प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ७ सात्त्वतसंहिता
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
सात्त्वतसंहितायाः अध्यायाः


अष्टमः परिच्छेदः
श्रीभगवानुवाच[1]।।

व्रतमेतदमन्त्रं च सामान्यं सार्वलौकिकम् ।
सितेतरविभागेन प्रोक्तं मन्त्रद्वयं[2] श्रृणु ।। 1 ।।
अथाष्टमो व्याख्यास्यते। पूर्वममन्त्रकं व्रतमुक्तम्, इदानीं समन्त्रकं शृण्वित्याह- व्रतमिति। सामान्यं सार्वलौकिकं ब्राह्मणादिचतुर्वर्णानामिति साधारणमित्यर्थः। समन्त्रकं व्रतं तु ब्राह्मणमात्रकार्यम्। उक्तं खलु (प्रथमे? द्वितीये) परिच्छेदे-
व्यामिश्रयागयुक्तानां विप्राणां वेदवादिनाम् ।।
समन्त्रे तु चतुर्व्यूहे अधिकारो न चान्यथा ।
त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः ।।
अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे ।। (2/8-10) इति ।। 1 ।।
[1 `भगवान्'- मु. अटी. बक. बख.।]
[2 मयं - अ. उ.।]

प्राग्[1] गुरुं प्रार्थयित्वा तु दृष्टादृष्टप्रदः स हि ।
ज्ञात्वा स्थिरमतिं[2] कुर्यात् तदर्थे चक्रमण्डलम् ।। 2 ।।
प्रथमं शिष्यो [3]गुरुं प्रार्थयेत्, गुरुः शिष्यं स्थिरबुद्धिं ज्ञात्वा तद्व्रतार्थँ मण्डलं विलिखेदित्याह- प्रागिति। प्रार्थयित्वा कृतकृत्यो भवेदिति भावः[4] ।। 2 ।।
[1 प्रागग्रं- मु. अटी. बक.।]
[2 मतिः- मु. बख. अ. उ., व्रतः-अटी.।]
[3 गुरून्-मु.।]
[4 शेषः- मु.।]

तन्मध्ये चतुरात्मा तु यष्टव्यः कर्णिकोपरि ।
चतुर्दिक्ष्वीक्षमाणस्तु वासुदेवादितः क्रमात् ।। 3 ।।
तन्मण्डलमध्ये कर्णिकोपरि वासुदेवादिचातुरात्म्यार्चनं कार्यमित्याह- तन्मध्य इति ।। 3 ।।

हृदादिनेत्रपर्यन्तमङ्गषट्कं यजेत् ततः ।
अर्घ्यादिभिः क्रमाद् भोगैर्व्रतज्ञेन पुराहृतैः ।। 4 ।।
तदनन्तरमङ्गमन्त्रार्चनं वासुदेवादीनामर्घ्यादिभिः पूजनं चाह- हृदादीति। अङ्गमन्त्राणामर्चनस्थानं तु-
तदोदितं विभोर्देहाद् हृदयाद्यं चतुष्टयम् ।।
न्यसेत् कमलपत्राणामा पूर्वादुत्तरान्तिमम्[1] ।
अग्नीशरक्षोवायव्यदलेष्वस्त्रं यथाक्रमम् ।।
नेत्रं केसरजालस्थं चक्रं नाभित्रयोपरि । (17/65-67)
इति नृसिंहकल्पे वक्ष्यमाण ज्ञेयम् ।। 4 ।।
[1 कम्- मु.।]

ततः कुण्डान्तरे चैव संस्कृतेऽग्नौ च विन्यसेत् ।
चक्रं मन्त्रगणोपेतं समिद्भिस्तर्पयेत् क्रमात् ।। 5 ।।

पश्चात् तण्डुलसंमिश्रैः सघृतैर्बहुभिस्तिलैः ।
सच[1]क्रमण्डलस्य भगवतोऽग्निमध्ये ध्यानं संतर्पणं चाह- तत इति सार्धेन ।। 5-6 ।।
[1 `स' नास्ति- अ.।]

अर्घ्योदकेन शिरसा पवित्रीकृत्य साम्प्रतम् ।। 6 ।।

नतजानुशिरः शिष्यं कृत्वासौ श्रावयेत् प्रभुम् ।
त्वदा[1]राधनकामोऽयं व्रतं चरितुमिच्छति ।। 7 ।।

सङ्कल्पसिद्ध्यै भगवन् पूरयास्य मनोरथान् ।
इति विज्ञाप्य देवेशं ततः पुष्पाणि दापयेत् ।। 8 ।।
ततः [2]शिष्यं शिरोमन्त्रेण प्रोक्ष्य तं नतजानुशिरस्कं कृत्वा त्वदाराधनश्लोकं विज्ञाप्य शिष्याञ्जलिस्थपुष्पाणि मण्डलोपरि प्रदापयेदित्याह- अर्घ्योदकेनेति सार्धद्वाभ्याम्। यद्यप्यस्मिन् त्वदाराधनकामोऽयमित्यादिश्लोके व्रतशब्दस्य विद्यमानत्वात्, अयमस्येति पदद्वयेन पुरोव(र्ति)शिष्यस्योक्तत्वाच्च व्रतप्रकरण एवाचार्येण विज्ञापनीयोऽयं श्लोकः, तथापि नित्याराधनस्यापि शातवार्षिकव्रतरूपत्वात्, अयमस्येति पदद्वयस्य स्वात्मव्यवहारेऽपि योग्यत्वाच्च वङ्गिवंशेश्वरकृत[3]नित्यार्चनकारिकादिष्वप्ययं श्लोकः प्रतिपादितः। अतोऽस्मत्तातपादैरपि सात्वतामृ-ते चोक्त इति बोध्यम् ।। 6-8 ।।
[1 त्वय्या- मु. अटी.।]
[2 `शिष्यं' नास्ति- अ.।]
[3 नित्यार्चनप्रकरणं नित्यार्चनकारिका वाऽऽह्निककारिकातोऽभिन्नो ग्रन्थः। तत्र 39 संख्याकोऽयं श्लोकः।]

अष्टाङ्गमथ वै कुर्यात् प्रणामं सप्रदक्षिणम् ।
भूयो भूयोऽनवच्छिन्नं भक्तिश्रद्धापुरस्सरम् ।। 9 ।।
प्रदक्षिणप्रणामावाह- अष्टाङ्गमिति। चतुर्मूर्तीनामपि[1] चतुर्वारं प्रणामस्य कर्तव्यत्वाद् भूयो भूय इत्युक्तम्, नैतावताऽसकृत् प्रणामसिद्धिः ।। 9 ।।
[1 मिति- अ.।]

ततस्तस्योपदेष्टव्यं विधानं मन्त्रपूर्वकम् ।
सान्तं[1] षष्ठस्वरारूढमनुस्वारविभूषितम् ।। 10 ।।

बीजमाद्यस्य च विभोर्वासुदेवस्य कीर्तितम्[2] ।
तदेव जीवबीजस्थं षष्ठस्वरविवर्जितम् ।। 11 ।।

द्वितीयस्वरसंयुक्तं सङ्कर्षणस्य बीजराट् ।
उभयोरन्तरे रेफमाद्यबीजस्य योजयेत् ।। 12 ।।

बीजं प्रद्युम्ननाथम्य तृतीयं सर्वकामदम् ।
जीवारूढं हकारं तु लान्तस्योपरि विन्यसेत् ।। 13 ।।

विसर्गसहितं बीजमनिरुद्धस्य वाचकम् ।

शिष्यस्य व्रतार्थं मन्त्रोपदेशमाह- तत इत्यर्धेन। वासुदेवादिबीजचतुष्टयमाह- सान्तमिति चतुर्भिः। सान्तं सकारान्ते स्थितं हकाराख्यं वर्णं षष्ठस्वरारूढम् ऊकारान्वितम् अनुस्वारविभूषितं बिन्दुसंयुक्तम्। तथा च हूमिति वासुदेवस्य बीजं भवति। तदेव हकाराख्यं वर्णमेव। जीवबीजस्थं सकारान्वितम् षष्ठस्वरविवर्जितम् ऊकाररहितम् द्वितीयस्वरसंयुतम् आकारान्वितम्। तथा च ह्रूमिति प्रद्युम्नस्य बीजं भवति। जीवारूढं सकारस्थं हकारं लान्तस्य वकारस्योपरि न्यसेत्, विसर्गसहितम् अन्तिमस्वरसंयुक्तं च कुर्यात्। कथा च ह्स्वमित्यनिरुद्धबीजं भवति।
ननु मकारस्य जीवबीजत्वं युक्तं प्रसिद्धं च, सकारस्य जीवबीजत्वं कथमिति चेदुच्यते-
त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ।।
ककारं[3] च क्षकारं च लिखेत् तद्वत् त्रिधा त्रिधा । (8/22-23)
इति वक्ष्यमाणश्लोकस्थितजीवबीजशब्दस्य पारमेश्वरे-
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ।।
त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा । (24/77-78)
इति सकारपरत्वं सुस्पष्टं व्याख्यातं पश्यतु भवान्। किञ्च,
वासुदेवाख्यया होऽभूत् साख्यः संकर्षणोदयः ।।
प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया । (19/31-32)
इति लक्ष्मीतन्त्रोक्तरीत्या सकारस्य सङ्कर्षणबीजत्वाद् जीवबीजत्वव्यवहारः। जीवाधिष्ठातृत्वात् सङ्कर्षणस्य जीवव्यवहारः "वासुदेवात् सङ्कर्षणो नाम जीवो जायते" (2/2/39 श्रीभाष्ये) इत्यत्र प्रसिद्धः। तथा च श्रीमद्भाष्ये-
"अत्र जीवमनोऽहङ्कारतत्त्वानामधिष्ठातारः सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दैरभिधानमविरुद्धम्" (2/2/41)इति ।। 10-14 ।।
[1 सोऽन्तं- मु.।]
[2 र्तनम्- बक. बख. उ.।]
[3 अकारं-म., हकारं- अ.।]


द्विभुजाः सर्व एवैते सूर्येन्दुशतसन्निभाः ।। 14 ।।

तेजसा त्वत्र भेदोऽस्ति स्वरूपेण सितादिना ।
दक्षिणोत्तरपाणिभ्यां तर्जनीमध्यमान्तरे ।। 15 ।।

आद्यस्य चक्रशङ्खौ द्वौ ध्येयावंसद्वयोपरि ।
स्कन्धसूत्रसमस्थेन दक्षिणेन तु पाणिना ।। 16 ।।

गृहीत्वा मुष्टिबन्धेन विश्रान्ता पीठपृष्ठतः ।
ध्येया गदा द्वितीयस्य तथाभूते करे परे ।। 17 ।।

संस्मरेद्धेतिराड् दीप्तं[1] लीलाक्षेपक[2]रोद्यतम् ।
एवं प्रद्युम्ननाथस्य व्यत्ययेन तु ते उभे ।। 18 ।।

दक्षिणोत्तरहस्ताभ्यां श्रोत्रमण्डलसम्मुखौ ।
शङ्खपद्मौ चतुर्थस्य तथाकृष्टौ तु संस्मरेत् ।। 19 ।।

किन्तु वै पङ्कजं नालमस्य वै पाणिपृष्ठगम् ।
वासुदेवादिमूर्तिध्यानप्रकारमाह- द्विभुजा इत्यारभ्य पाणिपृष्ठगमित्यन्तम् ।। 14-20 ।।
[1 दीप्त- बक. बख. अ. उ.।]
[2 इवो- मु. बक. बख. अ. उ.।]

हकारं च सकारस्थं कृत्वा षोढा निवेश्य च ।। 20 ।।

द्वितीयतुर्यषष्ठाष्टद्वि[1]षट्कदशकैः क्रमात् ।
स्वरै[2]र्नियोजयेद् विद्धि हृदाद्यान्नेत्र[3]पश्चिमान् ।। 21 ।।

चातुरात्मीयमन्त्राणां साधनत्वेन सर्वदा ।
अथ वासुदेवादीनां चतुर्णामपि साधारणानि हृदयाद्यङ्गमन्त्रबीजान्याह- हकारमिति द्वाभ्याम्। हकारं सकारस्थं कृत्वा षोढा विलिख्य द्वितीयतुर्यषष्ठाष्टद्विषट्कदशकैः स्वरैः, आकारेण ईकारेण ऊकारेण ऋकारेण [4]ऐकारेण लृकारेण च क्रमेण योजयेत्। तथा च - ह् सां ह् सीं ह् सूं ह् सॄं ह् सैं ह् लृं इति बीजषट्कं भवति। एतद् हृदादिनेत्रमन्त्रषट्[5]के क्रमाद् योजयेत्। एवं कवचमन्त्रादिबीजत्रयेऽष्टमद्वादशदशमस्वराणां संयोजनं क्वाचित्कम्, न सार्वत्रिकम्। यतोऽत्रैव नृसिंहकल्पे-
द्वितीयतु[6]र्यषष्ठैश्च द्वादशेनान्तिमेन च ।
चतुर्दशेनाराद्वर्गात् क्रमाद्वै विनियोजयेत् ।। (17/9)
इति कवचादिबीजत्रयस्य स्वरान्तसंयोजनमपि वक्ष्यति।। 20-22 ।।

[1 षट्कद्वादशकैः- अ. उ.।]
[2 रं नि- बक.।]
[3 द्यन्तेऽत्र - अ.।]
[4 `ऐकारेण' नास्ति- अ.।]
[5 षट्क- अ. ।]
[6 तुरीय- अ.।]

त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च[1] ।। 22 ।।

ककारं च क्षकारं च लिखेत् तद्वत् त्रिधा त्रिधा ।
द्विषट्कमेव बीजानां क्रमादादौ[2] निवेश्य च ।। 23 ।।

ततो वायुधरावारिसंज्ञं यच्चाक्षरत्रयम् ।
पौनःपुन्येन सर्वेषामधोभागे नियोजयेत् ।। 24 ।।

सर्वे षष्ठस्वरारूढा अनुस्वारविभूषिताः ।
बोद्धव्याः केशवादीनां बीजास्त्वेते पृथक् पृथक् ।। 25 ।।
अथ केशवादीनां द्वादशबीजान्याह- त्रिधेति सार्धैस्त्रिभिः। आदौ त्रिधा त्रिवारं हकारं विलिख्य, तथैव जीवबीजं सकारं विलिख्य, ककारं क्षकारं तद्वत् त्रिधा विलिखेत्। एवं बीजानां द्विषट्कमादौ निवेश्य वायुधरावारिसंज्ञं यदक्षरत्रयं यकारलकारवकारत्रयम्, सर्वेषां पूर्वं विलिखितद्वादशबीजानामधोभागे पौनःपुन्येन योजयेत्। सर्वे षष्ठस्वरारूढा ऊकारान्विताः, अनुस्वारविभूषिता बिन्दुयुक्ताः केशवादिबीजा ज्ञेयाः। तथा चैवं प्रयोगः- ह्यूं ह् लूं ह् वूं स्यूं स्लूं स्वूं क्यूं क्लूं क्वूं क्ष्यूं क्ष्लूं क्ष्वूं इति।
अयमेवार्थः पारमेश्वरेऽपि सुस्पष्टमुपबृंहितश्चतुर्विंशेऽध्याये-
क्रमशः केशवादीनां मन्त्राणां लक्षणं शृणु ।
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ।।
त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा ।
पौनःपुन्येन सर्वेषां यलवान् योजयेदधः ।।
नाभिषष्ठा[3]सनोर्ध्वस्थान[4]ङ्कयेद् बिन्दुनोपरि ।
तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ।।

केशवः प्रथमो वाच्यस्ततो नारायणः परः ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ।।
त्रिविक्रमो वामनाख्यः श्रीधरः पद्मलोचनः ।
हृषीकेशः पद्मनाभो दामोदर इति श्रुतः ।।
[5]बीजैर्दीर्घस्वरोपेतैः प्राग्वदङ्गानि कल्पयेत् । इति ।
[पा. सं. 24/77-82]
अत्र नेमौ नवमं हकारमित्यर्थः। अष्टमं सकारम्। अराद्यं ककारम्। मातृकान्तिमं क्षकारमित्यर्थः। नाभिषष्ठासनोर्ध्वस्थानि ऊकारान्वितानीत्यर्थः। हृदयान्तानि नमः-पदान्तानीत्यर्थः। एवं च सात्वतोक्तं पारमेश्वरोक्तं चैककण्ठ्यम्। पारमेश्वरे व्याख्याने तु- सं हं कं क्षं सं हं कं क्षं सं हं कं क्षं इति केशवादिबीजानि लिखितानि। तान्यपहास्यानि, यतो हकारात् पूर्वं सकारलेखनं हकारादीनां प्रत्येकं त्रिधा त्रिधा लेखनं विना परस्परवर्णव्यवहितलेखनं बीजैकदेशमात्रमपि लेखनं चोन्मत्तकार्यम् ।। 22-25 ।।
[1हि- उ.।]
[2 क्रमेणा- उ.।]
[3 षष्ठस्वरो- मु.।]
[4 न्यङ्क- अ. म.।]
[5 दिव्य- अ.म.।]

क्ष[1]सहत्रितयं ह्येतच्चतुर्धा विलिखेत् क्रमात् ।
ततो द्विषट्कं बीजानां तस्याधो विनिवेश्य च ।। 26 ।।

क्रमेण सप्तमाद् वर्गाद् द्वितीयं च चतुर्थकम् ।
पुनस्तृतीयं तुर्यं च द्वितीयं च तृतीयकम् ।। 27 ।।

द्वितीयं च चतुर्थं च चतुर्थं तदनन्तरम् ।
तृतीयमष्टमा[2]च्चाथ तृतीयं सप्तमात् पुनः ।। 28 ।।

नवमद्वादशाभ्यां तु विशेषमिममाचरेत्[3] ।
अथो नियोजयेद् रेफं तत्त्रयाणां तु मूर्धनि ।। 29 ।।

षट्सप्तमाष्टसंज्ञानामी[4]कारमुपरि न्यसेत् ।
सानुस्वारं च सर्वेषामिति देवीगणस्य च ।। 30 ।।

बीजद्वादशकं प्रोक्तं यथा चानुक्रमेण तु ।
श्रीश्च वागीश्वरी कान्तिः क्रिया शक्तिर्विभूतयः ।। 31 ।।

इच्छा प्रीति रतिश्चैव माया धीर्महिमेति च ।
ततः केशवादिदेवीनां बीजद्वादशकमाह- क्षसहत्रितयमित्यादिभिः। क्षसहत्रयं क्षकारसकारहकारत्रयमपि क्रमेण चतुर्धा चतुर्वारं विलिखेत्। एवं कृते बीजानां द्विषट्कं भवति। तेषां बीजानामधस्तात् क्रमेण सप्तमाद्वर्गाद् यरलवात्मकाद् द्वितीयं रेफम्, चतुर्थकं वकारम्, तृतीयं लकारम्, तुर्यं वकारम्, द्वितीयं रेफम्, तृतीयकं लकारम्, द्वितीयं रेफम्, चतुर्थं वकारम्, पुनश्चतुर्थँ वकारम्। अष्टमात् शकारादिवर्णात्मकाद् वर्गात् तृतीयं सकारम्। सप्तमात् पूर्वोक्ताद् वर्गात् तृतीयं लकारं पुनरित्यनेन पुनश्च लकारमेव नियोजयेत्। नवमद्वादशाभ्यां बीजाभ्यामधो रेफं नियोजयेत्। षट्सप्ताष्टसंज्ञानां बीजानां तु मूर्ध्नि रेफं नियोजयेत्। अयमेव विशेषः। सर्वेषां द्वादशबीजानामप्युपरि सानुस्वारम् ईकारं न्यसेत्। एवं बीजद्वादशकमुक्तं भवति। एषां बीजानां क्रमेण [5]वाच्याः श्रीवागीश्वर्यादयः। अयमेवार्थः सुव्यक्तमुपबृंहितः पारमेश्वरेऽपि-
तेषां श्रियादिकान्तानां शृणु मन्त्राननुक्रमात् ।।
मातृकान्त्यत्रयं[6] क्षाद्यं चतुर्धा प्रस्तरेत् पुरा ।
द्विष[7]ट्सु योज्यान्यर्णानि त्वधोभागे यथाक्रमम् ।।
अग्न्यम्बुपृथिवीवारिवह्निभूज्वलनाः क्रमात् ।
वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ।।
योजयेदनलं वर्गं षट्सप्ताष्टसु मूर्धनि ।
[8]अथो नवद्वादशयोः सर्वेषां चोर्घ्वतः पुनः ।।
स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत् ।
स्वरजात्यादियुक्तानि बीजानि [9]सुहृदादयः ।। (24/82-86) इति।
तथा चात्रैवं प्रयोगः - क्षीं स्वीं ह् लीं क्ष्वीं स्त्रीं ह् र्लीं र्क्ष्रीं र्स्वीं ह् व्रीं क्ष्सीं स्लीं ह् ल्रीं इति ।। 26-32 ।।
[1 क्षमस- मु.।
[2 मष्टमं चा- मु. अटी. बक. बख.।]
[3 मिममाम च - मु. अटी.।]
[4 मिकार- मु. अटी., मोकार-अ.।]
[5 वाच्यम्- अ.।]
[6 कान्तं क्षयं- अ. म.।]
[7 विष्वक्सु- मु.।]
[8 अधो- मु.।]
[9 हृदयादयः- मु.।]


समुद्रमूर्तये स्वाहा पद्मस्य प्रणवादिकः[1] ।। 32 ।।

सर्वान्तश्चारिणे कृत्वा ततो गगनमूर्तये ।
स्वाहान्तः प्रणवाद्य[2]श्च मन्त्रः शङ्खस्य कीर्तितः ।। 33 ।।

ॐ कारो वेदमात्रेऽथ विद्ये स्वाहा पदं तु वै ।
गदामन्त्रस्त्वयं प्रोक्तश्चक्रस्याथ निगद्यते ।। 34 ।।

ॐकारान्ते पदं दद्यात् पञ्चार्णं प्रभविष्णवे ।
[3]तदन्ते कालशब्दं तु मूर्तये हुँ ततस्तु फट् ।। 35 ।।

पद्मादीनां चतुर्णां[4] तु एतन्मन्त्रचतुष्टयम् ।
अथ पद्मशङ्खगदाचक्राणां मन्त्रचतुष्टयमाह- समुद्रमूर्तये इत्यादिभिः। तथा चात्रैवं प्रयोगः- ॐ समुद्रमूर्तये स्वाहा, ॐ सर्वान्तश्चारिणे गगनमूर्तये स्वाहा, ॐ वेदमात्रे विद्यायै स्वाहा, ॐ प्रभविष्णवे कालमूर्तये हुं फट् इति। अत्र समुद्रस्य पद्माधिष्ठातृत्वात्, गगनस्य शङ्खाधिष्ठातृत्वात्, सरस्वत्या गदाधिष्ठातृत्वात्, कालस्य चक्राधिष्ठातृत्वाच्च समुद्रमूर्तादिशब्दैः पद्मादीन्युक्तानीति बोध्यम् ।
समुद्रादीनां पद्माद्यधिष्ठातृत्वं त्रयोदशपरिच्छेदे वक्ष्यमाणं द्रष्टव्यम्। इदं पद्मादिमन्त्रचतुष्टयं वासुदेवादिव्यूहार्चने केशवादिव्यूहान्तरार्चने[5] च कार्यम्। विभवार्चने तु प्रकारान्तरेण वक्ष्यमाणायुधमन्त्रा ग्राह्याः। अत एवास्मत्तातपादैः सात्वतामृते नारायणमूर्त्यर्चनप्रकरणादिदमेव पद्मादिमन्त्रचतुष्टयं प्रतिपादितम् ।। 32-36 ।।
[1 दिकाः- अटी., कम्- अ.।]
[2 वान्त- मु. अटी. बक. बख. अ.।]
[3 पङ्क्तिचतुष्टयं नास्ति- मु. अटी.।]
[4 र्णामप्ये- अ., र्णां त्वप्ये- उ.।]
[5 न्तरेऽर्चनाच्च- अ.।]

सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः कृता ।। 36 ।।

स्वेन स्वेन तु मन्त्रेण संयुक्तानां प्रयोजयेत् ।
अथ सर्वमन्त्रसाधारणाञ्जलिमुद्रामाह- सामान्येति। यद्यप्येवमञ्जलिमुद्राया एव सर्वसाधारणत्वोक्त्या सर्वत्रेयमेव प्रयोक्तव्या, तयाप्यत्रैव कतिपयमुद्राविशेषाणां नृसिंहकल्पादिषु वक्ष्यमाणत्वात् तदनुरोधे(च?न) सात्वतोपबृंहणे ऐश्वरतन्त्रे[1] च केषाञ्चिन्मुद्राविशेषाणां प्रदर्शितत्वाच्च तद्व्यतिरिक्तानां केवलमञ्जलिमुद्रैव प्रदर्शनीयेति बोध्यम् ।। 36-37 ।।
[1 चतुर्विंशेऽध्याये।]

श्लिष्टौ विकसितौ[1] हस्तौ योज्यौ चामणिबन्धनात् ।। 37 ।।

तद्ब्राहुकूर्परौ द्वौ च नाभौ संरोध्य दण्डवत् ।
ईषद् वै डोलयेत् पश्यादथ[2] ऊर्ध्वे च[3] तौ करौ ।। 38 ।।

गुप्तिं[4] कृत्वा तु योज्यैषा मुद्राऽऽराधनकर्मणि ।
आराधनकाले प्रयोज्यां मुद्रामाह- श्लिष्टाविति द्वाभ्याम्। स्वहस्तौ परस्परसंश्लिष्टौ विकसितौ च [5] कृत्वा तद्बाहुकूर्परौ द्वौ मणिबन्धपर्यन्तं निरन्तरं संयोज्य दण्डवत् स्वनाभौ संरोध्य हस्तौ अ(थ?ध) ऊर्ध्वं च किञ्चिच्चालयेत्। एषा मुद्रा गुप्तिं कृत्वा योज्या, गोप्येत्यर्थः ।। 37-39 ।।
[1 कासि- मु.।]
[2 कौ सरौ-मु., कौर्परौ- अ., कोपरि- उ.।]
[3 दध- मु. अटी. अ. उ.।]
[4 गुप्तिः- मु. अटी.।]
[5 `च' नास्ति- मु.।]

आसाद्य प्राक्स्थितामर्चां स्वयं वा समपृष्ठताम्[1] ।। 39 ।।

सर्वलक्षणसम्पन्नां[2] यस्यां चेतः प्रसीदति ।
[3]व्रताराधनार्थं स्वयंव्यक्ता[4]न्यतमबिम्बं सलक्षणं सुप्रतिष्ठितं बिम्बं वा स्वेच्छानुसारेण प्राप्यमित्याह- आसाद्येति ।। 39-40 ।।
[1 गाम्- अटी.।]
[2 सम्पूर्णां- बक. बख. अ. उ.।]
[3 वृथा- अ., वृता- मु.।]
[4 क्तादन्य- मु.।]

हेमादिनिर्मितं कुर्यात् पीठं वा लक्षणान्वितम् ।। 40 ।।

शमं[1] त्रिभागन्यूनं[2] वा द्वादशाङ्गुलविस्तृतम् ।
चतुरश्रं चतुष्पादं विस्तरार्धेन चोन्नतम् ।। 41 ।।

तृतीयं भागमादाय विस्तरा[3]च्च स्वकं[4] स्वकम् ।
तेन तन्मध्यगं कुर्यात् कमलं लक्षणान्वितम् ।। 42 ।।

द्विषट्कारं तु तद्बाह्ये चक्रं सर्वाङ्गचिह्नितम् ।
सिद्धामरनरादीनां हृदयस्थाऽ[5]क्षयाऽऽच्युती ।। 43 ।।

मृदूच्चचरणाक्रान्ति[6]निर्मुक्ताऽऽकृतिलक्षणा ।
पादा[7]म्बुरुहमुद्रा।़थ कार्या वै कर्णिकोदरे ।। 44 ।।

सम्पाद्य चैवमाधारं पीठं वाऽर्चान्वितं स्मरेत् ।
बिम्बं विनाऽर्चनार्थं केवलपीठं वा कुर्यादिति तल्लक्षणमाह- हेमादिनिर्मितमित्यादिभिः। शमं चतुरङ्गुलविस्तृतमित्यर्थः। "शमः स्याच्चतुरङ्गुलः" (3/1/52) इति वैजयन्ती। सममिति पाठे समं निम्नोन्नतत्वरहितमित्यर्थः। [8]यद्वा आयामविस्तराभ्यां सममित्यर्थः। त्रिभागन्यूनं वा अष्टाङ्गुलं[9] वेत्यर्थः। द्वदशाङ्गुलस्य त्रिष्वेकभागराहित्येऽष्टाङ्गुलं भवति। एवमुक्तं [10]द्वितीयपरिच्छेदेऽपि- "मृत्काष्ठो[11]पलधातूत्थमेकद्वित्रिशमं तु वा" (2/47) इति। द्विषट्कारं द्वादशारमित्यर्थः। सिद्धामरनरादीनां हृदयस्था, तेषां ध्यानविषयीभूतेत्यर्थः। अक्षया [12]अन्तरहिता, आच्युती भगवदीया, चरणाक्रान्तिनिर्मुक्ताकृतिलक्षणा चरणयोराक्रान्तिराक्रमणं [13]पदन्यास इति यावत्, तेन निर्मुक्ता या आकृतिस्तल्लक्षणा, तथेत्यर्थः। भगवत्पादपद्मस्यातिकोमलत्वेऽपि तत्सुखस्पर्शपीठपद्मस्य ततोऽप्यतिशयितमृदुत्वात् तदुपरि पादलाञ्छनं स्फुटीभवतीति ज्ञेयम्। पादाम्बुरुहमुद्रा। पद्मसदृशश्रीपादद्वन्द्वलाञ्छनमित्यर्थः ।। 40-45 ।।
[1 समं- मु., सम. बख. अ. उ.।]
[2 गं- बक. भक. अ. उ.।]
[3 स्तारा- बख. अ. उ.।]
[4 स्वरं- मु. अटी.।]
[5 क्षराच्युति- मु. अटी.।]
[6 कान्ति- मु. अटी.।]
[7 पदा- बक. बख. ।]
[8 यतः- अ.।]
[9 ङ्गमि- अ.।]
[10 तृतीय- अ.।]
[11 ष्ठोपलया- म., ष्ठो वलयात्मार्थमेकद्वित्रिममुं तु वेति- अ.।]
[12 अन्तर्हिता- अ., अन्तरहिता- मु.।]
[13 पाद- म.।]

पादाब्जमुद्रारहितं कुण्डं तदनु कल्पयेत् ।। 45 ।।

फुल्लपद्मसमाकारमोष्ठयोनिसमन्वितम् ।
चलमेकदिशिस्थं वा ततो नियममाचरेत् ।। 46 ।।

संवत्सरस्य पूजार्थं विभोर्वै द्वादशात्मनः ।
कुण्डलक्षणमाह- पादाब्जेति सपादेन। कुण्डस्य पादाब्जमुद्रारहितत्वोक्त्या केवलसचक्रपद्मलाञ्छनं कुण्डमध्येऽपि कार्यमित्युक्तं भवति। पादाब्जमुद्रारहितमित्यस्य पूर्वेणैवान्वये पीठलक्षणस्यैव पक्षान्तरमुक्तं भवति। ओष्ठयोनिसमन्वितमित्यत्र तल्लक्षणं कुण्डलक्षणप्रकरणे वक्ष्यमाणं ज्ञेयम्। चलं जङ्गमरूपमित्यर्थः। एकदिशिस्थं स्थावरमित्यर्थः। तथा च पारमेश्वरे- "तस्मात् कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम्" (7/3) इति। व्रताचरणमाह- तत इति सपादेन। द्वादशात्मनः केशवादिरूपस्येत्यर्थः ।। 45-47 ।।

मार्गशीर्षात् समारभ्य मासाद्वै कौमुदान्तिमम्[1] ।। 47 ।।

मासेशमन्त्रसंजप्तं युक्तं हेम[2]कुशाम्बुना ।
दशम्यां पञ्चगव्यं च पिबेत् सम्पूज्य केशवम् ।। 48 ।।

तन्निवेदितमन्नं च प्राग्भुक्त्वा तु घृतादिकम् ।
नातीव तृप्तिजनकं दन्तकाष्ठमथाचरेत् ।। 49 ।।

शयनं मन्त्रतोयेन प्रोक्षयेत् सकुशं ततः ।
शयनस्थो जपेन्मन्त्रं शतमष्टाधिकं तु वै ।। 50 ।।
मार्गशीर्षशुक्लदशम्यां रात्रौ कर्तव्यक्रममाह- मासेति सार्धत्रिभिः। मासेशमन्त्रसंजप्तम् प्रकृतमासेशः केशवः, तन्मन्त्राभिमन्त्रितमित्यर्थः ।। 47-50 ।।
[1 कम्- बक. बख. अ. उ.।]
[2 होम- मु. अटी.।]

एकादश्यां प्रभातेऽथ मध्याह्ने वा[1] दिनक्षये ।
केशवाय नमस्कुर्याद् बहुशः प्रणवादिकम् ।। 51 ।।

तस्य वै पूजनं भक्त्या कुर्यात् कालत्रयं तु वै ।
एकादश्यां केशवस्य कालत्रयस्यार्चनमाह- एकादश्यामिति सार्धेन। केशवाय नमस्कुर्याद् बहुशः प्रणवादिकमित्यन्तेन ॐ केशवाय नम इति मन्त्रमसकृज्जपेदित्युक्तं भवति ।। 51-52 ।।
[1 दिवस- अ., वा दिवा- उ.।]

सर्वगं परमं ज्योतिरमूर्तममलं हि यत् ।। 52 ।।

स एव वासुदेवेति[1] मत्वा सम्यग् यजेत् ततः ।
चेतसामृतसंकाशैः पुष्पाद्यैरखिलैः प्रभुम् ।। 53 ।।

पश्चात् तममलं धाम ध्यायेन्मु[2]क्तमनश्वरम् ।
श्रोणीतटार्पितकरं सानुकम्पमनू[3]पमम् ।। 54 ।।

दक्षिणेन तु हस्तेन भक्तानामभयप्रदम् ।
पुष्पाभरणवस्त्राढ्यं शङ्खचक्रद्वयान्वितम् ।। 55 ।।

ततस्तस्मात्तु वै धाम्नो युगपन्निस्सृतं स्मरेत् ।
महत्स्फुलिङ्गसंकाशं महस्तु[4] सततोदितम् ।। 56 ।।

तेन चाक्रमरावृन्दं समाक्रान्तं च भावयेत् ।
अथ प्रत्येकतेजोंऽशादुद्भूतं भावयेत् क्रमात् ।। 57 ।।

त्रयं त्रयं सिताद्यं[5] च केशवाद्यं चतुर्भुजम् ।

अथ परात्परवासुदेवस्य मानसार्चनपूर्वकं मूर्तिध्यानम्, तस्माद्वासुदेवादिव्यूहोत्पत्तिकथनम्[6], तेभ्यः केशवादीनामुत्पत्तिभावनां चाह- सर्वगं परमं ज्योतिरित्यादिभिः। अत्र[7] त्रयं त्रयं सिताद्यमित्यनेन केशवादित्रिकस्य वासुदेववत् सितवर्णत्वं गोविन्दादित्रिकस्य संकर्षणवद्रक्तवर्णत्वं चोक्तं भवति। तथा च पौष्करे पञ्च[8]त्रिंशेऽध्याये-

दक्षिणोत्तरपाणिभ्यां पृष्ठतः केशवादिषु ।। 58 ।।

युग्मं युग्मं परिज्ञेयं क्रमेणोर्ध्वगतं त्विदम्[1] ।
शङ्खचक्रकजं विद्या[2] साथ शङ्खोऽथ[3] हेतिराट् ।। 59 ।।

तच्छङ्खं[4] सकजं विद्याऽशङ्खं चक्रं गदा त्वरि[5] ।
गदा चक्रं कजं पद्मं चक्रं शङ्खं ततो गदा ।। 60 ।।
केशवादीनां पश्चात्करद्वयस्थितलाञ्छनक्रममाह- दक्षिणोत्तरेति सार्धद्वाभ्याम्। कजं पद्ममित्यर्थः। विद्या गदेत्यर्थः। तद् अम्बुजं सशङ्खमित्यर्थः। विद्याशङ्खमित्यत्र विद्याऽशङ्खमिति पदच्छेदः। अशङ्खं चक्रमित्यर्थः। यतोऽन्यथा त्रिविक्रमस्य शङ्खद्वयसाधारणं भवति। ननु किं तावता प्रत्यवाय इति चेन्न, प्रत्येकमायुधचतुष्टयधारणनियमात्। विद्या चक्रमिति पाठश्चेदेवं क्लिष्टकल्पनश्रम एव[6] नास्ति। अरि चक्रमित्यर्थः।। 58-60 ।।
[1 च तम्- मु अटी., च तत्- उ.।]
[2 विद्यात्- इति सार्वत्रिकः पाठः।]
[3 गदाम्बुजम्- बक. बख. अ. उ.।]
[4 पङ्क्तिपञ्चकं नास्ति- मु. अटी.।]
[5 त्वरिम्- बक. बख. उ.।]
[6 `एव नास्ति.....पुन सशङ्ख इत्यर्थः' नास्ति- मु.।]

तद्वद् भूयोऽग्रसंस्थाभ्यामधरस्थं द्वयं द्वयम् ।
ज्ञेयं दामोदरान्तानां द्वादशानामिदं श्रृणु ।। 61 ।।

पद्मं गदा ध्वनिश्चक्रं [1]तत्पद्मं हेतिराड् ध्वनिः ।
विद्या[2] चक्रं च तद्विद्यात् पद्मं शङ्खं[3] च सा[4]ऽम्बुजम् ।। 62 ।।

पद्मध्वनिगदाशङ्खाः स[5]विद्या[6]म्बुरुहं त्वरि[7] ।
अथ मुख्यहस्तद्वयस्थितायुधक्रममाह- तद्वदिति सार्धद्वाभ्याम्। ध्वनिः शङ्खमित्यर्थः। तत् चक्रमित्यर्थः। पुनः तच्चक्रमित्यर्थः। स शङ्ख इत्यर्थः। पुनः स शङ्ख इत्यर्थः। एवं च पद्मगदाशङ्खचक्रा[8]ख्यायुध[9]चतुष्टयधारणं केशवादिद्वादशमूर्तीनामपि समानम्, किन्तु हस्तभेदैस्तद्धारणमेव तत्तन्मूर्तेर्विशेषः। स च तन्त्रभेदेन नैकरूपः। वस्तुतस्तु पाद्मोक्त एव प्रायेणैतदेककण्ठो भवति । तथाहि-
केशवस्याम्बुजं शङ्खं चक्रं दण्डस्तथा[10]युधम् ।
प्रादक्षिण्येन बाहूनामन्येषामुच्यते क्रमात्।।
नारायणः शङ्खपद्मगदाचक्रधरः स्मृतः ।
माधवो गदया सार्धं शङ्खचक्राम्बुजायुधः ।।
गोविन्दश्चक्रदण्डाब्जशङ्खायुधधरो भवेत् ।
विष्णुर्गदाब्जशङ्खारिधरः स्यान्मधुसूदनः ।।
चक्रशङ्खाब्जदण्डास्त्रधरः कार्यस्त्रिविक्रमः ।
पद्मशङ्खारिदण्डास्त्रो वामनः शङ्खचक्रधृत् ।।
गदाब्जपाणिश्च तथा श्रीधरो धृतवारिजः ।
सार्धं चक्रगदाशङ्खो हृषीकेशमतः शृणु ।।
गदाचक्राब्जशङ्खास्त्रधरो दामोदरः स्मृतः ।
अब्जशङ्खगदाचक्रधरा द्वादश मूर्तयः ।। इति ।।
अत्र त्रिविक्रमपद्मनाभोक्तलक्षणं विनाऽन्यत् सर्वमेकरूपं ज्ञेयम् ।
नन्वेतदुक्तं नारायणमूर्तिलक्षणं यादवाचलस्थनारायणमूर्तौ न लक्ष्यत इति चेत्, [11]सत्यम्। न तावता प्रत्यवायोऽस्ति, स्वयंव्यक्तस्य निरङ्कुशत्वात्। ननु स च नारायणमूर्तिरेवेत्यत्र किं विनिगमकमिति चेत्, अस्ति पौराणि[12]की प्रसिद्धिः। न च पौराणिकनारायणशब्दस्य व्यापकत्वान्न मूर्तिनिर्णायकत्वमिति वाच्यम्,
केशवः केशिहा लोके कुरुक्षेत्रादिषु स्थितः ।
नारायणो मुनिश्रेष्ठाः स्थितो नारायणाचले ।।
(पौ. सं. 36/306; ई. सं. 20/21-22)
इति पौष्करेश्वरयोर्मूर्तिविशेषनियतशब्देनैव व्यक्तोक्तेः। किञ्च, पौष्करोक्तं नारायणमूर्तिलक्षणं यादवाचलस्थनारायणे लक्ष्यत एव। तथाहि-
सव्यापसव्यहस्ताभ्यां मुखाभ्यां तु गदाम्बुजे ।।
वामादौ शङ्खचक्रौ तु संधत्ते पश्चिमद्वये ।
नारायणाख्यो भगवान् (पौ. सं. 36/147-148) इति।
ननु तत्र मुख्यदक्षिणहस्तेऽम्बुजमपि न लक्ष्यत इति चेत्, अस्ति सूक्ष्मरेखारूपं कमलं तत्रेति संतोष्टव्यमायुष्मता। वक्ष्यति हि द्वादशे परिच्छेदे-
यस्मात् कार्यवशेनैव मूर्तीनामपि पाणिगाः ।
चतुःपद्मादयो मूर्ता मूर्ताः शान्तास्तथोद्यताः ।। (12/145) इति।
नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ।।
तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे ।
ललाटे चांसपट्टे तु पृष्ठपाणितलद्वये ।।
तनूरुहद्वये[13] मूर्ध्नि कर्मिणां प्रतिपत्तये । (12/168-170) इति।
अत एवेश्वरनारायणार्चनप्रकरणे पद्मन्यासादिकमप्युक्तम्। अलं प्रसङ्गेन ।। 61-63 ।।

[1 तं पद्मं- बक. ।]
[2 गदा-बक.।]
[3 पद्मः शङ्खश्च- मु. अटी.।]
[4 सोऽम्बुजम्- इति सार्वत्रिकः पाठः।]
[5 स्व- मु., स्त्व- अटी.।]
[6 बुद्ध्या- अ.।]
[7 हस्त्वरी- मु., हस्त्वरि- अटी. बख.।]
[8 चक्राद्या- अ.।]
[9 `चतुष्टय' नास्ति- अ.।]
[10 स्तदा- मु.।]
[11 `सत्यम्' नास्ति- अ.।]
[12 णिक- अ.।]
[13 चये- मु.।]

भूयो धामगणात् तस्मात् संस्मरेन्निस्सृतं महः[1] ।। 63 ।।

केशवादिविभागेन श्रियाद्यं च त्रयं त्रयम् ।
अथ केशवादिपत्नीवर्गस्योत्पत्तिमाह- भूय इति। तस्माद्धामगणाद् वासुदेवादिमूर्तिचतुष्टयादित्यर्थः। एवमेवोक्तं पाद्मेऽपि-
सुदर्शनाद्यायुधानि किरीटादिविभूषणम् ।
मूर्त्याविर्भावसमये सहैवैतानि जज्ञिरे ।।
देव्यः श्रियादयस्तत्तर्न्मूर्तिभेदसमाश्रिताः ।
श्रीवत्सादेव सकला जज्ञिरे दिव्यलाञ्छनात् ।। इति ।। 63-64 ।।
[1 महत्- बक. बख. अ. उ.।]

कमलादित्रयेणैव त्वन्योन्यत्वेन लाञ्छितम् ।। 64 ।।

बद्धपद्मासनस्थं च दिवि[1] दिक्षु च सम्मुखम्[2] ।
संबीजयेत् तु विनयाच्चामरेण सितेन च ।। 65 ।।
देवीद्वादशकं विशिनष्टि- कमला(दि?दी)ति सार्धेन ।। 64-65 ।।
[1 दिशि- बक. बख. ।]
[2 संभवम्- उ.।]

देवीद्वादशकं चैवं तासां रूपमथोच्यते ।
पूर्णचन्द्राननाः सर्वाः सर्वर्तुकुसुमान्विताः ।। 66 ।।

सर्वलक्षणसम्पन्नाः[1] सर्वाभरणभूषिताः ।
विद्रुमाभं[2] त्रयं त्वाद्यमपरं चम्पकप्रभम् ।। 67 ।।

प्रियङ्गुमञ्जरीश्यामं तृतीयं देवतात्रयम् ।
चतुर्थं त्रितयं ध्यायेज्जातीपुष्पसमप्रभम् ।। 68 ।।

आद्यायाः[3] कमलं पाणावन्यस्यां हेतिराट् करे ।
शङ्खं ध्यायेत्तृतीयस्यामेवं[4] ध्यायेत्[5] त्रिषु त्रिषु ।। 69 ।।

चतुस्त्रिर्देवतान्तानामेवमाद्यं त्रयं क्रमात् ।
तद्रूपलाञ्छनादिक्रममाह- तासामित्यादिभिः। आद्यायाः श्रियः, अन्यस्यां वागीश्वर्याम्, तृतीयस्यां कान्त्याम्, त्रिषु त्रिषु क्रियादिकेच्छादित्रिके मायादित्रिके चेत्यर्थः। चतुस्त्रिर्देवतान्तानां महिमान्तानामित्यर्थः। एवमाद्यं कमलादित्रयमेव पौनःपुन्येन ध्यायेदित्यर्थः।। 66-70 ।।
ॉ [1 सम्पूर्णा- अ. उ.।]
[2 विद्युदाभं- अटी.।]
[3 पङ्क्तिचतुष्टयं नास्ति- उ.।]
[4 `यस्या एवम्' इति सार्वत्रिकः पाठः]
[5 ध्यात्वा- अ.।]

स्मृत्वा सम्पूजनं कुर्याज्जागरेण समन्वितम् ।। 70 ।।

स्तोत्रैः[1] कथानकैर्वाद्यैर्गीतकैः क्षपयेन्निशाम् ।
एवं ध्यानपूर्वकमेकादश्यां कालत्रयार्चनं कृत्वा जागरणं कुर्यादित्याह- स्मृत्वेति ।। 70-71 ।।
[1 स्तोत्रैस्तथा- मु. अटी.।]

रात्रिक्षये ततः स्नायात् सिताम्बरधरः शुचिः ।। 71 ।।

[1]मासेशमन्त्रसन्नद्धं कृत्वा देवं स्मरेत् तथा ।
पूजापनयनं कृत्वा स्नानकर्म समाचरेत् ।। 72 ।।
द्वादश्यां प्रातः स्वनित्यकर्मानुष्ठानपूर्वकं तन्मासेशकेशवध्यानं रात्रौ तदर्पितपूजाद्रव्यापनयनादिकं कृत्वाऽर्चनकाले वक्ष्यमाणं स्नपनं[2] कुर्यादित्याह- रात्रिक्षय इति सार्धेन ।। 71-72 ।।
[1 मासेशं- अ.।]
[2 स्मरणं- अ.।]

मध्यतः केशव[1]स्यादौ केवलस्य[2] महात्मनः ।
वासुदेवस्वरूपस्य चक्रस्थस्य त्वनन्तरम् ।। 73 ।।

प्राग[3]रेऽभिनिविष्टस्य [4]सकलस्याव्ययस्य च ।
तदादिद्वादशानां च दद्यात् स्नानादिकं क्रमात् ।। 74 ।।
केशवादीनामर्चनस्थानान्याह- मध्यत इति द्वाभ्याम्। मध्यतः पीठमध्यस्थकर्णिकामध्य इत्यर्थः। केवलस्येत्यनेनारस्थाने देव्या सहार्चनम्। अत्र तु केशवस्येति ज्ञायते। वासुदेवस्व[5]रूपस्येत्यनेन चक्राधिष्ठातुः कालस्यापि प्रागरे केशवेन सहार्चनं ज्ञायते। तदादिद्वादशानां केशवादिद्वादशमूर्तीनामित्यर्थः ।। 73-74 ।।
[1 केवल- मु. अटी.।]
[2 केशवस्य- मु. अटी.।]
[3 पङ्कत्तित्रयं नास्ति- अ.।]
[4 सकाल- बख. उ.।]
[5 `स्वरूप' नास्ति- अ.।]

अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम् ।
दध्ना घृतेन मधुना सर्वौषधिजलेन च[1] ।। 75 ।।

बीजाम्बुफलतोयेन गन्धपुष्पाम्बुना ततः ।
हेमरत्नोदकेनाथ कुम्भस्थेन पृथक् पृथक् ।। 76 ।।
स्नपनद्रव्याण्याह- अम्बुनेति द्वाभ्याम्। अत्राम्बुना मध्यस्थकेशवस्य, पञ्चगव्येना[2]रस्थकेशवस्य, क्षीराद्येकादशकलशैर्नारायणादिदामोदरान्तानां च स्नपनमिति ज्ञायते।
नन्वीश्वरपारमेश्वरयोः-
अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम् ।
दध्ना घृतेन मधुना सर्वौषधिजलेन तु ।।
बीजाम्बुफलतोयेन गन्धपुष्पाम्बुना ततः ।
हेमरत्नोदकेन पूरितं तु यथाक्रमम् ।।
कलशानां द्विषट्कं यत् परमेतदुदाहृतम् ।
(ई. सं. 15/78-80; पा. सं. 14/79-81)
इतीदमेव स्नपनं द्वादशकलशात्मकत्वेन प्रतिपादितम्, इह भवता त्रयोदशकलशात्मकत्वेन व्याख्यातं कथ[3]मेतदविरुद्धं भवतीति चेत्, सत्यम्[4]। अविरोधं ब्रूमः- किमीश्वरपारमेश्वरयोरम्बुनेत्युक्तमात्रेण विरोधः? तत्र यथा मूलमम्बुनेत्यादिप्रतिपादनेऽपि तन्नविवक्षितम्, कलशानां द्विषट्कमित्युक्तत्वात्; पञ्चगव्यादीन्येव विवक्षितानि। यथा पारमेश्वरे भोगयागप्रकरणे (5/130) "लक्ष्म्याद्याः केसरादिषु" (12/81) इति जयाख्यवचने प्रतिपादितेऽपि तत्र लक्ष्मीर्न विवक्षिता, हृन्मन्त्र एव विवक्षितः, तद्वदिहापि विवक्षाधीनं बोध्यम्। अत एवास्मत्तातपादैः सात्वतामृते पञ्चगव्यादीन्येव प्रतिपादितानि ।
ननु च किमेतावता प्रयासेन, मध्यस्थकेशवस्याप्यभिषेकसिद्ध्यर्थं खलु भवता त्रयोदशकलशात्मकत्वमङ्गीक्रियते, तथा त्रयोदशकलशात्मकत्वं ममापीष्टमेव। अपि तु मध्यस्थितकेशवस्यारस्थितकेशवस्य चैकदेवतात्वादम्बुनैव पृथक् कलशाभिषेकः, नारायणादीनां तु पञ्चगव्यादिभिरिति ज्ञेयम्। एवं चात्र त्रयोदशकलशात्मकमेव स्नपनम्। तत्र तु अम्बुना कलशद्वयपूरणस्याप्रकृतत्वाद् द्वादशकलशात्मकत्वेनैव प्रतिपादितत्वाच्चाम्बुनैक एव कलशः पूर्यः। तथा चाम्बुनेति पदस्यापि सार्थक्यं भवतीति चेन्न, अम्बुनैव कलशद्वयपूरणे पञ्चगव्यादिद्वादशद्रव्येष्वेकतमस्य गत्यभावात्। न[5] च गन्धपुष्पाम्बुनेत्यत्रैकवचनाद् गन्धसहितपुष्पोदकमेवार्थः, न तु [6]द्रव्यद्वयम्। अतः पञ्चगव्यादीन्येकादशैवेति वाच्यम्, हेमरत्नोदकेनेत्यत्राप्येकवचनेन विनिगमनाविरहात् पञ्चविंशतिकलशस्नपनप्रकरणे गन्धपुष्पोदकयोर्हेमरत्नोदकयोश्च पार्थक्येनोक्तत्वाच्च।
नन्वम्बुना पञ्चगव्येनेत्याद्युक्तद्रव्येष्वेकं परित्यज्य पञ्चगव्यादीनामेव ग्रहणमनुचितमिति चेन्न, श्रीसात्वतषष्ठपरिच्छेदोक्तपञ्चविंशतिकलशस्नपने श्रीरादीनि परित्यज्य धात्रीफलोदकादिभिरेव द्वादशकलशस्नपनमीश्वरपारमेश्वरयोः प्रतिपादितं यथा समुचितं भवति, तद्वदिदमपि बोध्यम्।
ननु च तत्र निर्विवादं द्वादशैव द्रव्याणि प्रतिपादितानि, अत्र तु[7] त्रयोदशद्रव्याणामप्युक्तत्वात् तन्मध्ये किं त्याज्यम्, कानि ग्राह्याणि, तत्र किं विनिगमकमिति चेदुच्यते, मध्यस्थितस्य[8] केशवस्याभिषेकार्थं यदुक्तं तत् त्याज्यम्, अरस्थकेशवादिक्रमेण यान्युक्तानि, तानि द्वादशद्रव्याण्यपि ग्राह्याणि। केशवादिक्रमेणोक्तानां द्रव्याणां मध्ये कस्यचित् परित्यागानौचि[9]त्यमेव तत्र विनिगमकमिति सूक्ष्मदृष्ट्या द्रष्टव्यमायुष्मता ।। 75-76 ।।
[1 तु - अ. उ.।]
[2 तम्। कथमेतदुदाहृतमिति। अवि- अ.।]
[3 मपि विरोधं- अ.।]
[4 `न च' नास्ति- अ.।]
[5 चयम्- मु.।]
[6 व्यान्ये- अ.।]
[7 `तु' नास्ति- मु.।]
[8 स्थितकेशवाभि- मु.।]
[9 गादौचि- अ.।]

सितं विलेपनं पुष्पं धूपं मधु घृतं दधि ।
नैवेद्यं विविधं पूतं व्रीहयो[1] यवसंयुताः[2] ।। 77 ।।

निवेद्य राजते पात्रे यथाशक्तिविनिर्मिते ।
पात्रा[3]भावाच्च रजतं स्वल्पमात्रं[4] न लोपयेत् ।। 78 ।।
अथ केशवादित्रिकस्य सितवर्णत्वात् श्वेतवर्णचन्दनकुसुमादिभिरेव तदर्चनम्, रजतपात्रे यवव्रीहिमात्रानिवेदनम्, पात्रालाभे मात्रादानेन सह किञ्चिद्रजतं वा देयमिति चाह- सितमिति द्वाभ्याम् ।। 77-78 ।।
[1 `व्रीहयो.....पश्चात्तद्भगवत्पूतं' नास्ति- अ.।]
[2 तम्- मु. अटी. ।]
[3 यत्रा- मु.।]
[4 मत्र- बक. बख. उ.।]

पश्चात् तद्भगवत्पूतं मधुपर्कादिकं तु वै ।
प्रतिपाद्य गुरोर्भक्त्या प्रसन्नेनान्तरात्मना ।। 79 ।।
अनन्तरं गुर्वर्चनमाह- पश्चादिति ।। 79 ।।

यावान्नं व्रीहिजं त्वादौ समश्नीयाद् घृतान्वितम् ।
ततः प्रभृतिकालाच्च प्रत्यहं केशवस्य तु ।। 80 ।।
व्रतिनो भोज्यद्रव्यमाह- यवान्नमित्यर्धेन ।। 80 ।।

ततः प्रभृतिकालाच्च प्रत्यहं केशवस्य तु ।। 80 ।।

स्थानद्वयं[1] निविष्टस्य पूजनं च समाचरेत् ।
प्राग्वन्मध्ये केशवस्य देवीयुक्तस्य बाह्यतः ।। 81 ।।

ततो नारायणादीनां सदेवीनां च व क्रमात् ।
सर्वेषां पूजनं कुर्यात् प्रादक्षिण्येन यत्नतः ।। 82 ।।

यथासम्भवतो भक्त्या पुष्पधूपादिकेन तु ।
यावदभ्येति दशमी सिता पौषस्य वै तिथिः ।। 83 ।।
एवं पुष्यशुद्धदशमीपर्यन्तं प्रत्यहं केशवस्य कर्णिकामध्येऽरप्रदेशे च स्थानद्वयेऽर्चनम्, तत्र मध्ये केवलस्य[2], अरस्थाने देव्या सहार्चनम्, तथैवारस्थितानां नारायणादीनामपि तत्तद्देवीभिः सह प्रादक्षिण्येनार्चनं च कार्यमित्याह- तत इति सार्धैस्त्रिभिः ।। 80-83 ।।
[1 द्वये- मु. अटी., द्वय- अ. उ.।]
[2 केशवस्य- मु.।]

ततः प्रभृतिकालाच्च प्रागुक्तविधिनाऽखिलम् ।
नारायणाख्यमन्त्रेण व्रतकर्म समापयेत् ।। 84 ।।

तमर्चयेत् तु प्रथमं मध्ये कारण[1]मूर्तिगम् ।
बहिर्देवीसमेतं च प्राग्वत् स्नानादिना प्रभुम् ।। 85 ।।

द्वा[2]दश्यन्तं विधानेन केशवेन समन्वितम् ।
किन्त्वत्र[3] विहितं पश्चात् पूजनं केशवस्य च ।। 86 ।।

दिनावसाने द्वादश्यां धूपं दत्वा क्षमापयेत् ।
कान्तासमन्वितं देवं केशवं क्लेशनाशनम् ।। 87 ।।
अथ तद्दशमीमारभ्य[4] नारायणमन्त्रेण व्रतानुष्ठानम्, तदर्थं पूर्वोक्तकर्णिकामध्ये केवलस्य स्वकारणभूतवासुदेवाकारनारायणस्यार्चनम्, बहिररस्थाने नारायणस्य तद्देव्या सहार्चनम्, दशम्यादिद्वादश्यन्तं दिनत्रये नारायणस्यार्चनानन्तरं केशवस्यापि स्थानद्वयेऽर्चनम्, द्वादश्यां रात्रौ केशवस्योत्तरपूजां चाह- ततः प्रभृतीति चतुर्भिः ।। 84-87 ।।
[1 कारुण्य- मु. अटी.।]
[2 द्वादश्यां तं- मु. अटी.।]
[3 तत्र- बक. बख. मु. अटी.।]
[4 मीमित्या- अ.।]

अथ दामोदरान्ताभिर्मूर्तिभिश्च समन्वितम् ।
देवं[1] नारायणं भक्त्या परेऽहनि समर्चयेत् ।। 88 ।।

मध्ये केशववत् पश्चाच्चक्रस्थं केशवारके ।
केशवं च तदीयेऽरे यजेत् कान्तासमन्वितम् ।। 89 ।।

एवं प्रतिदिनं तावद् यावन्मासस्य सा तिथिः ।
ततो माधवमूर्तेर्वै प्राग्वदाराधनं भवेत् ।। 90 ।।
तदपरदिनमारभ्य माघशुक्लदशम्यन्तं नारायणस्यैव केशववत् स्थानद्वयेऽर्चनम्, तदनन्तरं केशवमाधवादीनां द्वितीयाद्यरेषु क्रमेण पूजनं च कार्यमित्याह- अथेति सार्धद्वाभ्याम्। केशवारके पूर्वकल्पे केशवो यस्मिन्नरे पूजितस्तस्मिन्नित्यर्थः। तदीयेऽरे नारायणः पूर्वं यस्मिन्नर्चितस्तस्मिन्नर इत्यर्थः। माघमासे माधवमन्त्रेण व्रतानुष्ठानं पूर्ववदेव[2] कार्यमित्याह- तत इत्यर्धेन। अत्र [3](प्रतिपदी? प्राग्वदि)त्यनेन माघशुक्लदशम्यादिद्वादश्यन्तं दिनत्रयेऽपि माधवस्य स्थानद्वयार्चनानन्तरं नारायणस्यापि स्थानद्वयेऽर्चनम्, द्वादश्यां रात्रौ नारायणस्योत्तरपूजनम्, तदपरदिनमारभ्य फाल्गुनशुद्धद्वादश्यन्तं माधवस्यैव स्थानद्वयेऽर्चनम्, द्वितीयाद्यरेषु केशवनारायणगोविन्दादीनामर्चनम्, तद्द्वादश्यां रात्रौ माधवस्योत्तरपूजनं चोक्तं भवति। तद्दशम्यादिद्वादश्यन्तं दिनत्रयेऽपि माधवार्चनात् पूर्वमेव गोविन्दादित्रिककारणभूतस्य संकर्षणस्य कर्णिकामध्ये वासुदेववत् परत्वेन ध्यानम्, तत्र तदाकारस्य गोविन्दस्यार्चनम्, तस्यारस्थानेऽपि देव्या सहार्चनम्, संकर्षणसमुत्पन्नगोविन्दादित्रिकस्य रक्तवर्णत्वेन चन्दनकुसुमवस्त्रभूषणनैवेद्यादीनामपि रक्तवर्णत्वम्, केषाञ्चित् कुसुमादीनामपि रक्तवर्णत्वाभावेऽपि केनचिद्रक्तधातुना तद्रक्तीकरणम्, ताम्रपात्रे सक्तुमात्रनिवेदनं च ।। 88-90 ।।
[1 पङ्क्तित्रयं नास्ति- अ.।]
[2 पूर्वादेव- अ.।]
[3 प्रापदि- मु.।]

तदर्चने समाप्ते तु द्वादश्यां फाल्गुनस्य च ।
सङ्कर्षणं परत्वेन भावयेद् वासुदेववत् ।। 91 ।।

तदाश्रितं तु गोविन्दं मध्ये [1]मूर्तं समाह्वयेत् ।
चक्रस्थं सह देव्या वै [2]ततस्तं पूज्य पूर्ववत् ।। 92 ।।

रक्त[3]चन्दनयुक्तेन कुङ्कुमेन तथैव च ।
पुष्पस्रग्वाससा तद्वद् रक्तशाल्योदनेन च ।। 93 ।।

सुगन्धेन[4] फलै रक्तैर्लिप्तैर्वा रक्तधातुभिः ।
आरक्तरत्न[5]संसिद्धैर्विद्रुमैः पुरुभूषितैः[6] ।। 94 ।।

सक्तूंस्तु ताम्रपात्रे तु कृत्वाऽथ विनिवेद्य तु[7] ।

विशेषमाह- तदर्चने समाप्त इत्यादिभिः। अत्र द्वादश्यामित्यनेन दशम्यादिद्वादश्यन्तदिनत्रयमप्युपलक्ष्यते ।। 91-95 ।।
[1 मूर्ति- अटी. उ.।]
[2 ततः सं- अ., समस्तं- उ.।]
[3 रत्न- बक.।]
[4 सगुडेन- अ., संशुद्धेन- उ.।]
[5 रक्त- बक. बख. मु. अटी.।]
[6 परि- अटी. उ.।]
[7 च- बक. बख. अ. उ.।]

तदर्चने च होमान्ते सम्पन्ने सति वै व्रती[1] ।। 95 ।।

याते मास[2]त्रये चैव प्रसन्नेऽन्तःस्थितेऽच्युते ।
गुरुमूर्तिगतो देवः पूजनीयश्च भक्तितः ।। 96 ।।

वस्त्रैर्विलेपनैर्माल्यैः कटकैरङ्गुलीयकैः ।
यथाशक्ति विना शाठ्यं पारणं पारणे ततः ।। 97 ।।

प्रीणयेद् वासुदेवं च मूर्तित्रयसमन्वितम् ।
ऐहिकान्[3] धर्मकामार्थान् मम यच्छन्तु शक्तयः ।। 98 ।।

मोक्षविघ्नोपशमनं नित्यं कुर्वन्तु मूर्तयः ।
सर्वदा नित्यशुद्धो यः परमात्मा परः प्रभुः ।। 99 ।।

पतितस्य भवाम्बोधौ वासुदेवोऽस्तु मे गतिः ।
कृत्वैवं प्रीणनं सम्यग् वासुदेवस्य भक्तितः ।। 100 ।।

तन्मूर्तित्रितयस्यापि शक्तित्रययुतस्य च ।
एवं होमान्ते गोविन्दार्चनप्रारम्भानन्तरं मार्गशीर्षादिमासत्रयकृतप्रसादगुणार्थं विशेषेण गुर्वर्चनम्, पारणानन्तरं प्रणवनमःपूर्वकश्लोकद्वयात्मकमन्त्रेण दक्षिणपाणिस्थसपुष्पार्घ्योदकेन वासुदेवप्रीणनं चाह- तदर्चन इति षड्भिः। शक्तयः श्रियादयस्तिस्र इत्यर्थः। [4]मूर्तयः केशवादयस्त्रय इत्यर्थः ।। 95-101 ।।

[1 प्रति- मु. अटी. बक. बख . उ.।]
[2 वास- मु. अटी.।]
[3 ॐ ऐहि- बक. बख. अ., ॐ ऐहिकं धर्मकामार्थँ- उ.।]
[4 `मूर्तयः केशवादयस्त्रय इत्यर्थः' इत्ययं पाठोऽग्रिमश्लोकव्याख्यानस्थितस्य `कारणभूत' इति पदस्यानन्तरं स्थापितः- अ.।]

अथ त्रितययुक्तस्य [1]द्वितीयस्य महात्मनः ।। 101 ।।

सङ्कर्षणाभिधानस्य तत आरभ्य यत्नतः ।
प्राग्वदाराधनं कुर्यात् प्रत्यहं मासभेदतः ।। 102 ।।
अथ तदारभ्य ज्येष्ठशुक्लद्वादश्यन्तं मासत्रये क्रमेण गोविन्दविष्णुमधुसूदनमन्त्रैर्व्रतानुष्ठानम्, तेषां कारणभूतसंकर्षणस्य कर्णिकामध्ये मासत्रयेऽपि परत्वेनार्चनं चाह- अथेति सार्धेन ।। 101-102 ।।
[1 तृती- मु., मूर्तेशस्य- अ. उ.।]

पश्चान्मासत्रये याते प्राप्ते ज्येष्ठस्य तद्दिने ।
त्रिविक्रमाख्यमन्त्रेण [1]चान्यत् सर्वं पुरोदितम् ।। 103 ।।

मध्यतोऽम्बुजगर्भस्थं प्रद्युम्नं सर्वगं स्मरेत् ।
त्रिविक्रमं तदाकारं भावयित्वा ततो यजेत् ।। 104 ।।

अनन्तरं च संस्थानादानीय [2]प्रागरान्तरम् ।
यष्टव्यः[3] सविशेषेण त्वनुज्झित[4]तनुः क्रमात् ।। 105 ।।
तन्मासत्रयानन्तरं तद्दशम्यां त्रिविक्रममन्त्रेण व्रतप्रारम्भम्, त्रिविक्रमादित्रिककारणभूतप्रद्युम्नस्य परत्वेन कर्णिकामध्ये ध्यानम्, तदाकारत्वेन [5]ध्यातस्य त्रिविक्रमस्य तस्यार्चनम्, तस्या[6]रस्थानेऽपि देव्या सहार्चनं चाह- पश्चादिति त्रिभिः ।। 103-105 ।।
[1 सर्वं कुर्यात्- अ. उ.।]
[2 गनन्तरम्- उ.।]
[3 व्यस्य- मु. अटी. बक. बख. ।]
[4 त्थित- अटी.।]
[5 ध्यानस्य- मु.।]
[6 रस्थापि- अ.।]

श्रीखण्डं च सकर्पूरमीषत् कुङ्कुमभावितम् ।
पीतं विलेपनं चात्र तथा पुष्पफलादिकम्[1] ।। 106 ।।

पीतानां फलपुष्पाणामभावे[2] मसृणेन तु ।
पीतेन[3] धातुचूर्णेन रञ्जयेत् कुङ्कुमेन वा ।। 107 ।।

सघृतं हेमपात्रं च पूजान्ते विनिवेद्य च ।
पा[4]त्राभावे यथाशक्ति काञ्चनं च[5] घृतोपरि ।। 108 ।।
प्रद्युम्नोत्पन्नत्रिविक्रमादित्रिकस्य पीतवर्णत्वेन तादृशवर्णैरेव गन्धपुष्पादिभिरर्चनम्, केषाञ्चित् पीतानामलाभेऽपि हरिद्राकुङ्कुमादिना पीतिकरणम्, घृतपूरितहेमपात्रदानम्, तदशक्तौ यथाशक्ति काञ्चनान्वितघृतदानं वा कार्यमित्याह- श्रीखण्डमिति त्रिभिः ।। 106-108 ।।
[1 दयः- बक. बख. अ. उ.।]
[2 मभावान्म- बक. बख. अ. उ.।]
[3 पूतेन- मु.।]
[4 पात्राभावात्-बक. बख. अ. उ.।]
[5 तु- उ.।]

ततः सम्पूजनं कुर्याद् व्रतादेष्टरि पूर्ववत् ।
गोहेमवस्त्रपूर्वैस्तु[1] यथा सन्तोषमेति सः ।। 109 ।।
अथ गुर्वर्चनमाह- तत इति। व्रतादेष्टरि गुरावित्यर्थः ।। 109 ।।
[1 पूर्वं तु- बक. बख. ।]

तत्पूजान्ते पारणेन द्वितीयं च जगत्पतिम् ।
प्रीणयेत् सङ्कर्षणं च[1] गृहीत्वा पाणिना जलम् ।। 110 ।।

प्रणवाद्येन तेनैव मन्त्रेणाद्योदितेन च ।
सनमस्केन किन्त्वत्र[2] गतिः[3] सङ्कर्षणोऽस्तु मे ।। 111 ।।
अथ पारणानन्तरं पूर्वोक्तरीत्या संकर्षणप्रीणनम्, पूर्वोक्तमन्त्रे वासुदेवोऽस्तु मे गतिरिति वाक्यं विहाय संकर्षणोऽस्तु मे गतिरिति वाक्ययोजनं चाह- तत्पूजान्त इति द्वाभ्याम्। पारणेन ब्राह्मणभोजनेनेत्यर्थः। गृहीत्वा पाणिना जलमित्यत्र सपुष्पं प्रधानार्घ्यजलं ग्राह्यम्। दीक्षापरिच्छेदे-
तदम्भसा चार्हणं तु तथैव परिषेचनम् ।।
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्म च । (18/71-72)
इति प्रधानार्घ्यजलेन प्रीणनस्य वक्ष्यमाणत्वात्, ईश्वरपारमेश्वरयोः-
इत्युक्त्वा सोदकं [4]पश्चात् पुष्पं दक्षिणपाणिगम् ।।
अग्रतो निक्षिपेद् विष्णोर्मूलमन्त्रेण नारद । (13/231-232)
(ई. सं. 5/37-38; पा. सं. 6/411-412)
इति जयाख्यवचनेनोदाहृतेन[5] सपुष्पस्योक्तत्वाच्च ।। 110-111 ।।
[1 वै- बक. बख. अ. उ.।]
[2 किं चात्र- अ. ।]
[3 सङ्कर्षणोऽस्तु मे गतिः- बक. बख. अ. उ.।]
[4 पुष्पं कृत्वा- ज.।]
[5 वचनोदाहरणेन- मु.।]

अथ त्रिविक्रमं देवं वामनं श्रीधरं प्रभुम् ।
यजेन्मासत्रयं ता[1]वद्यावत् स्याद् दशमी सिता ।। 112 ।।

तदादि वै हृषीकेशमन्त्रेणाखिलमाचरेत् ।
परत्वमनिरुद्धस्य प्राप्ते चावसरे स्मरेत् ।। 113 ।।

तदाकारं हृषीकेशं पद्मोदरगतं स्मरेत् ।
इष्ट्वा सम्यग्विधानेन चक्रारस्थं यथा पुरा ।। 114 ।।

अत्र राजोपचारैस्तु[2] षट्पदाभैस्तु [3]चाऽर्चनम् ।
पुष्पौदनाम्बरैः कुर्यादभावादञ्जनादिना ।। 115 ।।

पिञ्जरीकृत्य यत्नेन देवाय विनिवेद्य च ।
कृष्णागरुविमिश्रं च लेपनं चात्र कुङ्कुमम् ।। 116 ।।

धौतायसमयं पात्रं मणिभिश्चासितैश्चितम्[4] ।
सम्पूर्णं[5] च तिलैः कृष्णैः पूजान्ते विनिवेद्य च ।। 117 ।।

सम्यक्[6] तदर्चनं कृत्वा यथासम्पत्ति भक्तितः ।
तृतीयं प्रीणयेत् प्राग्वत् प्रद्युम्नो मेऽस्तु वै गतिः ।। 118 ।।
अथ त्रिविक्रमादिमन्त्रत्रयेण भाद्रपदशुक्लदशम्यन्तं व्रतानुष्ठानम्, तदारभ्य हृषीकेशमन्त्रेण व्रतारम्भम्, हृषीकेशादित्रिककारणभूतानिरुद्धस्य कृष्णवर्णत्वे कृष्णवर्णैरेव गन्धपुष्पवस्त्ररत्नफलादिभिरर्चनम्, केषाञ्चित् कृष्णवर्णानामलाभेऽप्यञ्जनादिना तत्कृष्णीकरणम्, कृष्णतिलपूरितधूपपात्रमात्रादानम्, गुर्वर्चनम्, ततः पूर्वोक्तरीत्या प्रद्युम्नप्रीणनं चाह- [7](अत्र राजोप[8]चारैरिति चतुर्भिः? अथ त्रिविक्रममिति सप्तभिः)। सम्यक् तदर्चनं कृत्वेत्यत्र तदर्चनं गुर्वर्चनमित्यर्थः।। 112-118 ।।
[1 यावन्नभस्यदशमी- अ. उ.।]
[2 पलाभैस्तु- बक. बख. अ. उ.।]
[3 वाऽर्च- बक. बख. ।]
[4 र्युतम्- अटी.।]
[5 वस्त्रैश्च चित्रितैः- मु. अटी., सम्पूर्णं वासितैः कृष्णं- अ.।]
[6 ग् गुर्वर्चनं- अ., ग् देवार्चनं- उ.।]
[7 `अत्र' नास्ति- अ.।]
[8 पलाभैः - मु.।]

ततो मासानुमासं च हृषीकेशादनन्तरम् ।
पद्मनाभं समभ्यर्च्य ततो दामोदरं तु वै ।। 119 ।।

गते मासत्रये ह्येवं सम्प्राप्य पुनरेव हि ।
दशमीं मार्गशीर्षस्य तदा कर्मणि कर्मणि ।। 120 ।।

[1]चतुर्षु चातुरात्मीयं मन्त्राणां विनियोज्य च ।
चतु[2]र्मूर्त्यभिधानं च समालम्ब्य यजेच्च तत् ।। 121 ।।

कर्णिकोपरि पत्रेषु प्रागादि हृदयादिकम् ।
विदिक्ष्वस्त्रं[3] विभोरग्रे नेत्रं वै केशराश्रितम्[4] ।। 122 ।।

अरान्तरे ततः स्वे स्वे दश द्वौ केशवादिकान्[5] ।
चतुर्वर्णैस्तु कुसुमैस्तथा वस्त्रानुलेपनैः ।। 123 ।।

तद्वद्[6] भक्ष्यैश्च[7] नैवेद्यैः पानकैः पावनैः फलैः ।
अथान्यैर्विविधैर्भोगैर्ध्वजाद्यैर्यान[8]वाहनैः ।। 124 ।।

मात्राभिः सहिरण्याभिस्ताम्बूलेनात्मना ततः।

अथ हृषीकेशादिमन्त्रत्रयेण मार्गशीर्षशुक्लदशम्यन्तं मासत्रयं व्रतानुष्ठानम्, तदारभ्ये द्वादश्यन्तं दिनत्रये कर्णिकामध्ये वासुदेवादीनां चतुर्णामप्यर्चनम्, प्राग्दलादिषु हृन्मन्त्राद्यर्चनम्, अरेषु केशवादिद्वादशमूर्तीनामर्चनं च पूर्वोक्तैश्चतुर्वर्णचन्दनकुसुमादिभिश्चतुर्विधमात्राभिश्च[9] तत्तन्मूर्त्यनुसारेण कार्यमित्याह- ततो मासानुमासं चेत्यादिभिः ।। 119-125 ।।
[1 चतुष्क- अ. उ.।]
[2 र्मूर्तिवि- उ.।]
[3 क्ष्वग्रं- अ.।]
[4 राणि च- मु., राणि तम्- अ. उ.।]
[5 दयः- बक. बख. अ. उ.।]
[6 पङ्क्तिद्वयं नास्ति- उ.।]
[7 भक्ष्यैः सनैवे- अ.।]
[8 श्चापि वाहनैः- मु. अटी.।]
[9 मात्रादिभि-अ.।]

तर्पयेद् वह्निमध्यस्थं मन्त्रग्रामं यथोदितम् ।। 125 ।।

ततोऽर्चनं गुरोः कुर्याद् विशेषेण पुरोदितम् ।
ब्राह्मणान् भोजयेत् पश्चात्तेभ्यो दद्याच्च दक्षिणाम् ।। 126 ।।

प्रीणनं च पठेत् प्राग्वदनिरुद्धोऽस्तु मे गतिः ।
ततः पूर्णाहुतिं दद्यात् पश्चादिदमुदाहरेत् ।। 127 ।।

[1]व्रतोत्तमेनानेनाद्य मया भक्त्या कृतेन च ।
चत्वारो वासुदेवाद्या मूर्तयः शक्तिभिः सह ।। 128 ।।

प्रयान्तु प्रीतिमतुलां दिशन्तु भ[2]विनोऽभयम् ।
एषां सर्वेषामपि वह्निमध्ये संतर्पणम्, ततो गुर्वर्चनम्, ब्राह्मणभोजनम्, अनिरुद्धप्रीणनम्, पूर्णाहुतिम्, वासुदेवादीनां चतुर्णामपि युगपत् प्रीणनं चाह- तर्पयेदिति चतुर्भिः ।। 125-129 ।।
[1 ॐ व्रतो- बक. बख. अ. उ.।]
[2 हविनो- अ.।]

धन्यं व्रतमिदं पुण्यं संसाराध्वनिवर्तनम्[1] ।

अल्पक्लेशम[2]सङ्कीर्णमनन्तफलदं नृणाम् ।
नावसादस्त्वतः कार्य एतदाचरणे तु वै ।। 130 ।।
अस्य व्रतस्यासंपूर्णत्वेऽप्यनन्तफलप्रदत्वान्मध्ये विघ्नान्न भेतव्यमित्याह- धन्यमिति सार्धेन ।। 129-130 ।।
[1 दिनिवृत्तिदम्- अ., द्विनिवृत्तिदम्- उ.।]
[2 मसम्पूर्ण- मु. अटी.।]

यथो[1]पसदनैः कार्यमधमैर्मध्यमैर्जनैः ।
अशाठ्येन यथाशक्ति त्वारण्यैः कुसुमादिकैः ।। 131 ।।

अद्भिर्दूर्वाङ्कुरैः पत्रैर्जपजागरणादिना ।
दीपेनाभ्युक्षणेनैव मार्जनेनोपलेपनैः ।। 132 ।।
इदं व्रतं यथाशक्ति मध्यमकल्पेनाधमकल्पेन वा केवलं पत्रपुष्पफलतोयादिभिर्वाजपजागरणदीपारोपणमार्जनानुलेपनादिकैङ्कर्येण वाऽनुष्ठेयमित्याह- यथोपसदनैरिति द्वाभ्याम् ।। 131-132 ।।
[1 यथोक्तं सधनैः- अ. उ.।]

व्रीहीन् सक्तूनथाज्यं च तिलान्यन्नान्यथा[1]हरेत् ।
संवत्सरस्य पूजार्थं दानार्थं प्राशनाय च ।। 133 ।।
व्रतार्थं पूर्वं चतुर्विधमात्रा(द्या?)र्जनमाह- व्रीहीनिति ।। 133 ।।
[1 न् समा- बक. बख. अ. उ.।]

पूर्वं मासत्रयं दद्याद् व्रीहीन् वै विनिवेद्य च ।
द्वादश्यां भोजनात् पूर्वं हितं तत्प्राशनं सदा ।। 134 ।।

अपरं सक्तवश्चैव तृतीयं त्रितयं[1] घृतम् ।
तिलानां त्रितयं चान्यत् प्राशनं चैवमेव हि ।। 135 ।।
मार्गशीर्षादिमासत्रयेऽपि द्वादश्यां भोजनात् पूर्वं व्रीहिमात्रादानम्, ततो व्रीह्यन्नभोजनम्, फाल्गुनादित्रये सक्तुदानम्, तत्प्राशनम्; ज्योष्ठादित्रये आज्यदानम्, तत्प्राशनम्; भाद्रपदादित्रये तिलदानम्, तिलप्राशनं चाह- पूर्वमिति द्वाभ्याम् ।। 134-135 ।।
[1 तृतीयं- उ.।]

स्याद् यद्येकादशी पूर्णा द्वादश्यथ[1] तया सह ।
परेऽहनि तदा कुर्याद् द्वादश्यामर्चनादिकम् ।। 136 ।।
द्वादशीनिर्णयमाह- स्यादिति। एकादशी पूर्णा स्याद्यदि द्वादशीदिनेऽप्यवशिष्टा चेदित्यर्थः। तया सह एकादश्या सह द्वादशी च पूर्णा स्याद्यदि त्रयोदशीदिनेऽप्यवशिष्टा चेदित्यर्थः। तदा परेऽहनि द्वादश्यां त्रयोदशीदिनावशिष्टद्वादश्यामेवार्चनादिकं पूर्वोक्तव्रतार्चनपारणादिकं कुर्यादित्यर्थः। तथा च दशनिर्णये चन्द्रिकायाम्-
संपूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते ।।
गृहस्थोऽपि परां कुर्यात् [2]पूर्वां नोपवसेद् गृही ।
इति [3]पूर्णशब्दार्थ उक्तः। अत्रैकादश्याः पूर्णशब्दविशेषणेनैव दशमीवेधराहित्यमप्युच्यते, यतो दशनिर्णये-
उदयात् प्राग् यदा विप्र मुहूर्तद्वयसंयुता ।
संपूर्णैकादशी नाम [3]तत्रैवोपवसेद् गृही ।।
इति पूर्णशब्दार्थ उक्तः।। 136 ।।
[1 स्यादस्यै- मु. अटी., द् दृष्टै- उ.।]
[2 पूर्वं- अ.।]
[3 `पूर्ण' नास्ति अ.।]

संवत्सरस्य वै मध्याद् यस्त्वेकां कर्तुमिच्छति ।
तस्यामपि स्वमन्त्रेण कर्म पूजान्तमाचरेत् ।। 137 ।।

यथाप्राप्तैस्तु पुष्पाद्यैः प्रागुक्ताङ्गैः सहार्चनम् ।
पररूपस्य भध्ये तु पूजनं [1]स्वेऽन्वगेव हि ।। 138 ।।

केवलस्य तु तस्यैव स्वनाम्ना प्रीणनं हितम् ।
पारणं प्राग्विधानेन त्वेकं भूरिफलप्रदम् ।। 139 ।।

तस्माद्द्वे त्रीणि वा कुर्यात् स्वशक्त्या श्रद्धयान्वितः ।
एवमेकं वत्सरं प्रतिद्वादशीव्रतानुष्ठानाशक्तावेकस्यां वा द्वादश्यां तन्मासेशमन्त्रेण तदनुगुणवर्णफलपुष्पादिवस्तुभिस्तत्कारणभूतवासुदेवाद्यन्यतमाकारस्य केवलस्य कर्णिकामध्येऽर्चनम्, बहिररस्थाने तद्देव्या सहार्चनम्, एकस्य त्रयाणां वा ब्राह्मणानां भोजनम्, तेन तन्मासेशप्रीणनं च कार्यमित्याह- संवत्सरस्येति सार्धैस्त्रिभिः ।। 137-140 ।।
[1 स्वैरके बहिः- बक. बख. अ. उ.।]

नारी ह्यनन्यशरणा यद्येवं हि समाचरेत् ।। 140 ।।

निःस्वामिका वानुज्ञाता पत्या साऽथाप्नुयाच्च तत् ।
इदं व्रतं स्त्रीभिरपि सुमङ्गलाभिः पूर्वसुमङ्गलाभिर्वाऽनुष्ठेयमित्याह- नारीति। तद् व्रतफलमित्यर्थः। सुमङ्गलायाः स्त्रियः पत्युरनुज्ञां विना व्रतानुष्ठानानौचित्यात् पत्याऽनुज्ञातेत्युक्तम्। तथा च गारुडे-
नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन च ।
निष्फलं तु भवेत् तस्या यत् करोति व्रतादिकम् ।।
अनापृच्छ्य तु भर्तारमुपोष्य व्रतमाचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ।।
नास्ति स्त्रीणां पृथक् कर्म न व्रतं नाप्युपोषणम् ।
पतिशुश्रूषणं तासां तेन स्वर्गो विधीयते ।। इति ।। 140-141 ।।

अथापवर्गदं वक्ष्ये चातुर्मास्यं व्रतोत्तमम् ।। 141 ।।

यत्कृत्वाऽभिमतान् कामानिहैव[1] लभते नरः ।
गृहमासाद्य निर्बाधं देशे वा न[2] जनाकुले ।। 142 ।।

यथाविभवविस्तीर्णं तुर्याश्रं वा यथायतम् ।
धूमनिर्गमनोपेतं गवाक्षगणभूषितम् ।। 143 ।।

इष्टकाद्यैश्चितं कुर्यात् तन्मध्ये पिण्डिकात्रयम् ।
चतुरश्रं च विच्छिन्नं भूमेः किञ्चित् समुन्नतम् ।। 144 ।।

ततो दक्षिणदिग्वेदेरूर्ध्वे कुण्डं तु पूर्ववत् ।
मध्ये चन्दनमिश्रेण रोचनाकुङ्कुमेन च ।। 145 ।।

गोक्षीरमर्दितेनैव मासि मासि लिखेच्छुभम् ।
चक्रं षट्पत्रगर्भं तु स्नानपीठमुदग्दिशि ।। 146 ।।

ततस्त्वाषाढमासस्य दशम्यामुदितेन्दुना ।
वासुदेवाख्यमन्त्रेण तोयमादाय पाणिना ।। 147 ।।

भगवन् पुण्डरीकाक्ष सर्वव्रत[3]पतेऽच्युत ।
व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ।। 148 ।।

ततोऽर्चयेद् वासुदेवं द्वादश्यां कमलोदरे ।
प्रागादावथ पत्राणां त्रयं सङ्कर्षणादिकम् ।। 149 ।।

प्रादक्षिण्येन विन्यस्य यावद्रक्षःपदच्छदम् ।
ईशानपदपत्रात्[4] तु अनिरुद्धादिकत्रयम्[5] ।। 150 ।।

अप्ययेन तु सम्पूज्य यावत् पश्चिमदिग्दलम् ।
भूतावासं पुनर्मध्ये ततश्चक्रारकेषु च ।। 151 ।।

क्रमेण पूर्वादारभ्य न्यासं पूजनमाचरेत् ।
वामनं चाथ तद्देवीं [6]हृन्मन्त्रं च ततः शिरः ।। 152 ।।

श्रीधरस्त्वथ तत्कान्ता शिखा कवचमेव च ।
हृषीकेशश्च तत्पत्नी ह्यस्त्रं तदनु लोचनम् ।। 153 ।।

ध्यानं स्नानं तथा पूजां होमं जपसमन्वितम् ।
क्रमेणानेन सर्वेषां सर्वदैव समाचरेत् ।। 154 ।।

द्वादश्यां श्रावणस्याथ मध्ये सङ्कर्षणं यजेत् ।
तत्पत्राभ्यां वासुदेवं चक्रारेष्वथ पूर्ववत् ।। 155 ।।

त्रितयं[7] पद्मनाभाद्यं तथा देवीं हृदादि यत् ।
ततो नभस्यद्वादश्यां प्रद्युम्नः कर्णिकागतः[8] ।। 156 ।।

आद्यस्तत्पत्रगोऽराणां त्रयं नारायणादिकम् ।
देव्यश्चैवाङ्गषट्कं तु पूर्ववच्चारकान्तरे ।। 157 ।।

ततस्तदग्रद्वादश्यामनिरुद्धं यथा पुरा[9] ।
पत्रयुग्मे तदीये तु [10]आदिदेवं यजेत् क्रमात् ।। 158 ।।

त्रिविक्रमान्तं विष्ण्वाद्यं शक्तिरङ्गान्यथादिवत् ।
एवं[11] तावद् द्वादशी[12] कार्तिकस्य तु ।। 159 ।।

तत्राखिलैर्मन्त्रवरैः कर्म निश्शेषमाचरेत् ।
द्वादश्यां पूर्ववन्मध्ये षडङ्गं तुल्यरूपधृक् ।। 160 ।।

मूर्तयोऽरान्तरस्थाश्च नेमिस्थो[13] देवतागणः ।
पूजाहोमं[14] विशेषेण पूर्णान्तं पूर्वचोदितम् ।। 161 ।।

इत्येतत् सविशेषं च व्रतमुक्तं समासतः ।
यत्कृत्वा [15]पुनरप्यत्र जायते न पुनर्भवे ।। 162 ।।
अथ चातुर्मास्यविधिमाह- अथापवर्गदं वक्ष्य इत्यारभ्य यावत्परिच्छेदपरिसमाप्ति। सुखबोधनायैतद्व्याख्या प्रयोगरूपेण विलिख्यते।
निर्बाधे स्वगृहे विजनेऽन्यत्र वा देशे यथाविभवविस्तारायामं धूम[16]निर्गमनार्थमूर्ध्वगवाक्षान्वितं परितश्च गवाक्षोपशोभितं यागमण्डपं परिकल्प्य तन्मध्ये इष्टकाभिर्विरचितं चतुरश्रं भूमेः किञ्चिदुन्नतं वेदिकात्रयं निर्माय तत्र दक्षिणदिग्वेदेरूर्ध्वेपूर्वोक्तं कुण्डं कल्पयेत्। मध्यवेद्यां गोक्षीरमर्दितेन चन्दनमिश्रेण रोचनासहितेन कुङ्कुमेन प्रतिमासं षड्दलपद्मगर्भं द्वादशारं चक्रं विलिखेत्। उत्तरवेदेरूर्ध्वं स्नानपीठं स्थापयेत्। अथाषाढशुक्लदशम्यां सायं वासुदेवमन्त्रेण दक्षिणपाणिना तोयमादाय,
भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत ।
व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ।। (8/148)
इत्युदकप्रक्षेपपूर्वकं संकल्प्य, एकादश्यां समुपोष्य, द्वादश्यां प्रातः कर्णिकामध्ये वासुदेवं प्रागाग्नेयनैर्ऋतदलेषु प्रादक्षिण्येन संकर्षणप्रद्युम्नानिरुद्धान्, ऐशान्यवायव्यपश्चिमदलेष्वप्ययक्रमेणानिरुद्धप्रद्युम्नसंकर्षणांश्च संपूज्य, पुनर्मध्ये वासुदेवमभ्यर्च्य,चक्रस्य प्रागाद्यरेषु वामनं प्रीतिसंज्ञां तद्देवीं हृन्मन्त्रं शिरोमन्त्रम्; श्रीधरं रतिसंज्ञां तद्देवीं शिखामन्त्रं कवचमन्त्रम्; हृषीकेशं मायाख्यां तद्देवीमस्त्रमन्त्रं नेत्रमन्त्रं च क्रमेणाभ्यर्च्य, ध्यानार्चनस्नपननिवेदनहोमजपादिभिः सर्वान् संतोष्य, अथ श्रावणशुक्लद्वादश्यां कर्णिकामध्ये कर्णिकामध्ये संकर्षणं दलेषु संकर्षणस्थानयोर्वासुदेवमरेषु पद्मनाभदामोदरकेशवान् धीमहिमाश्रीदेवीत्रयं हृन्मन्त्रादिषट्कं चाभ्यर्च्य, भाद्रपदशुक्लद्वादश्यां मध्ये प्रद्युन्मं दलेषु प्रद्युम्नस्थानयोर्वासुदेवमरेषु नारायणमाधवगोविन्दान् वागीश्वरीकान्तिक्रियाख्यदेवीत्रयं हृन्मन्त्रादिषट्कं चाभ्यर्च्य, आश्वयुजशुक्लद्वादश्यां मध्येऽडनिरुद्धं दलेष्वनिरुद्धस्थानयोर्वासुदेवमरेषु विष्णुमधुसूदनत्रिविक्रमान् शक्तिविभू[17](तिच्छाया? तीच्छाख्य)देवीत्रयं हृन्मन्त्रादिषट्कं च क्रमेणाभ्यर्च्य, कार्तिकशुक्लद्वादश्यां कर्णिकामध्ये वासुदेवादिमूर्तिचतुष्टयं दलेषु हृन्मन्त्रादिषट्कमरेषु केशवादिमूर्तिद्विषट्कं नेमिस्थाने श्रियादिदेवीद्विषट्कं च यथाविधि विशेषेणाभ्यर्च्य होमं पूर्णाहुत्यन्तं कुर्यात्।। 141-162 ।।
अथ चातुर्मास्यविधिमाह- अथापवर्गदं वक्ष्य इत्यारभ्य यावत्परिच्छेदपरिसमाप्ति। सुखबोधनायैतद्व्याख्या प्रयोगरूपेण विलिख्यते।
[1 निह वै- अ.।]
[2 जनना- मु. अटी. बक. उ., जनना- बख.।]
[3 भूत- मु. बक. बख. अ.।]
[4 त्राच्चाप्य- मु. अटी.।]
[5 दितस्त्रयम्- बक. बख. अ. उ.।]
[6 भूमन्त्रं- मु. अटी. बक. बख.।]
[7 धूमे- अ.।]
[8 तृतीयं- मु. अटी.।]
[9 कां गतः- अ. अटी.।]
[10 पुरम्- मु., परम्- अटी.।]
[11 चादि- मु. अटी.।]
[12 पङ्क्तिरेषा नास्ति- मु. अटी.।]
[13 तद्वद्- बक. बख.।]
[14 दशमीति सार्वत्रिकः पाठः।]
[15 स्था देवतागणाः - मु. अटी. अ.।]
[16 होमो - मु. अटी.।]
[17 तीच्छया- अ.।]

इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां संवत्सरव्रत[1]विधिर्नाम अष्टमः परिच्छेदः ।।

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमला[2]र्चकस्य श्रीयोगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्येऽष्टमः परिच्छेदः।।
[1 `व्रत' नास्ति- मु. अटी.।]
[2 कमलसेवार्चकस्य - अ.।]