छेद4--12 श्लोकेषु क्ष्मापरिग्रहो वर्णितः।) (57. ग्रहं--अ.।)(58. द्विचत्वारिंशाध्यायोऽत्रत्यो द्रष्टव्यः।) (59. ईश्वरे(16/14) श्लोकतः पौष्करतन्त्रानुपूर्वीकं प्रकरणमेतदारभ्यते।)(60. कुम्भादि--अ.।) (61.ईश्वरे--(3/176--194), पारमेश्वरे(10/87--106) च प्रकरणमेतद् द्रष्टव्यम्। (62. निष्कटे--अ.।) (63. पिधानस्थाने सर्वत्र विधानपदं प्रयुक्तम्--म.।) (64. क्षोपरक्तः--अ.।)(65. षट्कं तिलस्यैव--अ.।)(66.मानैव व्या--अ.।) (67.अत्रापरा--अ.।) (68. हि या--अ.।)(69. रागादि--अ.)(70.श्वरेऽपि दिव्यशक्ति--अ.।)(71.वत् संवृत्ता--अ.।) (72. देहे--तु मु.।)(73.मेव--अ.।)
समीकृत्य पुरा सर्वं प्रासादं प्रारभेत् ततः।
(1)तलादूनाधिकाच्चैव साङ्गुलैरुचितैः(2) करैः।। 360 ।।
द्विर्द्वादशकरं यावत् तालेनोनाधिकेन तु।
शुभाय सिद्दये विद्धि गर्भे देवगृहस्य च।। 361 ।।
कृत्वा क्षेत्राङ्गुलानां च कारणां वा घनं पुरा।
त्यजेत् तदष्टभिः सम्यग् यच्छेषं तद्विचार्य(3) (4) च।। 362 ।।
(5)ए काद्यष्टमपर्यन्ता(6) ध्वजधूममृगेश्वराः।
श्वा च गोखरमातङ्गवायसास्तु(7) ततः शुभाः।। 363 ।।
एकत्रिपञ्चसप्ताख्याः सर्वत्रैव विधीयते।
(8) गर्भषड्भागमानेन तद्बहिर्भित्तिविस्तृतिः।। 364 ।।
तन्मानं परितस्त्यक्त्वा भित्तिरन्या विधीयते।
एवमत्र(9) क्रमेणैव सह भित्तिगणेन तु।। 365 ।।
गर्भद्विगुणविस्तीर्णं क्षेत्रं देवगृहस्य च।
मन्दिरे त्वेकभित्तीये क्षेत्रमानं विधीयते।। 366 ।।
गर्भोक्तं तत्त्रिभागेन युक्तं युक्तेन वर्त्मना।
तत्रापि ह्रासवृद्ध्या तु आयशुद्धिं विचारयेत्।। 367 ।।
एवं निर्जगतीकं च भागं(10) पीठविवर्जितम्।
प्रासादक्षेत्रमानं च तद्युक्तमवधारय।
प्रासादक्षेत्रमानं च तद्युक्तमवधारय।। 368 ।।
षट्‌भागेनाथ पादेन त्रिभागेनोभयात्मिका।
विहिता जगती(11) गर्भा (12)तत्क्रियाविस्तृतिर्भवेत्।। 369 ।।
(13) अधिकार्धं चतुर्दिक्षु तत्पञ्चांशैस्तु वै त्रिभिः।
तृतीयांशेन वै मध्ये निर्गमस्तु विधीयते।। 370 ।।
कोणात् कोणात् तु वै शेषं भागं भागं प्रवेशयेत्।
(14) उच्चं गर्भसमं पीठं तत्पीठेन दलेन वा।। 371 ।।
पीठोक्तालयपीठस्य लक्ष्मस्थित्यंशकल्पना।
चतुर्दिक्षु विधेया वै बहुधाऽनन्तपूर्विका।। 372 ।।
अथोच्छ्रायं तु वै क्षेत्रात् त्रिगुणं(15) मन्दिरस्य च।
कुर्यात् त्र्यर्धगुणं चैव द्विगुणं वा यथेच्छया।। 373 ।।
द्विरेकादशधा कुर्यात् तं च भागैः समं(16) पुरा।
विधेयं पीठवत् पश्चादेकांशेन मसूरकम्।। 374 ।।
तदूर्ध्वं विहिता(17) जङ्घा गर्भमानेन चोन्नता।
भवोपकरणीयाभिर्देवताभिरलङ्कृता।। 375 ।।
जङ्घायामंशयुग्मेन उपर्यनाधिकेन(18) च(19)।
कार्यं शिखरपीठं तु पूर्वलक्षणलक्षितम्(30)।। 376 ।।
किन्तु प्रवेशनिर्यासौ तत्र चार्धांशसम्मितौ।
शिखरं चात्र विहितं भूमिकानवकान्वितम्।। 377 ।।
संकोच्य तत्पुरासूत्रमादायोन्नतिसम्मितम्।
एकस्मादेकवर्णात् तु जङ्घोर्ध्वीयात् प्रसार्य च।। 378 ।।
संस्पृशेत् शिखरं पीठमञ्जसा तं निरोध्य च।
प्रासादाद् बहिराद्यत्र(21) भूभागे त्वमलेक्षण।। 379 ।।
कर्णादूर्ध्वं नयेत् सूत्रं लाञ्छ्यमानं क्रमेण तु।
शिखरोन्नतिपर्यन्तं चतुर्दिक्ष्वेवमेव हि।। 380 ।।
पर्यटेल्लाञ्छ्यमानं तु कर्णात् कर्णं महामते।
यावत् कुमुदपत्राभा सा स्याच्छिखरमञ्जरी।। 381 ।।
एवमालेख्य दृष्ट्या तु सम्पाद्या तन्तुपाततः।
भूमिकाण्डप्रसिद्ध्यर्थं कार्या सा दशधा पुनः।। 382 ।।
उपरिष्टात् तु भागेन भवेदामलसारकम्।
भूमयो भागमानास्तु ततस्तासां समाचरेत्।। 383 ।।
क्षयवृद्ध्याविधानं तु त्यक्त्वा स्थानं च भूमिकाम्(22)।
चतुस्त्रिद्व्येकसंख्यानि सममानाङ्गुलानि(24) च।। 384 ।।
(25) निजभूमेः समारभ्य तानि योज्यान्यधः क्रमात्।
पूर्वभूमेः समारभ्य ह्यधः स्थे भूमिकागणे।। 385 ।।
सर्वासां व्यवधानं तु तद् द्विरष्टांशसम्मितम्।
विभिन्ना पीठरचना तासु कार्या यथास्थिता।। 386 ।।
सचक्रैर्बिविधैः पद्मैः प्रादुर्भावैस्तु चाखिलैः।
सर्वैर्वा लाञ्छनैर्मूर्तैर्नृत्तगीतरसस्थितैः।। 387 ।।
नवांशेनोर्ध्वभागात् तु स्वपादेन विनिर्गतम्।
उष्णीषमूर्ध्वभूमेस्तु कार्यं वै रचनोज्झितम्।। 388 ।।
शिष्टं कृत्वा त्रिधा पाठमण्डस्यैकेन (27) पूर्ववत्।
द्वितीयेन ततः कण्ठं तृतीयेनोर्ध्वगेन(28) तु।। 389 ।।
सुसमं श्रीयुतं कुर्यादण्डं(29) धात्रीफलाण्डवत्।
नवधोष्णीषकं कृत्वा चतुर्भिर्वेदिकाभ्रमम्।। 390 ।।
त्रिभागपृथुलं (30) कण्ठमण्डं पञ्चाङ्गसम्मितम्।
पञ्चधा सप्तधा कृत्वा गर्भं वा नवधा पुरा।। 391 ।।
विहाय पक्षगौ भागौ मध्यभागगणेन तु।
प्रासादनाडिका(31) कार्या गर्भार्धेन विनिर्गता।। 392 ।।
पादेन वा त्रिभागेन (32) सप्तम्भाऽप्यय(33) केवला(34)।
उन्नता शिखरार्धेन साऽप्युत्पलदलोपमा।। 393 ।।
कार्या शिखरपीठोर्ध्वे दिव्यकर्मविभूषिता।
ततः शुभतरं कुर्यान्मण्टपं(35) स्तम्भसंयुतम्।। 394 ।।
भूषितं विहगेन्द्रेण बलिमण्डलगेन(36) च।
चतुर्द्वारे तथा दिक्षु विधेयं मण्टपत्रयम्(37)।। 395 ।।
प्रवेशत्रितयोपेतं मण्टपे मण्टपं भवेत्।
कुर्यान्मण्टपमुक्तं वा यथाभिमतनिर्गमम्।। 396 ।।
रथोपरथकाद्यं तु तेषां गर्भाद् विधीयते।
निर्यासो दशमांशेन द्वादशांशेन लाङ्गलिन्।। 397 ।।
अथवा षोडशांशेन ते कार्या नेमिवत् पुनः।
चतुर्दिक्पक्षसंलिप्ताः(38) पीठकर्मविभूषिताः(39)।। 398 ।।
शिखरस्य चतुर्दिक्षु पीठोपरि समापयेत्।
समं रथकयुक्त्या तु नासिकामञ्जरीगणम्।। 399 ।।
(40) मध्यदेशचतुर्दिक्षु(41) कुर्याद् द्वारगणं समम्।
त्रिचतुः(42) पञ्चषट्भागे ततो गर्भाद् विधीयते।। 400 ।।
द्विगुणं चोन्नतत्वेन त्रिपञ्चनवशाखिकम्।
युक्तं द्वार्स्थद्वयेनैव कुम्भेभदशनैस्तु वा।। 401 ।।
विधिवत् स्थापनं तस्य मन्त्रपूर्वं समाचरेत्।
संस्नाप्य मूलमन्त्रेण सम्पूज्यार्घ्यादिना हृदा।। 402 ।।
शाखामूलगतां कुर्याद् धातुरत्नमयीं स्थितिम्।
(43) सर्वधारामयं मन्त्रं सन्निरोध्य हि तत्र च।। 403 ।।
ज्ञानक्रियात्मकं ध्यात्वा शिखामन्त्रेण शाश्वतम्।
दक्षिणोत्तरभागाभ्यां शाखायुग्मं तु विन्यसेत्।। 404 ।।
हृन्मन्त्रेण तदूर्ध्वे तु (44) रुद्‌ध्वाद्यं परमेश्वरम्(45)।
सन्निधीकृत्य सम्पूज्य गगनस्थे हृदम्बरे(45)।। 405 ।।
द्विविधं धातुजालं तु रत्नं(47) सिद्धार्थकांस्तिलान्।
चन्दनाद्या हि गन्धा ये क्षीरं दधइ घृतं मधु।। 406 ।।
शालयः सर्वबीजानि सर्वौषध्यः सविद्रुमाः।
कृत्वा नेत्रेण नेत्रस्थान्(48) द्वारोर्ध्वे विनिवेश्य तान्।। 407 ।।
दृश्यं भोगाप्तये चैव त्वदृश्यं मोक्षसिद्धये।
चतुष्पात् सकलो धर्मस्तत्रोर्ध्वे सन्निरोध्य च।। 408 ।।
चत्वारि शृङ्गा इति यत् पाठयेदृश्‌मयांस्ततः।
कर्म होमचयं कृत्वा पूर्णां मूलेन पातयेत्।। 409 ।।
एतद्बिम्बप्रतिष्ठानात् प्राग्वत् पश्चात् समाचरेत्।
स्थित्यपेक्षावशेनैव(49) ह्यालयस्य तु वै विभोः।। 410 ।।
अनन्तभुवनं नाम सर्वकामापवर्गदम्।
चतुष्प्रकारमेवं हि प्रासादं विद्धि पीठवत्।। 411 ।।
रचनासन्निवेशोत्थभेदेनानेकधा तथा।
पतत्रीशमृगेन्द्रैस्तु निधिभूतोपमैर्घटैः।। 412 ।।
शङ्खपद्माङ्किताभिस्तु सोपानपदपङ्‌क्तिभिः(50)।
युक्तं द्वारवशेनैव तथा पीठवशात् तु वै।। 413 ।।
विस्तारः प्रतिदिक्संस्थस्त्वरुणस्य(51) विधीयते।
गर्भोत्थक्षेत्रसंज्ञा(52) च जगतीकस्य लाङ्गलिन्।। 414 ।।
ज्ञेयः सजगतीकस्य तन्मानेनापि(53) सर्वदिक्(54)।
(55) एभ्यः पादाधिकं कुर्यात् (56) पादाद्यंशोज्झितं तु वै।। 415 ।।
(57)बुद्‌ध्वा चायतनानां (58)च संस्थितश्चाङ्गने (59) (60) पुरा।
चतुरायतनं विद्धि प्रासादैर्दिक्त्रयस्थितैः(61)।। 416 ।।
आद्येन सह कोणस्थैस्तत्पञ्चायतनं स्मृतम्।
विज्ञेयमष्टायतनं त्रिभिरन्यैस्तु दिग्गतैः।। 417 ।।
विना मध्यस्थितेनैव दिग्गतैस्तु द्विभिर्द्विभिः।
तद्दशायतनं तेन युक्तमेकाधिकं भवेत्।। 418 ।।
प्रतोलीपक्षगेणैव प्रासादद्वितयेन तु।
द्वादशायतनं विद्धि सह मध्यस्थितेन तु।। 419 ।।
तदेवाधिकसंज्ञं तु अतोऽन्योऽनन्तसंज्ञकः।
परस्परमुखौ कुर्यात् प्रासादौ द्वारदेशगौ।। 420 ।।
प्रासादाभिमुखाच्चैव दिक्त्रयेऽवस्थितास्तु ये।
कोणस्थाभ्यां च साम्मुख्यं द्वाभ्यां द्वाभ्यां विधीयते।। 421 ।।
(62) द्वाभ्यामभिमताभ्यां तु कुर्यादुचितदिङ्मुखम्।
द्वौ परस्परवक्त्रौ तु कोणदेशसमाश्रितौ।। 422 ।।
द्वाराण्यनन्तायतने प्रासादानां महामते।

यथाभिमतदिक्‌स्थानि कर्तव्यान्यविशङ्कया।। 423 ।।
न तत्र तेषां भवति वेधदोषः परस्परम्।
अङ्गभावगतत्वाच्च प्रधानायतनस्य वै।। 424 ।।
अर्धेन च त्रिभागेन हितः (63) पादेन चाङ्गनात्(64)।
परण्डकस्य चोच्छ्रायस्तद्विस्तारस्तथोच्छ्रितेः।। 425 ।।
तच्च पीठोपमं कुर्यात् श्लक्ष्णं सोष्णीषमेव वा।
युक्तं कोटिगणेनाथ नानादेवान्तगेन तु।। 426 ।।
यदेकायतनं चैव(65) त्वङ्गनं(66) तन्महामते।
युक्तं लघुपरण्डेन केवलं वा परण्डकम्।। 427 ।।
यदा द्व्यायतनाद्यं च द्वादशायतनान्तिकम्(67)।
एकदिग्वीक्षमाणं च चतुरश्रायतेऽङ्गने।। 428 ।।
वृत्तायते वा वितते प्रासादे चोक्तलक्षणे।
यस्माद् देवालयानां च अङ्गनानां विशेषतः।। 429 ।।
चतुरश्रादिपीठानां नित्यमेव महामते।
अन्योन्यानुगतत्वं तु हितं सापेक्षकं(68) तु वै।। 430 ।।
भूमिभागवशेनैव तथैवार्चावशेन तु।
नानाफलवशेनापि तथा शोभावशेन च।। 431 ।।
भूलाभश्चतुरश्रात् तु चतुरश्रायताद् धनम्।
वर्तुलात् सर्वकामाप्तिर्निर्वृतिस्तु तदायतात्।। 432 ।।
दृष्टादृष्टफलेप्सूनां लोकास्तु महदादयः।
यच्छन्ति वैष्णवं स्थानमारोग्यं भूमिमुत्तमाम्।।
वैष्णवानामकामानां च्युतेरन्ते परं पदम्।। 433 ।।
इति (69)श्रीपाञ्चारात्रे श्रीसात्वतसंहितायां (70)प्रतिमापीठप्रासादलक्षणं(71)(72) नाम
(73)चतुर्विशः(74) परिच्छेदः।।
अथ प्रासादलक्षणमाह---स्मीकृत्य पुरा सर्वं प्रासादं प्रारभेत् तत इत्यारभ्य यावत् परिच्छेदपरिसमाप्ति। (75) अत्र विधइवत् स्थापनं तस्येत्यारभ्य स्थित्यपेक्षावशेनैव ह्यालयस्य तु वै विभो(402--410) रित्यन्तं द्वारप्रतिष्ठाविधानमुक्तं ज्ञेयम्। एतत्प्रासादप्रतिष्ठां तु बिम्बप्रतिष्ठानन्तरं वक्ष्यति।। 360---433 ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये चतुर्विंशः(76) परिच्छेदः।।
(1.बला--मु., ताला--अ.।) (2. रर्चितैः--अटी., रुचिरैः--अ.।) (3. तद्विधाय--बक.।) (4. र्यते--अ.।) (5. इत आरभ्य 23 संख्याकाः श्लोका न सन्ति--अटी.।) (6. त्रैकाद्यष्टक अ. उ.।) (7.मातङ्गा--अ.।) (8.पङ्‌क्तिद्वयं नास्ति--बक. बख. उ.।) (9.मन्तर्भ्रमे बख. अ. उ.।) (10.भागपीठं--मु. बक. बख. उ.।) (11.भागस्त--मु. बक. बख.।) (12.तत्त्रिधा विस्तृतेर्भजेत्--अ. उ.।) (13.रध--बक. बख.।)(14.उच्च--उ.।) (15.त्रिकोणं--बक. बख. उ.।) (16.सगोपुरा--अ.।) (17.निहिता--मु.।) (18.उपयूना--मु अ. उ.।) (19.वै--अ. उ.।) (20. दक्षिण--बक. बख. उ.।) (21.न्यत्र--बख.।)(22. कम्--बख. उ.।) (23.द्विक--बख. उ.।) (24. समादाया--बख. अ. उ.।) (25.निष्ठा--बख. अ. उ.।) (26.न्यतः--अ. उ.।) (27.ठं मण्डलस्थेन--मु. अटी.।)(28. केन--अ.।) (29.द्दण्डं--अ.।) (30. `लं कण्ठमण्‍डं......पादेन वा त्रि' नास्ति--बक. बख. उ.) (31. नासिका--अ.।) (32.सप्तं वा--बक.।) (33. ह्यथ--बक. बख. उ.।) (34. लम्--अटी. बक.।) (35. ण्डपं--बख. अ. उ.।) (36. गेन तु--अ., केन तु--बक. बख. उ.।) (37.सर्वत्र मण्डपशब्दो दृश्यते--बख. अ. उ.।) (38.प्तां--बक.।) (39.ताम्--बक.।) (40. मध्यं--उ.।)(41.देशाच्च--अ.।) (42.नास्त्येषा पङ्‌क्तिः--अटी.।) (43. सर्वाधार--बक.।) (44.ऋध्वाद्यं पार अटी., रुद्ध्यान्तः--बक. अ. उ.।) (45. श्वरः--उ.।) (46. ह्यदु--मु. अटी. अ. उ.।) (47.रत्नान्--उ.।) (48. नेत्रं च--अ.।) (49.सिद्ध्य--मु. अटी.।) (50.काः--अटी.।) (51.स्थो व--बक., स्थः स्वरु--अ.।) (52. ज्ञो वा--बक. बख. अ. उ.।) (53.त्व--मु.।) (54.दृक्‌--अटी.।) (55.येभ्यः पादादिकं--अटि.।) (56.पादांशोत्थिततन्तु वै--बक. अ.।) (57.अध्वा--अ., बध्वा--उ.।) (58.मश्च--बक., न्तं च--अ. उ.।) (59.ङ्कणे--मु. अटी.।) (60.परा--बख. उ.।)(61.क्रम--अ.।0 (62.द्वाभ्यां वा--बख. अ. उ.।) (63.हितं--बक.।) (64.णात्--मु. अटी.।) (65. चैवं--अ.।) (66. त्वाङ्गनं--बक. बख. अ. उ.।) (67.मम्--मु. अटी.।) (68.पापेक्षिकं--बख. उ.।) (69.पञ्च--बख. उ.।) (70. प्रतिमालक्षणविधिर्नाम अ. उ.।) (71.`पीठ' नास्ति--मु. अटी.।) (72. णविधिर्नाम्--मु अटी.।)(73. त्रयोविंशतितमः--अ.।) (74. विंशतिः--बख., शतितमः---उ.।)(75.तत्र--म.।) (76.विंशतिः--म.।)


******************-------------------