← अध्यायः ३ सात्त्वतसंहिता
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
सात्त्वतसंहितायाः अध्यायाः


चतुर्थः परिच्छेदः

नारद [1]उवाच
अथाह भगवान् देवो रक्तराजीवलोचनः ।
प्रसन्नः सुप्रसन्नास्यो विधान[2]मपरं द्विजाः ।। 1 ।।

श्रीभगवानुवाच
[3]येनात्मा स्वप्न एवात्मा कर्मिणामनुकम्पया ।
क्रमेण व्यक्ततां नीतो वाग्वर्णकमलोपरि ।। 2 ।।
अथ चतुर्थो व्याख्यास्यते। स्वप्नव्यूहविधानमाहेत्याह- अथेति द्वाभ्याम्। येन कर्मणा, आत्मा परमात्मा, स्वप्ने आत्मेव जीव इव वर्णकमलोपरि व्यक्ततां नीतः प्रकाशितः। तद्विधानमाहेति पूर्वश्लोकेनान्वयः ।। 1-2 ।।
[1 नारद इत्येव उ. विहाय सर्वत्र पाठः।]
[2 नं परमं- उ.।]
[3 येनात्मना स्व एवात्मा- अ. उ.।]

अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ।
भाभिः सितादिभिर्दीप्तमभिन्नाभिर्निरन्तरम् ।। 3 ।।

अवलोक्यामलं देव[1]मुदितं स्वेन तेजसा ।
कर्णिकार्गं[2] समाश्रित्य दिव्यं मन्त्रतनुं[3] पुनः ।। 4 ।।

पश्चेत् स्वयं स्वशक्त्या वै कालेनालक्ष्यमूर्तिना ।
संहरन्तं च तद्रूपं व्यक्तं पूर्वोक्तलक्षणम् ।। 5 ।।

एवं मन्त्रमयं देवमुपसंहृत्य लाङ्गलिन् ।
आमूलात् कर्णिकाग्रं च सम्पूर्यास्ते स्वतेजसा ।। 6 ।।

ब्रह्मयूपस्वरूपेण त्वाक्रम्य स्वं महामते ।
सौम्यमूर्तिचतुष्कं तु सर्वदिक्प्रसृतं च यत् ।। 7 ।।
आदौ वासुदेवादीनां चतुर्णामपि मूलभूतस्य विशाखयूपसंज्ञस्य भगवतो लक्षणमाह- अभिन्नेति सार्धैश्चतुर्भिः। अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम्। संकर्षणादिवद् गुणद्वयभेदं विना वासुदेववद् अन्यूनानतिरिक्तषाड्गुण्यपरिपूर्णमित्यर्थः। अभिन्नाभिः सितादिभिर्भाभिर्दीप्तं वासुदेवादिवत् पार्थक्येन सितादिवर्णभेदं विना श्वेतरक्तपीतकृष्णैश्चतुर्भिरपि तेजोभिर्भास्वरमित्यर्थः। स्वेन तेजसा उदितम्, केवलतेजोरूपमित्यर्थः। देवं विशाखयूपाख्यमवलोक्य पूर्वमेव तेजोरूपं दृष्ट्वेत्यर्थः। पुनः कर्णिकाग्रं समाश्रित्य मन्त्रतनुं पश्येत्, मूर्तिभूतं पश्येदित्यर्थः। पुनस्तद्रूपं संहरन्तं च पश्येदित्यन्वयः। एवं मन्त्रमयं देहमुपसंहृत्य आमूलात् कर्णिकाग्रं स्वतेजसा संपूर्य ब्रह्मयूपस्वरूपेणास्ते, मूर्तिवर्जितः केवलतेजोरूपमाश्रित्य हृत्कमलकर्णिकारूपेण शाखाभूतानां वासुदेवादीनां मध्ययूपस्थानीयत्वं प्राप्नोतीत्यर्थः। एवमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि-
व्यूहाद् व्यूहसमुत्पत्तौ पदाद्[4] यावत् पदान्तरम् ।
[5]अन्तरं सकलं देशं संपूरयति तेजसा ।।
पूजितस्तेजसां राशिरव्यक्तो मूर्तिवर्जितः ।
विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिबृंहितः ।।
तस्मिन् तस्मिन् पदे तस्मान्मूर्तिशाखाचतुष्टयम् ।
वासुदेवादिकं शक्रं प्रादुर्भवति वै क्रमात् ।। (11/11-13) इति।
विशाखयूपशब्दनिर्वचनं च तत्रैवोक्तम्- "शाखास्तु वासुदेवाद्या विभोर्देवस्य कीर्तिताः। विशाखयूपो भगवान् वितता[6] हि करोति तत्।।" (11/29) इति।। 3-7 ।।
[1 देवं- बख. उ.।]
[2 कारं- उ.।]
[3 वरं- मु. अटी.]
[4 पद्याद्- अ. म.।]
[5 आन्तरं- म.।]
[6 ताभिः- मु.।]

प्राच्यां सितेन वपुषा सूर्यकान्त्यधिकेन तु ।
व्यक्तिमभ्येति भगवान् वासुदेवात्मना स्वयम् ।। 8 ।।

पद्मरागसमानेन तेजसा [1]तदनन्तरम् ।
उदेति दक्षिणस्यां वै प्रभुः सङ्कर्षणात्मना ।। 9 ।।

[2]घर्मांशुरश्मिसन्तप्तशतधामाधिकेन तु ।
रूपेण पश्चिमस्यां च व्यक्तं प्रद्युम्नसंज्ञया ।। 10 ।।

शरद्गगनसंकाशवर्णेन[3] परमेश्वरः ।
समास्त उत्तरस्यां चाप्यनिरुद्धात्मना ततः ।। 11 ।।

संस्थानमादिमूर्तेंर्वै सर्वेषां तु समं स्मृतम् ।
सूर्यकोटिप्रभाः सर्वे तेजसा कमलेक्षणाः ।। 12 ।।

दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखाः ।
पूर्णचन्द्रायुताकारो[4] मुक्ताहाराद्यलङ्कृताः ।। 13 ।।

[5]लसत्पीयूषसदृशैः स्वाम्बरैः[6] स्रग्वरैर्युताः ।
वरायुधोद्यत[7]कराः स्वकैश्चिह्नैरनुज्झिताः ।। 14 ।।

[8]रेखोत्थितैस्तु कह्लारैः पादपद्मतलाङ्किताः ।
[9]विनम्रजनसन्तापशमनव्यापृताननाः ।। 15 ।।

करुणापूर्णहृदया जगदुद्धर[10]णोद्यताः ।
स्वदेहतेजःसम्भूतज्वालामण्डलमध्यगाः ।। 16 ।।
अथ वासुदेवादीनां लक्षणान्याह- सौम्येत्यारभ्य ज्वालामण्डलमध्यगा इत्यन्तम्।। 7-16 ।।
[1 सम- मु. अटी.।]
[2 वर्मां- मु.।]
[3 पूर्णेन- अ.।]
[4 कार- मु. बक.बख. अटी.।]
[5 नास्त्येष श्लोकः- उ.।]
[6 साम्बरैः- अ.।]
[7 द्योति-मु. अटी. उ.।]
[8 लोमो- मु. अटी., लेखो- बख. अ. उ.।]
[9 निमग्न बख. अ. उ.।]
[10 द्धार- मु. अटी.।]

एवमेवैष भगवान् [1]सम्पूज्यः प्राक्प्रयोगतः[2] ।
एकैकेन तु भागेन [3]प्राभवेण क्रमेण तु ।। 17 ।।

पुनरेवानिरुद्धादीन्[4] प्राङ्मूर्त्यन्तं महामते ।
क्रमान्निरन्तरैर्भोगैरभ्यर्च्य परमेश्वरम् ।। 18 ।।

प्रणवद्वितयेनैव बुद्ध्या तु सुविशुद्धया ।
अप्ययाख्येन विधिना हृद्यागनिरतैर्बुधैः ।। 19 ।।
एषां वासुदेवादीनां प्रभवाप्ययक्रमेण मानसार्चनमाह- एवमेवेति त्रिभिः। क्रमेण सृष्टिक्रमेणेत्यर्थः। वासुदेवाद्यनिरुद्धान्तमिति यावत्। प्रणवद्वितयेन द्वितीयपरिच्छेदोक्तप्रीतिमन्त्रेणेत्यर्थः। किन्तु तत्र "प्रीयतां मे परः प्रभुः" (2/76) इत्युक्तम्। अत्र तु परशब्दस्थाने वासुदेवसंकर्षणाद्यन्यतमशब्दः प्रकरणानुरोधेन[5] योज्यः ।। 17-19 ।।
[1 सन्तर्प्य- बख. अ. उ.।]
[2 जनः- अ. उ.।]
[3 प्रभवेन- मु. अटी.।]
[4 द्धादि- बख. अ. उ.।]
[5 नुयोगेन- अ.।]

[1]अथ भिन्नतनोर्मन्त्रं[2] देवस्यास्य महात्मनः ।
विशाखयूपसंज्ञस्य वक्ष्ये विद्याविवेकदम् ।। 20 ।।

वर्णंभक्षस्थमादाय त्वाद्यमेकादशात् ततः ।
भिन्नं नाभिद्वितीयेन तृतीयं नेमिमण्डलात् ।। 21 ।।

द्वितीयं केवलं बाह्यात् तेजोरूपाय वै पदम् ।
ततस्त्वेकादशात् पूर्वं केवलं तु समाहरेत् ।। 22 ।।

तृतीयमक्षरं बाह्याद् युक्तं नाभ्यपरेण तु ।
दशमादपरं वर्णं[3] पूर्वमेकादशात् ततः ।। 23 ।।

एकादशस्वराक्रान्तमुद्धरेत् तदनन्तरम् ।
ततो नाभिद्वितीयेन युक्तं [4]प्रध्यक्षरं हि यत् ।। 24 ।।

केवलं [5]द्वितीयं बाह्यादाद्यमेकादशात् तथा ।
नेमेस्तृतीयं तदनु द्वितीयं स्वरसंयुतम् ।। 25 ।।

दशमादपरं शुद्धं पूर्वमेकादशात् ततः ।
नाभ्येकादशसंयुक्तं तदन्तेऽमललोचन ।। 26 ।।

नाभेस्तृतीयसंयुक्तं प्रधिवर्णं समाहरेत् ।
अथ नाभिद्वितीयेन युक्तं यत्परमष्टमात्[6] ।। 27 ।।

नेमिद्वितीयं तदनु नमस्कारसमन्वितम् ।
चतुर्विंशतिभिर्वर्णैर्युक्तो मन्त्रो ह्ययं महान् ।। 28 ।।

प्रणवेन पदं चास्य पूर्वमेकाक्षरं स्मृतम् ।
द्वितीयं त्र्यक्षरं प्रोक्तं पञ्चार्णं तदनन्तरम् ।। 29 ।।

षडक्षरं चतुर्थँ तु सप्तार्णं चात्र पञ्चमम् ।
पदं तु द्व्यक्षरं षष्ठं मन्त्रस्यास्य महामते ।। 30 ।।
आदौ विशाखयूपमन्त्रमाह- अथेत्यारभ्य मन्त्रस्यास्य महामते इत्यन्तम्। ॐ पराय तेजोरूपाय परानपेक्षाय परानपेक्षिताय नम इति चतुर्विंशत्यक्षरोऽयं मन्त्रः समुद्धृतो भवति ।। 20-30 ।।
[1 तथेति सार्वत्रिकः पाठः। भाष्यानुरोधी पाठोऽत्र स्थापितः।]
[2 र्मन्त्र- अ. उ.।]
[3 पूर्णं- उ. विहाय सर्वत्र पाठः।]
[4 प्रत्य- बख. विहाय सर्वत्र पाठः।]
[5 द्वितयं- अ. अटी.।]
[6 परमा- बक. बख. अ. उ.।]

नानामन्त्रस्वरूपेण ह्यादिदेवः परो[1] विभुः ।
आदिमध्यावसानेषु[2] स्थितः सर्वस्य[3] सर्वदा ।। 31 ।।
अथ विशाखयूपः पूर्वोक्तः परवासुदेव एवेत्य[4]भिप्रायं विशदयति- नानामन्त्रेति ।। 31 ।।
[1 परः प्रभुः- बक. बख. अ. उ.।]
[2 ने तु- बख. अ. उ.।]
[3 सर्वत्र- अ. उ.।]
[4 `इत्यभिप्रायं.....वासुदेव एव' नास्ति- म.।]

चतुर्व्यूहचतुष्के स्वे शान्तादिव्यक्तलक्षणे ।
प्राधान्येन त्रयाणां च देवानामवतिष्ठते ।। 32 ।।
एवं शान्तोदितादिव्यूहचतुष्टयेऽपि परवासुदेव एव तत्तद्व्यूहान्तर्गतवासुदेवरूपेणावतिष्ठत इत्याह- चतुर्व्यूहेति। अत्र शान्तोदितव्यूहान्तर्गतवासुदेवस्य परात्परवासुदेवाभिन्नत्वेनोभयोरप्येकेनैव मन्त्रेण चारितार्थ्यात् संकर्षणादीनां त्रयाणां तदङ्गत्वेन प्रत्येकं मन्त्रानुक्तेश्च शान्तोदितवासुदेवस्याङ्गित्वरूपं प्राधान्यं ज्ञेयम्। सुषुप्त्यादिव्यूहत्रये तु प्रत्येकं चतुर्णां वासुदेवादिमन्त्राणामुक्तत्वात् तत्र वासुदेवस्याग्रगण्य[1]त्वरूपं प्राधान्यं बोध्यम् ।। 32 ।।
[1 गस्यत्वरूपं- अ.।]

यथाम्बरस्थः सविता त्वेक एव महामते ।
जलाश्रयाणि चाश्रित्य बहुत्वं सम्प्रदर्शयेत् ।। 33 ।।

एवमेकोऽपि[1] भगवान् नानामन्त्राश्रयेषु च ।
तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ।। 34 ।।

अनुग्रहार्थं [2]भविनां नानाश्रद्धावशेन तु ।
चतुष्कमथ मन्त्राणां निबोध गदतो मम ।। 35 ।।
एवं परस्यैकस्यैव नानारूपत्वं दृष्टान्तमुखेन द्रढयति- यथेति सार्धद्वाभ्याम् ।। 33- 35 ।।
[1 बाह्यात्म्यं- अ., बाह्यार्थं- उ.।]
[2 को हि- अ.।]

सितादिवर्णव्यक्तीनां वाचकत्वेन वै क्रमात् ।
अक्षस्थं नाभिपूर्वं च वर्णं यद् दशमात् परम् ।। 36 ।।

नेमिपूर्वमधो नाभेस्त्रयोदशसमन्वितम् ।
द्वितीयं द्वादशाद् वर्णं द्वितीयात् [1]परमं ततः ।। 37 ।।

पञ्चमं च बहिष्ठेभ्यस्त्रीनेतान् विद्धि केवलान् ।
ततोऽष्टमाद् द्वितीयं तु नाभ्येकादशभेदितम् ।। 38 ।।

पञ्चार्णं वासुदेवाय पदं च तदनन्तरम् ।
[2]त्रयोदशाक्षरो ह्येष प्रथमं[3] परिकीर्तितः ।। 39 ।।

क्रमेण वक्ष्याम्यन्येषामुद्धारं तु यथा स्थितम् ।
अक्षस्थमक्षरं नाभेर्द्वितीयं तदनन्तरम् ।। 40 ।।

पूर्वमन्त्रानुसारेण ततो दद्यात् पदत्रयम् ।
अथात्र पञ्चदशमं[4] नाभेरोङ्कारपूर्वकम् ।। 41 ।।

पदत्रयेण तेनैव संयुक्तं विद्धि मन्त्रपम् ।
अथ षोडशसंख्यं यन्नाभेः प्रणवपूर्वकम् ।। 42 ।।

पूर्वोक्तलक्षणानां तु पदानां प्राङ्निवेश्यते[5] ।
अस्मान्मन्त्रत्रयाद् विद्धि द्वयं प्राङ्मन्त्रसंख्यया ।। 43 ।।

एक एकार्णरहितः पदभेदमतः श्रृणु ।
पदद्वयं तु सर्वेषामाद्यमेकाक्षरं स्मृतम् ।। 44 ।।

द्व्यक्षरं[6] च तृतीयं तु चतुर्थं चतुरक्षरम् ।
पञ्चाक्षरं पञ्चमं वै त्रयाणां समुदाहृतम् ।। 45 ।।

तदेकस्य चतुर्वर्णं प्रद्युम्नाख्यस्य लाङ्गलिन् ।
एवं स्वप्नपदस्थस्य समासात् परिकीर्तितम् ।।
ध्यानार्चनं समन्त्रं च भक्तानां हितकाम्यया ।। 46 ।।
अथ स्वप्नव्यूहमन्त्रचतुष्टयोद्धारमाह- चतुष्कमथ मन्त्राणामित्यारभ्य यावत् परिच्छेदपरिसमाप्ति। तथा च ॐ अं नमो भगवते वासुदेवाय। ॐ आं नमो भगवते सङ्कर्षणाय। ॐ अं नमो भगवते प्रद्युम्नाय। ॐ अः नमो भगवते अनिरुद्धाय इति मन्त्रचतुष्कमुद्धृतं भवति ।। 35-46 ।।
[1 प्रथमं- अ. उ.।]
[2 पङ्क्तित्रयं नास्ति- अ.।]
[3 प्रथमः- अ.।]
[4 शकं- अ.।]
[5 वेशयेत्- उ.।]
[6 त्र्यक्षरं- मु. बक. अटी.।]

इति श्रीपाञ्चरात्रे श्रीसात्त्वतसंहितायां
चतुर्थः परिच्छेदः।।
इति मौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वतभाष्ये चतुर्तः परिच्छेदः ।।