← अध्यायः १६ सात्त्वतसंहिता
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
सात्त्वतसंहितायाः अध्यायाः


सप्तदशः परिच्छेदः
नारद[1] उवाच[2]
अथ सञ्चोदितो भूयः श्रीपतिर्मुनिसत्तमाः ।
हितार्थं भवभीतानां विभुना सीरपाणिना ।। 1 ।।
अथ श्रीनृसिंहकल्पपरिच्छेदो व्याख्यास्यते। इह संकर्षणेन वासुदेवः परिपृष्ट इत्याह- अथेति ।। 1 ।।
[1 श्रीनारदः - अ. उ.।]
[2 `उवाच' उ. विहाय कुत्रापि नास्ति.।]

सङ्कर्षण उवाच[1]
भगवान् विधिना केन प्रसादमधिगच्छति ।
नृणामाराधकानां तु विश्वत्राता नृकेसरी ।। 2 ।।
प्रश्नप्रकारमाह- भगवन्निति ।। 2 ।।

[1 `उवाच' उ. विहाय कुत्रापि नास्ति.।]

श्रुत्वैवमाह भगवान् श्रृणुष्व गदतो मम ।
सिद्धिमोक्षप्रदं मन्त्रं वैभवं मूर्तिमोहजित् ।। 3 ।।

कामरूपधरं नित्यं नृसिंहस्य महात्मनः ।
वर्णचक्रं तु पूर्वोक्तं सुगुप्ते वसुधातले ।। 4 ।।
एवं पृष्टो वासुदेवः प्रथमं नारसिंहमन्त्रं शृणुष्वेत्याह- श्रुत्वेति सार्धेन ।। 3-4 ।।

वर्णचक्रं तु पूर्वोक्तं सुगुप्ते वसुधातले ।। 4 ।।

उपलिप्ते तु संलिख्य पूजयित्वा यथाविधि ।
समुद्धरेत् तततो मन्त्रमनेकाद्भुतविक्रमम्[1] ।। 5 ।।

प्रणवं पूर्वमादाय तदन्ते विनियोज्य च ।
नवमं नाभिवर्णेभ्यस्तदूर्ध्वेऽराच्चतुर्दशम् ।। 6 ।।

तस्योपरि तदन्तःस्थं वर्णं गोलकवन्न्यसेत् ।
नमोऽन्तं वर्णमेतद् वै वाचकं परमात्मनः ।। 7 ।।

ज्ञानादयो गुणाः षड् वै[2] प्रागुक्ता हृदयादयः ।
तदर्थमेव वर्णं तं षोढा संलिख्य केवलम् ।। 8 ।।

द्वितीयतुर्यषष्ठैश्च द्वादशेनान्विमेन च ।
चतुर्दशेनारात्[3] वर्गात् क्रमाद् वै विनियोजयेत् ।। 9 ।।

बीजवच्छिरसा सर्वान् लाञ्छयेत् पञ्चमं विना ।
सर्वेषां प्रणवः पूर्वः स्वसंज्ञान्ते नियोज्य[4] च ।। 10 ।।

स्वकीया[5] जातयश्चान्ते वौषडन्ताः क्रमेण तु ।
ॐ नमो भगवते नारसिंहायेत्यनेन[6] तु ।। 11 ।।

द्वादशाक्षरमन्त्रेण स्मृत्वा विग्रहवत् पुरा ।
सबाह्याभ्यन्तरस्थेन साङ्गेनाद्येन पूजयेत् ।। 12 ।।
वर्णचक्ररचनापूर्वकं नृसिंहबीजोद्धारं तदङ्गमन्त्रप्रकारान् द्वादशाक्षरमन्त्रं चाह- वर्णचक्रमित्यादिभिः। पूर्वोक्तं नव[7]मपरिच्छेदोक्तमित्यर्थः। तदूर्ध्वे क्षकारोर्ध्वे अराच्चतुर्दशम् औकारम् तस्योपरि तदन्तःस्थमनुस्वारमित्यर्थः। तथा च ॐ क्षौं नम इति भवति। तं केवलं क्षकारमात्रमित्यर्थः। द्वितीयतुर्यषष्ठैः आकार-ईकार-ऊकारैः। द्वादशेन ऐकारेण। अन्तिमेन विसर्गेण। चतुर्दशेन (ओ? औ)कारेणेत्यर्थः। अराद्वर्गादित्यस्य सर्वत्रान्वयः। शिरसा अनुस्वारेणेत्यर्थः। पञ्चमं विना विसर्गसहितं बीजं विनेत्यर्थः। स्वकीया जातयो नमःस्वाहादिषड्जातयः। तथा[8] च - ॐ क्षां ज्ञानाय हृदयाय नमः। ॐ क्षीं ऐश्वर्याय शिरसे स्वाहा। ॐ क्षूं शक्त्यै शिखायै वौषट्। ॐ क्षैं बलाय कवचाय हुम्। ॐ क्षः वीर्याय अस्त्राय फट्। ॐ क्षौं तेजसे नेत्रत्रयाय वौषट् इत्यङ्गमन्त्रा भवन्ति ।। 4-12 ।।
[1 विग्रहम्- मु. अटी. उ.।]
[2 ये - उ.।]
[3 न अ- बख. अ. ।]
[4 ज्ञां च - उ.।]
[5 युज्य- मु. अटी. अ.।]
[6 स्वकीय- मु. बक. बख.।]
[7 नर- उ.।]
[8 मातृकाचक्रनाम्ना 62-75 श्लोकेषु समुद्धृतम्।]
[9 `तथा च' नास्ति- मु.।]

अथ लब्धाधिकारस्तु मन्त्रेणानेन दीक्षितः ।
भक्तिश्रद्धापरो नित्यं मतिमांश्छिन्नसंशयः ।। 13 ।।

गुर्वाज्ञाभिरतो[1] नित्यं तर्कवाग्जालवर्जितः ।
स्वकर्मनिरतो[2] नित्यं वानप्रस्थोऽथवा गृही ।। 14 ।।

मन्त्रमाराधयेद् येन विधिना तं निशामय ।
पूर्वमनेन मन्त्रेण दीक्षितो भगवदाराधनं कुर्यादित्याह- अथेति सार्धद्वाभ्याम् ।। 13-15 ।।
[1 मतो- उ.।]
[2 स्वकर्मधर्मनिरतो- मु. अ. उ.।]

उपार्ज्य भोगानखिलान् न्याय्योपायेन वै पुरा ।। 15 ।।

स्नातो बद्धकचो मौनी शुद्धवासोऽर्घ्यपुष्पधृक्[1] ।
कृत्वा द्वार्स्थार्चनाद्यं तु उपविश्यासने ततः ।। 16 ।।
तदाराधनविधिं दर्शयन् प्रथममाराधनसामग्रीसंपादनम्, आराधकस्य स्नानादिनियमम्, द्वारदेवार्चनपूर्वकमासनोपवेशनं चाह- उपार्ज्येति सार्धेन। पाठक्रमादर्शक्रमस्य बलीयस्त्वेन स्नानाद्यनन्तरमेव भोगोपार्जनमिति बोध्यम्। यद्वा पुरा पूर्वदिनेष्वित्यर्थो वर्णनीयः, पुष्पादीनि विना तण्डुलादीनां भोगानां पूर्वदिनेष्वपि संग्राह्यत्वात् ।। 15-16 ।।
[1 `तथा च' नास्ति- मु.।]

सायामां भूतसंशुद्धिं धारणाभ्यां समाचरेत् ।
केवलेन तु मन्त्रेण भावनासहितेन तु ।। 17 ।।
अथ प्राणायामपूर्विकां भूतशुद्धिं कुर्यादित्याह- सायामामिति। धारणाभ्यां दहनाप्यायनात्मिकाभ्यामित्यर्थः। तथा चोक्तं पारमेश्वरे-
धारणापञ्चकं चैव संक्षिप्तं विहितं द्वयम्[1] ।।
दहनाप्यायनाच्चैव यदा[2] देहात् स्वशुद्धये । (3/223-224)
इति ।। 17 ।।
[1 विहितद्वयम्- अ. मु.।]
[2 यथा दाहस्वशुद्धये- अ. मु.।]

नाभिदेशस्थितं ध्यात्वा देवं संगृह्य कल्मषम् ।
निस्सृतं वायुमार्गेण द्वादशान्तावधौ क्षिपेत् ।। 18 ।।

निरस्तपापमाकृष्य वातचक्रसमन्वितम् ।
नासाग्रेण तु मन्त्रेशं देहसम्पूरणाय च ।। 19 ।।

तं ध्यायेद् हृदयस्थं च गतिरुद्धेन वायुना ।
चित्तोपशमनार्थं तु नूनं वायुजयाय च ।। 20 ।।

शनैः शनैरथ बहिः केवलं मारुतं क्षिपेत् ।
विनाऽन्त्यरेचकेनैवमन्येषामुत्तरोत्तरम् ।। 21 ।।

कालाद्[1] ह्रासं यथाशक्ति नित्यमेव समाचरेत् ।
द्वादशान्तेऽथ मन्त्रेशं तप्तहाटकसन्निभम् ।। 22 ।।
प्राणायामप्रकारमाह- नाभिदेशस्थि(त इ? तमि)ति सार्धैश्चतुर्भिः। वायुमार्गेण प्रथमप्राणायामान्त्यरेचकवायुमार्गेणेत्यर्थः। वातचक्रसमन्वितं द्वितीयप्राणायामपूरकवायुसहितमित्यर्थः। गतिरुद्धेन वायुना तृतीयप्राणायामकुम्भकेनेत्यर्थः। एव[2]मेवैतद्व्याख्यातं नित्यव्याख्याने ।। 18-22 ।।
[1 कालाग्रासं- अटी.।]
[2 मेत- अ.।]

द्वादशान्तेऽथ मन्त्रेशं तप्तहायकसन्निभम् ।। 22 ।।

सहस्ररविसंकाशं वृत्त[1]मण्डलमध्यगम्[2] ।
स्मृत्वाथ मुक्तं[3] तन्मात्रैर्निर्दहेद्[4] विग्रहं स्वकम् ।। 23 ।।

दक्षिणाङ्घ्रेरथाङ्गुष्ठ[5]प्रान्तदेशे शिखाक्षरम् ।
ध्यात्वा युगान्तहुतभुग्रूपं[6] ज्वाला[7]समावृतम् ।। 24 ।।

तेन स्वविग्रहं ध्यायेत् प्रज्वलन्तं समन्ततः ।
देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ।। 25 ।।

दिव्यं प्रशान्ताकारं[8] तु तमधिष्ठाय चेतसा[9] ।
स्वमन्त्रादमृतौघेनासेचयेद्[10] विग्रहं स्वकम् ।। 26 ।।

ततः[11] समन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत् ।
भूतशुद्धिप्रकारमाह- द्वादशान्त इति [12]पञ्चभिः। द्वादशान्ते स्वमूर्ध्नो द्वादशाङ्गुलोपरीत्यर्थः। तथा च पारमेश्वरे-
सौषुम्नाद् दक्षिणद्वारा[13]न्निर्गमय्य हरिं बहिः ।।
सहस्ररविसंकाशं[14] वृत्तमण्डलमध्यगम् ।
तप्तकाञ्चनवर्णाभमासीनं परमे पदे ।।
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुलेः[15] ।। इति ।
(3/143-145)
तन्मात्रैर्मुक्तं तत्त्वसंहारक्रमेण गन्धतन्मात्रादिभि[16]र्मुक्तमित्यर्थः। स्वमन्त्रात् तन्मन्त्रप्रतिपाद्यद्वादशान्तस्थितभगवतः सकाशादित्यर्थः। तद्बिम्बं स्वमन्त्रं[17] द्वादशाङ्गुलोपरि वृत्तमण्डलमध्यस्थं देवमित्यर्थः ।। 22-27 ।।
[1 वृत्तं- अटी.।]
[2 मध्यगः- बक.।]
[3 मुक्तस्त- मु. अटी. बक. बख.।]
[4 ग्रहेद्- अटी.।]
[5 ङ्गुष्ठं- अ.।]
[6 पज्वा- मु. अटी.।]
[7 ज्ञात्वा- अ.।]
[8 न्तरागं- मु. अ. उ., न्ताङ्गारं- मु.।]
[9 तेजसा- बख.।]
[10 घेन सेच- अ. उ.।]
[11 श्लोकोऽयं द्विव्यमित्यादिकाच्छ् लोकात् पूर्वं स्थाप्यते- मु., बक. पुस्तके तु दिव्यमित्यादिकः श्लोको नास्त्येव।]
[12 चतुर्भिः- अ.।]
[13 रा नि- अ. मु.।]
[14 शवृ- अ. मु.।]
[15 ङ्गुलैः- अ. मु.।]
[16 र्विमुक्त- म.।]
[17 समन्त्रमिति सार्वत्रिको मूलपाठः।]

अथ हस्तद्वये न्यसेद्[1] दीप्तिमद् द्वादशाक्षरम् ।। 27 ।।

मणिबन्धान्नखाग्रं तु मूलमन्त्रपुरस्सरम् ।
हृदादयोऽस्त्रपर्यन्ता अङ्गुष्ठाद्यङ्गुलीषु च ।। 28 ।।

सर्वासु युग्मयोगेन नेत्रं नखमुखाश्रितम् ।
करन्यासमाह- अथेति [2]द्वाभ्याम्। द्वादशाक्षरं पूर्वोक्तनृसिंहद्वादशाक्षरमित्यर्थः। मूलमन्त्रपुरस्सरं पूर्वोक्तनृसिंहबीजपुरस्सरमित्यर्थः। युग्मयोगेन हस्तद्वयेऽपि युगपदित्यर्थः।। 27-29 ।।
[1 न्यस्येदादिम- मु. अटी.।]
[2 त्रिभिः- अ.।]

आमूर्ध्नश्चरणान्तं तु द्वादशार्णं न्यसेत् तनौ ।। 29 ।।

जीवभूतं तदन्तःस्थं मूलमन्त्रं तथा[1] न्यसेत् ।
हृदाद्यं नेत्रपर्यन्तमङ्गषट्कं स्वगोचरे ।। 30 ।।

स्वस्वाङ्गुलियुगेनैव[2] तेजोरूपं विनाऽऽकृतेः[3] ।
अङ्गन्यासमाह- आमूर्ध्न इति द्वाभ्याम्। स्वगोचरे हृदयादिस्थानेष्वित्यर्थः। स्वस्वाङ्गुलियुगेन वक्ष्यमाणहृदादिमुद्रयेत्यर्थः। आकृतेर्विना निराकारमित्यर्थः ।। 29-31 ।।
[1 तदा- उ.।]
[2 ली- उ.।]
[3 कृते- सार्वत्रिके मूलपाठः।]


श्रीवत्सं वक्षसो वामे पूर्णेन्दुसदृशद्युतिम् ।। 31 ।।

कौस्तुभं हृदये न्यस्य[1] चण्डदीधितिलक्षणम् ।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ।। 32 ।।

पद्मं दक्षिणपाणौ तु शङ्खं वामकरे न्यसेत् ।
गदां[2] पद्मकरे भूयः शङ्खपाणौ तु चक्रराट् ।। 33 ।।

खङ्गं दक्षिणहस्तेऽथ धनुर्वामकरे न्यसेत् ।
आचांसाद् दक्षिणे भागे न्यस्या श्रीरुत्तरे तथा ।। 34 ।।

पुष्टिर्गुल्फावसानं च वक्त्रमध्ये सरस्वती ।
पृष्ठतो विन्यसेन्निद्रां ततः पाणिद्वयेन तु ।। 35 ।।
भूषणायुधशक्तिन्यासमाह- श्रीवत्समित्यादिभिः। एवं भूषणादीनां न्यासो हस्तयोरपि कार्यः, सर्वमन्त्राणामपि करन्यासं विनाऽङ्गन्यासमात्रस्याविहितत्वात्। तथा च पारमेश्वरे-
या विभोः परमा शक्ति[3]र्हृत्पद्मकुहरान्तगा[4] ।।
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता ।
इच्छया[5] सप्रवाहेण पाणिमार्गेण निर्गता ।।
नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः ।
अत एव द्विजश्रेष्ठ श(क्त्या)ख्ये प्रभुविग्रहे ।।
पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् । (4/20-23) इति,
व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः ।
न बध्नाति स्थितिं सम्यक् तथापि क्रियया विना ।।
कराधीना पुनः साऽतः प्राङ्न्यासस्तु तयोः स्मृतः । (4/4-5)
इति च । अत एवेश्वरपारमेश्वरादिषु (ई. सं. 2/57; पा. सं. 4/17) हस्तयोरपि किरीटादिन्यास उक्तः। स तु मूलकारस्याप्यभिमतः। अन्यथाऽत्र हस्तयोर्हृन्मन्त्रादिन्यासोऽपि तेन नोच्येत ।। 31-35 ।।
[1 न्यस्येच्च- मु. अटी.।]
[2 पङ्क्तिद्वयं नास्ति- अ.।]
[3 क्तिः स्रक्- अ. मु.।]
[4 न्तका- अ.।]
[5 इच्छायाः- अ. मु.।]


मुद्रां बद्ध्वा स्मरेद् ध्यानं देवोऽहमिति भावयेत् ।
अथ[1] प्रणवपूर्वेण स्ननाम्ना नतिना सह ।। 36 ।।

शेषपूर्वं तु वह्न्यन्तमासनं परिकल्पयेत्[2] ।
तदाक्रम्याथ तस्यैव कार्या स्वहृदि कल्पना ।। 37 ।।
मूलादिमुद्राप्रदर्शनपूर्वकं स्वस्मिन् देवत्वभावनामाह- मुद्रामित्यर्धेन। एवमेव व्यक्तमुक्तं जयाख्येऽपि-
अहं स भगवान् विष्णुरहं नारायणो हरिः ।
वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ।।
एवंरूपमहङ्कारमासाद्य सुदृढं मुने । (11/41-42) इति।
नैतावता जीवात्मपरमात्मनोः स्वरूपैक्यं शङ्कनीयम्, यतः श्रीपञ्चरात्ररक्षायां तृतीयेऽधिकारे- "एतेन लाञ्छनन्यासाद्यनन्तरम् "मुद्रां बद्ध्वा स्मरेद्देवं देवोऽहमिति भावयेत्" (सा. सं. 17/36) इति समाराधनग्रन्थोऽपि निर्व्यूढः। "बद्ध्वा मूलादिकां मुद्रां देवोऽहमिति भावयेत्" इत्यादिसंहितान्तरग्रन्थाश्चात्र[2] तुल्यन्यायाः[3]। अत्र "मनोब्रह्मेत्युपासीत" (छा. उ. 3/18/1) इत्यादिष्विवेतिकारादि[4]वशाद् [5]दृष्टिविधित्वं सुस्पष्टम्। अत एव हि तथाविधभावनयाऽप्यनन्तरयोग्यतापादनमात्रमुक्तम्-
न्यासेन देवमन्त्राणां देवतादात्म्यभावनात् ।
अप्राकृताङ्गकरणात् पूजामर्हति साधकः ।। इति ।
अन्यथा-
देवतारूपमात्मानमर्चयेदर्घ्यधूपकैः ।
धूपावसानिकैर्भोगैर्ध्यात्वा नारायणं हृदि ।।
इति समनन्तरकर्तव्यं कथं संगच्छते। नहि स्वरूपैक्यभावनायां हृदि पुनर्नारायणध्यानमिति किञ्चित् स्यात्। न च शेषवृत्तौ प्रवर्तमानस्य स्वरूपैक्यभावनं जाघटीति। अतो दृष्टिविधिपक्षोऽत्र स्वीकार्यः। यद्वा गत्यन्तरे संभवति दृष्टिविधिविवक्षा च न युक्ता। अतस्तच्छरीरतया तादधीन्यादिभिः सर्वानुवृत्तस्तद्व्यपदेशः। तदभिप्रायेण च स्वनियाम्येत्यादिकं वक्ष्यति भाष्यकारः" (पृ. 86-87) इति सुस्पष्टमुपपादितम् ।। 36 ।।
[1 पङ्क्तिद्वयमेतद् ब्रह्मस्वरूपमिति पङ्क्त्युत्तरं स्थापितम्- अ.।]
[2 च्चात्र- अ. मु.।]
[3 न्यायः- मु.।]
[4 करणादि- मु.।]
[5 दृष्टिविधत्वं- अ., दृष्टिमाधित्वं - मु.।]

अथ[1] प्रणवपूर्वेण स्वनाम्ना नतिना सह ।। 36 ।।

शेषपूर्वं तु वह्न्यन्तमासनं परिकल्पयेत्[2] ।
तदाक्रम्याथ तस्यैव कार्या स्वहृदि कल्पना ।। 37 ।।
अथ मानसाराधनार्थं स्वहृदये प्रणवादिनमोऽन्तैश्चतुर्थ्यन्तैस्तत्तन्नामभिरनन्तादिवह्न्यन्तपीठपरिकल्पनं कार्यमित्याह- अथेति सार्धेन। पारमेश्वरे तु जयाख्योक्तरीत्या "नाभिमेढ्रान्तरे ध्यायेत्" (ज. सं. 12/2; पा. सं 5/5) इत्यादिभिर्हृदिजाग्रदासनकल्पनमुक्तम्। अत्र तु स्वप्नासनस्योक्तत्वात् तत्रोक्तस्थानविभागोऽत्रापि यथासंभवं बोध्यः। स्वप्नजाग्रदासनभेदस्तु पारमेश्वर एव दर्शितः-
स्वप्नः शेषाहिपूर्वं तु वह्निपर्यन्तमासनम् ।
क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ।। (3/57)
इति ।। 36-37 ।।
[1 पङ्क्तिद्वयमेतद् ब्रह्मस्वरूपमिति पङ्क्त्युत्तरं स्थापितम्- अ.।]
[2 इतः परम्- "शेषं तु पूर्ववन्न्यस्यासनं च परिकल्पयेत्" इति श्लोकार्धोऽधिको दृश्यते- मु. अटी.। एतच्च पुनरावृत्तिमात्रम्।]

ब्रह्मस्वरूपममलं स्वचैतन्यं तदूर्ध्वतः ।
विकल्पोपरतं कृत्वा इच्छया तु विवर्तते ।। 38 ।।

परध्वनिस्वरूपेण तत्प्रकाशात्मना पुनः ।
व्यक्तिभावेन तच्चापि एवं प्रविलये सति ।। 39 ।।

विसर्जनं तु बोद्धव्यं सम्पन्ने तु क्रियाक्रमे ।
क्रम एष क्रमोक्तानां मन्त्राणामवतारणे ।। 40 ।।
तदासनोर्ध्वे भगवदभिव्यक्तिक्रममाराधनानन्तरं विसर्जनक्रममाह- ब्रह्मस्वरूपमिति सार्धद्वाभ्याम्। विकल्पोपरतं विशेषण[1] रहितमित्यर्थः। केवलज्ञानस्वरूपमिति यावत्,
ज्ञानेन्द्रियगणे[2] चैव विकल्पं तनुते मनः ।
विकल्पो विविधः[3] क्लृप्तस्तच्च प्रोक्तं विशेषणम् ।।
धर्मेण सह संबन्धो धर्मिणश्च स उच्यते ।
विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः ।। (5/68-69)
इति लक्ष्मीलन्त्रोक्तेः। विवर्तते पुनर्विशेषणसंबन्धेन व्यक्तीभवतीत्यर्थः ।। 38-40 ।।
[1 विशेषेण- मु.।]
[2 गणैश्चैतद्- मु.।]
[3 धा क्लृप्ति- मु.।]

क्रम एष क्रमोक्तानां मन्त्राणामवतारणे ।। 40 ।।

लाञ्छनादिक्रियाध्यानमेषां[1] चैव हि कल्पना ।
ज्ञातव्याऽऽराधकेनैव नित्यं कर्मणि कर्मणि ।। 41 ।।
सर्वमन्त्राराधनेष्वप्ययमेवावाहनादिक्रमो ज्ञेय इत्याह- क्रम इति सार्धेन ।। 40-41 ।।
[1 ढ्यानामेषा- अ. उ.।]

मन्त्रन्यासमतः कुर्याद् हस्तन्यासं विना विभोः ।
ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ।। 42 ।।

पूजयित्वा जपान्तं[1] चाप्यवतार्य बहिर्यजेत् ।
अथ स्वहृदये भगवतोऽङ्गन्यासपूर्वकं जपयज्ञान्तं मानसैरुपचारैरभ्यर्च्य बहिर्यागं च कुर्यादित्याह- मन्त्रन्यासमिति सार्धेन ।। 42-43 ।।
[1 न्ते च अ- अ.।]

दक्षिणोत्तरहस्ताभ्यां हृद्बीजेन विचिन्त्य च ।। 43 ।।

सूर्यसोमौ ततः कुर्याद् द्रव्यदाहसमुद्भवौ ।
बहिर्यागविधिं दर्शयन् प्रथममर्घ्यादीनां दहनाप्यायनमुद्रादर्शनमाह- दक्षिणेति ।। 43-44 ।।

तोयमादाय पात्रेऽथ तत्र हृन्मन्त्रितं क्षिपेत् ।। 44 ।।

पुष्पगन्धसमोपेतं सुसितं शालितण्डुलम् ।
मन्त्रयेत् प्रणवाद्येन बहुशो हृदयेन तु ।। 45 ।।

तदुद्धृतेनाम्भसा वा[1] अस्त्रमन्त्रं समुच्चरन्[2] ।
प्रोक्षयेत् स्वासनस्थानं यागोपकरणं समुच्चरन्[3] ।। 46 ।।
पूजोपकरणानां प्रोक्षणमाह- तोयमिति सार्धद्वाभ्याम् ।। 44-46 ।।
[1 वै- अ., चैव बख. उ.।]
[2 रेत्- अ. उ.।]
[3 त्वथ- अ. उ.।]

चित्रस्थाद् भगवद्बिम्बाद् भुक्तं पुष्पादिकं हि यत् ।
अपनीय तु तत्कुर्याद् वाससा रेणुमार्जनम् ।। 47 ।।
चित्रबिम्बशोधनमाह- चित्रस्थादिति ।। 47 ।।

धातुद्रव्यमये कुर्यात् क्षालनं गन्धवारिणा ।
उपलिप्याथ भूभागं साम्भसा गोमयेन तु ।। 48 ।।
लोहमयस्य शोधनमाह- धात्विति ।। 48 ।।

उपलिप्याथ भूभागं सम्भसा गोमयेन तु ।। 48 ।।

तत्र मण्डलमालेख्यं[1] सूत्रयित्वा पुरा[2] समम् ।
चतुरश्रं चतुर्द्वारं मार्गपीठाब्जभूषितम् ।। 49 ।।

त्रिनाभिनेमिषडरं चक्रं तु कमलाद् बहिः ।
मेध्यैः[3] सितादिकैः रागैः[4] पुष्पैर्वा तैश्च[5] तैः शुभैः ।। 50 ।।

चन्दनाद्यैः सुगन्धैस्तु सर्षपैस्तिलतण्डुलैः ।
सर्वौषधिमयेनैव पूर्णेन परिपूर्य वा ।। 51 ।।
मण्डलरचनाप्रकारमाह- उपलिप्येत्यादिभिः ।। 48-51 ।।
[1 लिख्य- अ. उ.।]
[2 यथा पुरम्- बक. बख. ।]
[3 मध्यैः - मु. अटी. बक. बख. अ.।]
[4 रङ्गैः - उ.।]
[5 तच्छदैः - अ. उ.।]

पुष्पैरथार्घ्यपात्रं तु मन्त्रैः सम्पूज्य निष्कलैः ।
पात्रेऽपरस्मिंस्तस्माद् वै स्तोकमुद्धृत्य चोदकम् ।। 52 ।।

योगपीठार्चनं कुर्यादनुसन्धानपूर्वकम् ।
स्वनाम्ना प्रणवाद्येन नमोऽन्तेन यथाक्रमम् ।। 53 ।।

अनन्तेशं स्मरेन्मध्ये[1] सर्वाधारमयं प्रभुम् ।
आग्नेयादौ तु धर्माद्यमैशान्यान्तं[2] चतुष्टयम् ।। 54 ।।

प्रागादावप्यधर्माद्यमुत्तरान्तं न्यसेत् परम् ।
तदूर्ध्वे कमलं ध्यायेत् स्वनाम्नाऽथ तथोपरि ।। 55 ।।

स्मरेत् तत्राश्रितं सूर्यं शशाङ्कं केसरावनौ ।
कर्णिकास्थं हुतभुजं ततो गन्धादिना यजेत् ।। 56 ।।
पीठपरिकल्पनप्रकारमाह- पुष्पैरित्यादिभिः ।। 52-56 ।।
[1 न्नित्यं- अ.।]
[]2 न्यन्तं - मु., न्यां तच्च- अ. उ.।]

गणेशाद्यर्चनं कृत्वा प्रथमं गुरुसन्ततेः[1] ।
प्राप्तानुज्ञोऽथ कलशमादाय शुभलक्षणम् ।। 57 ।।

तमम्भसाऽस्त्रजप्तेन सम्पूर्यादौ तु निक्षिपेत् ष।
तद्गर्भे काञ्चनं रत्नं बीजान्योषधिसत्फलम् ।। 58 ।।

चूतादिविटपोद्भूतां सपत्रां पुष्पमञ्जरीम् ।
कौशेयवस्त्रस्रक्[2]कण्ठं कृत्वा चन्दनचर्चितम्[3] ।। 59 ।।

तन्मध्ये पूजयेन्मन्त्रं साङ्गं सावरणं क्रमात् ।
प्राग् दिङ् मण्डलबाह्येऽथ दत्वा वै पुष्प[4]चक्रिकाम् ।। 60 ।।

पीठमन्त्रोपजप्तां च तदूर्ध्वे[5] स्थापयेच्च तम् ।
अथ विष्वक्सेनादिगुरुपङ्क्त्यर्चनतदनुज्ञापूर्वकं महाकुम्भस्थापनप्रकरमाह- गणेशाद्यर्चनमित्यादिभिः। नन्वत्र गणेश इति सामान्यशब्दप्रयोगाज्जयाख्यलक्ष्मीतन्त्रपारमेश्वराद्युक्तो विनायकस्तदर्थः स्यादिति चेन्न,
अथ शिष्टैस्तु नैवेद्यैर्यजेद् गणपतिं प्रभुम् ।
विष्वक्सेनाभिधानं चाप्यादावेवार्चितो हि यः ।। (17/142)
इति विशेषशब्दस्य वक्ष्यमाणत्वात्। अत एवेश्वरतन्त्रे-
विष्वक्सेनं गणाधीशं गुरूंश्च तदनन्तरम् ।
गुरून् परमसंज्ञांश्च यजेत् सर्वगुरूंस्तदा[6] ।।
आदिसिद्धसमूहं तु भगवद्ध्यानतत्परम् ।
नित्याधिकारिणश्चाप्तान् भगवत्तत्त्ववेदिनः ।।
चत्वारो मनवश्चान्ये ऋषयः सप्त पूर्वकाः[7] । (4/33-35)
इति गुरुपङ्तिरुक्ता। प्राक्दिक्[8] पूर्वदिशीत्यर्थः। विभक्तिलोपश्छान्दसः। मण्डलबाह्ये पूर्वोक्तमण्डलाद् बहिरित्यर्थः। पीठमन्त्रोपजप्तामिति चक्रिकाया विशेषणम्। पीठमन्त्रैः पूर्वोक्तैरनन्तादिमन्त्रैः, उपजप्ताम् अर्चितामित्यर्थः ।। 57-61 ।।
[1 सन्ततौ- अ. उ.।]
[2 मुत्कण्ठं- अ.।]
[3 चर्चिकतन्दनम्- मु., चार्चित- अटी.।]
[4 पत्रपुष्पिकाम्- मु.।]
[5 तदूर्ध्वं- अ.।]
[6 स्तथा- मु.।]
[7 पूर्विकाः- अ.मु.।]
[8 दिशि- अ.।]

अथाऽवतार्यो हृदयान्मन्त्रो विमलदीधितिः ।। 61 ।।

कर्मणा मनसा वाचा सिद्धिमार्गेण साधकैः ।
अनुज्झितस्वरूपं च सूर्यबिम्बमिवाम्भसि[1] ।। 62 ।।

कर्मणा प्रेरयेच्चैव वाचा तं मन्त्रमुच्चरेत्[2] ।
आगच्छपदसंयुक्तं संस्मरेन्मनसाकृतिम् ।। 63 ।।
तत्र भगवदावाहनक्रममाह- अथेति सार्धद्वाभ्याम्। करणत्रयेणाप्यावाहनं कार्यमित्युक्त्वाऽऽवाहनकाले करणत्रयस्यापि प्रेरणोच्चारणस्मरणाख्यकार्यत्रयमपि प्रतिपादितम् । प्रेरणं चात्रार्ध्यपुष्पाञ्जलिसमर्पणमन्त्रन्याससंनिधिसंनिरोधसांमुख्यमुद्रादर्शनादिकं ज्ञेयम्। उच्चारणं चतुर्वारं बोध्यम्। मन्त्रं पूर्वोक्तं नृसिंहमन्त्रमित्यर्थः ।। 61-63 ।।
[1 मथा- उ.।]
[2 तन्मन्त्रा - अटी. उ.।]

एवमाहूय वै दद्यादर्घ्यपाद्ये च भक्तितः ।
आमूलात् सर्वमन्त्राणां व्यक्तिस्थानां समर्चनम् ।। 64 ।।

अर्घ्यपुष्पादिना कुर्यात् स्वेन स्वेन स्वके पदे ।
तदोदितं विभोर्देहाद् हृदयाद्यं चतुष्टयम् ।। 65 ।।
एवमाहूतस्य भगवतोऽर्घ्यपाद्याद्युपचारानुपूर्वीं कथयन् प्रथमं लययागमाह- एवमिति सार्धेन। व्यक्तिस्थानां भगवद्दिव्यमङ्गलविग्रहविन्यस्तानामित्यर्थः। अनेनावाहनानन्तरं स्वशरीरवद् भगवदवयवेष्वपि मूलमन्त्रादीनां न्यासः कार्य इत्युक्तं भवति। अर्घ्यपुष्पादिनेत्यत्रादिशब्देन गन्धधूपौ ग्राह्यौ। स्वेन स्वेन स्वस्वमन्त्रेणेत्यर्थः ।। 64-65 ।।

तदोदितं विभोर्देहाद् हृदयाद्यं चतुष्टयम् ।। 65 ।।

न्यसेत् कमलपत्राणामा पूर्वादुत्तरान्तिकम्[1] ।
अग्नीशरक्षोवाय[2]व्यदलेष्वस्त्रं यथाक्रमम् ।। 66 ।।

नेत्रं केसरजालस्थं चक्रं नाभित्रयोपरि ।
श्रीवत्सकौस्तुभौ चैव वनमालां तथैव च ।। 67 ।।

उदक्पश्चिमभागस्थे चाक्रीये त्वप्यरत्रये[3] ।
कमलं निशिताग्रं च नन्दकं विन्यसेत् क्रमात् ।। 68 ।।

प्राग्भागदक्षिणस्थाभ्यां त्रितयं चाथ विन्यसेत् ।
कार्मुकं हेतिराट् शङ्खं ततो देवस्य दक्षिणे ।। 69 ।।

नेमिभागे श्रियं देवीं पुष्टिमुत्तरतो न्यसेत् ।
पृष्ठदेशे[4] स्थितां निद्रामग्रभागे सरस्वतीम् ।। 70 ।।
अथ भोगयागक्रममाह- तदोदितमित्यारभ्याग्रभागे सरस्वतीमित्यन्तम्। चाक्रीये चक्रसंबन्धिनीत्यरत्रयस्य विशेषणम्। निशितान्यग्राणि यस्य तं तथोक्तं गदामित्यर्थः। अनयोरर्चनयोर्मन्त्राणां निराकारत्वसाकारत्वभेदं लयभोगसंज्ञाकत्वं च जयाख्ये प्रतिपादितम्-
शक्तयश्चाङ्गषट्कं च लाञ्छनं कमलादिकम् ।।
भूषणं कौस्तुभाद्यं च वदनानां तथा त्रयम् ।
सत्याद्या मूर्तयश्चैव देवे[5] देहस्य भाविताः ।।
[6]व्यापकस्य तथात्वेन स्वे स्वे स्थाने [7]प्रभात्मकाः ।
तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु ।।
परिवारं विना मन्त्रैः स्वैः स्वैः पुष्पानुलेपनैः ।
लययागो ह्ययं विप्र लक्ष्म्यादिष्वनुकीर्तितः ।।
तस्माद् हृत्कर्णिकाधारे[8] मूर्तौ वा यत्र कुत्रचित् ।
मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा ।।
याग एष लयाख्यस्तु संक्षिप्तः सर्वसिद्धिदः ।
मन्त्रराट् कणिकामध्ये लक्ष्म्याद्याः केसरादिषु ।।
साकाराः केवलाः सर्वे यत्र भोगाभिधः स तु ।
केवलेन[9] च यागेन पृथग्भूतेन नारद ।।
पूजनं कमलादीनामधिकाराभिधः स तु । (12/76-83) इति।
प्रभात्मकास्तेजोरूपाः[10], निराकारा इति यावत्। परिवारं विना तत्तत्परिवारं विनेत्यर्थः। परिवारस्यापि परिवारकल्पनेऽनवस्थाप्रसङ्गादिति भावः। एत एव श्लोका ईश्वर[11]पारमेश्वरयोरपि स्वस्वोक्तमन्त्रन्यासानुसारेण प्रतिपादिताः।
[1 मम्- अटी.।]
[2 वाय्वादि- मु. अटी.।]
[3 त्वपर- मु. अटी.।]
[4 देशस्थि- अ. उ.।]
[5 देहे देवस्य- मु.।]
[6 व्यापय्य च- मु.।]
[7 तथा- मु.।]
[8 कारे- अ.।]
[9 केवलेनानुभागेन- मु.।]
[10 जयाख्यवचनानां व्याख्यानमेतत्।]
[11 ईश्वर (2/100-105), पारमेश्वरे (5/125-132) चैते श्लोका द्रष्टव्याः।]

वामदक्षिणभागाभ्यां [1]वीथिस्थमिषुधिद्वयम् ।
द्वारेष्वस्त्रं न्यसेद् भूयो मुद्रां[2] केणचतुष्टये ।। 71 ।।

सायुधानथ दिक्पालान् स्वस्थाने मण्डलाद् बहिः ।
मण्डलवीथ्यादिष्वर्चनीयान् परीवारानाह- वामदक्षिणेति सार्धेन। इषुधिद्‌वयं तूणीरद्वयमित्यर्थः। द्वारेष्वस्त्रं चक्रमित्यर्थः। पूर्वं भोगयागे चक्रगदयोरुक्तत्वाद् भूय इत्युक्तम् ।। 71-72 ।।
[1 विधि- मु. अटी. बक. बख.।]
[2 गदां- बक. बख.।]

एवं न्यस्य[1] ततो ध्यायेन्मन्त्रव्यूहं यथास्थितम् ।। 72 ।।

सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् ।
सर्वलक्षणसम्पूर्णं सार्व[2]ज्ञादिगुणै[3]र्युतम् ।। 73 ।।

निष्टप्तकनकाभं च सम्पूर्णांङ्गं महानुतम् ।
घोरशार्दूलवदनं चण्डमार्तण्ड[4]लोचनम् ।। 74 ।।

सौदामिनीचयप्रख्यैर्लोमभिः परिपूरितम् ।
अरुणाम्भोजपत्राभं वज्राधिककरोरुद्दम्[5] ।। 75 ।।

चलत्फणीश्वरसटं चन्द्रकोटिशतद्युतम्[6] ।
वमन्तमान्तरं वह्निं खर[7]न्ध्रैर्मारुतानुगैः ।। 76 ।।

प्रलयाम्बुदनिर्घोषमुद्गिरन्तं स्ववाचकम् ।
युगान्तहुतभुग्ज्वालामण्डलान्तर्व्यवस्थितम् ।। 77 ।।

षडस्त्रं[8] चाप्यष्टबाहुं व्याप्य लोकान् स्थितं प्रभुम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।। 78 ।।

दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कारमण्डितम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् ।। 79 ।।

रत्नकाञ्चनसन्मुक्तायुक्तया वनमालया ।
सब्रह्म[9]सूत्रया चैव शोभितं परमेश्वरम् ।। 80 ।।

भुजान्यस्त्रवरैर्दीप्तैः कमलाद्यैर्युतानि च ।
क्षीरसागरवच्छुभ्रं ततः पद्मं तु दक्षिणे ।। 81 ।।

प्रणवध्वनिगर्भं तु हिमाद्रिशतशोऽ[10]धिकम् ।
वामे[11] शङ्खवरं ध्यायेद् गदाखड्गौ ज्वलत्प्रभौ ।। 82 ।।

दक्षिणे पाणियुग्मेऽथ चक्रं कालानलद्युतिम् ।
सधनुर्वामहस्ताभ्यां ततः पाणिद्वयेन तु ।। 83 ।।

अविद्यादलिनीं मुद्रां कर्माख्यां संस्मरेत् प्रभोः ।
एवमेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम्[12] ।। 84 ।।

पद्मरागाचलाकारमारक्तं च शिरः स्मरेत् ।
अञ्जनाश्मप्रतीकाशं शिखामन्त्रं तथाकृतिम् ।। 85 ।।

परितः सूर्यसन्तप्तं[13] यथा कनकपर्वतम्[14] ।
तथा कवचमन्त्रं च ध्यानकाले विचिन्त्य च ।। 86 ।।

वृतो[15] ज्वालासहस्रैस्तु अयस्कान्तसमद्युतिः[16] ।
सर्वास्त्रशक्तिसम्पूर्णश्चास्त्र[17]मन्त्रः प्रकीर्तितः ।। 87 ।।

निर्धूमाङ्गारशिखरसदृशो नेत्रमन्त्रराट् ।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोत्तमाः ।। 88 ।।

सास्त्राः कौस्तुभपूर्वा ये गदामाले[18]ङ्गनाकृतीः[19] ।
फुल्लपद्मोदराभा श्रीर्नलिनीनालसंयुता ।। 89 ।।

चन्द्ररश्मिप्रतीकाशा श्वेतचामरधारिणी ।
पूर्णेन्दुसदृशी[20] पुष्टिरुद्वहन्ती च पाणिना ।। 90 ।।

सम्पूर्णममृतेनैव कलशं काञ्चनोत्थितम् ।
विज्ञानपुस्तककरा [21]स्फटिकाभा सरस्वती ।। 91 ।।

फुल्लेन्दीवरसंकाशा त्वक्षसूत्रकराङ्किता ।
ध्येया भगवती निद्रा सर्वाश्चामरलाञ्छिताः ।। 92 ।।

सम्मुखा देवदेवस्य वस्त्रालङ्कारमण्डिताः ।
मूलमन्त्रादीनां ध्यानान्याह- एवं न्यस्त्वा ततो ध्यायेदित्यारभ्य वस्त्रालङ्कारमण्डिता इत्यन्तम्। अविद्यादलिनी[22] मुद्रा वक्ष्यमाणा (17/105-106) ज्ञेया ।। 72-93 ।।
[1 न्यस्त्वेति भाष्यकारसंमतः पाठः।]
[2 सर्वज्ञादि- अटी. उ.।]
[3 गुणान्वितम्- अ.।]
[4 चन्द्र- उ.।]
[5 मार्ताण्ड- अ. अटी.।]
[6 करेरु- मु. अटी. ।]
[7 त्विषम्- उ.।]
[8 स्वमुखैः- बक. बख.।]
[9 षडस्रभृच्चाष्टभुजं- मु. उ.।]
[10 सद्ब्र- अ.।]
[11 शोधितम्- उ.।]
[12 हैमं- उ.।]
[13 ण्डुरम्- मु. उ.।]
[14 न्तप्तो- मु. अटी.।]
[15 पर्वतः- मु. अटी.।]
[16 वृतं- अ. उ.।]
[17 तिम्- अ., ति- उ.।]
[18 र्णमस्त्रमन्त्रं प्रकीर्तितम्- अ. उ.।]
[19 माला- बक. बख. अ. उ.।]
[20 कृति- अ., कृतीन्- उ.।]
[21 सदृशा- अ. उ.।]
[22 स्फाटि- बक. उ.।]
[23 नलिनी- अ.।]

एवं ध्यात्वा ततः कुर्यात् पूजनं कुसुमादिकैः ।। 93 ।।

स्नानैर्विलेपनैर्वस्त्रैर्माल्यैर्धूपैश्च दीपकैः ।
दध्ना च मधुमिश्रेण क्षीरेणाज्यान्वितेन च ।। 94 ।।

हृद्यैर्मृष्टैः स्थिरैर्मेध्यैर्नैवेद्यैर्विविधैः शुभैः ।
यथाकालोद्भवैः सर्वैः फलमूलैस्तु षड्रसैः ।। 95 ।।

पूजितैर्मुक्तदोषैस्तु मुद्रामन्त्रो[1]पलक्षितैः ।
मूर्तैर्ध्यानैस्तथा स्विन्नैर्बीजैर्होमादि[2]नाऽथवा[3] ।। 96 ।।
षष्ठपरिच्छेदे विस्तरेणोक्तत्वादिहोपचारानुपूर्वीं संक्षेपेणाह- एवं ध्यात्वेत्यादिभिः ।। 93-96 ।।
[1 मात्रो- मु. बक. बख.।]
[2 र्हेमा- मु. अ. उ.।]
[3 यवैः - बक. बख., ऽथ वै- अ., तथा- उ.।]

ततः स्वहस्तौ संस्कृत्य अम्भसाऽऽलम्भना[1]दिना ।
बद्ध्वा प्रदर्शयेन्मुद्रां त्रिशिखां सम्मुखे[2] विभोः ।। 97 ।।

ध्यात्वा त्रेताग्निरूपं तु दक्षिणादङ्गुलि[3]त्रयम् ।
स्पष्टमूर्ध्वशिखं[4] सैव ज्येष्ठाक्रान्ता कनीयसी ।। 98 ।।

[5]अथोऽखिलस्वरूपश्च[6] ध्वान्तातीतोऽग्निरूपधृक्[7] ।
देवो गुणत्रयातीतस्तथा मार्गत्रयातिगः ।। 99 ।।

धर्मैः [8]स्थूलतरैर्मुक्तो योऽयं व्यक्तो धियार्चितः ।
सम्पुटं हृदयोद्देशे बद्ध्वा हस्तद्वयेन तु ।। 100 ।।
मूलमुद्रादर्शनमाह- तत इति सार्धैस्त्रिभिः। अम्भसा अर्घ्यजलेनेत्यर्थः। "मुद्राबन्धे [9]कराभ्युक्षाम्" इत्यर्घ्यविनियोगस्य वक्ष्यमाणत्वात्। आलम्भनादिना चन्दनादिनेत्यर्थः। आदिशब्देन कर्पूरकुङ्कुमादिकं गृह्यते। दक्षिणहस्तेऽङ्गुष्ठेन कनिष्ठिकामाक्रम्य तर्जन्याद्यङ्गुलित्रयमृज्वीकृत्य भगवदभिमुखं दर्शयेदिति फलितोऽर्थः ।। 97-100 ।।
[1 लभना- बक. बख. अ. उ.।]
[2 संमुखां- अ. उ.।]
[3 ल- बक. बख.।]
[4 मुखं- अ. उ.।]
[5 अधो- अ.।]
[6 श्चाप्यध्वा - बख. अ. उ.।]
[7 धृत्- मु. अटी.।]
[8 स्थूलादिकैर्युक्तो- अ.।]
[9 ईश्वरे (3/96), पारमेश्वरे (6/117) च दृश्यते वचनमेतदर्घ्यप्रकरणं, सात्वते (18/70-77) तु नावलोक्यते ।]

सम्पुटं हृदयोद्देशे बद्ध्वा हस्तद्वयेन तु ।। 100 ।।

निरन्तराभ्यां शाखाभ्यां मुद्रैषा हार्दिकी स्मृता ।
हृन्मन्त्रमुद्रामाह- संपुटमिति। हार्दिकी हृदयसंबन्धिनीत्यर्थः ।। 100-101 ।।

अङ्गुष्ठादिकनिष्ठान्तं शाखायुग्मं पृथक् पृथक् ।। 101 ।।

सान्तरं सम्पु[1]दादस्मात् कनिष्ठादौ तथा भवेत् ।
शिरश्शिखातनुत्रास्त्रनेत्रमुद्रा यथाक्रमम् ।। 102 ।।
शिरोमन्त्रादिमुद्रापञ्चकमाह- अङ्गुष्ठादीति सार्धेन। पूर्ववत् करद्वयेन संपुटं कृत्वाऽङ्गुष्ठयुग्मं तर्जनीयुग्मं मध्यमायुग्ममनामिकायुग्मं कनिष्ठिकायुग्मं च सान्तरालं यथा तथा पृथक् पृथग् विभज्य कनिष्ठाद्यङ्गुष्ठान्तमङ्गुलियुग्मपञ्चके क्रमेण शिरःशिखाकवचास्त्रनेत्रमुद्रा इति विज्ञेयाः ।। 101-102 ।।
[1 सम्पुटं त- अ.।]

अस्या[1]मङ्गुष्ठयुग्मं तु मुद्रायां करमध्यगम् ।
प्रदेशिन्या[2] ततो विद्धि कनिष्ठान्तं श्रियादिषु ।। 103 ।।
श्रियादिशक्तिमुद्राचतुष्टयमाह- अस्यामिति। अस्यां मुद्रायां पूर्वोक्तरीत्या पृथग्विभक्ताङ्गुलिद्विकपञ्चकविशिष्टायां मुद्रायामङ्गुष्ठयुग्मं करमध्ये कर्णिकारूपेण संस्थाप्य तर्जन्यादिद्विकचतुष्टये क्रमेण लक्ष्मीपुष्टिसरस्वतीनिद्रामुद्राचतुष्टयं बोध्यम् ।। 103 ।।
[1 पङ्क्तित्रयं नास्ति- बख.।]
[2 न्यादितो- अ. उ.।]

स्वमन्त्रयुक्ता चान्येषामर्चितानां यथाक्रमम् ।
पुनः पुनः प्रयोक्तव्या [1]हार्देयं शिरसा सह ।। 104 ।।
अन्येषां हृन्मुद्रैव शिरोमुद्रया सह तत्तन्मन्त्रेण प्रयोक्तव्येत्याह- स्वमन्त्रयुक्तेति। अन्येषामित्यनेन श्रीवत्सादिभूषणानां चक्रादिलाञ्छनानामनन्तादिपीठदेवानां विष्वक्सेनादिगुरूणां द्वारावरणस्थपरिवाराणां च ग्रहणं बोध्यम् ।
ननु जयाख्ये[2] एतेषामपि मुद्राः प्रतिपादिताः। तत्राप्यनुक्तमुद्राणामेव हृ(न्मन्त्रा?न्मुद्रा)प्रदर्शनं सरसमिति चेन्न, तत्तत्संहितानिष्ठैस्तत्तदुक्तप्रकारेणैवानुष्ठेयत्वात्।
ननु तर्हि सात्वतोपबृंहणे जयाख्योक्ताः श्रीवत्सादिमुद्राः संगृहीता इति चेत्, सत्यम्। तत्र-
सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः स्मृता ।।
स्वेन स्वेन तु मन्त्रेण संयुक्तां तां प्रयोजयेत् ।
(ई. सं. 23/41-42)
इति सात्वतोक्तपक्षस्यापि प्रतिपादितत्वान्न भेतव्यमायुष्मता ।। 104 ।।
[1 हार्देयी- अ. उ.।]
[2 अष्टमे पटले.।]

परस्परमुखौ[1] श्लिष्टौ शाखाक्रान्तौ परस्परम् ।
किन्तु वै दक्षिणं हस्तमूर्ध्वं चाप्यधरेऽपरम् ।। 105 ।।

अविद्यादलिनी ह्येषा मुद्रा पूर्वमुदाहृता ।
अथ भगवतो हस्तस्थिताया अविद्यादलिन्या मुद्राय लक्षणमाह- परस्परेति सार्धेन। हस्तौ परस्पराभिमुखौ संश्लिष्टौ परस्पराङ्गुलिभिराक्रान्तौ च कृत्वा। दक्षिणमुत्तरं अपर[2]मधरं कुर्यादित्यर्थः ।। 105-106 ।।
[1 खाश्लि- अ. उ.।]
[2 उत्तर- अ.।]

एवं मुद्राचयं कृत्वा पूजां कृत्वा पुनः प्रभोः ।। 106 ।।

यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वै ।
पूर्वोक्तां त्रिशिखामुद्रामिमामविद्यादलिनीमुद्रां च भगवते प्रदर्श्य पुनरर्घ्यादिभिरभ्यर्च्याष्टोत्तरशतवारं यथाशक्ति वा मूलमन्त्रं जपेदित्याह- एवमिति। हृन्मन्त्रादीनामेकैकवारं जपः कार्यः। तेषां मूलमन्त्राराधनाङ्गभूतत्वात् सकृज्जपेऽपि न प्रत्यवायः ।। 106-107 ।।

एकैवं हृदयादीनां सर्वेषां विहितं त्वथ ।। 107 ।।

क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्जपं विना ।
सकृज्जपस्याप्यकरणे प्रत्यवाय इत्याह- एकैकमिति ।। 107-108 ।।

तमर्चयित्वाऽष्टाङ्गेन प्रणम्य परमेश्वरम् ।। 108 ।।

स्मृत्वा[1]ऽनुज्ञां समादाय यजेद् वह्निगतं ततः ।
एवं जपयज्ञानन्तरं साष्टाङ्गप्रणामजितन्तादिस्तोत्रपठनपूर्वकं[2] भगवदनुज्ञया वह्निसंतर्पणं कुर्यादित्याह- तमिति ।। 108-109 ।।
[1 स्तुत्वा- अ. उ. अटी.।]
[2 पूर्वक- अ.।]

कुण्डं सुलक्षणं कृत्वा संस्कारैः संस्कृतं पुरा ।। 109 ।।

पूजयित्वार्घ्यपुष्पाद्यैस्तत्राग्निमवतार्य च ।
सुसमिद्धं च निर्धूमं संशुद्धं ताडनादिना ।। 110 ।।

अर्घैर्निम्बुर[1]कुसुमैः पूजयित्वा च भावयेत् ।
व्यस्तो गुणगणः[2] षष्ठस्तेजो नाम गुणो हि यः ।। 111 ।।

परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् ।
ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ।। 112 ।।

पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम्[3] ।
समिद्भिरर्चयित्वाऽथ तन्मध्ये मन्त्रमण्डलम् ।। 113 ।।

ध्यात्वाऽभ्यर्च्य यथापूर्वं सन्तर्प्य सघृतैस्तितैः ।
परिवारयुतं देवं सहस्रशतसंख्यया ।। 114 ।।

दद्यात् पूर्णाहुतिं सम्यग् होमसंख्यां निवेद्य च ।
वह्निसंतर्पणक्रममाह- कुण्डमित्यारभ्य होमसंख्यां निवेद्य चेत्यन्तम्। सुलक्षणम् एकादशपरिच्छेदोक्तलक्षणान्वितमित्यर्थः। संस्कारैः षष्ठपरिच्छेदोक्तैः, उपलेपनादिभिरित्यर्थः। पूजयित्वाऽर्घ्यपुष्पाद्यैरित्यत्रापि- "तदभ्यर्च्यार्घ्यपुष्पाद्यैर्ध्यायेत् तद्भद्रपीठवत्" (6/83) इत्याद्युक्तप्रकारो ज्ञेयः। संशुद्धं ताडनादिनेत्यत्र-
संताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ।।
अर्चयेत् कवचेनैव कवचेनावकुण्ठ्य च ।
प्लावयेदमृतेनैव नेत्रमन्त्रेण नारद ।।
पूरकेणोपहृत्याथ[4] स्वात्मन्युपशमं नयेत् । (15/60-62)
इति जयाख्योक्तास्ताडनादिसंस्कारा ग्राह्याः। संगृहीताश्चैवमीश्व[5]रतन्त्रेऽपि। समिद्भिः पूर्वोक्तसप्तसमिद्भिरित्यर्थः। मन्त्रमण्डलं मूलमन्त्रादिमन्त्रसमूहमित्यर्थः। होमसंख्यां निवेद्य, मण्डलस्थाय भगवत इति शेषः ।। 109-115 ।।
[1 निरम्ब- मु. बक. बख.।]
[2 गणात्- अ. उ.।]
[3 च- अ.।]
[4 सृत्या- मु.।]
[5 पञ्चमाध्याय इति शेषः.।]

ततः शुचीन् सोपवासान् शोधितान् बद्धलोचनान् ।। 115 ।।

भक्तान् प्रवेशयेत् तत्र गृहीतकुसुमांस्तु वै ।
प्रक्षेपयेन्मण्डलान्तर्नेत्रबन्धं विमुच्य च ।। 116 ।।

अष्टाङ्गप्रणिपातैस्तु प्रदक्षिणयुतैस्ततः ।
देवश्चाग्निर्गुरुः कुम्भः पूजनीयः पुनः पुनः ।। 117 ।।

तत्कालं भक्तिभावेन विज्ञाता योग्यता यदा[1] ।
तीव्रमन्दादिकां[2] तेषां तदा दीक्षां समाचरेत् ।। 118 ।।

जुहुयाद् व्यक्तसंशुद्धौ[3] शतमष्टाधिकं तु वै ।
तिलानां तद्वदाज्यस्य द्वादशार्णेन बुद्धिमान् ।। 119 ।।

दद्यात् पूर्णाहुतिं पश्चान्मन्त्रमर्घ्यादिनार्च्य च ।
ततश्चाङ्गसमूहेन प्रागुक्तपरिसंख्यया ।। 120 ।।

कुर्यादव्यक्तशुद्ध्यर्थं दद्यात् पूर्णाहुतिं ततः ।
स्वरूपापादनार्थं तु मूलबीजेन वै तथा[4] ।। 121 ।।

प्रणवादिनमोऽन्तेन कुर्याद् होममतन्द्रितः ।
ध्यात्वा निरस्तबन्धं तं शुद्धं शान्तं तु सर्वगम् ।। 122 ।।

समस्तसंवित्पूर्णं[5] च दद्यात् पूर्णाहुतिं ततः ।
मूलमन्त्रेण मन्त्रज्ञो भक्तानामनुकम्पया ।। 123 ।।
अस्मिन्नवसरे कर्तव्यं शिष्याणां नृसिंहमन्त्रदीक्षाक्रममाह- ततः शुचीनित्यारभ्य भक्तानामनुकम्पयेत्यन्तम्। शोधितान् पूर्वोक्तब्रह्मकूर्चप्रायश्चित्तादिभिः संशुद्धानित्यर्थः। प्रक्षेपयेत्, तदञ्जलिस्थपुष्पाणीति शेषः। देवो मण्डलस्थो देव इत्यर्थः। तत्कालं भक्तिभावेन वक्ष्य[6]माणोत्पुलकानन्दबाष्पादिभक्तिसूच[7]केनेत्यर्थः । [8]व्यक्तसंशुद्धौ महदादिरूपेण स्थूलावस्थापन्नप्रकृतिशुद्ध्यर्थमित्यर्थः। द्वादशार्णेन[9] नृसिंहद्वादशाक्षरेणेत्यर्थः। अङ्गसमूहेन हृन्मन्त्रादिषट्केन। अव्यक्तशुद्ध्यर्थं सूक्ष्मावस्थापन्नप्रकृतिशुद्ध्यर्थमित्यर्थः। स्वरूपापादनार्थं चेतनशुद्ध्यर्थमित्यर्थः। मूलमन्त्रेण नृसिंहबीजेनेत्यर्थः ।। 115-123 ।।
[1 यथा- मु. अ., तथा- अटी.।]
[2 मन्दधिया- बक. बख.।]
[3 संयुक्तौ- उ.।]
[4 ततः- बक. बख.।]
[5 त्सम्पूर्णं - बख. अ. उ.।]
[6 रोमाञ्चौत्सुक्यहर्षाढ्यमानन्दाश्रुसमन्वितम् (18/119) इत्यत्र।]
[7 सूचकैरि- मु.।]
[8 वृत्त- मु.।]
[9 `द्वादशार्णेन......प्रकृतिशुद्ध्यर्थमित्यर्थः' नास्ति- अ.।]

समयान् श्रावयेत् पश्चात् कुम्भेऽग्नौ मण्डले ततः ।
भक्त्या यया तु सम्प्राप्तमैहिकामुष्मिकं त्वया ।। 124 ।।

नास्याः कुर्याः परित्यागं कर्मणा मनसा गिरा ।।
साध्यं विना न कुर्याद्[1] वै स्नानादीनां च लोपनम् ।। 125 ।।

यावज्जीवं यथाशक्तिः संस्थितो यत्र कुत्रचित् ।
स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ।। 126 ।।

द्रव्यैः पुष्पाम्बुपूर्वैस्तु तदभावे[2] तु वै हृदि ।
मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ।। 127 ।।

मन्त्रनाथं गुरुं मन्त्रं[3] समत्वेना[4]भिवीक्षयेत् ।
मन्त्रमण्डलमुद्राणां परां गुप्तिं समाचरेत् ।। 128 ।।

दूरादेव नमस्कार्यो मृगराड् व्याघ्र एव वा ।
तदाकृतिर्मृगोऽन्यो वा तच्चर्म क्वापि नारुहेत् ।। 129 ।।

न चाक्रमेत पादेन न च [5]तल्पादिकं स्पृशेत् ।
पद्मपत्रैस्तथाश्वत्थपर्णैर्भोजनभाजनम् ।। 130 ।।

वर्जनीयं तथा शङ्खपद्माद्यङ्कितमासनम् ।
नक्तं वा [6]परिपीडं वाऽप्येकादश्यां समाचरेत् ।। 131 ।।

विशेषपूजनं कुर्याद् द्वादशीष्वखिलासु च ।
अयनादिषु चान्येषु सूर्यसंक्रणेषु च ।। 132 ।।

न भूतग्रहदुष्टानां व्याधीनां वा कदाचन ।
असिद्धेन स्वमन्त्रेण कुर्यादुत्सारिणं तु वै ।। 133 ।।

मन्त्रजं सिद्धिलिङ्गं यत् स्वप्ने प्रत्यक्षतोऽपि वा ।
अनुभूतं न वक्तव्यं कस्यचिद् गुरुणा विना ।। 134 ।।

व्यक्तं नृसिंहबीजं[7] तु दृश्यते यत्र कुत्रचित् ।
नमस्कुर्यात् समभ्यर्च्य वाक्पुष्पैः सप्रदक्षिणैः ।। 135 ।।

कृत्वाऽश्रुपातं शोकं वा विप्रयोगनिमित्ततः ।
स्नानादृते न कुर्याद् वै देवाग्निपितृतर्पणम् ।। 136 ।।

आ नाभिवर्धनात्[8] कालादन्यत्र सति सङ्करे[9] ।
सूतकाख्ये न कर्तव्यं प्रागुक्तं चैव यत्नतः ।। 137 ।।

स्वानुष्ठानं हि वै यस्मादागमात् समुपागतम् ।
तस्य सम्पूजनं यत्नाद् गोपनं च समाचरेत् ।। 138 ।।

ब्राह्मणादीन् यथाशक्ति दीनानाथांश्च पालयेत् ।
एवं हि समयान् दद्याद् भक्तानां भावितात्मनाम् ।। 139 ।।

सम्पालनाच्च येषां वै प्राप्नुयान्मन्त्रजं फलम् ।
इष्ट्वैवं हि ततः कुर्यात् सेचनं कलशेन तु ।। 140 ।।
अथ शिष्याणां समयोपदेशप्रकारमाह- समयान् श्रावयेत् पश्चादित्यारभ्य प्राप्नुयान्मन्त्रजं फलमित्यन्तम्। कुम्भमण्डलादिस्थितभगवद्विषयकया [10]यया भक्त्या ऐहिकामुष्मिकफलसिद्धिर्भवति, तां भक्तिं करण[11]त्रयेणापि न त्यजेदिति प्रथमनियमार्थः। साध्यं विना औषधि[12]सेवनादिकं विनेत्यर्थः। तल्पादिकं व्याघ्रचर्मकृततल्पादिकमित्यर्थः। न स्पृशेदित्यत्रापि पादेनेत्यनुषङ्गः। परिपीडं शुद्धोपोषणमित्यर्थः। आ नाभिवर्धनात् कालाद् अन्यत्र नाभिनालच्छेदना[13]नन्तरमित्यर्थः। तत्पूर्वं सूतकाभावादिति भावः। तथा च जैमिनिः-
यावन्न छिद्यते नालं तावन्नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ।। इति ।
एवं च-
अत्र दद्यात् सुवर्णं वा भूमिं गां तुरगं रथम् ।
छत्रं छागं वस्त्रमाल्ये शयनं वासनं गृहम् ।।
धान्यं गुडं तिलं सर्पिरन्यद्वास्ति गृहे वसु ।
आयान्ति पितरो देवा जाते पुत्रे गृहं प्रति ।।
तस्मात् पुण्यमहः प्रोक्तं भारते तादिपर्वणि ।
इत्युक्तप्रकारेणापि स्पष्टमेव श्रीनृसिंहो भजनीय इति फलितोऽर्थः। मन्त्रमण्डलमुद्राणां गोपनं पूर्वमुक्तम्। स्वानुष्ठानमित्यनेन शास्त्रस्य[14] गोपनमुक्तमिति ज्ञेयम् ।। 124-140 ।।

[1 कुर्यास्तु- मु. अटी.।]
[2 भावात्तु- अ. उ.।]
[3 शास्त्रं- बख. उ.।]
[4 नानुभावयेत्- बख. अ. उ.।]
[5 तत्पावके क्षिपेत्- मु. अटी., तद्घातकं स्पृशेत्- अ. उ.।]
[6 परिपिण्डं - मु. बक. बख.।]
[7 बिम्बं- अ. उ.।]
[8 भिर्व- अ.।]
[9 संकटे- अ.।]
[10 दनं- मु. अ.।]
[11 `यया' नास्ति- अ.।]
[12 करेण त्रयेणापि- मु.।]
[13 ओषधि- अ.।]
[14 च्छेदा- मु.।]
[15 स्याऽऽगो- मु.।]

इष्ट्वैवं हि ततः कुर्यात् सेचनं कलशेन तु ।। 140 ।।

आत्मनश्चानु भक्तानां नैवेद्यं प्रार्थयेत् ततः ।
ब्राह्मणाय च तद्दद्याद् न्य[1]स्तमाहृत्य मन्त्रराट् ।। 141 ।।
शिष्यस्य महाकुम्भोदकेनाभिषेकमाह- इष्ट्वेत्यर्धेन। एतत्क्रमो विस्तरेण वक्ष्यमाणो[2] ग्राह्यः।
स्वानुयागार्थं कारिप्रदानार्थं च देवं देवं हविः प्रार्थयेदित्याह - आत्मन इत्यर्धेन।
कारिप्रदानमाह- ब्राह्मणायेत्यर्धेन। अत्रैकमूर्तेर्नृसिंहस्याराधनप्रकरणाद् ब्राह्मणायेत्येकवचनमुक्तम्, पूर्वं चातुरात्म्यार्चनप्रकरणात्-
संपूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ।।
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च । (6/74-75) इति,
एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान् ।। (14/30)
इति च चत्वारः कारिणः प्रोक्ता इति ज्ञेयम्। तत्राप्यशक्तावेक एवोक्तः सप्तमपरिच्छेदे (7/78)। तदानीमेकस्यैव चतुर्मूर्त्यात्मकत्वं बोध्यम्। न्यस्तमन्त्रराडाहृत्य हविषि न्यस्तं मन्त्रत्रयमुपसंहृत्येत्यर्थः। एव[3]मेवोक्तं पारमेश्वरादिष्वपि-
विनि[4]वेश्य च देवाय विन्यस्तानोदनोपरि ।।
बलवीर्यादिसन्मन्त्रान् रसवीर्यादिवर्जितान् ।
ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ।। इति,
(18/387-388)
त्रय्यन्तज्ञानसंपन्नान् यथोक्ताचारनिष्ठितान् ।
समाहूयार्घ्यगन्धाद्यैः समभ्यर्च्य यथाक्रमम् ।।
भगवच्छेषमादाय न्यस्तमाहृत्य मन्त्रपम् ।
प्राङ्निवेदनकाले तु चतुर्धा संविभज्य तम् ।।
प्रापणं मधुपर्काद्यमन्यच्चाभ्यवहारिकम् ।
तेभ्यो दद्यादेकभागमर्घ्योदकपुरस्सरम् ।। इति।
पूर्वं होमात् पूर्वं कारिप्रदानमुक्तम्, इदानीं होमानन्तरमपि कारिप्रदानस्योक्तत्वात् तस्य कालद्वयेऽन्यतरकर्तव्यत्वमुक्तं भवति।। 140-141 ।।

[1 तत्समाहृत्य- अ. उ., हृद्यं मेध्यं च शोभनम्- मु. अटी. बक. बख.।]
[2 शिष्यस्याधिवासदीक्षाभिषेकादयो विषया अग्रिमेषु त्रिषु (18-20) अध्यायेषु विस्तरेण प्रतिपादिताः ।]
[3 एवमेवोपबृंहितं- मु.।]
[4 विनिवेद्य- मु., संनिवेश्य- मु.।]

क्षमापयेत् ततो देवं यत्र यत्रावतारितम्[1] ।
अथ शिष्टैस्तु नैवेद्यैर्यजेद् गणपतिं प्रभुम् ।। 142 ।।

विष्वक्सेनाभिधानं [2]चाप्यर्घ्याद्यैरर्चितो हि यः ।
अपराधक्षमापणमाह- क्षमापयेदित्यर्धेन। यत्र यत्र कुम्भे मण्डलेऽग्नौ चेत्यर्थः।
विष्वक्सेनार्चनमाह- अथेति। शिष्टैः कारिप्रदानावशिष्टैरित्यर्थः,
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः ।।
द्विजप्रा[3]शनशिष्टैस्तु स्वयं प्राशनवर्जितैः । (20/13-14)
इति पौष्करे विष्वक्सेनार्चनप्रकरणे व्यक्तोक्तेः ।। 142-143 ।।
[1 णम्- उ.।]
[2 वाप्यादावेवा- उ.।]
[3 प्रदान- मु.।]

चरुरूपेण[1] चान्नेन सोदकेन हृदा ततः ।। 143 ।।

बहिराराधनस्थानात् प्रादक्षिण्येन निक्षिपेत् ।
पूर्वादीशानपर्यन्तं मन्त्री भूतबलिं तदा[2] ।। 144 ।।
ततः कुमुदादिभूतेभ्यो बलिदानमाह- चरुरूपेणेति सार्धेन ।। 143-144 ।।
[1 चरुस्थेनापि- अ. उ.।]
[2 सदा- अ.।]

ततो विसर्जनं कुर्यादुपसंहृत्य चाखिलम् ।
विनिक्षिप्याम्भसो मध्ये [1]पत्रपुष्पफलादि यत् ।। 145 ।।

निष्कामः पावनार्थं तु स्तोकमुद्धृत्य वै पुरा ।
सन्धाय[2] मन्त्रपूर्वं[3] प्राक् तम[4]श्नीयाच्च मौनवान् ।। 146 ।।
विसर्जनमाह- तत इत्यर्धेन। विसर्जनमत्र विष्वक्सेनस्येति बोध्यम्। भगवद्विसर्जनं तु विष्वक्सेनार्चनात् पूर्वमेव कार्यम्, तच्च- "क्षमापयेत् ततो देवं यत्र यत्रावतारितम्" (17/142) इत्यनेनैव सूचितं भवति। यतो मण्डलेऽग्नौ च भगवद्विसर्जनानन्तरं तस्मिन्नेव स्थाने विष्वक्सेनः पूजनीय इति जयाख्यपञ्चदशपटले (15/242-250) विस्तरेण एतद्विधानमुक्तम्, अत्रापेक्षितं च। उपसंहृत्य चाखिलं परिवारदेवतासमूहं च विसृज्येत्यर्थः ।
विष्वक्सेनार्चनानन्तरं पत्रपुष्पफलान्नादीनां जलमध्ये प्रक्षेपम्, स्वप्राशनार्थं किञ्चिदंशस्य तत्पूर्वमेव प्रत्येकं स्थापनम्, तदर्चनानन्तरं प्राशनं चाह- विनिक्षिप्येति सार्धेन। अत्र निष्काम इत्यनेन सकामस्य विष्वक्सेनार्चनानन्तरं प्रत्येकमुद्धृतस्यापि प्राशनं वर्ज्यमिति ज्ञायते। तथा च पञ्चरात्ररक्षायामाग[5]मप्रामाण्यवचनम्-
यतो भगवदर्थेन[6] त्यक्तं स्रक्चन्दनादिकम् ।
पश्चादभोग्यतां[7] याति विष्वक्सेन[8]परिग्रहात् ।।
अत एव निवेद्यादि[9] ततः[10] प्रागेव सात्वतैः ।
सेव्यते[11] तेन तत् तेषामुत्कर्षस्यैव कारणम् ।। (पृ. 82-83) इति ।। 145-146 ।।
[1 पत्रपुष्पादि निक्षिपेदिति सार्वत्रिकः पाठः। 10/58 भाष्ये समुद्धृतः पाठो मूले स्थापितः।]
[2 सन्धार्य- अ. उ.।]
[3 पूतं- अ. उ.।]
[4 यत्तद- अ.।]
[5 आगमप्रामाण्यवचनमेतत् पञ्चरात्ररक्षायां नोपलभ्यते, अतः पञ्चरात्ररक्षापदमत्र आगमप्रामाण्यस्य विशेषणतया योजनीयम्।]
[6 र्थ्येन- अ.।]
[7 योग्य- अ. म.।]
[8 निवेदनात्- मु.।]
[9 द्यानि- अ. मु.।]
[10 ततोऽर्वागेव- मु.।]
[11 सेव्यन्ते- अ. मु.।]

भोजनान्ते ततः कुर्यात् सम्प्राप्ते तु निशामुखे ।
मन्त्रजापं ततो ध्यानं तोयतर्पणपूर्वकम् ।। 147 ।।

तथैव[1] रात्रिशेषं तु कालं सूर्योदयावधि ।
कर्तव्यं सजपं ध्यानं नित्यमाराधकेन तु ।। 148 ।।
अथ भोजनानन्तरमा सायं सद्ध्यानमन्त्रजपं सायंकाले जलमध्ये स्वमन्त्रार्चनतर्पणं तदारभ्य सूर्योदयावधि च सध्यानजपमाह- भोजनान्त इति द्वाभ्याम् ।। 147-148 ।।
[1 तथैवं- मु. अटी.।]

एवमेव विधानेन पूजयित्वा दिने दिने ।
जपेल्लक्षाष्टकं मन्त्री ततः सिद्ध्यति मन्त्रराट् ।। 149 ।।

ददाति मनसोऽभीष्टाः सिद्धीः सर्वानुरूपकाः ।
एवं प्रत्यहं भगवदर्चनपूर्वकं शिष्यैर्लक्षाष्टसंख्याके जपे कृते मन्त्रसिद्धिर्भवति, ततः स्वेष्टसिद्धिश्च भवतीत्याह- एवमेवेति सार्धेन ।। 149-150 ।।

रुद्रादित्येन्द्रऋषिभ्यो भक्तेभ्यश्च[1] मयोदितम् ।। 150 ।।

लोकचित्तानुसारेण शास्त्रं वै युगभेदतः ।
यागो यागोपकरणं विमलं प्रतिमादिकम् ।। 151 ।।

ज्ञातव्यं तत् त्वया सम्यगविरोधेन सर्वदा ।
आगमेभ्योऽथ तज्ज्ञेभ्यः सकाशादात्मसिद्धये ।। 152 ।।
अनुक्तमन्यतो ग्राह्यमित्याह- रुद्रादित्येत्यादिभिः। अविरोधेन स्वोक्तार्थाविरोधेनेत्यर्थः ।। 150-152 ।।
[1 भ्यो यन्म- अ. उ.।]

अथो[1]क्तमिह संक्षेपाद् वदेदन्यत्र विस्तरात् ।
अथ संसाधितं मन्त्रं ब्रह्मचर्यादिसंयमैः ।। 153 ।।

पयोयावकशाकाम्बुघृतमूलफलाशनैः ।
मन्त्री यथा प्रयुञ्जीयाच्छान्तिकादिषु तच्छृणु ।। 154 ।।
एवं पयोयावकादिप्राशनब्रह्मचर्यनियमैः साधितस्य मन्त्रस्य शान्तिकादिषु प्रयोगक्रमं श्रृण्वित्याह- अथेति द्वाभ्याम् ।। 153-154 ।।
[1 यथो- मु. बक. बख.।]

ज्ञात्वादौ स्वशरीरोत्थैर्लौकिकैरपि लक्षणैः ।
प्राप्तेन स्वप्नयोगेन संस्थिति जीवितस्य च ।। 155 ।।

ततः शल्य[1]विनिर्मुक्तं स्थानमासाद्य शोभनम् ।
संच्छन्नं शरजालेन साम्बरेणाथवा गृहम् ।। 156 ।।

तत्र[2] मण्डलमालिख्य सर्वोपकरणान्वितम् ।
चन्दनक्षोदयुक्तेन शशिना सहितेन च ।। 157 ।।

सुगन्धशालिचूर्णेन प्रागुदीरितलक्षणम् ।
निर्व्रणं[3] लक्षणाढ्यं च पूरितं गालिताम्भसा ।। 158 ।।

हेमरत्नौषधीवृक्षशाखादूर्वाफलोदरम् ।
धूपिताहतशुष्केण[4] वाससा परिवेष्टितम् ।। 159 ।।

सुसमाधारसंस्थं च बाह्यतो मण्डलस्य च ।
विन्यसेत् समसूत्रेण दिग्विदिक्कलशा[5]ष्टकम् ।। 160 ।।

सुधाचन्दनलिप्ताङ्गं[6] लाजतण्डुलपूरितम् ।
श्वेतपट्टगलोपेतं सितपुष्पस्रगन्वितम् ।। 161 ।।

मुक्ताफलोदरं चैव बीजमल्ल[7]कभूषितम् ।
उपकुम्भाष्टकं त्वेवं कुम्भानामुपरि न्यसेत् ।। 162 ।।

श्वेतचामरसंयुक्तं सितमूर्ध्ववितानकम् ।
बद्ध्वा सितेन सूत्रेण सप्तधा कलशाष्टकम् ।। 163 ।।

संवेष्ट्य कण्ठदेशान्तं त्वच्छिन्नेन दृढेन च ।
कृत्वैवं च ततः स्नायात् कुर्यान्न्यासादिकं ततः ।। 164 ।।

निशाम्बुना चन्दनेन श्वेतदूर्वाङ्कुरेण च ।
सुश्लक्ष्णभूर्जपत्रे तु नाम[8] सान्तर्गतं लिखेत् ।। 165 ।।

अरान्तोपगतेनैव कुर्याद् बीजेन संयुतम् ।
कमलं तद्बहिर्लेख्यमष्टपत्रं सकर्णिकम् ।। 166 ।।

नाभितुर्यमधो[9]वक्त्रं वर्ण[10]पत्राष्टकं लिखेत् ।
तदन्तस्तच्चतु[11]र्थान्तं मन्त्रेशं च लिखेत् परम् ।। 167 ।।

नतिप्रणवगर्भं तु ततः कमलबाह्यगम्[12] ।
विलिख्य नेमिनवमं द्विधोर्ध्वाधोमुखं तु वै ।। 168 ।।

संवेष्ट्य सितसूत्रेण अर्घ्य[13]कुम्भे निवेशयेत् ।
आधारे शालिचूर्णीये मण्डलाग्रे निधाय तम् ।। 169 ।।

आवाह्य मण्डले मन्त्रं प्राग्वद् हृदयकोटरात् ।
ततः[14] श्वेतोपचारेण तत्र मन्त्रेश्वरं यजेत् ।। 170 ।।

पूर्णेन्दुमण्डलान्तस्थमुद्गिरन्तं सुधारसम् ।
शशाङ्कशतसङ्काशं ध्यात्वा सपरिवारकम् ।। 171 ।।

यच्छ[15] यच्छ महाशान्तिं पूजान्ते समुदीरयेत् ।
ततः शशाङ्कदिग्भागे कुण्डे पूर्णेन्दुलक्षणे ।। 172 ।।

क्षीरतण्डुलमध्वा[16]ज्यैर्गुग्गुलेन तिलेन च ।
सचन्दनेन होमं तु सप्तरात्रं समारचेत् ।। 173 ।।

पयोभुक् परमेशं च प्रहराष्टकमर्चयेत् ।
होमान्ते कलशस्थस्य पयसा शीतलेन तु ।। 174 ।।

सेचनं चाम्भसा कुर्यात् प्रत्यहं प्रहराष्टकम् ।
स्नानान्ते ब्रह्मरन्ध्रोर्ध्वे संस्मरेन्मन्त्रनायकम् ।। 175 ।।

स्रवन्तममृतं त्वेवं[17] शान्तिर्भवति शाश्वती ।
अथवा[18]ऽऽदाय मृत्पात्रं वैदलं वाऽथ काष्ठजम् ।। 176 ।।

तत्र पङ्कजवत् कुर्याद् रचनामोदनेन च ।
पिष्टनिर्मितपात्राणां सम्प्रज्वाल्य घृतेन तु ।। 177 ।।

दीपाष्टकं ततः पूजां कुर्यात् पूजादिकैर्बलैः ।
स्विन्नानि सप्तबीजानि विकीर्य च तदूर्ध्वतः ।। 178 ।।

ततोऽर्चिते तोयकुम्भे धूपपात्रं तु विन्यसेत् ।
अच्छिन्नधूपप्रसरं त्रैकाल्यं च बलिं हरेत् ।। 179 ।।

शान्त्यर्थं देशपालानां भूतानामेवमेव हि ।
पृष्ठे चोदकघारां वै अत्त्छिन्नां पदसप्तकम् ।। 180 ।।

शान्तये बलिमन्त्राणा[19]मस्त्रमन्त्रेण पातयेत् ।
इति शान्तिविधानं च पौष्टिकं च निबोधतु ।। 181 ।।
पूर्वं शान्तिविधिमाह- ज्ञात्वेत्यारभ्य इति शान्तिविधानं चेत्यन्तम्। शशिना कर्पूरेण। नाम साध्यनामधेयमित्यर्थः। साध्यनामधेयप्रकारः पारमेश्वरे प्रतिपादितः-
साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ।।
तारान्ते बीजशक्तिश्च दैवतं तस्य चेत् ततः ।
शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ।।
द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः ।
यच्छ[20]- यच्छ- पदान्तं वा प्राक्स्थितैः प्रणवान्तिमैः ।।
अङ्कयेदवसाने च साध्यलक्षणमीरितम् ।। (24/116-119) इति।
सान्तर्गतं सकारान्तर्गतमित्यर्थः। अरान्तोपगतेन बीजेन, अनुस्वारेणेत्यर्थः। नाभितुर्यं वकारम्, तच्चतुर्भान्तं नाभिचतुर्थान्तम्, वकारान्तमिति यावत्। मन्त्रेशं श्रीनृसिंहबीजम्। नेमिनवमं टकारमित्यर्थः ।
तथा च प्रयोगः- आदौ स्वशरीरोत्थैर्लौकिकैर्लक्षणैः प्राप्तेन स्वप्नयोगेन च जीवितस्य संस्थितिं ज्ञात्वा सर्वशल्यविनिर्मुक्तं शोभनं स्थानमासाद्य केवले(न) शरजालेन सवस्त्रेण वा समाच्छादितं यागगेहं परिकल्प्य तत्र मध्ये वेदिकायां चन्दनचूर्णमिश्रेण कर्पूरसिहितेन सुगन्धशालिचूर्णेन-
चतुरश्रं चतुर्द्वारं मार्गपीठाब्जभूषितम् ।।
त्रिनाभिनेमिष़डरं चक्रं तु कमलाद् बहिः । (17/49-50)
इत्युक्तलक्षण(ण?णं) मण्डलमालिख्य नि(पु?र्व्रणं) सलक्षणं गालितोद(कं?क)पूर्णं हेमरत्नसर्वोषधिपल्लवदूर्वाफलपूरितं सुधूपिताह[21]तशुक्लवस्त्रपरिवेष्टितं महाकु(म्भ?म्भं) मण्डलस्य बहिः पूर्वभागे आधारचक्रिकोपरि संस्थाप्य तत्परितोऽष्टदिक्ष्वपि तथाविधं कलशाष्टकं विन्यस्य सुधाचन्दनलिप्ताङ्गं तण्डुलपूरितं शुक्लकौशेयपरिवेष्टितकण्ठं शुक्लपुष्पमालिकालङ्कृतं मुक्ताफलोदरं बीजपूरितशरावपिहितमुपकुम्भाष्ट(क?कं) दिक्कलशानामुपरि विन्यस्य यागगेहं श्वेतचामरसंयुक्तसितदुकूल[22]वितानकैरलङ्कृत्याच्छिन्नेन दृढेन सितेन सूत्रेण कलशाष्टकं कण्ठदेशान्तं सप्तवारं परितः संवेष्टयेत्। एवं सर्वोपकरणानि संपाद्य यथाविधि स्नात्वा मन्त्रन्यासादिकं कृत्वा हरिद्रोदकविमिश्रितेन चन्दनेन दूर्वाङ्कुरेण लेखिन्या सुश्लक्ष्णे भूर्जपत्र[23]मध्ये सकारान्तर्गतं साध्यनाम विलिख्य तद्बहिः सकर्णिकमष्टपत्रं कमलं विलिख्य पत्राष्टकेऽधोवक्त्रं वकारं विलिख्य तदन्तः प्रणवनमःसंपुटितं वकारान्वितं नृसिंहबीजं विलिख्य कमलाद् बहिरूर्ध्वमुखमधोमुखं च संख्याहीनं टङ्कारमूर्मिकारूपेण परितः संलिख्य तद्यन्त्रं सितसूत्रेण संवेष्ट्यार्घ्यकुम्भे निधाय मण्डलाग्रे शालिचूर्णपरिकल्पिते स्थण्डिले तं कुम्भं निधाय मण्डले स्वहृदयान्मन्त्रनाथमावाह्य तत्र श्वेतैरुपचारैरभ्यर्च्य पूर्णेन्दुमण्डलान्तस्थं सुधारसमुद्गिरन्तं शशाङ्कशतसंकाशं सपरिवारं मन्त्रनाथं ध्यात्वा पूजान्ते महाशान्तिं यच्छ यच्छेति प्रार्थयेत्। तत उत्तरदिग्भागे पूर्णेन्दुसदृशे वृत्तकुण्डे क्षीरतण्डुलमधुघृतगुग्गुलतिलचन्दनैः[24] सप्तभिर्द्रव्यैः सप्तरात्रं होममाचरन्, केवलपयःप्राशनं कुर्वन्, परमेशं मन्त्रनाथं प्रत्यहं प्रहराष्टकेऽप्यर्चयन्, होमान्ते कलशस्थस्य भगवतः पयसा शीतलोदकेन च प्रहराष्टकेऽपि सेचनं कुर्वन्, प्रत्यहं स्नानान्ते साधकस्य ब्रह्मरन्ध्रोपर्यमृतं स्रवन्तं मन्त्रनाथं स्मरेत्। अनेन शान्तिर्भवति।
अथवा मृण्मयं वैदलं काष्ठजं वा पात्रमादाय तत्र केवलान्नेष्टपत्रं कमलं विरचय्य तद्दलाष्टके पिष्टनिर्मितघृतपूरितप्रज्वा[25]लितदीपाष्टकं विन्यस्य पुष्पादिभिरभ्यर्च्य स्वि[26]न्नानि सप्तविधबीजानि तदुपरि विकीर्यैकं तोयकुम्भमभ्यर्च्य तदुपरि धूपपात्रं निधायाच्छिन्नधूपप्रसरं यथा तथा कालत्रयेऽपि देश[27]पालानां भूतानां बलिं हरेत्। बलिधर्तॄणां पृष्ठे सप्तपदावधि शान्त्यर्थमच्छिन्नां करकोदकधारामस्त्रमन्त्रेण सेचयेत् ।। 155-181 ।।
[1 शल्यादिनि- मु. बक. बख., कल्पा- अ., शाल्या- अटी.।]
[2 मन्त्र- बक.।]
[3 निर्घृणं- अ. अटी.।]
[4 शुक्लेन- अ.।]
[5 कमला- मु. अटी. बक. बख.।]
[6 ङ्गला- मु. अटी. बक. बख.।]
[7 मल्लिक- अ., जामलक- मु.।]
[8 नमसा- अटी.।]
[9 मथो- अटी.।]
[10 वर्णं- अ. उ.।]
[11 र्थ्यन्तं- मु. अटी. बक. बख., र्थस्थं- अ. उ.।]
[12 कम्- बक. बख. अ. उ.।]
[13 अपि- मु., अवि- अटी., उप- अ., अप्कुम्भेऽपि- उ.।]
[14 ततश्चेतोपचारेणातन्त्रं- मु. अटी.।]
[15 यच्च यच्च- मु. अटी. बक. बख.।]
[16 ध्वाज्यगु- उ.।]
[17 चैवं- अ., चैव- उ.।]
[18 अथादाय तु- अ., अथादाय च- उ.।]
[19 शान्त्यर्थी- अ.।]
[20 धर्तॄणां - अ. उ.।]
[21 यच्च यच्च- अ. मु.।]
[22 तं हत- अ.।]
[23 वितत- मु.।]
[24 पत्रे- मु.।]
[25 छन्दैः- अ.।]
[26 प्रज्व- अ.।]
[27 स्विन्नादि- अ.।]
[28 कालानां- - अ.।]

इति शान्तिविधानं च पौष्टिकं च निबोधतु ।। 181 ।।

कुङ्कुमक्षोदमिश्रेण कुसुम्भरजसा तु वै ।
पूर्ववन्मण्डलं कुर्याद् रक्तचन्दनभूषितम् ।। 182 ।।

नीवारतण्डुलेनैव ताम्रवर्णैस्तिलैः[1] शुभैः ।
सम्पूर्य बदरोपेतैरुपकुम्भाष्टकं हि यत् ।। 183 ।।

सोपकुम्भानि कुम्भानि रक्तसूत्रेण वेष्ट्य च ।
शेषं यद्विहितं चात्र तत्तद् रक्तं प्रकल्पयेत् ।। 184 ।।

ततः स्नातः कृतन्यासो नाम रोचनया लिखेत् ।
अलक्तकाम्बुयुक्तेन सान्द्रदर्भाङ्कुरेण तु[2] ।। 185 ।।

पूर्ववत् पद्मगर्भस्थं ततः पत्रेष्वधोमुखम् ।
बीजं नियोजयेत् तन्मे गदतश्चावधारय ।। 186 ।।

नेमेरेकोनविंशाख्यवर्णस्याधोगतं न्यसेत् ।
बीजं नाभितृतीयं यत् तदधः पञ्चमारगम् ।। 187 ।।

शिरसाऽरान्तपूर्वेण युक्तं बाह्याद् दशादिना ।
तदन्तस्थं न्यसेद् बीजं नाभितुर्यासनस्थितम् ।। 188 ।।

नाभिसप्तमगर्भेऽथ विन्यसेत् कमलं तु तत् ।
बीजं पुष्टिपदोपेतं कुरुवीप्सासमन्वितम् ।। 189 ।।

लिखेत् प्रणवपूर्वं तु बहिरष्टासु दिक्षु वै ।
संवेष्ट्य रक्तसूत्रेण मधुतोयघटे न्यसेत् ।। 190 ।।

निधाय पूर्ववत् कुर्याद् दिग्बन्धं हृदयादिकैः ।
अस्त्रेण तु विदिग्बन्धं [3]नेत्रेणोर्ध्वमधस्तथा ।। 191 ।।

ततो विद्रुमसंकाशं मन्त्रमावाह्य संयजेत् ।
अथो[4] मन्त्रगणं सर्वं लोके शास्त्रान्तसंयुतम् ।। 192 ।।

रक्तैरकण्टकैर्हृद्यैरर्चनं कुसुमैर्हितम् ।
राजमुद्गैस्तु नैवेद्यं युक्तमत्र गुलोदनम् ।। 193 ।।

गुलरञ्जितभक्ष्याणि कुर्यान्नानाविधानि वै ।
सम्भवे सति वै रक्तं सर्वं कार्यमसम्भवे ।। 194 ।।

रञ्जयेत् कुङ्कुमाद्येन केनचिद् रक्तधातुना ।
सर्वं जपावसानं तु कृत्वा होमं समाचरेत् ।। 195 ।।

घृतैस्तिलैस्तु पूर्वोक्तैः शर्कराबदरान्वितैः ।
दत्वा पूर्णाहुतिं कुर्यात् सेचनं शर्कराम्भसा ।। 196 ।।

पूर्ववन्मन्त्रनाथस्य साध्यगर्भीकृतस्य च ।
ततः पूर्वोक्तविधिना बलिकर्म समाचरेत् ।। 197 ।।

सप्तरात्रं त्रिरात्रं[5] वा पुष्टिरुत्पद्यते महत् ।
प्रभावान्मन्त्रराजस्य विधिनानेन सर्वदा ।। 198 ।।
इति शान्तिविधिः ।।
अथ पौष्टिकविधिमाह- पौष्टिकं च निबोधतु इत्यारभ्य विधिनानेन सर्वदेत्यन्तम्। नाम साध्यनामधेयम्। पूर्ववत् पद्मगर्भस्थं लिखेत्, कर्णिकामध्ये लिखेदित्यर्थः। नेमेरेकोनविंशाख्यवर्णस्य बकारस्य नाभितृतीयं बीजं लकारं पञ्चमारगम् उकारमरान्तपूर्वेणानुस्वारेण बाह्याद् दशादिना टकारेणेत्यर्थः। नाभितुर्यासनस्थितं पूर्ववद् वकारस्योपरि स्थितं बीजं नृसिंहबीजं तदन्तस्थं न्यसेत्, कर्णिकामध्ये विलिखेदित्यर्थः। नाभिसप्तमगर्भे सकारगर्भे इत्यर्थः। बीजं नृसिंहबीजम्। पुष्टिपदोपेतं कुरुवीप्सासमन्वितं पुष्टिं कुरु कुरु इत्यनेनान्वितमित्यर्थः ।
तथा च प्रयोगः- कुङ्कुमक्षोदमिश्रेण कुसुम्भरजसा पूर्ववन्मण्डलमालिख्य रक्त[6]चन्द्रकभूषितं कृत्वा कुम्भस्थापनादिकं सर्वं पूर्ववत् कृत्वोपकुम्भाष्टकं तु नीवारतण्डुलैस्ताम्रवर्णैस्तिलैर्बदरीफलैरापूर्य दिक्कुम्भानामुपरि संस्थाप्य (तां?तान्) रक्तसूत्रेण सप्तधा संवेष्टयेत्। अन्यच्चोपयुक्तं यद्यत् तत्सर्वमपि कल्पयेत्। ततः स्नात्वा कृतन्यासादिकोऽलक्तकाम्बुमिश्रया रोचनया दृढदूर्वाङ्कुरेण लेखिन्या भूर्जपत्रे पद्मगर्भमध्ये साध्यनाम विलिख्याष्टपत्रेष्वधोमुखं ब्लूमिति बीजं विलिख्य परितः पूर्ववत् टङ्कारं विलिख्य पूर्ववद् वकारान्वितं नृसिंहबीजं कर्णिकान्तिर्विलिख्य तत्कमलं सकारगर्भे विन्यस्य तदष्टदिक्षु ॐ पुष्टिं कुरु कुर्विति विलिख्य तद्यन्त्रं रक्तसूत्रेण संवेष्ट्य मधुतोयकुम्भे विन्यस्य तं पूर्वोक्तस्थाने निधाय हृदादिभिश्चतुर्मन्त्रैः प्रागादिदिक्चतुष्टयमस्त्रमन्त्रेण विदिक्चतुष्टयमस्त्रमन्त्रेणाध ऊर्ध्वं च बद्ध्वा ततो देवमावाह्य [7]विद्रुमाभं ध्वात्वा पूर्वं मण्डलोक्तेन परिवारमन्त्रगणेन सह रक्तवर्णैः कुसुमादिभी राजमुद्गाख्यैर्बीजैर्गुलोदनैर्गुलरञ्जित[8]भक्ष्यैश्च यथाविधि देवं यजेत्। एवं च सर्वमुपचारगणं रक्तवर्णं कुर्यात्। तदसंभवे कुङ्कुमादिना गैरिकादिधातुना वा रक्तीकुर्यात्। एवं जपयज्ञान्तमभ्यर्च्य घृतैः शर्कराबदरफलान्वितैस्ताम्रवर्णैस्तिलैश्च यथाविधि पूर्णाहुत्यन्तं हुत्वा पूर्ववत् कुम्भस्थस्य देवस्य शर्कराम्भसा सेचनं कृत्वा पूर्वोक्तरीत्या बलिकर्म च कुर्यात्। एवं सप्तरात्रं त्रिरात्रं वा कृते मन्त्रमहिम्ना महती पुष्टिरुत्पद्यते ।। 181-198 ।।
[1 सितैः- मु.।]
[2 च- बख. उ.।]
[3 नेत्रेण तु अधोर्ध्वतः- अ. उ.।]
[4 अथ- बख. उ., तथा- अ.।]
[5 द्विरात्रं- अ.।]
[6 चन्दनेति मूलस्थः पाठः।]
[7 विद्रुमाङ्गं- अ.।]
[8 रञ्जिते- अ.।]

अथानेन हि मन्त्रेण कुर्यादाप्यायनं तु वै ।
परस्य[1] चात्मनो मन्त्री यथा तदवधारय ।। 199 ।।

मण्डलं मण्डनायुक्तं[2] चतुर्वर्णकभूषितम् ।
वस्त्रस्रग्दर्पणोपेतं किङ्किणीव्य[3]जनान्वितम् ।। 200 ।।

घृतेन मधुना दध्ना पयसा सुश्रुतेन च ।
व्यस्तेन उपकुम्भौ तु द्वौ द्वौ सम्पूर्य यत्नतः ।। 201 ।।

मधूकफलकर्पूरद्राक्षामलफलैस्ततः[4] ।
पात्राण्यापूर्य कुम्भानां वक्त्रदेशे निधाय च ।। 202 ।।

साङ्कुराणि शरावाणि सिक्तानि शिशिराम्भसा ।
सुधाचन्दनलिप्तानि सितपुष्पान्वितानि च ।। 203 ।।

चर्चितानि सितार्घ्येण[5] योज्य कुम्भान्तरावनेः ।
सितरक्तं तु हेमाभं पुष्पाद्यमखिलं हि यत् ।। 204 ।।

उपचारे तु विहितं तदादृत्याखिलं तु वै ।
कृताह्निकः शुद्धवासाः[6] सिंहमन्त्राभिधानधृक् ।। 205 ।।

सकुङ्कुमेन क्षीरेण ईषदिक्षुरसेन च ।
तथा च मधुना भूर्जे वस्त्रे वा सार्णमध्यगम् ।। 206 ।।

दत्वा संज्ञापदं[7] कुर्याद् बाह्ये पद्मं चतुर्दलम् ।
तद्बहिर्द्विगुणैः पत्रैः कर्णिकाकेसरान्वितम् ।। 207 ।।

द्विषट्कपत्रं तदनु तद्बहिः षोडशच्छदम् ।
ततस्त्रिरष्टपत्रं तु तद्बाह्ये वृत्तमालिखेत् ।। 208 ।।

अधोमुखं तु सर्वेषां दलानां बीजपञ्चकम् ।
क्रमेण पूर्वपद्मात् तु योजनीयं हि तच्छृणु ।। 209 ।।

नाभिसप्तमवर्णं यन्नाभितुर्योपरि[8] स्थितम् ।
उत्तराधरयोगेन तदेवादाय वै पुनः ।। 210 ।।

अथ नाभितृतीयं तु [9]अधो द्वाभ्यां तु विन्यसेत् ।
अधःस्थं सप्तमं नाभेस्तच्चतुर्थं तु मूर्धनि ।। 211 ।।

ततः सप्तममादाय तृतीयं तदधो न्यसेत् ।
तदधो नेमिवर्णाच्च योजयेदूनविंशकम् ।। 212 ।।

भूयो नेमेस्तथादाय नाभिसप्तमपृष्ठगम् ।
तस्याप्यधस्तृतीयं तु[10] नाभिदेशाच्च विन्यसेत् ।। 213 ।।

सर्वेषां नाभिपूर्वं तु पञ्चमारगसंयुतम् ।
निदध्यादासनं पश्चाच्छिरसा लाञ्छयेत् क्रमात् ।। 214 ।।

नवमेन तु वै नेमेररोपान्त्यगतेन तु ।
नाभीयतुर्यवर्णान्तं[11] प्राग्वन्मध्येऽत्र[12] मन्त्रराट् ।। 215 ।।

वौषट्पदद्वयान्त[13]स्थमथ बीजं हि केवलम् ।
दलान्तरालभूमौ तु चतुष्पत्रस्य योजयेत् ।। 216 ।।

अरावसानसंभिन्नं कृत्वा वै नाभिसप्तमम् ।
तेन युक्तं तथा दद्यादष्टपत्रस्य सन्धिषु ।। 217 ।।

तेनैव नाभितुर्यं[14] तु भेदयित्वा तदन्तगम्[15] ।।
कृत्वा[15] बीजवरं कुर्याद् द्विषट्पत्रान्तरालगम् ।। 218 ।।

वषट्कारपदोपेतं बीजं शीताम्बु[16]सन्निभम् ।
न्यसेत् षोडशपत्रस्य सन्धिदेशगतं ततः ।। 219 ।।

नाभेः सप्तमबीजं तु तच्चतुर्थासनस्थितम् ।
अराच्चतुर्धशेनैव[17] तदन्तेनाभिभूषितम् ।। 220 ।।

एतत्सम्पुटमध्यस्थं क्षरन्तममृतं महत् ।
पूर्ववद् बाह्यपद्मस्य प्रादक्षिण्येन विन्यसेत् ।। 221 ।।

नाभितुर्यमथादाय स्थितं तत्सप्तमोपरि ।
नेमेर्नवमबीजेन अरा[18]न्ताद्येन चाङ्कयेत् ।। 222 ।।

बीजमेतन्नियोक्तव्यं संख्याहीनं निरन्तरम् ।
ऊर्मिभूतं बहिष्ठस्य पयोजा[19]वरणस्य च ।। 223 ।।

लिख्यैवं[20] सितरक्तेन पीतसूत्रेण वेष्टयेत् ।
मध्विक्षुरस आम्रा[21]म्बुपूर्णकुम्भे[22] नियोज्य च ।। 224 ।।

चन्दनेन समालिप्तं[23] कृत्वा पुष्पस्रगन्वितम् ।
तन्निधायोदिते स्थाने ततो मन्त्रेश्वरं यजेत् ।। 225 ।।

हृत्पुण्डरीकमध्यस्थं परिवारसमन्वितम् ।
स्वच्छस्फटिकवर्णाभं हिमादधिकशीतलम् ।। 226 ।।

ध्यायेत् तं ब्रह्मरन्ध्रोर्ध्वे सितं पद्ममधोमुखम् ।
तत्कर्णिकोदरे लीनं स्मरेद् गगनमण्डलम् ।। 227 ।।

प्रकाशितं निशानाथमयूखाखिलतारकैः ।
विक्षिप्तवाहैराकीर्णं सुरसिन्धुविनिर्गमैः ।। 228 ।।

अथार्घ्यपुष्पपूर्वाणां भोगानामर्चने विभोः ।
प्रागुक्तानां क्रमेणैव [24]अनुसन्धानमाचरेत् ।। 229 ।।

यं यं संकल्पयेद् भोगं तं तं भाव्य सुधामयम् ।
पतन्तमम्बराद् वेगादमृतांशुपरिप्लुतम् ।। 230 ।।

साक्षादमृतरूपस्तु[25] तैस्तैरमृतसम्भवैः ।
बृंहितं मुदितं मग्नं संप्लुतं मन्त्रराट् स्मरेत् ।। 231 ।।

ततोऽवतार्य हृदयात् साधनेन यजेद् बहिः ।
इष्ट्[26]वाऽथ वह्निगर्भस्थं ध्यात्वा सन्तर्पयेत् ततः ।। 232 ।।

सामलैराज्यसिक्तैस्तु विल्वैर्दूवाङ्कुरैर्नवैः ।
तिलैर्गोक्षीरसंयुक्तैर्लाजतण्डुलमिश्रितैः ।। 233 ।।

सिताज्यपुष्पसंयुक्तैर्दद्यात् पूर्णाहुतिं ततः ।
मधुक्षीरोदकेनाथ कुर्याद् द्वै मन्त्रसेचनम् ।। 234 ।।

घृतेन पाय[27]सान्नेन[28] पायसेन फलैः शुभैः ।
पूर्ववद् बलिदानं तु कुर्यादाप्यायनं भवेत् ।। 235 ।।

इति पौष्टिकविधिः ।।
अथाप्यायनविधिमाह- अथानेन हि मन्त्रेणेत्यारभ्य कुर्यादाप्यायनं भवेदित्यन्तम्। सार्णमध्यगं सकारान्तर्गतमित्यर्थः। संज्ञापदं साध्यनामधेयमित्यर्थः। नाभिसप्तमवर्णं यत् सकारः, नाभितुर्योपरि स्थितं वकारोपरि स्थितमित्यर्थः। इदं प्रथमबीजम्। उत्तराधरयोगेन तदेवादाय[29] वैः पुनः। सकारस्याधो वकारं संयोज्येत्यर्थः। इदं द्वितीयबीजम्। नाभितृतीयं लकारं द्वाभ्यामधः, वक्ष्यमाणसकारवकारयोरित्यर्थः। तत्रापि नाभेः सप्तमं सकाराख्यं वर्णम्, अधःस्थम्, तच्चतुर्थँ वकाराख्यं वर्णं मूर्धनि। इदं तृतीयबीजम्। सप्तमं सकारम्, तृतीयं लकारम्, नेमिवर्गादूनविंशकं बकारम्। इदं चतुर्थबीजम्। भूयो नेमेस्तमादाय[30] सकारमादायेत्यर्थः। नाभिसप्तमपृष्ठगं सकारोपरि स्थितमित्यर्थः। नाभिदेशात् तृतीयं लकारमित्यर्थः। इदं पञ्चमपृष्ठगं सकारोपरि स्थितमित्यर्थः। नाभिदेशात् तृतीयं लकारमित्यर्थः। इदं पञ्चमबीजम्। सर्वेषां पञ्च(म?)बीजानामित्यर्थः। पञ्चमारगसंयुतम् उकारान्वितं नाभिपूर्वं यकारम् आसनं निदध्याद् अधः संयोजयेदित्यर्थः। अरोपान्त्यगतेन अनुस्वारान्वितेन नेमेर्नवमेन टकारेण शिरसा लाञ्छयेत् टकारमुपरि न्यसेदित्यर्थः। नाभीयतुर्यवर्णान्तं प्राग्वन्मध्येऽत्र मन्त्रराट्। प्राग्वत् शान्तिकपौष्टिकोक्तवदित्यर्थः। मध्ये कर्णिकामध्ये नाभीयतुरीयवर्णान्तं[31] वकारान्तमित्यर्थः। मन्त्रराट् नृसिंहबीजमित्यर्थः। वौषट्पदद्वयान्तस्थमित्यपि मन्त्रराडित्यस्यैव विशेषणम्। केवलं बीजं वकाररहितं नृसिंहबीजमित्यर्थः। अरावसानसंभिन्नं विसर्गान्तमित्यर्थः। नाभिसप्तमं सकारम्, तेन युक्तं नृसिंहबीजमित्यर्थः। नाभेः सप्तमबीजं सकारम्, तच्चतुर्थासनस्थितं वकारोपरि स्थितम् । अराच्चतुर्दशेन औकारेण, तदन्तेनानुस्वारेण। एतत्संपुटमध्यस्थं स्वामित्यक्षरद्वयसंपुटितं नृसिंहबीजमित्यनुषङ्गः। नाभितुर्यं वकारम्, तत्सप्तमोपरि स्थितं सकारोपरि स्थितमित्यर्थः। नेमेर्नवमबीजेन टकारेण, अरान्ताद्येन अनुस्वारेणेत्यर्थः।
अथ प्रयोगः- अत्र पूर्वोक्तमेव मण्डलं चतुर्वर्णभूषितं परिकल्प्य तद्यागस्थानं वितानपुष्पमालादर्पणकिङ्गिणीचामरव्यजनादिभिरल्ङ्कृत्य घृतेन मधुना दध्ना सुश्रितक्षीरेण च प्रत्येकं द्वौ द्वावुपकुम्भौ संपूर्य मधूकफलकर्पूरद्राक्षामलकफलैः शरावाण्यापूर्यतान्युपकुम्भमुखेषु संस्थाप्य शिरोमन्त्रेणाम्भसा सिक्तानि सुधाचन्दनलिप्तानि सितपुष्पान्वितानि सितार्घ्येणार्चितानि साङ्कुराणि शरावाणि दिक्कुम्भान्तरालेषु संस्थाप्यात्रोपयुक्तं पुष्पादिकं सर्वं सितरक्तं हेमाभं चाहरेत्। ततः कृताह्निकः शुद्धवासाः साधको मन्त्रन्यासादिकं कृत्वा नृसिंहोऽहमिति तदभिमानमाश्रित्य सकुङ्कुमेन क्षीरेणेषदिक्षुरसमधुभ्यां विमिश्रितेन भूर्जपत्रे सकारान्तर्गतं साध्यनामधेयं विलिख्य तद्बहिश्चतुर्दलपद्मं तद्बहिः कर्णिकाकेसरान्वितमष्टदलं पद्मं तद्बहिर्द्वादशदलं पद्मं तद्बहिः षोडशदलं पद्मं तद्बहिश्चतुर्विंशतिदलं पद्मं[32] तद्बहिरेकं वृत्तं चालिख्य चतुर्दलेषु स्म्युंट् इति बीजम्, अष्टदलेषु प्स्युंट् इति बीजम्, द्वादशदलेषु स्फ्युट् इति बीजम्, षोडशदलेषु स्प्युट् इति बीजम्[33], चतुर्विंशतिदलेषु स्फ्युट् इति बीजं चाधोमुखं विलिखेत्, कर्णिकामध्ये वौषट् क्ष्वौं वौषट् इति विलिख्य चतुर्दशान्तरालेषु क्षौं इति केवलं नृसिंहबीजं विलिख्याष्टपत्रान्तरालेषु क्षः इति बीजं विलिख्य, द्वादशपत्रान्तरालेषु क्ष्वः इति। विलिख्य, [34]षोडशदलान्तरालेषु वषट् क्षौं वषट् इति विलिख्य, चतुर्विंशतिदलान्तरालेषु स्वौं क्षौं स्वौं इति विलिख्य, वृत्ताद् बहिः प्संट् इति बीजं प्रादक्षिण्येन निरन्तरं संख्याहीनमूर्मिभूतं विलिख्य तद्यन्त्रं सितरक्तेन पीतसूत्रेण संवेष्ट्य मध्विक्षुरसपू(र्वां?र्ण)पूर्णकुम्भे निधाय तं कुम्भं चन्दनैरालिप्य पुष्पमाल्यैरलङ्कृत्य पूर्वोक्ते स्थाने निधाय स्वहृदयकमले समस्तपरिवारसमन्वितं स्वच्छस्फटिकसंनिभं हिमादधिकशीतलं श्रीमन्नृसिंहं ध्यात्वा तद्ब्रह्मरन्ध्रोपरि स्थितमधोमुखं पद्मं ध्यात्वा तत्कर्णिकायां परिपूर्णेन्दुमण्डलनक्षत्रवृन्दमन्दाकिनीप्रवाहैराकीर्णं गगनमण्डलं संस्मृत्य
ततः खाब्जकमध्यात्तु ह्यूर्ध्वस्थां संस्मरेच्च्युताम् ।
गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ।। (2/74)
अर्घ्यादिभोगैरभ्यर्च्य ततः स्वहृदयाद् देवमवतार्य कुम्भे[35] मण्डले च यथाविधि समभ्यर्च्याग्नौ देवमावाह्य सामलकैराज्यसिक्तैर्विल्वैर्दूर्वाङ्कुरैर्गोक्षीरसंयुक्तैर्लाजतण्डुलमिश्रितैः सिताज्यपुष्पसंयुक्तैस्तिलैश्च संतर्प्य पूर्णाहुतिं दत्वा प्राग्वन्मधुक्षीरोदकेन यन्त्रस्थस्य मन्त्रनाथस्य सेचनं कृत्वा घृतेन [36]पायसान्नेन पायसेन फलैश्च पूर्ववद् बलिदानं कुर्यात्। अनेन आप्यायनं भवति ।। 199-235 ।।
(इत्याप्यायनविधिः।।)

[1 परस्येवा- मु., परस्यैवा- अटी., परस्य वा- अ., परमस्यात्मनो- उ.।]
[2 मधुना- मु. अटी.।]
[3 व्यञ्जन- मु.।]
[4 युतम्- बक. बख. अ. उ.।]
[5 र्युतः - अ.।]
[6 द्येन- उ.।]
[7 शुक्ल- मु. अटी. बक. बख.।]
[8 पनं- बक. बख. उ.।]
[9 दयस्थि- अ.।]
[10 अधोर्ध्वाभ्यां- अ. उ.।]
[11 च- बक. बख. उ.।]
[12 वर्णानामिति सार्वत्रिकः पाठः।]
[13 ध्येऽथ- अ.।]
[14 पदा- अ.।]
[15 र्यात्तु- अ.।]
[16 कम्- अटी., रम्- अ.।]
[17 पङ्क्तिरेषा नास्ति- उ.।]
[18 पीता- मु. अटी.।]
[19 आरा- मु.।]
[20 अन्तरा- बक. उ.।]
[21 वयो- अ.।]
[22 पङ्क्तिद्वयं नास्ति- उ.।]
[23 दूर्वा- बक. बख., आर्द्वा- अ.।]
[24 कुम्भं - अ.।]
[25 लब्धं- अ. उ.।]
[26 समावृतम्- अ. उ.।]
[27 नाथं- बक. बख. उ.।]
[28 त्वनु- अ. उ.।]
[29 रूपैस्तु- अ.उ.।]
[30 दृष्ट्वा- उ.।]
[31 पयसा- मु. अटी. बक. बख. अ.।]
[32 तेन- अ.।]
[33 माधाय- मु.।]
[34 स्तदादाय- मु.।]
[35 तुर्य- मु.।]
[36 `पद्मं' नास्ति- अ.।]
[37 `बीजम्' नास्ति- अ.।]
[38 `षोडशदलेषु स्प्युट् इति चतुर्विंशतिदलेषु स्फ्युट् इति बीजम्' वारद्वयं लिखितम्- अ.।]
[39 कुम्भम- अ.।]
[40 पयसा- अ.।]

अथ रक्षाविधानं तु वक्ष्ये सम्यग् यथास्थितम् ।
येन विज्ञातमात्रेण नीरुजः सर्वदा भवेत् ।। 236 ।।

सामान्यं सर्वदोषाणां ज्ञातानां च निवारणे ।
अज्ञातानां विशेषेण तत् सम्यगवधारय ।। 237 ।।

ताराग्रहोपतापेन धातुर्वैषम्यमेति वै ।
तद्वैषम्यात् प्रकुप्यन्ति व्याधयस्तु ज्वरादयः ।। 238 ।।

तत्कोपावसरेणैव ब्रह्मरक्षोमुखा ग्रहाः ।
शाकि[1]न्यो भूतवेतालाः संक्रामन्ति हि देहिनः[2] ।। 239 ।।

निमित्तं विद्धि सर्वेषां कर्म यद् वै पुरा कृतम् ।
सामर्थ्येन तु मन्त्रेण ज्ञानेन तपसा च[3] वै ।। 240 ।।

जपा[4]ऽध्ययनहोमेन दानेन विविधेन च ।
मन्त्रौषध्युपयोगेन सहसा नाशमेति तत् ।। 241 ।।

प्राधान्येन तु सर्वेषां मन्त्र[5]मत्रानुतिष्ठति ।
यस्य स्मरणमात्रेण नाविशन्ति ग्रहादयः ।। 242 ।।

कृत्वाधारं यथोक्तं तु यजनार्थँ नृकेसरेः ।
बीजैः सिद्धार्थकोपेतैरुपकुम्भानि पूर्य च ।। 243 ।।

वक्त्रेष्वप्युपकुम्भानां सफलानि[6] नियोज्य च ।
तिलसर्ष[7]पपूर्णानि पात्राणि[8] विततानि[9] च ।। 244 ।।

सुसमं तद्बहिर्दद्याद् दिक्षु लोहशराष्टकम् ।
कण्ठ[10]देशेषु बध्नीयाच्छराणां[11] दृढतन्तुना ।। 245 ।।

बर्हि[12]पक्षसमायुक्तां सर्पकञ्चुकभूषिताम् ।
महौषधीं भूतजटां शमीशाखासमन्विताम् ।। 246 ।।

पञ्चरागेण[13] सूत्रेण उदगाशादितः क्रमात् ।
प्रादक्षिण्येन तु त्रेधा वेष्टयेत् तच्छराष्टकम्[14] ।। 247 ।।

अष्टानां पूर्णकुम्भानामन्तरान्तरयोगतः ।
दद्यादुच्चासनस्थं तु दीपाष्टकमनुक्रमात् ।। 248 ।।

तैलेन राजिकाख्येन ताम्रपात्रस्थितास्तु वै ।
पीदानां वर्तयो देया महाराजतरञ्जिताः[15] ।। 249 ।।

अथ[16] बद्धशिखो मौमीं प्राग्वद् दिग्बन्धमाचरेत् ।
अभिसन्धाय मनसा सर्वदोषपलायनम् ।। 250 ।।

संयजेन्मन्त्रनाथं तु काम्यैर्बहुविधैः शुभैः ।
पुष्पैर्धूपैस्तु नैवेद्यैर्भक्ष्यैः सफल[17]मूलकैः ।। 251 ।।

हुत्वाऽथ[18] सर्वबीजानि सिद्धार्थकयुतानि च ।
राजिकाघृतयुक्तानि तिलानि सफलानि च ।। 252 ।।

ध्यात्वा[19] पूर्णाहुतिं दद्यान्मध्याह्नसमये ततः ।
रक्ष्यं सुनिर्मलं कृत्वा पूर्वमभ्यञ्जनादिकैः ।। 253 ।।

हेमर(क्तौ?त्नौ)षधिस्नानैः प्रोक्षयित्वा प्रवेश्य च ।
ताडयित्वाऽस्त्रपुष्पेण आपादात् [20]संनिरीक्ष्य च ।। 254 ।।

नतजानुशिरः कृत्वा देवाय विनिवेदयेत् ।
उत्तराभिमुखं कृत्वा आसने परिघान्विते[21] ।। 255 ।।

अस्त्रोपलक्षिते चैव तथार्घ्यादिसमन्विते ।
षडङ्गेनाथ मन्त्रेण तस्य न्यासं समाचरेत् ।। 256 ।।

मनसा करशाखासु स्वस्थानेष्वथ विग्रहे ।
सचक्रमथ तस्याग्रे षट्कोणं मण्डलं लिखेत् ।। 257 ।।

वृतं ज्वालागणेनैव ततस्तत्र निवेशयेत् ।
प्रागुक्तरचनाढ्यं[22] तु सुपूर्णं[23] गन्धवारिणा ।। 258 ।।

सप्तकं कलशानां तु मध्ये योज्यं तदक्षिषु ।
अश्रिभ्यामन्तरालस्थं दीपषट्कं यथा पुरा ।। 259 ।।

कृत्वा मध्य[24]कुम्भे तु साङ्गं मन्त्रेश्वरं यजेत् ।
नमो नृसिंहभूतेभ्यः प्रणवाद्येन पूजयेत् ।। 260 ।।

कोणेषु भगवद्भक्तनिचयं[25] दोषनाशनम् ।
पूजयित्वा यथान्यायं पुष्पधूपादिकेन वै ।। 261 ।।

दिग्बन्धमथ वै कुर्यात् सास्त्रैः सिद्धार्थकैः क्रमात् ।
ताडयेदातुरं पश्चादा पादान्मस्तकावधि ।। 262 ।।

स्वपाणिव्यजनेनाथ समाकृष्य विनिक्षिपेत् ।
दोषजालं च तद्देहाद्[26] गगने वा धरातले ।। 263 ।।

ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् ।
तस्मिन्निरिन्धने कुर्याद् होमं सिद्धार्थकैस्तिलैः[27] ।। 264 ।।

मूलमन्त्रेण वास्त्रेण[28] शताष्टाधिकसंख्यया ।
अमुकं रक्ष रक्षेति स्वाहाशब्द[29]समन्वितम् ।। 265 ।।

मन्त्रान्ते तु पदं कुर्याद् भ्रामयेन्मूर्ध्नि चाहुतिम् ।
महिषाक्षमथादाय सिद्धार्थकसमन्वितम्[30] ।। 266 ।।

प्रजप्य धूपयेत् तं वै कृत्वा च्छन्नं तु वाससा ।
निधाय सजलं पात्रमग्निपात्रोपगं ततः ।। 267 ।।

नैवेद्यशेषमन्यस्मिन् सर्वमुद्धृत्य सोदकम् ।
पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ।। 268 ।।

धात्वाश्रितानां[31] दोषाणां मनसा परिकल्पितम् ।
यदीय[32]मस्य[33] वै बाध[34]मिन्द्रियाणां च धातुषु ।। 269 ।।

आदाय च बलिं शश्वत् सिंहसत्येन[35] मुञ्चतु ।
अन्तरान्तरयोगेन वामदक्षिणपाणिना ।। 270 ।।

असंख्यामाचरेद् होमं बलियुक्तं प्रदक्षिणैः ।
बलिपाणिमथ क्षाल्य अस्त्रजप्तेन[36] वारिणा ।। 271 ।।

भूतिमादाय वै कुण्डाद् दग्ध[37]गोमयजं तु वा ।
प्रजप्य बहुशोऽस्त्रेण ललाटादङ्घ्रिगोचरम् ।। 272 ।।

कार्याणि चोर्ध्वपुण्ड्राणि पृष्ठे[38] पार्श्वद्वयेऽपि[39] वा ।
स्वस्त्यस्तु ते युतेनाथ मन्त्रेणार्घ्योदकेन तु ।। 273 ।।

मन्त्रकुम्भात् समेतेन विप्रुड्भिर्ह्लादयेदनु[40] ।
ध्यात्वा पूर्णेन्दुगं मन्त्रं पूर्णचन्द्रायुतोपमम् ।। 274 ।।

ब्रह्मरन्ध्रे[41] तु साध्यस्य स्रवन्तममृतं महत् ।
शरीरविटपं तेन सेचयेच्च नखावधि ।। 275 ।।

एवं कृत्वाऽर्चयेद् भूयो [42]मन्त्रं मण्डलकुम्भगम्[43] ।
कुम्भं[44] तं शयनागरे ऊर्ध्वदेशे निधाय वै ।। 276 ।।

वस्त्रपीठोपरिस्थं तु च्छन्नं कृत्वा तु वाससा ।
तत्रापि दिग्विदिक्स्थं च दद्यात् पूर्णघटाष्टकम् ।। 277 ।।

अच्छिन्नप्रसरं धूपं दीपपात्रं घृतादिना ।
फलपुष्पौषधीदीपला[45]जासिद्धार्थकं दधि[46] ।। 278 ।।

पात्रसङ्घं तदग्रे तु कृत्वा चाथ बलिं हरेत् ।
निशामुखे तु सम्प्राप्ते सर्व[47]दोषप्रशान्तये ।। 279 ।।

एकस्मिन् वै समादाय पात्रे यत् कल्पितं विभोः ।
आयुष्यधूपदीपाच्च उपसंगृह्य यत्नतः ।। 280 ।।

तद्[48]भूतदत्तमन्यस्मिन् षण्णां वा तत्पृथक् पृथक् ।
स्वदीपालङ्कृतं कृत्वा स्वघटोपरि[49] विन्यसेत् ।। 281 ।।

रक्षरक्षपदोपेतं मन्त्रमस्त्रयुतं स्मरेत् ।
रक्ष्यस्य शिरसि भ्राम्य यथा दत्तं क्रमेण तु ।। 282 ।।

सत्त्वशुद्धांस्तथा भूयो [50]मद्भक्तान् बलिवाहकान् ।
अस्त्राभिमन्त्रितान्[51] दद्यात् तेषां सिद्धार्थकान्[52] करे ।। 283 ।।

प्रजप्य भस्मना कुर्याल्ललाटे तिलकं तु वै ।
प्रवाहयेद्[53] बलिं [54]मन्त्री ह्यगाधेऽम्भसि वै पुरा ।। 284 ।।

चत्वरे वृक्षमूलेऽथ ग्रामाद् वा नगराद् बहिः ।
देवभूतबलिक्षेपो विहितश्चात्र कर्मणि ।। 285 ।।

धूमायन्तं[55] च सिद्धार्थैर्वह्निपात्रं पुरोदितम् ।
तेनैव बलिपात्रेण सोदकेन समन्वितम् ।। 286 ।।

त्यजेत् कूपसमीपे तु वाप्यां वा निकटे तरोः ।
बलिं[56] क्षिप्त्वा समाचम्य धौताङ्घ्रिकरपल्लवः ।। 287 ।।

रक्ष्यावनौ सुलिप्तायां परितः शोधितस्य च ।
तन्मूर्ध्नि दीपपात्रे[57] च सिद्धार्थक्षेपमाचरेत् ।। 288 ।।

प्रजप्य बहुशोऽस्त्रेण मूलसम्पुटितेन च ।
बध्नीयात् सप्तरात्रं तु प्रत्यहं तस्य चाम्बरे ।। 289 ।।

कृतेनानेन विधिना पीडितानां सदैव हि ।
रक्षणं रसधातूनां[58] शश्वदेव हि जायते ।। 290 ।।

ततः प्रलिप्ते भूभागे कुशाजिनसमावृते ।
कृतन्यासः स्वयं तिष्ठेद् रक्ष्यागारे सहायवान् ।। 291 ।।

पयोभुग् वा निराहारो ध्यानजप्यपरायणः ।
आदिमध्यावसानस्थं[59] रात्र्यंशेषु समाचरेत् ।। 292 ।।

पूजनं हवनं[60] सम्यग् बलिदानसमन्वितम् ।
सक्तुना सोदकेनैव मधुनाऽथ[61] घृतेन च[62] ।। 293 ।।

पूर्वभागे तु यामिन्यामतीते[63] विहितो बलिः ।
यवगोधूमशाल्युत्थचूर्णेन सगुडाम्भसा ।। 294 ।।

त्रि[64]प्रकाराणि संवर्त्य मोदकानि तु पाणिना ।
वृत्तदीपशिखाकारैस्तुल्यान्याम्रफलस्य च ।। 295 ।।

क्षीरयुक्तैरपक्वैस्तैर्मध्य[65]रात्र्यां[66] बलिं हरेत् ।
सुमर्दितैस्तिलैः[67] कृष्णैर्बीजैः पाकविवर्जितैः ।। 296 ।।

तण्डुलै रजनीचूणैर्दध्ना दूर्वाङ्कुरैः फलैः ।
व्यतीतायां तु शर्वर्यां बलिं रक्षागृहाद् बहिः ।। 297 ।।

मार्गैकदेशे निक्षिप्य चत्वरे[68] वापि शोधिते ।
अथाभिमन्त्र्य बीजानि सप्तधान्यानि मल्लके ।। 298 ।।

दद्याद् द्विजेन्द्रकन्यायै[69] तत्सकाशात् समाहरेत् ।
तिस्रः प्रसृतयः पात्र एकस्मिन् सप्त चापरे ।। 299 ।।

एकादश ततोऽन्यस्मिन् घटे पात्रत्रयं ततः[70] ।
अस्त्रसम्पुटितेनैव सिंहबीजेन मन्त्रवित् ।। 300 ।।

शतमष्टाधिकं चैव द्विगुणं त्रिगुणं क्रमात् ।
तेन तोयघटानां तु उद्धृत्योद्धृत्य निक्षिपेत् ।। 301 ।।

एकं स्थले जले चान्ये प्रातर्मध्यं दिनक्षये ।
आ समाप्तेरिदं कुर्यात् सामान्यं भूततर्पणम् ।। 302 ।।

ततोऽपरस्मिन्नहनि इष्ट्वा मन्त्रं तु मण्डले ।
हुत्वा यथाविधानेन दत्वा पूर्णाहुतिं तु वै ।। 303 ।।

सितेन[71] शालिचूर्णेन अष्टाश्रं मण्डलं लिखेत् ।
तन्मध्ये शङ्खमध्यस्थं कमलं लिख्य षड्दलम् ।। 304 ।।

दद्याद् घटाष्टकं बाह्ये प्राग्वद् दीपसमन्वितम् ।
अवतार्य च तन्मध्ये रक्षाकुम्भं शिरःस्थितम् ।। 305 ।।

अपनीय पुरा तस्मादर्घ्यमाल्यानुलेपनम् ।
शीतलोदकधारां[72] च पूरणार्थं परां[73] क्षिपेत् ।। 306 ।।

यथा यथा क्षयं याति तत्रस्थमुदकं तु वै ।
तथा तथा भवेद् वृद्धी रक्ष्यस्याखिलधातुषु ।। 307 ।।

स्रग्वस्त्रार्घ्या[74]नुलेपाद्यैर्नवैः[75] कृत्वार्चितं तु तम् ।
ततः सम्पूज्य तन्मध्ये मन्त्रनाथं यथा पुरा ।। 308 ।।

रक्तधातोर्भवेद् येन नृणामुपचयो महान् ।
मन्त्रदत्तेन सुरभिनैवेद्येनाथ तर्पयेत् ।। 309 ।।

अर्घ्यं पुष्पं रजो धूपं दीपं [76]यन्मन्त्रयोजितम् ।
तत्सर्वमुपसंहृत्य नित्यमम्भसि निक्षिपेत् ।। 310 ।।

शेषस्य विनियोगं तु प्रागुक्तं सर्वमाचरेत् ।
तृतीयेऽह्नि ततः कुर्याच्चतुरश्रं तु मण्डलम् ।। 311 ।।

षट्कोणं चैव तन्मध्ये पुरमुल्लिख्य साम्बुजम् ।
तत्र कुम्भसमूहं तु तस्माद् दीपान्तरीकृतम् ।। 312 ।।

इष्ट्वा तु मन्त्रदत्तेन तर्पयेद् ब्राह्मणांस्तु वै ।
वृत्तमण्डलमध्ये तु चतुर्थेऽहनि संलिखेत् ।। 313 ।।

अष्टारं[77] दीप्तिमच्चक्रं वह्निवेश्म तदन्तरे ।
तत्रेष्ट्वा मन्त्रमूर्तिं तु कृत्वा रक्षां यथा पुरा ।। 314 ।।


द्विजेन्द्रजां कुमारीं च तथा ब्राह्मणदारिकाम्[78] ।
पूजयित्वा यथान्यायं ताभ्यां यच्छेन्निवेदितम् ।। 315 ।।

अथाष्टकोणं कुर्वीत मण्डलं पञ्चमेऽहनि ।
शङ्खं तदन्तरे कुर्याच्छङ्खस्योदरगं लिखेत् ।। 316 ।।

सनाभिवेदिपञ्चारं भूतावासं च हेतिराट् ।
सकुम्भानां च दीपानां प्राक् कृत्वा विनियोजनम्[79] ।। 317 ।।

विविधैः पूजयेद् देवं नैवेद्यैः कुसुमादिकैः ।
देवोपभुक्तमन्नं[80] तु क्षिप्त्वा प्रागुक्तमाचरेत् ।। 318 ।।

अथ षष्ठे दिने कुर्यात् त्रिकोणं[81] भुवनान्तरे ।
सप्तारं तु महाचक्रं सप्तलोकमयं हि यत् ।। 319 ।।

तदन्तरे चतुर्दिक्षु[82] गदाद्वन्द्वद्वयं लिखेत् ।
तन्मध्ये तद्घटान्तःस्थं यजेन्मन्त्रं यथाविधि ।। 320 ।।

इष्ट्वा नैवेद्यमादाय उच्चस्थाने निधाय तत्[83] ।
उपभोगं [84]यदाऽऽयाति काकादेः खेचरेषु च ।। 321 ।।

चतुरश्रं चतुर्द्वारं मण्डलं सप्तमेऽहनि ।
कुर्यात् कोणचतुष्के तु लिखेच्छङ्खचतुष्टयम् ।। 322 ।।

तत्र मध्ये लिखेत् पद्ममसंख्यदलभूषितम् ।
तत्कर्णिकाश्रितं चक्रं द्वादशारं विलिख्य च ।। 323 ।।

अष्टदिक्ष्वष्टकं दद्यात् कलशानां सदीपकम् ।
तत्र षड्दिवसोर्ध्वं तु विनियोगं समाचरेत् ।। 324 ।।

नैवेद्यस्य च मन्त्रज्ञो दक्षिणाभिः समन्वितम् ।
एवं मांसादिधातूनां क्रमादुपचयो भवेत् ।। 325 ।।

महिषोऽजो गुडं चैव हरिणः शशकस्तथा ।
मयूरश्चक्रवाकस्तु सप्ताहं सप्तकं[85] तु वै ।। 326 ।।

देह[86]धात्वाश्रितानां तु सत्त्वानां पिशिताशिनाम् ।
रसोद्यपीष्टैः सम्पाद्यं न सजीवं हि [87]जङ्गमम् ।। 327 ।।

स्वार्थतो वा परार्थेन श्रेयसेऽभिनिवेशिना ।
प्राणिहिंसा न कार्या वै विशेषाज्जीवितैषिणाम् ।। 328 ।।

आयुषः क्षयमायाति नूनं प्राणिवधान्नृणाम् ।
भूताभयप्रदानेन आयुषो वृद्धिमाप्नुयात् ।। 329 ।।

आयुरारोग्यमैश्वर्यमपमृत्युजयं महत्[88] ।
बलमोजो धृतिर्धैर्यं स्यान्मन्त्रान्न[89] परायुषः ।। 330 ।।

मन्त्रपूजा जपो होमो दानं हेमगवादिनाम् ।
ऐहिकामुष्मिकीं वृद्धिं सत्त्वस्थानां करोति च ।। 331 ।।

मण्डलस्थं ततः क्षान्त्वा[90] ह्यतीते सप्तमे दिने ।
रजांसि बलयो वान्यत् प्राग्वदादाय संत्यजेत् ।। 332 ।।

इति रक्षाविधानं तु सरुजानामुदाहृतम् ।
अथ रोगार्तानां रक्षाविधिमाह- अथ रक्षाविधानं त्विति प्रक्रम्य सरुजानामुदाहृतमित्यन्तम् ।
प्रयोगः- श्रीनृसिंहाराधनार्थं पूर्ववन्मण्डलं कुम्भं च संस्थाप्योपकुम्भांस्तु श्वेतसर्षपोपेतैर्बीजैरापूर्य (तदपियानशरीरान्? तत्पिधानशरावान्) सफलसर्षपतिलैरापूर्य तद्बहिरष्टदिक्षु सुसमं लोहमयं बाणाष्टकं निधाय तान् दृढेन तन्तुना कण्ठदेशे बद्ध्वा बर्हिप[91]क्षसमायुक्तं[92] सर्पनिर्मुक्तकञ्चुकभूषितं महौषध्या भूतजटया शमीशाखया च समन्वितं तद् बाणाष्टकं पञ्चवर्णेन सूत्रेणोत्तरदिशमारभ्य प्रादक्षिण्येन त्रेधा संवेष्ट्याष्टानां पूर्णकुम्भानामन्तरालेषून्नतासनस्थितं राजिकाख्येन तैलेन पूरितं ताम्रपात्रस्थितं महाराजतरञ्जितवर्तियुक्तं दीपाष्टकं विन्यस्य स्नातो बद्धशिखो मौनी साधकः प्राग्वद् दिग्बन्धं कृत्वा सर्वदोषपलायनं संकल्प्य मन्त्रनाथं श्रीमन्नृसिंहं काम्यैर्बहुविधैः शुभैः पुष्पैर्धूपैः फलैर्मूलैर्नैवेद्यैर्भक्ष्यैश्च यथाविधि समभ्यर्च्याग्निमध्ये च देवं सिद्धार्थान्वितैः सर्वबीजै राजिकाघृतयुक्तैः सफलैस्तिलैश्च सन्तर्प्यातुरमापादाद् मस्तकावध्यस्त्रपुष्पैः संताड्य नेत्रमन्त्रेण संनिरीक्ष्य नतजानुशिरः कृत्वा भगवते निवेद्य परिघान्वितेऽस्त्रेणाभिमन्त्रितेऽर्घ्याद्यभ्यर्चिते आसने तं समुपवेश्य षडङ्गेन श्रीमन्नृसिंहमन्त्रेण तस्य हस्तयोर्देहे च यथाविधि न्यासं मनसा कृत्वा तस्याग्रे सचक्रं षट्कोणं मण्डलमालिख्य तत्र पूर्वोक्तं रचनापरिष्कृतं गन्धवारिणा पूर्णं कलशसप्तकं मध्ये षट्कोणेषु च संस्थाप्य कोणान्तरालेषु पूर्वोक्तरीत्या दीपाष्टकं च निधाय मध्यकुम्भे साङ्गं मन्त्रनाथं समभ्यर्च्य कोणस्थकलशेषु ॐ नृसिंहभूतेभ्यो नम इति सर्वदोषनाशनं नृसिंहभूतगणं समभ्यर्च्यास्त्राभिमन्त्रितैः सिद्धार्थैर्दिग्बन्धं कृत्वा पुनरातुरं पुष्पैः संताड्य स्वपाणिव्यजनेन तद्दोषगणं सर्वं तद्देहान्मनसा समाकृष्य गगने धरातले वा विनिक्षिप्य निर्धूममतिदीप्तिमदग्निपात्रमादाय निरिन्धने तस्मिन्नग्नौ सिद्धार्थकैस्तिलैश्चाष्टोत्तरशतसंख्ययाऽमुकं रक्ष रक्ष स्वाहेत्यन्तेन मूलमन्त्रेणास्त्रमन्त्रेण वा जुहुयात्। प्रत्याहुत्याहुतिद्रव्यं तन्मूर्ध्नः परितो भ्रामयेत्। सिद्धार्थकसमन्वितं महिषाक्षगुग्गुलुमादाय मूलमन्त्रेण धूपयित्वाऽऽतुरं वाससाऽऽच्छाद्य सजलं पात्रमग्निपात्रसमीपे निधायाऽन्यस्मिन् पात्रे नैवेद्यशेषं सर्वं निधाय कुङ्कुमादिना रक्तीकृत्य सोदकं तदन्नं समुद्धृत्याऽऽतुरस्य धात्वाश्रितानां दोषाणामयं पशुप्रतिनिधिर्बलिरिति मनसा संकल्प्य,
यदीयमस्य वै बाधमिन्द्रियाणां च धातुषु ।।
आदाय च बलिं शश्वत् सिंहसत्येन मुञ्चतु । (17/269-270)
इत्युच्चरन् बलिं दद्यात्। बलेर्मध्ये मध्ये वामदक्षिणपाणिनाऽसंख्यातं होमं च कुर्वन् बलिदानार्थं प्रदक्षिणीकुर्यात्। अथास्त्रजप्तेन वारिणा पाणिं प्रक्षाल्याथ कुण्डस्थां भूमिं दग्धगोमयजां भूतिं वाऽऽदाय बहुशोऽस्त्रमन्त्रेणाभिमन्त्र्य आतुरस्य ललाटादङ्घ्रिपर्यन्तमूर्ध्वपुण्ड्राणि कृत्वा ॐ क्षौं नमः, ॐ नमो भगवते नरसिंहाय स्वस्त्यस्तु ते इति कुम्भोदकसमन्वितार्घ्योदकबिन्दुभिः संप्रोक्ष्य तद्ब्रह्मरन्ध्रे पूर्णचन्द्रमण्डलमध्यस्थं पूर्णचन्द्रायुतोपमं महदमृतं स्रवन्तं मन्त्रनाथं ध्यात्वा तदमृतेन तच्छरीरं संसिक्तं[93] च ध्यात्वा कुम्भस्थं मण्डलस्थं च देवं पुनरभ्यर्च्य सदिक्कुम्भं सोपकलशं तं महाकुम्भमातुरस्य शयनागारे शिरःप्रदेशे वस्त्र[94]पीठोपरि निधाय[95] वस्त्रेणाच्छाद्याऽविच्छिन्नप्रसरं धूपपात्रं दीपपात्राणि च यथापूर्वं निधाय[96] फलपुष्पौषधीदीपलाजकसिद्धार्थकदधिपात्राणि तत्पुरतो निधाय निशामुखे प्राप्ते बलिहरणं कुर्यात् ।
तत्प्रकारः- पूर्वं षट्कोणमण्डलस्थापितकलशेषु मध्यकुम्भस्थस्य भगवतोऽर्चनार्थं पुष्पधूपदीपादिकं यद्यत् परिकल्पितं तत्सर्वमेवस्मिन् पात्रे संगृह्य तत्परितः षट्कलशस्थितानां नृसिंहभूतानां दत्तं पुष्पधूपदीपादिक[97]मस्मिन् पात्रे पृथक् पृथक् षट्सु पात्रेषु वा निधाय तत्तत्पात्रं स्वस्वदीपालङ्कृतं कृत्वा तत्तत्कुम्भोपरि विन्यस्य ॐ क्षः वीर्यायास्त्राय फट्, अमुकं रक्ष रक्षेति मन्त्रं स्मरन् तत्कुम्भान् रक्ष्यस्य शिरसि यथाक्रमं पृथक् पृथक् परिभ्राम्य सात्त्विकान् भगवद्भक्तान् बलिवाहकानाहूय तेषां करेऽऽस्त्राभिमन्त्रितान् सिद्धार्थकान् दत्वाऽत्रमन्त्रेण भस्मना ललाटे तिलकं दत्वा तैर्बलिं वाहयित्वाऽगाधजले चत्वरे वृक्षमूले ग्रामान्नगराद् वा बहिश्च देवभूतबलिक्षेपं कुर्यात्। सिद्धार्थैर्धूमायमानं पूर्वोक्तं वह्निपात्रं जलपात्रं च तेन बलिपात्रेण सहैव त्यजेत्। एवं कूपसमीपे वापीसमोपे वृक्षसमीपे बलिं प्रक्षिप्य पाणिपादौ प्रक्षाल्याऽऽचम्य सुलिप्तायां भूमौ शायितस्य रक्ष्यस्य परितस्तन्मूर्ध्नि दीपमात्रे चास्त्रमन्त्रेण सिद्धार्थान् प्रक्षिप्य मूलमन्त्रसंपुटितेन चास्त्रमन्त्रेण बहुशोऽभिमन्त्रितं सिद्धार्थं सप्तरात्रं प्रत्यहं रक्ष्यस्य वस्त्रे च बध्नीयान्। एवं कृते व्याधिपीडितानां रक्षणं सिद्ध्यति। ततो रक्ष्यस्य गृहे प्रलिप्ते भूभागे कुशाजिनासने स्वयं समुपविश्य कृतमन्त्रन्यासः सहायवान् पयोभुग् निराहारो वा जपध्यानपरायणः सन् रात्रेरादिमध्यावसानेषु पूर्वोक्तप्रकारेण [98]पूजनं हवनं बलिदानं च कुर्यात्।
बलिदाने विशेषः- रात्रेः पूर्वभागे सोदकेन सक्तुना मधुना घृतेन च बलिं दद्यात्। मध्यरात्रौ यवगोधूमशालिचूर्णेन गुडोदकमिश्रितेन वृत्ताकारदीपशिखाकाराम्रफला[99]काराणि [100]त्रिप्रकाराणि मोदकानि पाणिना कृत्वा क्षीरयुक्तैरपक्वैस्तैर्मोदकैर्बलिं दद्यात्। रात्र्यवसाने त्वपक्वैः संमर्दितैः कृष्णैस्तिलैर्बीजैस्तण्डुलैर्हरिद्राचूर्णैर्दधिदूर्वाङ्कुरफलैश्च रक्षागृहाद् बहिर्मार्गैकदेशे चत्वरे वा शोधिते स्थले बलिं दद्यात्।
अथ सप्तधान्यान्यादाय मूलमन्त्रेणाभिमन्त्र्य शरावे निधाय द्विजेन्द्रकन्यायै दत्वा तत्सकाशादेकस्मिन् पात्रे त्रिप्रसृतिमितानि बीजान्यन्यस्मिन् पात्रे सप्तप्रसृतिमितानि पुनरन्यस्मिन् पात्रे एकादशप्रसृतिमितानि च बीजानि समाहरेत्। ततस्तत्पात्रत्रयं क्रमेणोदकैरापूर्यास्त्रमन्त्रसंपुटितेन श्रीनृसिंहबीजेन प्रथमं कुम्भमष्टोत्तरशतवारं द्वितीयं द्विगुणं तृतीयं त्रिगुणं चाभिमन्त्र्य तेष्वेकं कुम्भमुद्धृत्य प्रातःकाले स्थले निक्षिपेत्। अन्यं कुम्भमुद्धृत्य मध्याह्ने जले निक्षिपेत्। पुनरन्यं कुम्भमुद्धृत्य सायंकालेऽपि जले निक्षिपेत्। समाप्तिदिनपर्यन्तं प्रत्यहमेवं समान्यतो भूततर्पणं कुर्यात्।
ततोऽपरस्मिन् दिने यथाविधि मण्डलस्थं देवमभ्यर्च्याग्नौ च देवं पूर्णाहुत्यन्तं संतर्प्य गोमयोपलिप्ते[101] स्थले सितेन चूर्णेन मण्डलमालिख्य तन्मध्ये शङ्खं तन्मध्ये षड्दलकमलं च विलिख्य पूर्वं शयनागारे शिरःप्रदेशे स्थापितदिक्कुम्भाष्टकमस्मिन् मण्डलेऽष्टाश्रेषु दीपैः सह संस्थाप्य मध्यकुम्भं मण्डलमध्ये निधाय तस्मात् पूर्वदिनार्पितार्घ्यपुष्पमाल्यादीन्यपनीय तत्कुम्भस्थले शोषिते सति शीतलोदकधारया पूर्ववत् पूरयेत्, कुम्भस्थमुदकं प्रत्यहं यथा यथा शोषं याति, तथा तथा रक्ष्यस्य धातुवृद्धिर्भवति। अथाभिनवैः स्रग्वस्त्रार्घ्यगन्धाद्यैरलङ्कृत्य तत्र मन्त्रनाथं यथापूर्वं संपूज्य रक्तधातुवृद्धिकरैर्मन्त्रपूतैः सुरभिनैवेद्यैर्देवं संतर्प्य पूजानन्तरमर्घ्यपुष्परजोधूपदीपादिकं सर्वमुपसंहृत्य नित्यमगाधेऽम्भसि निक्षिपेत्। शेषस्य विनियोगं च प्रागुक्तरीत्या कुर्यात्।
ततस्तृतीयेऽहनि चतुरश्रं मण्डलमालिख्य तत्र षट्कोणं पुरं विलिख्य तन्मध्ये पद्मं च विलिख्य तत्र कलशसमूहं पूर्ववत् संस्थाप्य तदन्तरालेषु दीपांश्च निधाय यथापूर्वं समभ्यर्च्य भगवन्निवेदितैर्हविरादिभिर्ब्राह्मणान् संतर्पयेत्। चतुर्थेऽहनि वृत्तमण्डलमालिख्य[102] तत्र नाभिनेमिसमन्वितं पञ्चारं चक्रं विलिख्य तत्र मध्ये महाकुम्भं परितो दिक्कुम्भान् तयोर्मध्ये मध्ये दीपांश्च विन्यस्य विविधैर्नैवेद्यैः पुष्पादिभिश्च तत्र देवमभ्यर्च्य तदुपभुक्तं हविरादिकं सर्वमग्नौ प्रक्षिप्यान्यत् सर्वं पूर्ववत् कुर्यात्[103]।
अथ षष्ठे दिने त्रिकोणं मण्डलमालिख्य तन्मध्ये सप्तारं महाचक्रं विलिख्य तदन्तरे चतुर्दिक्षु गदाचतुष्टयं विलिख्य तन्मध्ये महाकुम्भस्थं देवं यथाविधि समभ्यर्च्य तन्निवेदितान्नादिकं काकादिपक्षिणामुपभोगार्थमुन्नतस्थाने निक्षिपेत्। अथ सप्तमेऽहनिचतुरश्रं चतुर्द्वारं मण्डलमालिख्य तत्कोणचतुष्टये शङ्खचतुष्टयं विलिख्य तन्मध्येऽसंख्यातदलं पद्मं विलिख्य तत्कर्णिकाश्रितं द्वादशारं चक्रं विलिख्य तत्राष्टदिक्षु दीपान्तरितानष्टकुम्भान् मध्ये महाकुम्भं च निधाय तत्र यथाविधि देवमभ्यर्च्य तन्निवेदितान्नादेर्विनियोगं षष्ठदिनोक्तवत्, कुर्यात्। एवं सप्तदिनार्चनादिभिः- "रसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः" (अ. हृ. सू. 1/18) इत्युक्तानां सप्तधातूनां क्रमेण वृद्धिर्भवति। देहधात्वाश्रितानां मांसाशनानां सत्त्वानां बल्यर्थं सप्तदिनेष्वपि क्रमेण महिषमजं गुडं हरिणं शशकं मयूरं चक्रवाकं च संपादयेत्। किन्त्वेतान् महिषादीन्-
पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ।।
धात्वाश्रितानां दोषाणां मनसा परिकल्पितम् । (17/268-269)
इति पूर्वोक्तप्र(करणे?कारेण) पिष्टपशुरूपान् कुर्यात्। साक्षात् प(शु?शू)नायुष्कामो न हन्यात्। ततः सप्तमे दिनेऽतीते मण्डलादिस्थितं देवं क्षान्त्वा मण्डलीयरजांसि बल्यादींश्चादाय प्राग्वत् त्यजेत् ।। 236-333 ।।
[1 डाकिन्यो- बक. बख. अ. उ.।]
[2 नम्- अ. ।]
[3 महत्- अ. उ.।]
[4 द्विजाय ध्यान- अ., द्विजे च ध्यान- उ.।]
[5 मन्त्रं मात्रा- अ., मन्त्रमात्रा- उ.।]
[6 सु- उ.।]
[7 सर्षपतिल- बक. बख. अ. उ.।]
[8 पत्राणि- मु. अटी. बक. बख.।]
[9 विविधानि- उ. अटी.।]
[10 क्रोडदेशे तु - अ. उ.।]
[11 च्चाराणां - अटी.।]
[12 बहिः - बक. बख. अ.।]
[13 रङ्गेण- बक. बख. अ. उ.।]
[14 तच्चरा- अटी.।]
[15 राजित- अटी.।]
[16 स्नात इति भाष्यानुसारी पाठः।]
[17 `सफल.............तिलानि' नास्ति- उ.।]
[18 जुहुयात्- अ., भुक्त्वाऽथ - अटी.।]
[19 पङ्क्तित्रयं नास्ति- बक. बख. उ.।]
[20 सुनि- मु. अटी.।]
[21 परिखा- उ.।]
[22 रञ्च- बक. बख. अ.।]
[23 सम्पूर्णं- उ.।]
[24 च मध्यकुम्भे- अ.।]
[25 वद्भूत- बक. बख. अ. उ.।]
[26 तद्दोषान्- मु. अटी.।]
[27 कैः क्रमात्- मु. अटी.।]
[28 चा- मु. अटी., सा- अ.उ.।]
[29 शक्ति- मु. अटी.।]
[30 षाक्षी- मु. अटी.।]
[31 ताम्- मु. अटी.।]
[32 ध्यात्वेति सार्वत्रिकः पाठः।]
[33 पङ्क्तिद्वयं नास्ति- उ.।]
[34 या चास्य - मु. अटी.।]
[35 बाधा- मु. अटी.।]
[36 वक्त्रे तु - मु. अटी.।]
[37 दीप्तेन- बक. बख. उ.।]
[38 अथ- मु. अटी.।]
[39 पृष्ठ- मु. अटी.।]
[40 ये तु च - मु. अटी. उ.।]
[41 ह्लादयेन तु - अ. उ.।]
[42 रन्ध्रेण- मु. अटी.।]
[43 मन्त्रमण्डलमध्यगम्- अटी.।]
[44 कम्- अ. उ.।]
[45 कुम्भस्थं- बक. बख. अ. उ.।]
[46 जाल- मु. अटी., लाज- अ.। ]
[47 दधौ- मु. अटी.।]
[48 सम्यग्- बक.।]
[49 तद्वद् भूदत्त- अ.।]
[50 वाथ- अ.।]
[51 कटो- मु. अटी.।]
[52 भक्तांश्च- बक. अ. उ., भक्तान् स्व- बख.।]
[53 तं- मु. अटी.।]
[54 कं- मु. अटी.।]
[55 प्रभाव- बक. बख. उ.।]
[56 मान्त्रम- बक. बख. अ. उ.।]
[57 यितं- अ., धूमायमानमिति भाष्यानुसारी पाठः।]
[58 बलं- मु.।]
[59 पात्रैश्च- मु. अटी., पात्रेण- अ.।]
[60 तोऽन्तः- अ. उ.।]
[61 विमले- मु. अटी.।]
[62 नेषु- इति शोभनः पाठः स्यात्।]
[63 रात्रिशेषं- बक. बख. उ.।]
[64 वहनं- मु. अटी.।]
[65 ना च- अटी. अ.।]
[66 वा- अ.।]
[67 मतीतो- मु. अटी. अ.।]
[68 त्रिः- बक. बख.।]
[69 र्मध्ये- बक. बख. अ. उ.।]
[70 रात्र्या- अ. उ.।]
[71 समं- बक. बख. उ.।]
[72 रे पापशो- अ.।]
[73 दत्वा- मु. अटी. बक. बख. अ.।]
[74 यास्त- मु. अटी. बक. बख. उ.।]
[75 तु तत्- अ. उ.।]
[76 नालिख्य चू- बक. बख. उ.।]
[77 धाराश्च- मु. अटी. बक. बख.।]
[78 परि- बक. बख., परं- अ. उ.।]
[79 ख्या- मु. बक. बख.।]
[80 र्नैव- मु. अटी. बक. बख.।]
[81 तन्म- उ.।]
[82 पङ्क्तिषट्कं नास्ति- बक. बख. उ.। भाष्यकारेणापीमे त्रयः श्लोका न व्याख्याताः, किन्तु तत्र पञ्चमदिवसीयं कृत्यं किमिति न दृश्यते। श्लोकानामेतेषामाधारेण ज्ञायते यद्भाष्यकारेण पञ्चमदिवसीयं कृत्यमेव चतुर्थदिवसीयकृत्यरूपेण व्याख्यातमिति। ]
[83 काः- मु. अटी.।]
[84 तदङ्कुशे- अ.।]
[85 नेमि- बक. बख. उ.।]
[86 जातावासं- मु. अटी.।]
[87 योजयेत्- बक. बख. अ. उ.।]
[88 मग्नौ- अ. उ.।]
[89 कोणभु- मु. अटी. बक. बख. अ. ।]
[90 च तद्दिक्षु- मु. अटी. बक. बख.।]
[91 यत्- बक. बख. अ. उ.।]
[92 याति चैव- मु. अटी.।]
[93 तन्तु- उ.।]
[94 देवं- मु. अटी. बक. बख. उ., देयं - अ.।]
[95 रसाद्यभीष्टैः- अटी., रसादिविष्टैः- बक. बख., रसाद्यपिष्टैः- अ. उ.।]
[96 सज- अ.।]
[97 षिणा- अ.।]
[98 अत्रैव सप्तदशपरिच्छेदसमाप्तिः- अ.। इतः परमष्टादशपरिच्छेदसमाप्तिपर्यन्तो भागस्तत्र न दृश्यते।]
[99 त्रान्तत्प- बक., त्रात्तप- बख., न्मन्त्रं न - उ.।]
[100 होमगवादिकम्- बक., हेमगवा- बख. उ.।]
[101 क्षिप्त्वा- मु. अटी.।]
[102 वक्ष- अ.।]
[103 युक्त- अ.।]
[104 समसिक्तं- अ.।]
[105 अस्त्र- अ.।]
[106 निधाय वस्त्रोपरि निधाय- अ.।]
[107 पौष्पौ- अ.।]
[108 अन्यस्मिन्- अ.।]
[109 `पूजनं हवनं' नास्ति- अ., पूजनं भवनबलि- मु.।]
[110 फलकारणानि- अ.।]
[111 `त्रिप्रकाराणि' नास्ति- मु.।]
[112 योल्लिप्तस्थले- अ.।]
[113 अत्र ग्रन्थपातः प्रतीयते, इतः परं श्लोकत्रयव्याख्यानं परित्यज्य पञ्चमदिवसीयकृत्यस्य व्याख्यानात्, अड्यारमातृकायामनुपदमेव तदुल्लेखाच्च।]
[114 मातृकामामत्र ग्रन्थपातः- अ.। वस्तुतस्त्वत्र नास्त्येव ग्रन्थपातः, आनुपूर्व्या श्लोकानां व्याख्यानदर्शनात्, म. मातृकायां ग्रन्थपातस्यानुल्लेखाच्च। अतः पूर्वत्र श्लोकत्रयव्याख्यानस्थल एव ग्रन्थपातः संभाव्यते।]

नीरुजानां विशेषेण रक्षणं[1] भोगसेविनाम् ।। 333 ।।

क्रियारतानां भक्तानामास्तिकानां हितैषिणाम् ।
कार्यं क्रियापरेणैव मन्त्रज्ञेन सदैव हि ।। 334 ।।

यत्रानेन विधानेन शरीरमपि रक्ष्यते ।
तत्र भूताः प्रयच्छन्ति कल्याणं [2]सर्वलौकिकम् ।। 335 ।।

अथ सन्धारणीं रक्षां वक्ष्ये विग्रहभूषणम् ।
या सम्पन्ने क्रियामात्रे धारणादेव रक्षति ।। 336 ।।

प्रणवाद्य[3]न्तसंरुद्धं प्राग्वत् संज्ञापदं लिखेत् ।
संज्ञा[4]धारं हि तद्बीजं विन्यसेत् प्रणवोदरे ।। 337 ।।

तेनावर्तं त्रिधा[5] कुर्यात् सर्वं तत् सिंहकुक्षिगम् ।
नेमेर्दशमबीजेन बीजराट् परिवेष्ट्यते ।। 338 ।।

औकाररहितं बीजं नाभिसप्तमसंस्थितम् ।
भिन्नं सर्वारसंस्थैस्तु कृत्वा तेन प्रपूर्य तम् ।। 339 ।।

कमलं तद्बहिः कुर्यात् षड्दलं व्योमभूषितम् ।
हृदाद्यं नेत्रपर्यन्तं पत्रषट्के तु विन्यसेत् ।। 340 ।।

प्रणवेन चतुर्दिक्षु संरुद्धं नाम संलिखेत् ।
रक्षवीप्सापदोपेतं पत्रसन्धिषु षट्स्वथ[6] ।। 341 ।।

द्वादशारं बहिश्चक्रं नाभिनेमियुतं लिखेत् ।
नाभेरष्टमबीजं यत् तदरेष्वन्तरा[7] न्यसेत् ।। 342 ।।

सप्तमाद् दशमं यावद्[8] वर्जयित्वा अराक्षरम्[9] ।
क्रमेण भेदयेच्छेषैस्त[10]दरार्णैः सबिन्दुकैः ।। 343 ।।

जहिवीप्सापदं दोषानमुकस्येति विन्यसेत् ।
सर्वेषामन्तरालेषु अस्त्रमन्त्रं तु पूर्ववत् ।। 344 ।।

अमुकं पाहि पाहीति द्वादशाक्षरमध्यगम् ।
चक्रनाभौ तु विन्यस्य नेमिदेशे तथैव हि ।। 345 ।।

क्रमादथ बहिर्लिख्य[11] मन्त्रचक्रस्य यत्नतः ।
वृत्तत्र्यश्रार्धचन्द्राणि[12] चतुरश्रपुराणि च ।। 346 ।।

बिन्दुस्वस्तिककह्लारवज्रसंलाञ्छितानि च ।
नाभिपूर्वद्वितीयेन चतुर्थेन तदादिना[13] ।। 347 ।।

क्रमाद् वर्णचतुष्केण तानि युक्तानि कारयेत् ।
सषडङ्गेन बीजेन नाम रक्षपदानुगम् ।। 348 ।।

सम्पुटीकृत्य वृत्ताख्यं मण्डलं परिपूरयेत् ।
द्वादशार्णेन बाह्यस्थं तृतीयं पूर्य पूर्ववत् ।। 349 ।।

द्वितीयं वा[14] चतुर्थं तु बहिदिक्ष्वष्टके क्रमात् ।
रक्षवीप्सापदोपेतं नामवर्जं नियोजयेत् ।। 350 ।।

सह रोचनया[15] योज्य कर्पूंरं कुङ्कुमं तु वै ।
क्षीरेण कापिलेनाथ तद्गोमयरसेन च ।। 351 ।।

निशाम्बुना समालोड्य निम्नगासलिलेन वा ।
विलिख्य भूर्जपत्रे[16] वा बर्हिपक्षेण वासरे[17 ] ।। 352 ।।

शुभेऽनुकूले नक्षत्रे सुलग्नेऽभ्युदिते ग्रहे ।
पूज्य संवेष्ट्य सूत्रेण ततः सद्धातुना तु वै ।। 353 ।।

सन्धार्य[18] मूर्ध्नि कण्ठे[19] वा सततं दक्षिणे भुजे ।
दैवदोषविमुक्तस्तु वर्द्धते शोकवर्जितः ।। 354 ।।

अधि[20]भूतैर्भयैर्मुक्तो यावज्जीवं हि तिष्ठति ।
परार्थतो वा स्वार्थेन कृतकृत्यो यदा भवेत् ।। 355 ।।

दोषवान्[21] शान्तिदेनैव कर्मणाऽनेन साधुना ।
मन्त्री तदा मन्त्रवरं प्रयत्नेन क्षमापयेत् ।। 356 ।।

सिद्ध्यर्थमन्यसिद्धीनां यागहोमजपादिना ।

इत्यातुराणां रक्षाविधानमुक्तम्।।

अथानातुराणामपि रक्षाविधिमाह- नीरुजानां विशेषेणेत्यारभ्य यागहोमजपादिनेत्यन्तम्। दैवदोषविमुक्त आधिदैविकतापविमुक्त इत्यर्थः। आधिदैविको नाम शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवस्तापः। शोकवर्जित आध्यात्मिकतापविमुक्त इत्यर्थः। शोकपदमाध्यात्मिकानामन्येषामप्युपलक्षणम्। आध्यात्मिको नाम-
कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ।। (वि. पु. 6/5/5)
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।
गुल्मार्शः[22]श्वयथुश्वासच्छर्द्यादिभिरनेकधा ।।
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः । (वि. पु. 6/5/3-4)
इत्युक्तस्तापः। अधिभूतमयैर्मुक्त आधिभौतिकतापविवर्जित इत्यर्थः। आधिभौतिको नाम-
पशुपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जन्यन्ते[23] चाधिभौतिकाः ।। (वि. पु. 6/5/7)
इत्युक्तस्तापः। तथा च प्रयोगः-
शुभेऽनुकूले नक्षत्रे शुभे ग्रहेऽभ्युदिते सुलग्ने स्नातः कृतमन्त्रन्यासः साधको रोचनाकर्पूरकुङ्कुमानि कपिलाक्षीरेण तद्गोमयरसेन च हरिद्रोदकेन नदीजलेन च समालोड्य तत्कुङ्कुमादिपङ्कं बर्हिपक्षलेखिन्या समादाय भूर्जपत्रादौ वक्ष्यमाणप्रकारेण [24]विलिखेत्। प्रणवसंपुटितं साध्यनामधेयं श्रीनृसिंहबीजगर्भं विलिख्य तद्बीजं प्रणवगर्भे यथा भवेत् तथा विलिख्य पुनस्तत्प्रणवं बीजगर्भस्थं कृत्वा पुनस्तद्बीजं प्रणवमध्यगतं कृत्वैवं त्रिधावर्तानन्तरं तत्सर्वं बीजगर्भगतं कृत्वा तद्बीजं नेमेर्दशमबीजेन लकारेण परिवेष्ट्यौकाररहितं नृसिंहबीजं नाभिसप्तमसंस्थितं सकारोपरि संस्थितं सर्वारसंस्थितैरकारादिविसर्गान्तैः स्वरैर्विभिन्नं च कृत्वा तेन तं प्रपूर्य तद्बहिर्व्योमभूषितं षड्दलं कमलं विलिख्य तद्दलेषु हृदादिनेत्रान्तान् षण्मन्त्रान् विलिख्य चतुर्दिक्ष्वपि प्रणवसंपुटितं रक्ष्यस्य नामधेयं रक्ष रक्षेति पदान्वितं पत्रसन्धिषट्केऽपि विलिख्य तद्बहिर्नाभिनेमिसमन्वितं द्वादशारं चक्रं विलिख्य नाभेरष्टमबीजं हकारं सप्ताष्टमनवमदशमस्वरान् विहायावशिष्टैरकारादिविसर्गान्तैर्द्वादशस्वरैर्भिन्नं कृत्वा द्वादशारेष्वपि क्रमेण लिखेत्। अराणामन्तरालेषु ॐ क्षः वीर्याय अस्त्राय फट् अमुकस्य दोषान् जहि जहीति विलिखेत्। चक्रस्य नाभिदेशे नेमिभागे च नृसिंहद्वादशाक्षरसंपुटितममुकं पाहि पाहीति विलिखेत्। ततस्तन्मन्त्रचक्रस्य बहिर्बिन्दुभूषितं वृत्तमण्डलं तद्बहिः स्वस्तिकभूषितं त्र्यश्रमण्डलं तद्बहिः कह्लारभूषितमर्धचन्द्राकारं मण्डलं तद्बहिर्वज्रलाञ्छितं चतुरश्रं मण्डलं च विलिख्य नाभिपूर्वं यकारं वायुबीजं पूर्वोक्ते वृत्तमण्डले तद्द्वितीयं रेफमग्निबीजं त्रिकोणमण्डले तच्चतुर्थममृतं बीजमर्धचन्द्राकारमण्डले तत्तृतीयं पार्थिवबीजं चतुरश्रमण्डले च विलिख्य वृत्तमण्डले सषडङ्गेन बीजेन संपुटीकृतममुकनामधेयं रक्षेति पदद्वयं विलिखेत्। तथैवार्धचन्द्राकारमण्डलेऽपि द्वादशाक्षरसंपुटितममुकं रक्षेति पदद्वयं विलिखेत्। पुनस्त्र्यश्रमण्डले वृत्तमण्डलवच्चतुरश्रमण्डलेऽर्धचन्द्राकारमण्डलवच्च विलिख्य बहिः प्राच्याद्यष्टदिक्षु रक्ष रक्षेति केवलं नामवर्जितं[25] विलिखेत्। अथेदं यन्त्रं यथाविधि संपूज्य सूत्रेण संवेष्ट्य सुवर्णादिधातुना विधाय मूर्ध्नि कण्ठे दक्षिणभुजे वा सततं धारयेत्। अनेन यावज्जीवमाध्यात्मिकाधिदैविकाधिभौतिकतापत्रयभयविमुक्तो भवति। एवं स्वार्थतः परार्थतो वा यन्त्रोद्धारादिकं कृत्वा यागहोमसमाधिभिर्देवं सविशेषं समाराध्य क्षमापयेत् ।। 333-357 ।।
इति संधारिणी रक्षाविधिः ।।
[1 आढ्यानां- उ.।]
[2 सार्व- मु. ।]
[3 द्यं तु- उ.।]
[4 पङ्क्त्यष्टकं नास्ति- मु. अटी.।]
[5 क्रिया- बक. बख.।]
[6 स्वधा- बक. बख.।]
[7 तमरं ष्वन्तरे- बक. बख. उ.।]
[8 ताव- बक. बख. उ.।]
[9 क्षराष्टकम्- मु. अटी., क्षराक्षरम्- उ.।]
[10 तदरान्तैः सवर्णकैः - बक. बख. उ.।]
[11 लेखा- मु. अटी.।]
[12 चक्राख्य- बक. उ.।]
[13 विना- उ.।]
[14 वै- बक. बख., च- उ.।]
[15 गोरोचना योज्या- मु. अटी.।]
[16 भूर्जे पात्रे- बक., भूर्जे वस्त्रे- उ.।]
[17 वासने- मु. अटी.।]
[18 गृहे- मु.।]
[19 सन्धार्या- मु. अटी.।]
[20 कर्णे- बक. उ.।]
[21 आधि- मु., आदि- अटी., अधिभूतमयैर्मुक्त इति भाष्यानुसारी पाठः।]
[22 भृच्छा- बक. बख., हृच्छा- उ.।]
[23 `गुल्माश्वास' इति शब्दचतुष्टयमेवास्यां पङ्क्तौ- मु., गुल्माशिश्वासयवदुच्चद्यद्यादिभिः - अ.।]
[24 जायते चाधिभौतिकः- मु.।]
[25 कपि- बख. उ.।]
[26 विवर्जितं- मु.।]

अथ मन्त्रवराद् धर्मसाधनं योऽभिवाञ्छति ।। 357 ।।

तत्प्राप्तये विधानं च संक्षेपादवधारय ।
पितॄणां लुप्तपिण्डानां पिण्डनिर्वापणाय च ।। 358 ।।

प्रीतयेऽपि जगद्धातुः परित्राणार्थमात्मनः ।
कृतोपवासोऽमावास्यां मण्डलान्तर्गतं विभुम् ।। 359 ।।

आवाह्य पूर्वविधिना योजयेद् भक्तिपूर्वकम् ।
पाद्यार्घ्यपुष्पधूपैस्तु दानै[1]र्हेमगवादिकैः ।। 360 ।।

तिलयुक्तैस्तु नैवेद्यैः सकुशैस्तु तिलान्वितैः ।
विमलैरम्बुपात्रैश्च स्वय[2]मञ्जलिपूरकैः ।। 361 ।।

सोऽचिरान्मन्त्रमूर्तेर्वै प्रसादा[3]च्छाश्वतं [4]पदम् ।
प्राप्नोति नरकस्थांश्च पितॄनपि नयेद् दिवम् ।। 362 ।।

पत्रपुष्पफलान्नाद्यसस्यदध्योदनादिना ।
रसैरन्नैश्च सद्गन्धैर्वस्त्रोत्कृष्टैस्तु धातुभिः ।। 363 ।।

प्रवालमुक्तामाणिक्यैर्भक्त्या च विभवे सति ।
बिम्बस्थं मण्डलस्थं वा सर्वैर्यो[5] मन्त्रिराड्[6] यजेत् ।। 364 ।।

षडशीतिमुखोत्थायां पूर्णायां सोपवासकः ।
यज्ञधर्मफलाकाङ्क्षी स नूनं तदवाप्नुयात् ।। 365 ।।

यो[7] हि वाञ्छति सद्धर्म[8]तीर्थाभिगमनं[9] महत् ।
स यथावत् क्रमात् पूर्वं मण्डले मन्त्रराड् यजेत् ।। 366 ।।

ततः सम्भृतसम्भारः स्नानपूर्वं समर्चयेत् ।
सिद्धप्रतिष्ठितं बिम्बं सैद्धं वाथ स्वयं कृतम् ।। 367 ।।

पञ्चगव्यदधिक्षीरघृतमध्विक्षुवारिभिः[10] ।
सर्वौषधीगन्धरत्न[11] फलपुष्पान्वितैर्घटैः ।। 368 ।।

साङ्गेनामन्त्र्य मन्त्रेण शताष्टफलपूरितैः ।
अन्तरीकृतशुद्धाम्भःकुम्भैरर्घ्यसमन्वितैः ।। 369 ।।

श्रद्धापूतेन मनसा एवं निष्पाद्यते यदि ।
प्रसादं[12] मन्त्रनाथस्य प्रागुक्तमचिराल्लभेत् ।। 370 ।।

संक्रान्त्यां सोपवासस्तु मण्डले मन्त्रनायकम् ।
समावाह्य यजेद् यस्तु फलपुष्पैर्यथर्तुजैः ।। 371 ।।

सप्ताहं फलमूलाशी त्रिकालं स्नानतत्परः ।
बहुशोऽष्टाङ्गपातैस्तु प्रदक्षिणसमन्वितैः ।। 372 ।।

स नूनं समवाप्नोति[13] शश्वद्[14] यस्तद् व्रतोद्भवम् ।
अथाभिमतदानाद् वै यो धर्ममभिवाञ्छति ।। 373 ।।

विषुवस्थं[15] दिनं प्राप्य सोपवासस्तु संयतः ।
अभिसन्धाय मनसा धर्मं दानादभीप्सितम् ।। 374 ।।

निर्वर्त्य मण्डलं रम्यमग्न्यगारसमन्वितम् ।
गोसम्भवैस्तु नैवेद्यैर्भक्ष्यैः सफलमूलकैः ।। 375 ।।

स्रग्वरैर्धूपदीपैस्तु तिलैर्होमा[16]म्बुभाजनैः ।
सम्यगिष्ट्वाऽथ सन्तर्प्य ज्वलनान्तर्गतं ततः ।। 376 ।।

समिद्भिराज्येन तिलैः सघृतैस्तण्डुलान्वितैः ।
ततो[17]ऽभिवर्धते धर्मो [18]मूर्तादानाच्छताधिकम् ।। 377 ।।

दक्षिणे वायने वाथ[19] शुभं निर्वर्त्य मण्डलम् ।
मन्त्रनाथं तु चावाह्य विधिना संयजेत् ततः ।। 378 ।।

माल्यैर्विलेपनैर्धूपैर्महादीपैर्घृतादिकैः ।
गुडखण्डचितैर्भक्ष्यैः पयसा कृसरेण तु ।। 379 ।।

नालिकेरोदकेनैव सक्तुना च घृतेन च ।
सन्तर्प्य हुतभुङ् मध्ये मन्त्रमाज्यादिकैस्ततः ।। 380 ।।

विधिनानेन[20] वै धर्ममिष्टापूर्तमवाप्यते ।
चन्द्रसूर्योपरागे चाप्य[21]होरात्रोषितः शुचिः ।। 381 ।।

सर्वोपकरणोपेतमादौ निर्वर्त्य मण्डलम् ।
न्यस्य मन्त्रवरं तत्र विभवेन यजेत् ततः ।। 382 ।।

सन्तर्प्य वह्निमध्येऽथ समिद्भिर्वा घृतादिकैः ।
जपेन्मन्त्रवरं पश्चान्मनसा ध्यानसंयुतम् ।। 383 ।।

अक्षसूत्रकरो मन्त्री यावच्चन्द्रार्कदर्शनम् ।
पूजाहोमजपानां च फलानन्त्यमवाप्नुयात् ।। 384 ।।

भक्तानामर्थहीनानां मन्त्रैकनियतात्मनाम्[22] ।
साधनाङ्गविहीनानां फलेप्सूनामिदं स्मृतम् ।। 385 ।।

स्नानाद् ध्यानात्तथा योगाज्यपाद्धोमाच्च[23] सद्व्रतात् ।
सदन्नपानाद् दानाच्च सर्वलोपाच्च सामयात् ।। 386 ।।

धर्मसाधनमिप्युक्तं सवित्तानां विशेषतः ।
अथार्थसाधनं[24] मन्त्रादभिवाच्छति योऽचिरात् ।। 387 ।।

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।
कृत्वा यागं यथा सम्यक् सप्ताहं तत्र मन्त्रराट् ।। 388 ।।

यजेत् स विभवेनैव त्रिस्नायी नक्तभोजनः ।
त्रैकाल्यं हुतभुङ्मध्ये सन्तर्प्याज्येन [25]कालजैः ।। 389 ।।

विल्वैरामलकैः पद्मैस्तदभावे कुसाङ्कुरैः ।
य इच्छेत् तस्य कालं तु मन्त्रं[26] मन्त्रेश्वरात् फलम् ।। 390 ।।

वैशाख्ये हि सिते पक्षे[27] सौम्यश्रवणसंयुते ।
सोपवासेन कर्तव्यं मन्त्रेशस्यार्चनं महत् ।। 391 ।।

स्थले वा मण्डले बिम्बे साम्भःकुम्भेऽथवा ततः ।
दक्षिणोत्तरपादाभ्यां मन्त्रनाथस्य पूजयेत् ।। 392 ।।

गङ्गां च यमुनां चैव नतिना[28] प्रणवेन तु ।
तदङ्घ्रिजलमिश्रेण घटमापूर्य चाम्भसा ।। 393 ।।

अलङ्कृत्य यथाशोभं पुष्पवस्त्रानुलेपनैः ।
विनिवेश्य च तद्वक्त्रे तिलहोमफलान्वितम्[29] ।। 394 ।।

मध्वाज्यशर्कराद्येन पूर्णं दध्योदना(नि?दि) च ।
महत्पूर्णघटं चैव पात्रं वा[30] वैदलं ततः ।। 395 ।।

निवेद्य मन्त्रमूर्तौ प्राक् सदुपानहसंयुतम् ।
तत्रा[31]तपत्रसहितं पात्रमाहूय वै ततः ।। 396 ।।

स्रक्चन्दनार्घ्यधूपैस्तु तमलङ्कृत्य वाससा ।
मन्त्रेणार्घ्योदकं पाणौ दत्वा तदनु तद्घटम् ।। 397 ।।

प्रतिपाद्य जगद्योनेः प्रीत्यर्थमपि तेन वै ।
प्रसक्तेन[32] परां[33] प्रीतिं वाच्यो मन्त्री महामते ।। 398 ।।

एवमेव प्रपन्ना ये नारायणमनामयम् ।
वर्णा ब्राह्मणपूर्वा[34] ये ते स्वदुष्कृतशान्तये ।। 399 ।।

स्नात्वाऽभ्यर्च्य पितॄन् देवान् सन्नदीभ्यां तु सङ्गमे ।
आ नाभिमवतीर्याऽथ विमलाञ्जलिपूरकैः ।। 400 ।।

निर्वर्त्य भगवद्यागं दद्याद् विप्रवराय च ।
आप्त्यर्थं विबुधानां च सर्वलोकनिवासिनाम् ।। 401 ।।

पितॄणां स्वकुलोत्थानां सततं श्राद्धकाङ्क्षिणाम् ।
श्वेतद्वीपाप्तये चैव वृद्ध्यर्थं च स्वसन्ततेः ।। 402 ।।

आस्तां सितासिता चैव द्वादशी त्वमलेक्षण ।
भगवद्भावपूतानां या काचिदपरा तिथिः ।। 403 ।।

सा [35]चैव श्रवणोपेता युता[36] चाभिजिता तु वै ।
सा तेषामङ्गभावं च याति सर्वफलाप्तये ।। 404 ।।

तस्मात् कृतोपवासस्तु तस्यामभ्यर्च्य मन्त्रराट् ।
विभवेनाथवा शक्त्या मन्त्र[37]साम्मुख्यसिद्धये ।। 405 ।।

यानि यानीह[38] दानानि गोभूहेमादिकानि च ।
दत्तानि चानुरूपाणि जनानां कृतकर्मणाम् ।। 406 ।।

फलदानि च दातॄणां भवदार्ढ्यकराणि च ।
सम्यग् दत्तानि तान्येव भक्तानां भावितात्मनाम् ।। 407 ।।

भगवत्पाद[39]लिप्सूनां भवन्ति भवशान्तये ।
अपिवादमिदं तावद् यत् सर्वत्राच्युतो हरिः ।। 408 ।।

विष्णुर्नारायणो हंसः सर्वशक्तिमयः प्रभुः ।
द्रव्यात्मना विभक्तश्च ज्ञातव्यो ज्ञानकर्मणि ।। 409 ।।

त्रिविधेन तु भेदेन [40]बुद्बुदाद्या यथाम्भसि ।
एवं दानं स्वमात्मानं पात्रं नारायणात्मकम् ।। 410 ।।

बुद्ध्वा सामान्यबुद्ध्या प्राक् पुनस्तत्त्रिविधं पृथक् ।
सविशेषं परिज्ञेयं दानकाले ह्युपस्थिते ।। 411 ।।

उपायलक्षणं द्रव्यमभ्यूह्यादौ स्वचेतसा ।
अनन्तशक्तेः सामर्थ्यमिदं किञ्चिदनश्वरम् ।। 412 ।।

दानाभिमानदेहस्तु प्रत्यगात्मा त्वहं प्रभुः ।
पात्रभावत्वमापन्नो मदनुग्रहकाम्यया ।। 413 ।।

देवः पञ्चतनुः साक्षात् पञ्चभूतात्मना त्विदम् ।
ज्ञात्वैवं[41] द्वादशार्णेन स्वेन वा न्यस्तविग्रहः ।। 414 ।।

प्रत्ययं मन्त्रमालम्ब्य द्रव्यहोमादिकं ततः[42] ।
स्वरूपमजहद् ध्यायेन्महद्र[43]श्मिकदम्बवत् ।। 415 ।।

अमन्त्रेण यजेत् पश्चादर्घ्यपुष्पानुलेपनैः ।
सिंह[44]द्विषट्कमन्त्रेण स्वकेनाङ्गोज्झितेन वा[45] ।। 416 ।।

सकलीकरणं कुर्यात् पात्रभूत[46]परात्मना ।
तमर्चयित्वा विधिवद् वस्त्रस्रगनुलेपनैः ।। 417 ।।

भगवत्प्रीतिपूर्वं तु दानं दद्याच्च सोदकम् ।
तेनापि प्रीणनं कार्यं भगवद्भावितात्मना[47] ।। 418 ।।

दानं ज्ञानात्मतां येन प्रयात्य[48]च्युतवेदिनाम् ।
नारायणः परंब्रह्म प्रतिशब्दत्वमागतः[49] ।। 419 ।।

संसारानलतप्तानां भक्तानां मोहशान्तये ।
अतस्तस्य स्वमन्त्रेण मूर्तिदानं समाचरेत् ।। 420 ।।

द्वादशाक्षरपूर्वेण त्वथवाऽन्येन केनचित् ।
अनन्तं त्वमलं त्वेवं क्रोडीकृत्य तदात्मना ।। 421 ।।

समर्चनीयं विधिवन्मन्त्राकृति यथा सदा ।
एवं दानप्रदानेन यजेन्मन्त्रात्मना परम् ।। 422 ।।

महन्मन्त्रा[50]त्मना चैव पुनः सद्व्रतसिद्धये ।
ब्रह्मत्वमेति वै येन व्रतिना [51]भगवद्व्रतम् ।। 423 ।।

अनेक[52]भेदभिन्नं च सदानं यत्पदार्थिनाम् ।
तपो यज्ञं हि विधिवद् ब्रह्मभावनयाऽर्चयेत् ।। 424 ।।

यथा स्यान्मोक्षफलदमचिराद् विष्णुयाजिनाम् ।
नानाद्रव्याङ्गदेहं यद् यज्ञं चानेकलक्षणम् ।। 425 ।।

मूर्ततां यज्ञमन्त्रेण नीत्वैवं प्राक् समर्चयेत् ।
जुहुयादा समाप्त्यन्तं पूर्णान्ते हेम[53]मृच्छति ।। 426 ।।

दानानां च व्रतानां च तपसां यज्ञकर्मणाम् ।
निवेदितव्यं यद् द्रव्यं दत्तं वा यत्र यत्पुरा ।। 427 ।।

कर्तव्यमनुयागार्थं प्राक् तदेव हि केवलम् ।
तद्भावितमतोऽश्नीयात् पावनं प्रापणान्वितम् ।। 428 ।।

भवेत् त्रिरात्रं फलदं भक्तानां शुभकारिणाम् ।
किं पुनस्तु समर्थानां चोदनाश्रयिणां तु वै ।। 429 ।।

दानधर्मरतानां च व्रतिनां यज्ञयाजिनाम् ।
परत्र भवभीरूणामल्पार्थानां शुभार्थिनाम् ।। 430 ।।

शमीपलाशश्रीवृक्षैः समिद्भिश्चामलद्रुमैः ।
अम्भसा चाम्बुमध्ये च मन्त्रतर्पणमाचरेत् ।। 431 ।।

सप्ताहे समतीते तु मन्त्रमुत्थाप्य[54] मण्डलात् ।
ध्यानयुक्तं[55] जपं कुर्याल्लक्षसंख्यं समाहितः ।। 432 ।।

ब्रह्मचर्यस्थितो मौमी दुष्टाहारविवर्जितः ।
क्षारारनालतैलानां परित्यागी ह्यलोलुपः ।। 433 ।।

नित्यं कुशाजिनेशायी [56]मानमात्सर्यवर्जितः ।
तप्तहाटकसंकाशं परिभ्रमणविग्रहम् ।। 434 ।।

भूरिधारासमाकीर्णं वक्त्रमग्रे खगं स्मरेत् ।
तन्नाभिसंस्थितं मन्त्रमचलं चैव सम्मुखम् ।। 435 ।।

नानारत्नप्रभाकान्तिमुद्गिरन्तं स्वविग्रहात् ।
हेमादि[57]धातुनिचयं चन्द्रकान्तादिसन्मणोन् ।। 436 ।।

एवं ध्यायेज्जपेच्चापि पूजयेदन्तरान्तरा[58] ।
नियमादा समाप्त्येव जपान्ते वित्तपः स्वयम् ।। 437 ।।

आज्ञावश्यो विधेयः स्यादात्मना च धनेन च ।
प्रयच्छत्यर्थिनां कामं भुङ्क्ते सोऽविरतं[59] स्वयम् ।। 438 ।।

आयुरारोग्यसंयुक्तो मन्त्रेशस्य प्रभावतः ।
प्रवर्ततेऽर्थयुक्तानां काम आशु च भोगिनाम् ।। 439 ।।

तत्साधनमथो वक्ष्ये साधकानां हिताय च ।
मण्डलं पूर्ववत् कृत्वा शुचौ देशे मनोरमे ।। 440 ।।

सङ्गुप्ते तत्र मन्त्रेशं समाहूय च संयजेत् ।
त्रिरात्रं सप्तरात्रं वा जुहुयात् तदनन्तरम् ।। 441 ।।

प्रागुक्तेन विधानेन जपध्याने समाचरेत् ।
सर्वाधारं हरिं ध्यायेत् पद्मरागरुचिं महत् ।। 442 ।।

तन्मध्ये विद्रुमाभं च बन्धुजीवनिभोज्ज्वलम्[60] ।
ध्यायेन्मन्त्रवरं मन्त्री जपेत् पूर्वोक्तसंख्यया[61] ।। 443 ।।

स्त्रीभोगं चेतसः कृत्वा जपान्ते साधकस्ततः ।
प्रार्थयन्तेऽत्र भीताश्च सन्तप्ता मदविह्वलाः ।। 444 ।।

देवकिन्नरनार्यस्तु यक्षगन्धर्वकन्यकाः ।
सिद्धाः सुराङ्गनाश्चान्या नरनागस्त्रियोऽखिलाः ।। 445 ।।

आजीवावधि वै सम्यक् कर्मणा मनसा गिरा ।
सेवन्ते साधकेन्द्रं तं मन्त्रस्यास्य प्रभावतः ।। 446 ।।

यं यं समीहते कामं पातालोत्तिष्ठ[62]पूर्वकम् ।
लक्षजापात् तथा होमात् तं तं यच्छति मन्त्रराट् ।। 447 ।।

अथ कामोपभोगात् तु विरतस्य च मन्त्रिणः ।
मोक्षदं सम्प्रदायं च कथयिष्ये यथार्थतः ।। 448 ।।

कृत्वा यागवरं भूयः प्रसन्नेनान्तरात्मना ।
पूर्वोक्तं[63] तु यजेत् कालं तत्र मन्त्रवरं क्रमात् ।। 449 ।।

तर्पयित्वा विधानेन कुण्डे वाऽथ जलेऽम्भसा ।
सर्वदोषनिवृत्त्यर्थं प्रायश्चित्तार्थमेव च ।। 450 ।।

जपेदयुतमेकं तु प्रागुक्तं वा स्वशक्तितः ।
हृत्पुण्डरीकमध्येऽथ स्मरेन्मन्त्रं[64] समाहितः ।। 451 ।।

रोमकूपगणैः सर्वे रत्नज्वालाशतावृतम् ।
तन्मयं च स्वचैतन्यं कृत्वा तद् वह्निरश्मिभिः ।। 452 ।।

भूतदेहं दहेत् कृत्स्नं तद्वियुक्तश्च साम्प्रतम् ।
मार्तण्ड इव पक्षीश आस्ते मन्त्रस्वरूपधृक् ।। 453 ।।

अथ मन्त्रा[65]कृतिं स्वां[66] वै ध्यायेत् परिणतां शनैः ।
तेजोगोलकसंकाशं सर्वाङ्गावयवोज्झितम् ।। 454 ।।

तत्तेजोगोलकं पश्चाद् बृहत्परिमितं च[67] यत् ।
सर्वगं[68] शब्दरूपं च भावरूपं तु चिन्मयम् ।। 455 ।।

तस्मादप्यभिमानं तु ह्यस्मिताख्यं शनैः शनैः ।
विनिवार्य यथा शश्वद् ब्रह्म सम्पद्यते स्वयम् ।। 456 ।।

इत्येवं [69]वैभवीयस्य नृसिंहस्य महात्मनः ।
आराधनं च संक्षे[70]पादुक्तं सिद्धिसमन्वितम् ।। 457 ।।

नित्यक्रियापराणां च संसारोद्विग्नचेतसाम् ।
मद्भक्तानामिदं वाच्यं शुद्धानां संयतात्मनाम् ।। 458 ।।
अथानेन नृसिंहमन्त्रेण धर्मार्थकाममोक्षाख्यचतुर्विधपुरुषार्थसाधनविधिमाह- अथ मन्त्रवराद्धर्मेति प्रक्रम्य यावत् परिच्छेदपरिसमाप्ति। सुगमस्तदर्थः ।। 357-458 ।।
[1 दानहोम- बक.।]
[2 अथवा- उ.।]
       [3 प्रासा- मु. अटी. बक.।]
[4 परम्- बक. बख. उ.।]
[5 पुरैः - बक. बख. उ.।]
[6 मन्त्र- बख. उ.।]
[7 योऽभि- उ.।]
[8 सद्धर्म- उ.।]
[9 नान्म- उ.।]
[10 वारिणा- बक. बख. उ.।]
[11 रत्नैः- बक., रक्तैः- बख., मिश्रैः- उ.।]
[12 दान्म- उ.।]
[13 धर्ममा- ब.।]
[14 द्यत् सद्- बख. उ.।]
[15 विष्टपस्थ- मु. अटी.।]
[16 र्हेमा- उ.।]
[17 ततो हि - उ.।]
[18 मूर्त- उ.।]
[19 वामे- बक. बख. उ.।]
[20 तेन- उ.।]
[21 वा अ- बक. बख.।]
[22 निरता- उ.।]
[23 र्चनाद्- उ.।]
[24 यथार्थं- मु. अटी.।]
[25 तत्तिलैः- उ.।]
[26 मन्त्री- उ.।]
[27 तेन- मु. अटी. उ.।]
[28 इत आरभ्याऽष्टादशपरिच्छेदसमाप्तिपर्यन्तं ग्रन्थपात उदयपुरमातृकायाम्।]
[29 नदीनां - बक. बख.।]
[30 न्वितः- मु. अटी.।]
[31 वैदलकं- बक. बख.।]
[32 तता- बक. बख.।]
[33 प्रपन्नेन- बख.।]
[34 परा प्रीतिर्वाच्या- बक. बख.।]
[35 पूर्वे तु - मु. अटी.।]
[36 च वै- मु. अटी.।]
[37 युक्ता- बख.।]
[38 मन्त्रं शान्त्याख्य- मु. अटी.।]
[39 यानीहि- मु.।]
[40 त्पद- बक. बख.।]
[41 बुद्बुदेभ्यो यथाम्बुधिः- मु. अटी.।]
[42 ज्ञात्वेदं - बक. बख.।]
[43 तथा- बक. बख.।]
[44 पं च जगद्- बख.।]
[45 ज्जगद् दृश्य- बक.।]
[46 विय- मु. अटी.।]
[47 वै- मु. अटी.।]
[48 भूते परात्मनः - मु. अटी.।]
[49 नाम्- अटी.।]
[50 त्युदितवेदिना - बक. बख.।]
[51 तम्- बक. बख.।]
[52 महोम- बख.।]
[53 मभवद्- मु. अटी.।]
[54 अनेन- मु. अटी.।]
[55 याचना- मु. अटी.।]
[56 मोह[क्ष]-मु. अटी.।]
[57 त्थाय- मु.।]
[58 युक्तः- अटी.।]
[59 मौनी सङ्गविव- बक. बख.।]
[60 हेमाद्रि- मु. अटी. बक.।]
[61 न्तरे- बक. बख.।]
[62 रतः - अटी.।]
[63 मधो- मु.।]
[64 धारमरिं- मु., धारमयं- अटी.।]
[65 रुचा- मु. अटी.।]
[66 ज्वलन्- मु.।]
[67 संग्रहम्- अटी.।]
[68 लादिव- बक. बख.।]
[69 पूर्वमुक्तं तु यत्कालं - बक. बख.।]
[70 स्मरन् मन्त्रं - बख.।]
[71 मन्त्रकृतिं- मु.।]
[72 स्वं- बख.।]
[73 णतं- मु. अटी.।]
[74 त्वपि- मु. अटी.।]
[75 सर्वाङ्ग- बख.।]
[76 वैभवं- बक. बख.।]
[77 सर्वेषामुक्तां - मु. अटी.।]

इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां वैभवीयनृसिंहकल्पो [1]नाम सप्तदशः परिच्छेदः।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये सप्तदशः परिच्छेदः।।
[1 `नाम' नास्ति- बख.।]

अथानेन नृसिंहमन्त्रेण धर्मार्थकाममोक्षाख्यचतुर्विधपुरुषार्थसाधनविधिमाह- अथ मन्त्रवराद्धर्मेति प्रक्रम्य यावत् परिच्छेदपरिसमाप्ति। सुगमस्तदर्थः ।। 357-458 ।।