प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १० सात्त्वतसंहिता
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
सात्त्वतसंहितायाः अध्यायाः


एकादशः परिच्छेदः
नारद[1] उवाच[2]

श्रुत्वैवमच्युतमुखाद् वनमाली मुनीश्वराः ।
पुनः सञ्चोदयायास यदाकर्णयताद्य तत् ।। 1 ।।
अथैकादशपरिच्छेदो व्याख्यास्यते। अत्र संकर्षणेन भगवान् यत्संपृष्टस्तदाकर्णयतेत्याह- श्रुत्वेति ।। 1 ।।
[1 `नारदः' नास्ति- अ.।]
[2 `उवाच' नास्ति उ. विहाय सर्वत्र।]

सङ्कर्षण उवाच[1]
यथावज्ज्ञातुमिच्छामि मण्डलध्यानलक्षणम् ।
भगवन् भवभीतानामुपकाराय तद्वद ।। 2 ।।
संकर्षणः पृच्छति- यथावदिति ।। 2 ।।
[1 `उवाच' नास्ति उ. विहाय सर्वत्र।]

श्रीभगवानुवाच[1]
संसाध्य यष्टियोगेन सूत्रात् [2] पूर्वापरे पुरा ।
तद्दिग्द्वयान्तरे दद्यात् [3]प्राग् वै सूत्रचतुष्टयम्[4] ।। 3 ।।

समांशेन द्विधा कृत्वा स्फुटं[5] मध्यात् [6]तदङ्क्य च ।
साधितेनार्धमानेन प्राक्प्रत्यक्स्थेन तन्तुना ।। 4 ।।

दक्षिणोत्तरभागाभ्यां समुत्पाद्य चतुष्पथौ ।
सूत्रं पूर्वापरसमं कृत्वा तदुपरि क्षिपेत् ।। 5 ।।

पुनरर्धसमं दिक्षु दत्वा कोणचतुष्टयम् ।
चतुष्पथचतुष्केण[7] नयेद् भक्तिं[8] प्रसार्य[9] वै ।। 6 ।।

समं[10] सूत्रचतुष्कं च चतुरश्राश्रसिद्धये ।
तद्विभज्याष्टदशभिश्चतुर्दिक्षु पदैः समैः ।। 7 ।।

क्षिपेत् सूत्रगणं तत्र घटिकारेण[11] रञ्जितम् ।
मध्ये पद्मावनिं कुर्याद् भागपङ्क्तित्रये क्रमात् ।। 8 ।।

तद्बहिः पदपङ्क्त्या तु पीठमष्टदिगन्वितम् ।
तस्य भागचतुष्कोत्थं[12] दिक्चतुष्कं प्रकल्प्य च ।। 9 ।।

विदिक्चतुष्कं त्रिपदं पङ्क्त्या पीठप्रदक्षिणम् ।
प्रदक्षिणं क्षिपेर्बाह्माच्चतुष्कं दिक्चतुष्टयात् ।। 10 ।।

चतुर्णां तु चतुर्णां तु बाह्याद् बाह्यं द्वयं द्वयम् ।
शोधयित्वा तु तद्बाह्याच्चतुष्कं द्वारसिद्धये ।। 11 ।।

चतुष्टयं क्रमेणैव भूयो दिक्षु पदं पदम्[13] ।
सबाह्याभ्यन्तरगतं शोधनीयं प्रयत्नतः ।। 12 ।।

पुनः सर्वपदाभ्यां तु षट्कं षट्कं तु चान्तरात् ।
संमार्ज्य पूर्णशोभार्थं तत्र रक्तोत्पलाष्टकम् ।। 13 ।।

यथा दिक्ष स्थितं कुर्यात् पूजनाय दिवौकसाम् ।
बाह्यस्थपद[14]पार्श्वात् तु त्रीणि त्रीणि च[15] लोपयेत् ।। 14 ।।

त्रयाणामन्तरस्थं यत्पदमेकात्मतां[16] नयेत् ।
उपशोभं तु तं विद्धि कुर्यान्नीलाब्जभूषितम् ।। 15 ।।

पञ्चकं पञ्चकं कोणाद् वीथौ[17] नीत्वा लयं पुरा ।
शेषैः कोणं तु निर्वर्त्य सान्तरं च ततो बहिः ।। 16 ।।

दद्यात् सूत्रत्रयं चैव मध्येऽथ[18] कमलं लिखेत् ।
षट्त्रिंशद्दलसंयुक्तं तस्य लक्षणमुच्यते ।। 17 ।।

पीठावनिसमीपे तु चतुर्थांशपदात् पुरा ।
समुद्धृत्य भ्रमं कुर्याद् ब्रह्मस्थानाच्च तन्तुना ।। 18 ।।

दिक्सूत्राणां चतुर्णां तु एकैकं हि यदन्तरम् ।
वृत्तावधेः[19] समैर्भागैः पत्रसंख्यै[20]र्विभज्य च ।। 19 ।।

षड्भिर्हीनं शतं सार्धं सूत्राणां तत्र निक्षिपेत् ।
सूत्रं प्राक्पदसंस्थं यत् तदाश्रित्याब्जपल्लवम् ।। 20 ।।

कुर्याद् भागचतुष्केण यथा तदवधारय ।
सव्यापसव्ये[21] ये सूत्रे अन्तरस्य[22] निरन्तरे ।। 21 ।।

तयोरंशं[23] समं कुर्याद् दलाग्रादङ्कमन्तरे ।
तदुद्देशात् तु सूत्रेण तदङ्कान्तर्गतेन च ।। 22 ।।

अर्धचन्द्रद्वयं कुर्यात् तेन सूत्रेण वै समम् ।
पुनरभ्यन्तरे सूत्रं तत्सूत्राभ्यां निरोध्य च ।। 23 ।।

पत्राग्रमानयेत् तस्माद् बहिस्तं[24] श्रृङ्गसन्निधेः ।
लाञ्छ्यमानं दलाग्रं तु विधिनानेन सिद्ध्यति ।। 24 ।।

दलाग्रब्रह्मदेशाभ्यां तुरीयांशेन चान्तरात् ।
भ्राम्य वै कर्णिकावृत्तं द्व्यंशमानेन केसरम् ।। 25 ।।

दलाग्रगांशं[25] वै मध्याद् व्योमार्थं[26] भ्रामयेत् ततः ।
कृत्वैवं वर्णकैः पूतैः पूरणीयं महोज्ज्वलैः ।। 26 ।।

उच्चाग्रविततां पीतां सबीजां विद्धि कर्णिकाम् ।
रेखान्वितानि पत्राणि सर्वाणि सुसितानि च ।। 27 ।।

केसरत्रितयं कुर्यात् पत्रे पत्रेऽरुणप्रभम् ।
दलान्तरालमसितं[27] वृत्तबाह्यं ज्वलत्प्रभम् ।। 28 ।।

सितानि पीठकोणानि रक्तं [28]तद्दिक्चतुष्टयम् ।
राजोपलप्रभां[29] वीथीं पत्रमालाद्यलङ्कृताम्[30] ।। 29 ।।

पश्चिमांशाद्[31] विना सर्वद्वाराण्यम्बुजपत्रवत् ।
कृष्णानि सर्वशोभानि द्वारोद्देशस्थितानि च ।। 30 ।।

तदर्धाकृतितुल्यानि तूप[32]शोभानि गर्भवत् ।
कोणानि केसरा[33]भानि सिताशङ्खान्वितानि च ।। 31 ।।

[34]शोणहेमादिवर्णं च क्रमाद् रेखागणं बहिः ।
तेन पृष्टो भगवान् पूर्वं मण्डललक्षणमाह- संसाध्य यष्टियोगेनेत्यारभ्य क्रमाद् रेखागणं बहिरित्यन्तम्। अस्यैवं प्रयोगः- संसाध्य यष्टियोगेनेत्याद्युक्तप्रकारेण वेदिकोपरिभागं सूत्रपातादिना चतुरश्रीकृत्य तत्क्षेत्रं समैरष्टादशपदैर्विभज्य घटिकारेण रञ्जितं सूत्रगणं[35] तत्र प्रक्षिप्य मध्ये पङ्क्तित्रयस्य षट्त्रिंशत्कोष्ठेषु पद्मं कुर्यात्। [36]तद्बहिरेकया पङ्क्त्या पीठं कुर्यात्। तत्र चतुर्भिश्चतुर्भिः कोष्ठैः प्रागादिदिक्चतुष्टयं त्रिभिस्त्रिभिः कोष्ठैराग्नेयादिविदिक्चतुष्टयं कुर्यात्। तद्बहिरेकया पङ्क्त्या प्रदक्षिणविधिं कृत्वा तद्बहिः पङ्क्तिद्वये पूर्वादिदिक्षु पूर्णशोभाचतुष्टयसिद्ध्यर्थं प्रागादिष्वन्तःपङ्क्त्यां कोष्ठचतुष्कं बहिःपङ्क्त्यां कोष्ठद्विकं चैकीकृत्य[37] तद्बहिः पूर्वादिषु पङ्क्तिद्वयस्थकोष्ठचतुष्केण चतुर्द्धाराणि परिकल्प्य पूर्णशोभापार्श्वयोरर्धशोभासिद्ध्यर्थं बहिःपङ्क्त्यां कोष्ठद्विकमन्तःपङ्क्त्यामेकं कोष्ठं चैकीकृत्य प्रागादिपूर्णशोभाचतुष्के रक्तोत्पलाष्टकमर्धशोभाष्टके नीलोत्पलाष्टकं च विलिखेत्। आग्नेयादिविदिक्षु उपशोभयोरन्तरालेऽन्तःपङ्क्तिस्थं कोष्ठपञ्चकं वीथ्या सहैकीकृल्प बहिःपङ्क्तिस्थकोष्ठसप्तकेन कोणानि तद्बहिः पङ्क्तिद्वये सान्तरं रेखात्रयं कृत्वा मध्ये षट्त्रिंशद्दलसंयुक्तं कमलं लिखेत् ।
तत्प्रकारः- पीठावनिसमीपे पादाच्चतुर्थांशं विहाय ब्रह्मस्थानगतेन तन्तुना भ्रमणं कृत्वा तद्वृत्तमध्ये पूर्वपश्चिमायतमेकं सूत्रं तदुपरि दक्षिणोत्तरायतमेकं सूत्रं च दत्वा दिक्सूत्राणां चतुर्णामेकैकं यदन्तरालं तद्वृत्तावधेः समैर्भागैर्नवधा नवधा विभज्यैकैकं भागं पुनश्चतुर्धा चतुर्धा विभज्य सूत्राणि प्रक्षिपेत्। आहत्य चतुश्चत्वारिंशदुत्तरशतसूत्राणि भवन्ति। तत्र प्राक्दिक्सूत्रमारभ्य चतुर्भिश्चतुर्भिर्भागैरेकैकं दलं कुर्यात्।
तत्प्रकारः- एकस्मिन् भागे [38]मध्यमसूत्रस्य दक्षिणभागयोरव्यवहिते ये सूत्रे, तयोरन्तरालं यत्प्रमाणं तत्प्राणसमं दलाग्रान्म[39]ध्यमसूत्रे लाञ्छनं कृत्वा तल्लाञ्छनान्तर्गतेन सूत्रेण दलाग्रमारभ्य सव्यदक्षिणयोरर्धचन्द्राकाररेखाद्वयं विलिख्य पुनरभ्यन्तरस्थं सूत्रं तद्रेखाभ्यां संयोज्य तस्मात्। शृङ्गासंनिधेर्बहिः पत्राग्रं चानयेत्। ततो दलाग्रब्रह्मदेशयोरन्तरालं यत्प्रमाणं तच्चतुर्भांशेन[40] मध्यात् कर्णिकार्थं मण्डलं परिभ्राम्य तद्द्विगुणमानेन केसरार्थं वृत्तं परिभ्राम्य दलाग्रांशमध्येऽपि व्योमार्थमेकं मण्डलं परिभ्रामयेत्। एवं कृत्वा ततो वर्णपूरणं कुर्यात्।
तत्प्रकारः- कर्णिकां पीतवर्णेन, पीठदिक्चतुष्टयं र(त्ने?क्ते)न, तत्कोणचतुष्कं श्वेतेन, प्रदक्षिणविधिं कृष्णवर्णेनापूर्य, वीथ्यां नानावर्णैः पत्रमालादींश्च विलिख्य, पश्चिमांशं विना सर्वद्वारा(णि) अपि मध्यस्थितकमलवत् श्वेतेन, पूर्णशोभाचतुष्टयमपि कृष्णवर्णेन, अर्धशोभाष्टकं कमलगर्भवत् पीतेन, कोणानि केसरवद् रक्तेन चापूर्य, कोणेषु श्वेतरेखाभिः [41]शङ्खांश्च विलिख्य, रक्तपीतश्वेतवर्णैः क्रमेण रेखात्रयं पूरयेत्। एवं मण्डललेखन[42]प्रकारः ।। 3-32 ।।

[1 `उवाच' नास्ति उ. विहाय सर्वत्र।]
[2 सूर्यात्- मु. अ. उ.।]
[3 प्राग्वत्- अ.।]
[4 ष्ककम्- बक. बख., ष्करम्- अ. उ.।]
[5 स्फुटम- बक. बख.।]
[6 दन्त्य- मु. बक.।]
[7 ष्कोशं- उ.।]
[8 व्यक्तिं- मु. बक. बख. अ.।]
[9 प्रसाध्य- उ.।]
[10 सम- मु. अटी.।]
[11 तु- अटी.।]
[12 रेणु- मु. अटी. अ., कण- मु.।]
[13 त्थदि- मु . अटी.।]
[14 द्वयम्- अटी.।]
[15 पद्मा- बक. बख., पीठा - मु.।]
[16 तु- बक. बख. अ. उ.।]
[17 र्णतां- अटी.।]
[18 द्विधौ- बक. बख. अ.।]
[19 ध्ये ह- बक., ध्ये तत्- अ.।]
[20 कृतावधेः- उ., वृत्तावधैः- मु.।]
[21 संधै- मु. अटी. अ.।]
[22 व्यके- अ., व्ययोः- अटी.।]
[23 र्यस्य- बख., स्थस्य- अ. उ.।]
[24 रंशससं- मु. बक. बख.।]
[25 स्थं- अ. उ.।]
[26 कांशं- बक. बख.।]
[27 द्धोमा- अ. उ.।]
[28 समितं- मु. अटी. बक.।]
[29 तद्वच्च- अ. ।]
[30 प्रभावीथी- बक. बख. उ.।]
[31 तम्- बक. बख. उ.।]
[32 मांशं- बक. बख.।]
[33 उप- उ.।]
[34 न्तानि- अटी.।]
[35 पङ्क्तित्रयं न दृश्यते- उ.।]
[36 तृणं- अ.।]
[37 `तद्बहिरेकया........ चतुष्टयं कुर्यात्' नास्ति- अ.।]
[38 कृत्यात- अ.।]
[39 मध्यसूत्रस्य- मु.।]
[40 मध्यसूत्रे- मु.।]
[41 र्धांशेन- मु.।]
[42 शाखांश्च- अ.।]
[43 प्रयोगः- मु.।]

कृत्वैवमनुसन्धाय सर्वात्मत्वेन देहवत् ।। 32 ।।

रजांसि विद्धि भूतानि सितपीतादिकानि च ।
तन्मात्राण्युपशोभानि शोभानि करणानि तु ।। 33 ।।

एवं सर्वाणि कोणानि सद्वाराणीन्द्रियाणि च ।
बहिरावरणं यद्वै सत्त्वाद्यं[1] त्रितयं हि यत् ।। 34 ।।

मनः सुवितता वीथी गर्वः[2] पीठमुदाहृतम् ।
धीः पद्मं तदधिष्ठाता बीजात्मा चिन्मयः पुमान् ।। 35 ।।
एतन्मण्डलस्य भगवच्छरीरतयाऽत्रापि प्रसिद्धदेहवद् भूततन्मात्राणि[3] दर्शयति- कृत्वैवमित्यादिभिः ।। 32-35 ।।
[1 सत्त्वाद्य- मु. अटी. बख.।]
[2 गर्वं- मु अटी. अ.।]
[3 मात्रा निदर्श- मु.।]

अमूर्त ईश्वरश्चात्र तिष्ठत्यानन्दलक्षणः ।
यस्य सन्दर्शनादेव शश्वद्भावः प्रसीदति ।। 36 ।।

ससङ्गानामसङ्गानां वपुष्पाते[1] कृते सति ।
प्रायशो मुक्तिभाजां च त्विह जन्मैकशेषिणाम् ।। 37 ।।

देव आस्ते ज्ञतां हित्वा बहिरन्तश्च कर्मिणाम् ।
अन्यथा दृष्टमात्राद् वै कथमाह्लादमेति वै ।। 38 ।।

अन्तः[2]संवेदनसमम् अस्तित्वप्रतिपादकम् ।
यद्यत् स्वलक्षणं तत्त्वं तत्तत् सर्वत्र [3]सिद्धिगम् ।। 39 ।।
मण्डले भगवदवस्थानं सहेतुकमाह- अमूर्त इत्यादिभिः ।। 36-39 ।।
[1 पृष्पपाते- अ. उ.।]
[2 अतः- मु. अटी.।]
[3 सिद्धगम्- बक. बख., सन्धिगम्- मु. अ.।]

वस्तुत्वेन गृहीत्वैवं मण्डलं पूर्वनिर्मितम् ।
नाम्नाऽब्जनाभभुवनं[1] सर्वदुःखक्षयङ्करम् ।। 40 ।।

ततस्तस्मिन् क्रमेणैव[2] ध्यात्वैकैकं निवेशयेत् ।
पूर्वोद्दिष्टेन बीजेन त्वाकारं पार[3]मेश्वरम् ।। 41 ।।
एवमब्जनाभभुवनाख्यं[4] मण्डलं परिगृह्य तत्र पूर्वोक्तक्रमेण तद्देवान्[5] तत्तद्बीजादिमन्त्रैर्निवेशयेदित्याह- वस्तुत्वेनेति द्वाभ्याम् ।। 40-41 ।।
[1 भवनं- अ. ।]
[2 णैवं- मु. अटी. अ. ।]
[3 परमे- मु. अटी. बक. अ. उ.।]
[4 ख्यम- अ.।]
[5 तत्तद्देवानां- अ.।]

अथैवं भाजितात् क्षेत्राच्चतुरश्राद् महामते ।
पूर्वोद्दिष्टानि धिष्ण्यानि यथा कार्याणि तच्छृणु ।। 42 ।।
एवं मण्डललक्षणमुक्त्वा कुण्डलक्षणं श्रृण्वित्याह- अथेति। एवं भाजितात् क्षेत्रात् पूर्वं मण्डलोक्तप्रकारेण सूत्रपातैरष्टादशधा विभक्तादित्यर्थः। पूर्वोद्दिष्टानि पूर्वमाराधनप्रकरणादिष्क्तानीत्यर्थः। धिष्ण्यानि वह्निगृहाणि कुण्डानीति यावत् ।। 42 ।।

पञ्चमं ब्रह्मकर्माद्यं[1] मर्म प्राग्दिश्यवस्थितम् ।
अंशं दीर्घेण तत्स्थेन कुर्यात् सूत्रेण लाञ्छनम् ।। 43 ।।

अर्धचन्द्रसमाकारं भागयुग्मस्य चान्तरे ।
दक्षिणोत्तरभागाभ्यां तदधस्तत्समं तथा ।। 44 ।।

लाञ्छनद्वितयं कुर्यात् तिर्यक्संस्थानसंस्थितम् ।
भागद्वादशकस्यैक्यं स्यात् पङ्क्तिद्वितयाद्[2] यथा ।। 45 ।।

ब्रह्ममर्म[3] चतुर्थँ यत् संख्यामानं च पूर्ववत् ।
मर्म तस्य च पक्षस्थावेक[4]मर्मान्तरीकृतौ ।। 46 ।।

ताभ्यामवस्थितेनैव सूत्रेणैतत् प्रजायते ।
पुनर्मध्याद् द्वितीयं यद् मर्म चो[5] र्ध्वं प्रवर्तते ।। 47 ।।

तस्माद् वै त्र्यन्तरीभूतं चतुर्थं पक्षयोर्द्वयोः ।
मर्म तत्स्थेन सूत्रेण वृत्तार्थे[6] पूर्ववल्लिखेत् ।। 48 ।।

ब्रह्ममर्मणि षष्ठस्य प्रत्यग्दिक्संस्थितस्य च ।
मर्मणोऽप्यथ वै सूत्रं कृत्वा तत्सम्प्रसार्य च ।। 49 ।।

यावद् वृत्तार्थबुध्न[7]स्थं श्रृङ्गकोटेस्तु सन्निधिम्[8] ।
एवं सूत्रद्वये दत्ते धिष्ण्यः शङ्खाकृतिर्भवेत् ।। 50 ।।
प्रथमं शङ्खकुण्डलक्षणं दर्शयन् तत्कुण्डक्षेत्रमध्यखातस्य शङ्खाकारतासिद्ध्यर्थँ परितो लाञ्छनक्रममाह- पञ्चममित्यारभ्य धिष्ण्यः शङ्खाकृतिर्भवेदित्यन्तम्। ब्रह्मकर्माद्यं मध्यम[9]र्मप्रारम्भकमित्यर्थः। मर्म प्राक्पश्चिमायतसूत्रस्य दक्षिणोत्तरायतसूत्रस्य च[10] सन्धिस्थानमित्यर्थः ।। 43-50 ।।
[1 कर्माद्यान् मम- मु. अटी., मर्माद्यं- बक. बख.।]
[2 त्तथा- मु. अटी. अ.।]
[3 कर्म- मु. अटी. बक. बख.।]
[4 कर्मा- मु. अटी. अ.।]
[5 चोर्ध्वे- अ. उ.।]
[6 वृत्तार्धे- अ. उ.।]
[7 ध्नस्थ- मु. अ., ध्नस्य- अटी.।]
[8 धिः - मु. अटी.।]
[9 मर्मक- अ.।]
[10 `च' नास्ति- अ.।]

तस्य भागसमा कार्या लाञ्छनैर्मेखला बहिः ।
पूर्वोक्तमर्मगैः सूत्रैर्यथा तदवधारय ।। 51 ।।

द्व्यंशदीर्घेण सूत्रेण नवचन्द्रकलासमम् ।
चतुर्णामन्तरेशानां प्राग्दिक् कुर्याच्च लाञ्छनम् ।। 52 ।।

ईशवह्निपदाभ्यां तु वृत्त[1]तुर्यांशसम्मिते ।
द्वे लाञ्छने समे कुर्यादेकभागाधिके[2] ततः ।। 53 ।।

तत्समे ह्यपरे द्वे वै यत्तदा[3] लाञ्छ्य लाञ्छनैः ।
दक्षिणोत्तरभागाभ्यां पक्षात् सूत्रद्वयं क्षिपेत् ।। 54 ।।

कृत्वा सप्तममर्मस्थं पूर्वोद्दिष्टक्रमेण तु ।
तत्खातस्य बहिः शङ्खाकारमेखलानिर्माणप्रकारमाह- तस्य भागसमेत्यारभ्य पूर्वोद्दिष्टक्रमेण त्वित्यन्तम् ।। 51-55 ।।
[1 वृत्तात् कुर्याच्च- अ.।]
[2 दिके ततम्- मु. अटी.।]
[3 यदा लाञ्छ्यं - मु. अटी. बक. बख.।]

जीवसूत्रस्य पाश्चात्त्ये भागे पार्श्वद्वये स्थितम् ।। 55 ।।

भागद्वयं द्वयं लाञ्छ्यं योन्यर्थं चार्धवृत्तवत् ।
तच्छृङ्गकोटिगे सूत्रे कृत्वा ते सम्प्रसार्य च ।। 56 ।।

खातभूभागपर्यन्तं तत्पदाद्[1] वटपत्रवत् ।
जायते सर्वकुण्डानां योनिरेवंविधा शुभा ।। 57 ।।

भागार्धमानसूत्रेण योनेरभ्यन्तरे[2] पुनः ।
अर्धवृत्तद्वयं दद्यात् तद्वत् सूत्रद्वयान्वितम् ।। 58 ।।

खातस्यान्तर्गतो वर्ज्यश्चतुर्थांशस्तु कोष्ठकात् ।
कोष्ठार्धं निखनेच्छेषं तत्समं वा पुरोदितम् ।। 59 ।।

दैर्घ्यात् पादाधिका कार्या योनिर्वै पृष्ठ[3]तोन्नता ।
गजोष्ठसदृशी चाग्रात् स्पृशन्ती [4]दशनच्छदम् ।। 60 ।।
तद्बहिः पङ्क्तिमारभ्य खातपर्यन्तं प्रागादिषु योनिनिर्माणप्रकारं खातस्य परितः कोष्ठचतुर्थांशेनैष्ठनिर्माणप्रकारं चाह- जीवसूत्रस्येत्यारभ्य स्पृशन्ती दशनच्छदमित्यन्तम्। जीवसूत्रस्य मध्यसूत्रस्येत्यर्थः। पार्श्वद्वये मध्यसूत्रस्य दक्षिणवामभागयोरित्यर्थः। तत्समं निखनेत्। खातभूभागविस्तारायामतुल्यं खातं कुर्यादित्यर्थः। अथवा पुरोदितं "त्र्यंशेनार्धेन[5] वांशेन खाताद् व्यासो विधीयते" (6/77) इति नित्याग्निकार्यप्रकरणो[6]क्तं वेत्यर्थः। एवमेवोक्तं पारमेश्वरेऽपि-
खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ।।
त्रिपादमर्धपादं वा (26/12-13) इति।
दशनच्छद[7]मोष्ठमित्यर्थः ।। 55-60 ।।
[1 तत्पदा- बख. अ. उ.।]
[2 राभ्य- मु. अटी. बक. बख.।]
[3 पृष्ठ उन्नता- मु. अटी. बक.।]
[4 रदन- अ.।]
[5 नार्धांशतो वापि- मु.।]
[6 णोक्तमिवे- मु.।]
[7 दमिष्ट- अ.।]

पुरोभागचतुर्थांशं योनेरग्राद् विसृज्य तु ।
दद्यात् प्राक्सूत्रसम्बन्धं सूत्राणां द्वितयं परम् ।। 61 ।।
पूर्वोक्तलाञ्छनानुसारेण खातार्थमेकं तद्बहिरोष्ठार्थमेकं तद्बहिर्मेखलार्थमेकमिति सूत्रत्रयं दद्यादित्याह- पुरोभागेति ।। 61 ।।

अनुपातेन वै ताभ्यामग्रात् सङ्कोचमाचरेत् ।
भागपङ्क्तित्रयेणैव मेखलात्रितयं बहिः ।। 62 ।।

सम्पाद्य चतुरश्रं तु शङ्खं तत्त्रि[1]तयोपरि ।
आशङ्खं मेखलानां तु प्रोन्नतत्वं [2]स्वविस्तृतेः ।। 63 ।।
ओष्ठाद्यङ्गानां क्रमेण संकोचमाह- अनुपातेनेति। एवमुक्तं पारमेश्वरेऽपि-
"मेखलावधिपर्यन्तं नीचान्यङ्गानि मीलयेत्" (26/23) इति।
मखलात्रयनिर्माणमाह- भागपङ्क्तित्रयेणेति सार्धेन ।। 62-63 ।।
[1 तु त्रित- मु. अटी., तत्र तथो- मु. अटी.।]
[2 सवि- बख.।]

मेखलानां तु शङ्खस्य यन्मध्ये[1]श्रिचतुष्टयम् ।
तच्चक्रचिह्नितं कुर्यात् तल्लक्षणमथोच्यते ।। 64 ।।

ब्रह्ममर्मनिरुद्धेन चतुर्भागसमेन तु ।
खातार्थं प्राग् भ्रमं दद्यात् क्षेत्रमध्ये[2] महामते ।। 65 ।।

बहिर्भागसमानाभिस्तद्बहिर्द्व्यंशविस्तृतम् ।
अरक्षेत्रं[3] च तस्यापि नेमिभागसमा बहिः ।। 66 ।।

भागेन तद्बहिस्त्वेका चतुरश्रा च मेखला ।
भ्राम्य[4] मध्यादरक्षेत्रं वृत्तेनैकेन वै पुनः ।। 67 ।।

ततः[5] सूत्राष्टकं दद्याद् दिग्विदिक्संस्थितं पुरा ।
तस्य चान्तर्गतं पश्चादष्टकं पातयेत् परम् ।। 68 ।।

ततस्तेषां समापाद्यम्[6] अरत्वममलेक्षण ।
अन्तर्वृत्तनिरोधेन प्रतिसूत्रस्य पक्षयोः ।। 69 ।।

सूत्रेण लाञ्छनं[7] कुर्यान्नाभिनेमिभ्रमावधेः ।
एकांशादर्धमानं च नेमिवृत्तस्य चान्तरे ।। 70 ।।

द्वाभ्यां द्वाभ्यामराभ्यां तु मध्ये कुर्यात् प्रधिं प्रधिम् ।
विस्तारप्रोन्नता नाभिः कूर्मपृष्ठोप[8]माऽरक ।। 71 ।।

नेमिं[9] दर्पणवत् कुर्यात्[10] त्वीषन्निम्नावसानतः ।

अथ चक्रकुण्डलक्षणमाह- मेखलानां तु शङ्खस्येत्यारभ्य शिष्टं पुरोदितं[11] सर्वमित्यन्तम्। अत्र प्रतिसूत्र(स्य) पक्षयोः सूत्रेण लाञ्छनं कुर्यादित्यरलक्षणमुक्तम्। पारमेश्वरे- "मत्स्यवल्लाच्छनं कुर्यात्" (26/21) इति व्यक्तमुक्तं ज्ञेयम् ।। 64-72 ।।

[1 ध्ये श्री- अटी. उ.य।]
[2 अरं क्षत्र- मु., अरक्षत्रं - अटी.।]
[3 अरं क्षत्र- मु., अरक्षत्रं - अटी.।]
[4 भ्राममध्यावर- मु. अटी.।]
[5 तत्र- उ.।]
[6 पाद्या- अ. अटी.।]
[7 लाञ्छने- मु. अटी.।]
[8 पमाऽरकः - मु. अटी., पमाःकराः- बक. बख.।]
[9 नेमिर्द- बक. बख. अ., नेमी द- उ.।]
[10 कार्या- बक. बख.।]
[11 दितमि- अ.।]

शिष्टं पुरोदितं सर्वम् अथ पद्माकृतिं श्रृणु ।। 72 ।।

भागार्धं भ्रामयेन्नाभेर्बहिः केसरसिद्धये ।
भ्रामयेदपरं चार्धमरक्षेत्रस्य बाह्यगम्[1] ।। 73 ।।

नीत्वा लोपमनेनैव विधिना नेमिमण्डलम् ।
अरसूत्राश्रितं कुर्यात् ततः[2] पद्मदलाष्टकम् ।। 74 ।।

केसरभ्रमरुद्धेन सूत्रेणार्धेन्दुलक्षणम् ।
तच्छृङ्गकोटिसंस्थेन परिधेर्बाह्यकेन[3] तु ।। 75 ।।

सूत्रद्वयेन पत्राग्रं कुर्याद् ब्रह्मभ्रमावनेः[4] ।
निरन्तराणामामूलात् केसराणां महामते ।। 76 ।।

कर्णिकोच्छ्राय[5]तुल्यानां विभागं जनयेत् स्फुटम् ।
शङ्खकोणचतुष्के तु शेषं पूर्ववदाचरेत् ।। 77 ।।
पद्मकुण्डलक्षणमाह- अथ पद्माकृतिं श्रृण्वित्यारभ्य शेषं पूर्ववदाचरेदित्यन्तम् ।। 72-77 ।।
[1 बाह्यतः - बक. बख., बाहुकम्- अ.।]
[2 `ततः पद्म...... पत्राग्रं कुर्याद्' नास्ति- अ.।]
[3 गेन- उ.।]
[4 वने- बक. बख. उ.।]
[5 च्छ्रय- मु. अटी. बक. बख.।]

योनिमेकेन भागेन चतुर्भिर्मेखलागणम् ।
खातं पूर्वसमं किन्तु वृत्ते वृत्तास्तु मेखलाः ।।
चतुरश्रे तदाकारा इत्युक्तं कुण्डपञ्चकम् ।। 78 ।।
वृत्तचतुरश्रकुण्डयोर्लक्षणमाह- योनिरिति सार्धेन ।। 78 ।।

कालमाहुतिसंख्यां च होमद्रव्यप्रभूतताम् ।
ज्ञात्वैवमेकहस्तात् तु कुर्यादष्टकरावधि ।। 79 ।।
होमाधिक्यानुसारेण कुण्डविस्ताराभिवृद्धिमाह- कालमिति। अत्रैकहस्तादारभ्याष्टहस्तपर्यन्तमेकैकाङ्गुलवृद्ध्या नवषष्ट्युत्तर[1]शतसंख्याकमानभेदा ज्ञेयाः। पारमेश्वरे द्वादशाङ्गुलमारभ्याष्टहस्त[2]पर्यन्तमेकाशीत्यधिकशतसंख्याकमानभेदा उक्ताः-
आद्वादशाङ्गुलान्मानादेकैकाङ्गुलवर्धनात् ।
द्विचतुर्हस्तपर्यन्तमेकाशीत्यधिकं शतम् ।।
एतेष्वेकतरं प्रोक्तमन्येषामेवमेव हि ।। (26/28-29)
इति।।
द्वादशाङ्गुलमारभ्य कुण्डमानाभिवृद्धिरवश्यमपेक्षिता। यतोऽत्र प्रतिष्ठाप्रकरणे-
[3]ह्रासादङ्गुलयुग्मस्य यावद्वै षोडशाङ्गुलम् ।
स्यात् षट्करे गृहे कुण्डं कार्या वा मेखलाधिका ।। (25/14)
इति षोडशाङ्गुलकुण्डमप्युक्तम्। एवमेतावत्संख्याकहोम एतावन्मानमितं कुण्डमिति व्यक्तमुक्तं जयाख्ये-
शतार्धसंख्याहोमे च कुण्डं स्याद् द्वादशाङ्गुलम् ।।
होमे [4]साष्टशते चैव मुष्ट्यरत्निसमं भवेत् ।
होमे [5]चार्धशते चैव सारत्निः सकनिष्ठिकः[6] ।।
हस्तं[7] सहस्रहोमे तु अयुताख्ये द्विहस्तकम् ।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम् ।। (15/12-14) इति।
द्वादशाङ्गुलादिकुण्डानां मेखलाप्रमाणमपि तत्रैव स्पष्टमुक्तम्-
प्रमाणं मेखलानां च [8]यवद्वादशसंमितम् ।।
द्वादशाङ्गुलमानस्य कुण्डस्य परिकीर्तितम् ।
विस्तारतुल्यमुच्छ्रायो मेखलानां महामते ।।
मेखलात्रितयं चैवमेकीकृत्य तु जायते ।
विस्तारस्तु ततोच्छ्रायः[9] सार्धं तु चतुरङ्गुलम्[10] ।।
रत्निमात्रस्य कुण्डस्य मेखलाद्व्यङ्गुलाः स्मृताः ।
अङ्गुलं[11] सकनिष्ठस्य कुण्डस्यार्धोत्तरं[12] द्वयम् ।।
त्र्यङ्गुला हस्तमात्रस्य कुण्डस्य समता स्मृता[13] ।
द्विहस्तस्य द्विजश्रेष्ठ मेखलाश्चतुरङ्गुलाः ।।
चतुर्हस्तस्य कर्तव्याः सर्वाश्चैव षडङ्गुलाः ।
अष्टाङ्गुलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः ।। (15/16-21)
इति ।। 79 ।।

[1 नव- अ.।]
[2 मारभ्य पर्य- अ.।]
[3 हृदा- अ., ह्रादा- मु.।]
[4 चाष्ट- अ.।]
[5 सार्ध- मु.।]
[6 ष्ठिका- मु.।]
[7 अष्टं- अ.।]
[8 यावद् द्वा- अ. मु.।]
[9 च्छ्राये- अ. मु.।]
[10 लैः - अ. मु.।]
[11 ला- अ. मु.।]
[12 द्वयं- अ.।]
[13 स्पृहा- अ.।]

इति [1]श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां यागकुण्डविधि[2]र्नाम एकादसः परिच्छेदः ।।

तथा चैवं कुण्डनिर्माणप्रकारः- कुण्डस्थानं पूर्वं मण्डलोक्तप्रकारेण सूत्रपातैरष्टादशधा विभज्य तत्र मध्यमा[3]न्मर्मस्थानात् पञ्चमं प्राक्दिक्स्थं[4] यन्मर्म तत्संस्पर्शानामेककोष्ठदीर्घेण सूत्रेण कोष्ठद्वयेऽर्धचन्द्राकारं लाञ्छनं कृत्वा तदधःपङ्क्तिद्वये कोष्ठद्वादशकस्यैक्यसिद्ध्यर्थँ तद्दशकाद् बहिर्दक्षिणकोष्ठद्वये तदुत्तरकोष्ठद्वये च पूर्ववदर्धचन्द्राकारं लाञ्छनद्वयं तिर्यग्विलिख्य मध्याच्चतुर्थं यन्मर्म तद्दक्षिणभागस्थ[5]मर्मद्वयावस्थितेन सूत्रेण तद्वामभागमर्मद्वयावस्थितेन सूत्रेण च पूर्वं विलिखितमर्धचन्द्राकारलाञ्छनत्रयं चैकीकृत्य पुनर्मध्याद् द्वितयमूर्ध्वस्थं यन्मर्म तस्मात् त्र्यन्तरीभूतं चतुर्थं दक्षि(णं? ण)पार्श्वस्थं वामपार्श्वस्थं च यन्मर्म तदवस्थितेन सूत्रेण पूर्ववद् दक्षिणकोष्ठद्वये वामकोष्ठद्वये चार्धचन्द्राकारं लाञ्छनद्वयं तिर्यग्विलिखेत्। एवं कृते पूर्वोक्तद्वादशकस्याधःपङ्क्तिद्वयेऽपि भागद्वादशकस्यैक्यं भवति। अथ पश्चिमदिशि मध्यात् षष्ठस्य मर्मणः सूत्रद्वयं प्रसार्य पूर्वोक्तयोर्दक्षिणोत्तरभागस्थार्धचन्द्राकारलाञ्छनयोः श्रृङ्गाग्राभ्यां सह योजयेत्। एवं कृते शङ्खाकारता सिद्ध्यति।
एवं खातार्थं परितो लाञ्छनं कृत्वा तद्बहिस्तथैव शङ्खाकारैकभागमिति मेखलासिद्ध्यर्थं प्राग्दिशि कोष्ठद्वयदीर्घेण सूत्रेण कोष्ठचतुष्टयेऽर्धचन्द्राकारं लाञ्छनं कृत्वा तथैवैशा[6]न्यकोण आग्नेयकोणे च कोष्ठपञ्चके लाञ्छनद्वयं कृत्वा तदधः पार्श्वद्वयेऽपि कोष्ठचतुष्टये पूर्ववद् द्वे लाञ्छने विलिख्य पूर्वोक्तरीत्या पश्चिमभागस्थसप्तमर्मणः सूत्रद्वयं प्रसार्य पूर्वोक्तलाञ्छनद्वययोः श्रृङ्गाग्राभ्यां सह योजयेत्। एवं कृते मेखलारूपं सिद्ध्यति।
अथ पाश्चात्त्ये [7]भागे योनिसिद्ध्यर्थँ मध्यसूत्रदक्षिणभागकोष्ठद्वये वामभागकोष्ठद्वये चार्धचन्द्राकारलाञ्छनद्वयं विलिख्य दक्षिणलाञ्छनस्य दक्षिणश्रृङ्गाग्र एकं सूत्रं वामभागस्थलाञ्छनस्य वामश्रृङ्गारग्रेणैकं सूत्रं संयोज्य तद्द्वयमपि वटपत्रवत् खातभागपर्यन्तं प्रसारयेत्। एवं कृते योनिः सिद्ध्यति। इयं योनिर्वक्ष्यमाणकुण्डानामपि साधारणा[8] ।
पुनस्तद्योनेरभ्यन्तरे मध्यसूत्रस्य दक्षिणकोष्ठे च कोष्ठार्धमानसूत्रेण पूर्ववदर्धचन्द्राकारं लाञ्छनद्वयं विलिख्य पूर्ववत् तयोः श्रृङ्गाग्राभ्यां सूत्रद्वयं प्रसारयेत्। अथ खातस्य परित ओष्ठसिद्ध्यर्थँ खातस्यान्तः परित एकं कोष्ठं चतुर्धा विभज्य तेष्वेकं भागं विसृज्य शेषं सर्वमपि खातभागविस्तारसमं तत्त्र्यंशमर्धं वा निखनेत्। पूर्वोक्तयोनिदैर्घ्यात् सपादकोष्ठद्वयमिता[9] पृष्ठतो [10]गजोष्ठसदृशी पूर्वोक्तमोष्ठं स्पृशन्ती [11]सती कर्तव्या। एवं च खातप्रदेशे परितो योन्यग्रे पूर्वोक्तरीत्या कोष्ठचतुर्थांशं विसृज्य खातार्थं शङ्खाकारं सूत्रं पूर्ववद् दत्वा तदनन्तरमोष्ठार्थमेकं सूत्रं मेखलार्थमेकं सूत्रं च दद्यात्। ऊर्ध्वे ओष्ठं तदधो मेखला यथा स्यात् तथा तत्सूत्रयोः पातं संकुचितं कुर्यात्। तद्बहिः परितः पङ्क्तित्रयेण चतुरश्रं मेखलात्रयं कुर्यात्। शङ्खान्तानां मेखलानामौन्नत्यं तु कुण्डविस्तारसमं कुर्यात् ।
इति शङ्खकुण्डलक्षणम् ।।
अथ चक्रकुण्डलक्षणमुच्यते- पूर्वोक्तप्रकारेणाष्टादशधा विभक्ते चतुरश्रे क्षेत्रे[12] मध्ये मर्मस्थाने सूत्रं संस्थाप्य मध्यात् पञ्च[13]मरेखास्पर्शिना सूत्रेणैकं मण्डलं विलिख्य पुनः षष्ठरेखास्पर्शिना सूत्रेणैकं वृत्त[14]मापाद्य पुनर्नवमरेखास्पर्शिना सूत्रेणैकं वृत्तं कुर्यात्। तेषु प्रथमं मण्डलं खातार्थं द्वितीयं नाभिस्थानं तृतीयमरस्थानं चतुर्थँ नेमिस्थानमिति ज्ञेयम्। तद्बहिः पङ्क्तौ चतुरश्रा एकैव मेखला कर्तव्या। पूर्वोक्तमरस्थानं मध्यात् पुनरेकेन वृत्तेन परिभ्राम्य तत्र प्रागादिदिक्ष्वाग्नेयादिविदिक्षु च सूत्राष्टकं दत्वा तेषामरत्वसिद्ध्यर्थमन्त[15]र्वृत्तनिरुद्धेन सूत्रेण प्रतिसूत्रस्य पक्षयोर्नाभिवृत्तपर्यन्तं नेमिवृत्तपर्यन्तं च मत्स्यवल्लाञ्छनं कृत्वा नेमिवृत्तस्यान्तरे द्वयोर्द्वयोररयोर्मध्ये एकैकं प्रधिं कुर्यात्। अत्र नाभिः कुण्डविस्तारसदृशोच्छ्राया कूर्मपृष्ठसदृशी कार्या। नेमिर्दर्पणसदृश्यग्रे ईषन्निम्ना च कर्तव्या। अन्यत् सर्वं पूर्ववत् कुर्यात्।
इति चक्रकुण्डलक्षणम्।।
अथ पद्मकुण्डलक्षणमुच्यते- तत्रापि चक्रकुण्डवत् प्रथमं मण्डलं खातार्थँ कृत्वा द्वितीये नाभिमण्डले भागार्धं[16] कर्णिकासिद्ध्यै अपरार्धं[17] केशरसिद्ध्यै द्वेधा मण्डलीकृत्याऽरक्षेत्रस्य बहिरेवमेव नेमिमण्डलं द्वेधा कृत्वा प्रथमभागमरक्षेत्रेण सहैकीकुर्यात्। उत्तरभागं पत्राग्रसिद्ध्यै स्थापयेत्। अरक्षेत्रेऽष्टदलसिद्ध्यर्थं प्रागाद्यष्टदिक्ष्वपि केसरमण्डलरुद्धेन सूत्रेणाऽर्धचन्द्राकारं लाञ्छनद्वयं (द्वयं?) परस्पराभिमुखं कृत्वा तच्छृङ्गाग्रसंस्थितेन दलमण्डलबाह्यगेन[18] सूत्रद्वयेन पत्राग्रं कुर्यात्। आमूलान्निरन्तराणां कर्णिकोच्छ्रायतुल्यानां केसराणां व्यक्तं यथा तथा विभागं जनयेत्। पत्राग्रमण्डलाद् बहिश्चतुष्कोणेषु शङ्खचतुष्टयं कुर्यात्। शेषं पूर्ववत्।
इति पद्मकुण्डलक्षणम् ।।
अथ वृत्तचतुरश्रयोर्लक्षणमुच्यते- पूर्वोक्तरीत्याऽष्टादशधा विभक्ते क्षेत्रे मध्ये पूर्ववच्चतुःषष्टिकोष्ठानि खातार्थं विहाय तद्बहिरेक(धा?या) पङ्क्त्या योनिकल्पनं चतुर्भिः पङ्क्तिभिर्मेखलाचतुष्टयकल्पनं च कुर्यात्। किन्तु खातं मेखलाश्च वृत्ते कुण्डे वृत्ताकाराश्चतुरश्रे तदाकारा इति ज्ञेयम्। ओष्ठं योनिं चानयोः कुण्डयोरपि पूर्ववदेव कुर्यात् ।
इति कुण्डपञ्चकलक्षणानि।।

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये एकादशः परिच्छेदः ।।

[1 पञ्च- उ.।]
[2 विधिरेका- उ.।]
[3 मध्यमान- अ.।]
[4 दिक्संस्थं- अ.।]
[4 गस्थं मर्म - अ.।]
[5 तथैवे- अ.।]
[6 भागयोनि- अ.।]
[7 रण- अ.।]
[8 मिति- अ.।]
[9 `गज' नास्ति- अ.।]
[10 सति- अ.।]
[11 क्षेत्रमध्ये- अ.।]
[12 पञ्चरेखा- अ.।]
[13 `वृत्तमापाद्य...... सूत्रेणैकं' नास्ति- अ.।]
[14 मन्तर्वृद्धिनिरुक्तेन- अ.।]
[15 भागार्थं- अ.।]
[16 रार्थं- अ.।]
[17 केन- अ.।]