सात्त्वतसंहिता/अध्यायः २
← अध्यायः १ | सात्त्वतसंहिता अध्यायः २ [[लेखकः :|]] |
अध्यायः ३ → |
सात्त्वतसंहितायाः अध्यायाः |
---|
द्वितीयः परिच्छेदः
[1]नारद उवाच
श्रुत्वैवमच्युतमुखाद् देवदेवो हलायुधः ।
हितार्थं भवभीतानां पुनराह द्विजोत्तमाः ।। 1 ।।
सङ्कर्षण उवाच[1]
विधिना कीदृशेनैव ह्युपासा विहिताऽत्र वै ।
उपासकानां भक्तानां समासाद् ब्रूहि मे विभो[3] ।। 2 ।।
श्रीभगवानुवाच
श्रृणु सम्यक् प्रवक्ष्यामि [4]यदहं चोदितस्त्वया ।
यज्ज्ञात्वा न पुनर्जन्म पुनरेवाप्नुयान्नरः ।। 3 ।।
अथ द्वितीयः परिच्छेदो व्याख्यास्यते। इह आदौ वासुदेवसंकर्षणयोर्भगवदुपासनप्रकारविषयकप्रश्नप्रतिवचनक्रममाह- श्रुत्वेत्यादिश्लोकत्रयेण ।। 1-3 ।।
[1 नास्ति- मु. बक., नारद- बख.।]
[2 नास्ति- मु. बक. बख.।]
[3 प्रभो- अ.।]
[4 यदाहं- बख.अ.उ.।]
ब्राह्मणानां च सद्ब्रह्मवासुदेवाख्ययाजिनाम् ।
लक्ष्यभूतं यदासृष्टेर्हृदिस्थमधिकारिणाम् ।। 4 ।।
विवेकदं परं शास्त्रं ब्रह्मोषनिषदं महत् ।
दिव्य[5]मन्त्रक्रमो[6]पेतं [7]मोक्षैकफललक्षणम् ।। 5 ।।
तादृक् परिसृतं[8] तस्माज्जगदुद्धरणाय च ।
तदाद्यमुपदेक्ष्यामि यद्भेदैर्बहुभिः स्थितम् ।। 6 ।।
एकायनश्रुतेः सारभूतं सात्वततन्त्रमुपदेक्ष्यामीत्याह- ब्राह्मणानामिति सार्धत्रयेण। सद्ब्रह्मवासुदेवाख्ययाजिनां सच्छब्दब्रह्मशब्दवासुदेवशब्दवाच्यवस्तुमात्रार्चनपराणामित्यर्थः। ब्राह्मणानां लक्ष्यभूतं विषयभूतम्। देवतान्तरयाजिनां ब्राह्मणानामदर्शनीयमिति भावः। अत एव अधिकारिणां शुद्धयाजिनां हृदिस्थम् अतिगोप्यमित्यर्थः। विवेकदं हेयोपादेयविवेकप्रदं परं श्रेष्ठं ब्रह्मोपनिषदं तथाविधसंज्ञकम्, उप समीपे निषीदतीति उपनिषदिति। सर्वोपनिषदामपि भगवत्समीपवर्तित्वेऽप्यत्र ब्रह्मोपनिषदित्यनेन ब्रह्मणोऽव्यवहितसमीपवर्तित्वं सूच्यते। यद्वा ब्रह्ममात्रप्रतिपा(द?दि) का उपनिषदि (ति वा अ? त्य)र्थः। दिव्यमन्त्रक्रियोपेतम्
दिव्यैर्बलादिकैर्मन्त्रैः साक्षात् तत्प्रतिपादकैः ।
अलङ्कृतमसंदिग्धमविद्यातिमिरापहम् ।। (ई. सं. 1/21)
इत्याद्युक्तप्रकारेण बलादिमन्त्रसहितम्, मोक्षमात्रफलप्रदं यच्छास्त्रमेकायनश्रुतिरूपं शास्त्रम्, तस्मान्मूलवेदाद् जगदुद्धरणाय परि[9]सृतम्।
परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् ।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती[10] उपेयुषाम् ।।
अनुग्रहार्थं वर्णानां योग्यतापादनाय च ।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ।।
मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च ।
सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् ।।
दिव्यं [11] सच्छास्त्रजालं तदुक्त्वा संकर्षणादिभिः ।
प्रवर्तयामास भुवि सर्वलोकहितैषिभिः ।। (ई. सं. 1/48-51)
इत्युक्तत्वात्। क्रमं तादृग् मूलवेदसदृशम्, सिद्धिमोक्षप्रदं भोगापवर्गदम्, काम्यफलप्रदत्वेऽपि भगवन्मात्रविषयत्वात्। परिशुद्धं सरहस्यं नानाविधरहस्यमन्त्रसहितम्, असंकुलं देवतान्तरैरमिश्रं यद्दिव्यशास्त्रं बहुभिर्भेदैः स्थितं नानासंहिताभेदभिन्नम्, तदाद्यं तस्मिन् दिव्यशास्त्रे आद्यं प्रथमं सात्वततन्त्रमित्यर्थः। उपदेक्ष्यामि भवत इति शेषः।। 4-6 ।।
[5 मार्गसमो- मु.।]
[6 क्रियो-अटी.।]
[7 मोक्षमात्रफलप्रदम्- अटी.।]
[8 श्रुतं- बख.।]
[9 हृतम्- म.।]
[10 क्तिमुपे- अ.।]
[11 तच्छास्त्र-अ.।]
सिद्धिमोक्षप्रदं शुद्धं सरहस्य[12]मसंकुलम् ।
अष्टाङ्गयोगसिद्धानां ह्यद्यागनिरतात्मनाम् ।। 7 ।।
परव्यूहविभवभेदेन तदधिकारिभेदान् दर्शयन् आदौ परस्य भगवतोऽर्चने योगिनामधिकारमाह- अष्टाङ्गेति।। 7 ।।
[12 स्यं महाफलम्- मु.।]
योगिनामधिकारः स्यादेकस्मिन् हृदयेशये ।
व्यामिश्र[13]यागयुक्तानां विप्राणां वेदवादिनाम् ।। 8 ।।
वेदपारगाणामपि तदुक्तदेवतान्तरव्यामोहरहितानामेव ब्राह्मणानां परव्यूहार्चने समन्त्रमधिकारं व्यामिश्रयाजिनां तदभावं चाह- व्यामिश्रेति।। 8 ।।
[13 राग-उ.।]
समन्त्रं[14] तु चतुर्व्यूहे त्वधिकारो न चान्यथा ।
त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः ।। 9 ।।
तदा[15] भगवदेकप्रपत्तिनिष्ठानामेव क्षत्रविट्छूद्राणां व्यूहार्चनेऽमन्त्रमधिकारमाह- त्रयाणामिति ।। 9 ।।
[14 समन्त्रे- सार्वत्रिकः पाठः।]
[15 `तदा.....माह' नास्ति- अ.।]
अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे ।
सक्रिये मन्त्रचक्रे तु वैभवीयेऽ[16]विवेकिनाम् ।। 10 ।।
ममतासन्निरस्तानां स्वकर्मनिरतात्मनाम् ।
कर्मवाङ्[17]मनसैः सम्यग् भक्तानां परमेश्वरे ।। 11 ।।
अहङ्कारममकारग्रस्ततया विवेकरहितानामपि स्वकर्मनिष्ठानां भगवद्भक्तानां दीक्षितानां ब्राह्मणादीनां चतुर्णामपि विभवार्चने समन्त्रमेवाधिकारमाह- सक्रिय इति द्वाभ्याम्। अत्र वैभवीयेविवेकिनामित्यत्र अविवेकिनामिति पदच्छेदः। नह्यत्र विवेकरहितैरर्चनीयत्वोक्त्या विभवभेदानामपकर्षः शङ्कनीयः, अपि तु सौलभ्यातिशयेन उत्कर्ष एव सिध्यति। इत्थमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि-
सुसिद्धयोगतत्त्वानामधिकारः परात्मनि[18] ।
व्यामिश्र[19]यागयुक्तानां मध्यानां व्यूहभावने ।।
वैभवीयादिरूपेषु विवेकविधुरात्मनाम् ।
अहन्ताममतार्तानां[20] भक्तानां परमेश्वरे ।।
अधिकारस्य वैषम्यं भक्तानामनुदृश्य सः ।
भजते विविधं [21]रूपं परव्यूहादिशब्दितम् ।। (11/48-51) इति ।। 10-11 ।।
[16 विलो- मु.।]
[17 मान- उ.।]
[18 कृति- अ.।]
[19 योग- मु.।]
[20 तान्तानां- अ.।]
[21 भावं- मु.।]
चतुर्णामधिकारो वै [22]प्राप्ते दीक्षाक्रमे सति ।
एवं सम्प्रतिपन्नानां मन्त्रपूर्वं यथास्थितम् ।। 12 ।।
एवं स्वस्वाधिकारानुरोधेन संप्रतिपन्नानां हिततमं साक्षात् परस्यार्चनविधानमादौ श्रृणुष्वेत्याह- एवमिति।। 12 ।।
[22 वृत्ते-अ. उ.।]
विधानमेकमूर्तीयं समाकर्णय साम्प्रतम् ।
प्रशस्ते विजने गुप्ते गन्धलिप्ते धरातले ।। 13 ।।
तन्मन्त्रोद्धारार्थं [23]चक्ररचनामाह- प्रशस्त इति ।। 13 ।।
[23 वर्णचक्र- म.।]
[24]सुधूपितेऽर्घ्यपुष्पाढ्ये वर्णचकं प्रसाध्य[25] च ।
यस्मिन् प्रतिष्ठितं विश्वमाब्रह्मभुवनान्तिकम् ।। 14 ।।
येनोदितेन जगतः प्रभवः समनन्तरम् ।
स्वात्मन्युपरते यस्मिन् प्रलयः सम्प्रजायते ।। 15 ।।
"मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः" (लक्ष्मी. 23/11) इति [26]व(र्ण)चक्रस्य साक्षाद् भगवच्छरीरकत्वात् तस्य निखिलजगदाधारत्वं सृष्ट्यादिहेतुत्वं चाह- यस्मिन्निति द्वाभ्याम् ।। 14-15 ।।
[24 सुदी- अटी.।]
[25 प्रसार्य- अ.।]
[26 परशु- अ.।]
प्रेरकं चन्द्रसूर्याभ्यां सबाह्याभ्यन्तरं तु यत् ।
नित्योदितं [27]यदक्षस्थं वर्णमीश्वरवाचकम् ।। 16 ।।
तत्र प्रणवादिवर्णसंस्थितिक्रममाह- नित्योदितमित्यादिभिः ।। 16 ।।
[27 यथा- बख. उ., यदा- अ.।]
यत्र स्थानविभागेन [28]वागात्मा भगवान् स्थितः ।
अकाराद्यो [29]विसर्गान्तः सौरश्चान्द्रः कलागणः ।। 17 ।।
ह्रस्वदीर्घविभागेन नाभौ यत्र द्विरष्टकः ।
कादिभान्तोऽप्यरान्तस्थः प्राकृ-तस्तत्त्व[30]सञ्चयः ।। 18 ।।
पृथिव्यादिप्रकृत्यन्तो[31] युग्मयोगेन लाङ्गलिन् ।
[32]कलनादेहभृत् कालो नेमिगो नवलक्षणः ।। 19 ।।
मकाराद्यो [33]हवर्णान्तो यत्र [34]प्रधिगणे स्वयम् ।
कालवैश्वानरः साक्षान्मार्ताण्डायुतसन्निभः[35] ।। 20 ।।
ज्वालाऽयुतसहस्राढ्यो वर्णान्तो भगवान् स्थितः ।
आमध्यात् प्रधिपर्यन्तां[36] मनोन्तां वर्णसन्ततिम् ।। 21 ।।
अकाराद्यो विसर्गान्त इत्यत्र अकारादीनां ह्रस्वानामष्टवर्णानां सौरत्वादालोकाद्यात्मकत्वम्, आकारादीनां दीर्घाणामष्टानां चान्द्रत्वाद् द्रवताद्यात्मकत्वं चोक्तं जयाख्ये-
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे ।।
पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः ।
अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ।।
द्रवता शैत्यभावश्च तृप्तिः कान्तिः प्रसन्नता ।
[37]रसतास्वाद[38] आनन्दो ह्यष्टौ चान्द्रा [39]इमा मताः ।।
आकारादिषु दीर्घेषु संस्थिता मातृकात्मना ।
अविनाभावरूपेण अन्योन्येन सदैव हि ।।
अष्टानामपि चाष्टौ तु संस्थिता बहिरन्तरे । (6/13-17)
इति ।। 17-21 ।।
[28 वर्णात्मा- बख.।]
[29 `विसर्गान्तः.....कलनादे' नास्ति- बक.।]
[30 सौरः चान्द्रं- मु, सौरचान्द्र- अ.।]
[31 स्तत्र- मु. बक. उ. अ.।]
[32 त्यन्त- मु. बक.।]
[33 विसर्गान्तो- मु, महासत्तो- अ.।]
[34 पृथ्वीगणः- मु.।]
[35 दीघितिः- बक. बख. अ. उ.।]
[36 पर्यन्तं नमोन्ता वर्णसन्ततिः- मु.।]
[37 रस्यता- म.।]
[38 ह्लाद- मु.।]
[39 स्त्विमा- मु.।]
उच्चार्यार्घ्यादिनाऽभ्यर्च्य विद्याबीजं हि चक्रराट् ।
ततः समुद्धरेन्मन्त्रं परमात्मनि वाचकम् ।। 22 ।।
गलन्तममृतप्रख्यमचिरान्मोक्षसिद्धिदम् ।
अक्षस्थमुद्धरेत् पूर्वं नेमि[40]षष्ठमनन्तरम् ।। 23 ।।
वर्णचक्रार्चनपूर्वकं मन्त्रमुद्धरेदित्याह- आमध्यादिति द्वाभ्याम्। चक्रराट् वर्णचक्रमित्यर्थः। [41]विभक्तिविनिमयश्छान्दसः। तथा चात्रैवं प्रयोगः- प्रशस्ते विजने गुप्ते गन्धलिप्तेऽर्घ्यपुष्पाढ्ये सुधूपिते धरातले द्वादशारं चक्रं विलिख्य तन्मध्येऽक्षस्थाने प्रणवं नाभौ अकारादिविसर्गान्तान् षोडशस्वरान्, द्वादशारेषु प्रत्यरं वर्णयुग्मक्रमेण ककारादिभकारान्तानि चतुर्विशतिवर्णानि, नेमिभागे मकारादिहकारान्तवर्णनवकम्, [42]प्रधिगणे क्षकारं च विलिख्य आमध्यात् प्रधिपर्यन्तं वर्णपरम्पराम् ॐ ओं नमः, ॐ अं नम इत्यादिक्रमेणोच्चार्यार्घ्यादिभिरभ्यर्च्य मन्त्रमुद्धरेत् ।। 22-23 ।।
[40 नेमे-मु., नेमे:- अ.।]
[41 `विभक्ति..... श्छान्दसः' नास्ति-अ.।]
[42 प्रथा- म.।]
नाभिद्वितीयेनाक्रान्तं द्वितीयमिदमक्षरम् ।
[43]द्वितीयं दश[44]संख्याच्च तदधश्चाष्टमात् परम् ।। 24 ।।
नाभेस्त्रयोदशोपेतं [45] द्वितीयमिदमक्षरम् ।
[46]अथ द्वितीयं नवमान्नाभितुर्यादिनान्वितम्[47] ।। 25 ।।
द्वितीयमष्टमाद् वर्णं केवलं विद्धि पञ्चमम् ।
विज्ञानपदमादाय त्र्यक्षरं तदनन्तरम् ।। 26 ।।
आद्यमेकादशाद् वर्णं भिन्नं नाभ्यपरेण तु ।
नेमेस्तृतीयवर्णस्य ततस्तमुपरि न्यसेत् ।। 27 ।।
[48]मन्त्राणां नवमं ह्येतद् दशमं मे निबोधत[49] ।
नाभिद्वितीयेनाक्रान्तं प्राग्वर्णं चाष्टमारगम् ।। 28 ।।
नेमेर्द्वितीयं तदनु नेमेरादाय चाष्टकम्[50] ।
तदुद्देशात् तृतीयं च स्थितं तत् पञ्चमोपरि ।। 29 ।।
त्रयोदशमिदं विद्धि नवमादपरं ततः ।
षष्ठस्य नेमिवर्णस्य [51]चोर्ध्वे तत्त्रितयं न्यसेत् ।। 30 ।।
युक्तं नाभितृतीयेन [52]ह्यथ षोडशमुच्यते ।
द्वितीयं दशमाद् वर्णान्नाभ्येकादशसंयुतम् ।। 31 ।।
चैतन्यायपदं दद्यात् सनमस्कमतः परम् ।
द्वाविंशार्णो ह्ययं मन्त्रः पदैः षड्भिरलङ्कृतः ।। 32 ।।
तत्प्रकारमाह- (ततः स? अक्षस्थ)मुद्धरेदित्यादिभिः। पूर्वमक्षस्थं प्रणवमुद्धरेत्। अनन्तरं नाभिद्वितीयेनाक्रान्तं आकारेण युक्तं नेमिषष्ठं शकारमुद्धरेत्। अथ दशसंख्या(द्) द्वितीयं दशमारस्थधकारयोर्द्वितीयं नकारमुद्धृत्य तदधः अष्टमात् परं अष्टमादराद् द्वितीय[53] वर्णं तकारं संयोज्य तन्नाभेस्त्रयोदशोपेतम् ओकारान्वितं कुर्यात्, ततो नवमाद् द्वितीयं [54]दकारं नाभितुर्यादिना [55]इकारेणान्वितं कुर्यात्, अथ अष्टमाद् द्वितीयं वर्णं तकारं केवलमुद्धरेत्। अथ विज्ञानेति वर्णत्रयमुद्धरेत्। तत एकादशादाद्यं पकारं नाभ्यपरेण आकारेण भिन्नं संयुक्तं कृत्वा तन्नेमे[56]स्तृतीयस्य वर्णस्य रेफस्योपरि न्यसेत्। अथ [57]नाभिद्वितीयेनाक्रान्तम् आकारयुक्तम् अष्टमारगं प्राग्वर्णं णकारमुद्धरेत्। तदनु नेमेर्द्वितीयं यकारमुद्धरेत्। ततो नेमेरष्टकम् [58]सकारमुद्धरेत्। ततस्तत्पञ्चमोपरि वकारोपरि स्थितं तदुद्देशात् तृतीयं रेफमुद्धरेत्। ततो नवमादपरं दकारमुद्धरेत्, अथ षष्ठस्य नेमिवर्णस्य शकारस्योर्ध्वे तत्तृतीयं रेफं न्यसेत्। तन्नाभितृतीयेन इकारेण युक्तं कुर्यात्, अथ दशमाद् द्वितीयं वर्णं नकारं नाभ्येकादशसंयुतम् एकारान्वितं कुर्यात्। ततः सनमस्कं नमस्कारशिरस्कं चैतन्यायेति चतुरक्षरं पदमुद्धरेत्। तथा च `ॐ शान्तोदितविज्ञानप्राणाय सर्वदर्शिने चैतन्याय नमः' इति [59]द्वाविंशाक्षरः षड्भिः पदैरलङ्कृतो मन्त्रः समुद्धृतो भवति ।। 24-32 ।।
[43 `द्वितीयं....मक्षरम्' नास्ति-अटी.।]
[44 संयोगि तदादौ चाष्टमात्मरम्- मु.।]
[45 तृतीय- बख. अ. उ.।]
[46 `अथ....त्र्यक्षरं' नास्ति- उ.।]
[47 ञ्चितम्- बक.।]
[48 मन्त्रान्तं- मु., मन्त्रार्णं- अ. उ.।]
[49 धतु- मु. बक. बख. अ.।]
[50 मम्- उ., गम्- अटी.।]
[51 ऊर्ध्वे- बक. बख. अ. उ.।]
[52 अथ- बक. बख. अ. उ.।]
[53 यं- म.।]
[54 धकारं- अ.।]
[55 भका- अ.।]
[56 मितृ- म.।]
[57 नेमि- म.।]
[58 एकार- म.।]
[59 द्वादशाक्षरः- अ.।]
तत्रैकार्णं पदं ज्ञानं चतुर्वर्णं पदं बलम् ।
ष़डक्षरं चाप्यैश्वर्यं वीर्यं पञ्चाक्षरं परम् ।। 33 ।।
चतुर्वर्णं पदं तेजः [60]शाक्तं स्याद् द्व्यक्षरं च यत् ।
तेजो वीर्यं बलं शक्तिरैश्वर्यं ज्ञानमेव च ।। 34 ।।
तेषामेव षण्णां पदानामक्षरसंख्याकथनपूर्वकं ज्ञानादिगुणवाच[61]कत्वमाह- तत्रेति सार्धेन। अथ बलस्य ज्ञानोपसर्जनत्वात् तदव्यवहितमेव तदुक्तम्। एवमेव ऐश्वर्योपसर्जनं वीर्यम्, वीर्यशक्त्युपसर्जनं तेजश्चोक्तमिति ज्ञेयम्। बलादीनां ज्ञानाद्युपसर्जनत्वं सुस्पष्टमुपबृंहितं लक्ष्मीतन्त्रे-
तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः ।।
अन्मिषत्यः पृथक् तत्त्वत्रयेण परिकीर्तिताः ।
बलं वीर्यं तथा तेज इत्येतत्तु गुणत्रयम् ।।
श्रमाद्यविद्या[62]भावाख्यं ज्ञानादेरुपसर्जनम् । (2/49-51) इति।
वस्तुतस्तु ऐश्व[63]र्यादिपञ्चकमपि ज्ञानधर्म इति[64] विज्ञेयम्,
ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः ।।
शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनम् । (2/25-26)
इति लक्ष्मीतन्त्रोक्तेः। ज्ञानादीन्यपि तत्रैव विवृतानि-
अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते ।।
प्रकाशकादिकं रूपं स्फटिकादिसलक्षणम् ।
अत[65]स्तज्ज्ञानरूपत्वं मम नारायणस्य च ।।
अव्याहतिर्यदुद्यन्त्या[66]स्तदैश्वर्यं परं मम ।
इच्छेति सोच्यते तत्तत्तत्त्वशास्त्रेषु पण्डितैः ।।
जगत्प्रभृतिभावो मे यः सा शक्ति[67]रुदीर्यते ।
सृजन्त्या यच्छूमाभावो मम तद्बलमिष्यते ।।
भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते ।
शक्त्यंशकेन च प्राहुर्भरणं तत्त्वकोविदाः ।।
विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा ।
स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ।।
जगद्भावेऽपि सा नास्ति विकृतिर्मम नित्यदा ।
विकारविरहो वीर्यमिति तत्त्वविदां मतम् ।।
विक्रमः कथितो वीर्यमैश्वर्यांशस्तु स स्मृतः ।
सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या ।।
तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः ।
पराभिभवसामर्थ्यं तेजः केचित् प्रचक्षते ।।
ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः ।
इति पञ्च गुणा एते ज्ञानस्य स्तुतयो[68]मताः ।। (2/26-35) इति।
अथ मन्त्रार्थ उच्यते- अत्रादौ प्रणवेन तन्नादान्तगगनस्थितः परवासुदेवो विवक्षणीयः, इदानीं तस्य प्रकृतत्वात्। तथा च लक्ष्मीतन्त्रे-
ओमित्येतत् समुत्पन्नं प्रथमं बिन्दुतारकम् ।
बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् ।।
ध्यायेत् सन्ततिनादान्तां[69] तैलधारा[70]त्मवाक्यताम् ।
एतत्तद्[71] वैष्णवं रूपं त्र्यक्षरं ब्रह्म शाश्वतम् ।।
अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः ।
संकर्षणो मकारस्तु वासुदेवस्तु [72]पञ्चकः ।।
चतुर्णामविभागं[73] तु नादरूपं सुरेश्वर ।
नादस्य या परा काष्ठा साऽहन्ता परमेश्वरी ।।
शक्तिः सा परमा [74]रूपा नादान्तगगनाह्वया ।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ।।
विरामे सति नादस्य यः स्पष्टीभवति [75]ध्रुवम् ।
ज्योतिस्तत् परमं ब्रह्म लक्ष्मीनारायणात्मकम् ।।
एतत्ते वैष्णवं धाम कथितं पौरुषं परम् । (24/6-12) इति।
शान्तोदितविज्ञानप्राणाय शान्तोदितं सूक्ष्मरूपम्, स्वात्ममात्रानुभवदशाविशिष्टमिति यावत्। यतः शान्तोदिता नित्योदिता चेति दशाद्वयमीश्वरस्य प्रसिद्धम्। तत्र शान्तोदितावस्था नाम स्वात्ममात्रानुभवदशा, नित्योदितावस्था तु [76]स्वभूत्यनुभवदशा। तथा च श्रीगुणरत्नकोशव्याख्याने- "तैस्तैः कान्तेन शान्तोदितगुणविभवैः" (25 श्लो.) [77]इत्यत्र दशाद्वयं व्याख्यातम्। गर्गकुलीनरामानुजीये श्रीरङ्गराजस्तवव्याख्याने तु- "प्रथन्ते सोऽनन्तः स्ववशघनशान्तोदितदशः[78]" (उ. 37 श्लो.) इत्यत्र स्वविभूतिस्वगुणानुभवदशा शान्तोदितदशा, स्वरूपानुभवदशा नित्योदितदशेति व्युत्क्रमेणोक्तम्। तत्प्रामादिकम्। यतस्तत्कर्तृक एव वरदराजस्तवव्याख्याने- "प्रशान्तानन्तात्मानुभवजमहानन्दमहिम प्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम्"(13 श्लो.)। इत्यत्र शान्तोदितदशा नाम स्वात्ममात्रानुभवदशा, इतरा नित्योदितदशेति यथाक्रमं व्याख्यातम्। विज्ञानं तुर्यव्यूहमित्यर्थः। "विज्ञानं यज्ञं तनुते" (तै. उ. 2/5) इत्यत्र यथा विज्ञानशब्दस्य धर्मिवाचकत्वम्, तद्वदिहापि भगवद्वाचकत्वं बोध्यम्। तत्प्राणयतीति तथोक्तः। शान्तोदितसंज्ञक[79]पररूपं प्रति नित्योदितसंज्ञकपरात्परवासुदेवस्य कारणत्वात् तत्प्राणत्वमस्येति भावः। तथा च तत्त्वत्रयव्याख्याने-
नित्योदितात् संबभूव तथा शान्तोदितो हरिः ।....
चातुरात्म्यम[80]थापीदं कृपया परमेष्ठिनः ।
उपासका[81]नुग्रहार्थं यः परश्चेति कीर्त्यते ।।
शान्तोदितात् प्रवृत्तं च चातुरात्म्यत्रयं तथा ।
उपासकानुग्रहार्थं सेनेश मम तत्पुनः ।।
सुषुप्तिस्वप्नसंज्ञं यज्जाग्रद्व्यूहं[82] तथा परम् ।
चातुरात्म्यं महाभाग पञ्चमं परमेश्वरम् ।। (पृ. 133) इति।
सर्वदर्शिने सर्वज्ञाय चैतन्याय ज्ञानरूपाय परात्परवासुदेवायेत्यर्थः। "ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः" (2/25) इति लक्ष्मीतन्त्रे। नमस्तस्मै सकलविधकैङ्कर्याणि करवाणि मदर्थं न करवाणीति प्रसिद्धोऽयं नमश्शब्दार्थः ।। 33-34 ।।
[60 शान्तं- मु. बक. बख. अ.।]
[61 वाचित्व- अ.।]
[62 द्यवद्या- मु.।]
[63 र्येति- अ.।]
[64 इत्यपि ज्ञेयम्- अ.।]
[65 स्तु ज्ञा- मु.।]
[66 द्यत्या- मु.।]
[67 रिती- मु.।]
[68 योऽमलाः-मु.।]
[69 सन्ततनादेन-मु.।]
[70 मिवातताम्- मु.।]
[71 एतत्ते- अ. म.।]
[72 बिन्दुकः- मु.।]
[73 गस्तु नादस्तत्र- मु.।]
[74 सूक्ष्मा- मु.।]
[75 स्वयम्- मु.।]
[76 स्वभक्त्य- अ.।]
[77 इत्यत्रैव- म.।]
[78 दिश- अ.।]
[79 `पररूपं.....संज्ञक' नास्ति- अ.।]
[80 थाप्यण्डं- मु.।]
[81 सना-अ. म.।]
[82 त्संज्ञं- मु.।]
दृगस्त्रं कवचं शैखं शिरो हृत्[83] षड् यथाक्रमम् ।
मन्त्रः समाधिविषये नानाभूमिजयेषु च ।। 35 ।।
अङ्गमन्त्रसिद्ध्यर्थमुक्तानां ज्ञानादीनां हृदयाद्यङ्गैः सह योजनक्रममाह- तेज इत्यादिना। तथा चैवं प्रयोगः- ॐ ॐ ज्ञानाय हृदयाय नमः। ॐ विज्ञानप्राणाय ऐश्वर्याय शिरसे स्वाहा। ॐ नमः शक्त्यै शिखायै वौषट्। ॐ शान्तोदित[84]बलाय कवचाय हुम्। ॐ सर्वदर्शिने वीर्याय अस्त्राय फट्। ॐ चैतन्याय तेजसे नेत्राभ्यां वौषट्। एवमेषां मन्त्राणां प्रणवादित्वं[85] नमस्स्वाहादिजात्यन्तत्वं[86] च नृसिंहकल्पपरिच्छेदे वक्ष्यति-
सर्वेषां प्रणवः पूर्वः स्वसंज्ञान्ते नियोज्य तु ।
स्वकीया जातयश्चान्ते वौषडन्ताः क्रमेण तु ।। (17/10-11) इति ।। 35 ।।
[83 हृच्च- मु. अटी.।]
[84 दिताय- म.।]
[85 दित्सु- अ.।]
[86 जात्यत्वं- अ.।]
निराकारो निरङ्गश्च स्मर्तव्यो ब्रह्मलक्षणः ।
तत्प्राप्त्युपाये प्रथमे यागहोमादिके तु वै ।। 36 ।।
साकारं संस्मरेत् साङ्गं परिवारेण चावृतम् ।
आनीता व्यक्ततां येन स्वयं ज्ञानादयो गुणाः ।। 37 ।।
उक्तस्यास्य मूलमन्त्रस्य विषयभेदेन साकारत्वं निराकारत्वं चाह- मन्त्रः समाधिविषय इति द्वाभ्याम्। यागहोमादिके यागो बिम्बादिषु भगवदर्चनम्, होमो वह्निसंतर्पणम्, आदिशब्देनाविशिष्टं पाञ्चकालिकं कर्मोच्यते। प्रथमे [87]तत्प्राप्त्युपाये कर्मज्ञानभक्तिप्रपत्तिनाम्नां चतुर्विधानां भगवत्प्राप्त्युपायानां प्रथमे उपाये, कर्मयोग इत्यर्थः।। 36-37 ।।
[87 `तत्' नास्ति- अ.।]
शश्वद् यागसमाप्त्यर्थं [88]कर्मिणामनुकम्पया ।
सोऽनङ्गः संस्मृतो मन्त्रो भक्तिश्रद्धावशेन तु ।। 38 ।।
फलं यच्छति वै नूनं नित्यं तद्भावितात्मनाम् ।
प्राधान्येन क्रतोः[89] स्थैर्यं मोक्षो यत्रानुषङ्गतः ।। 39 ।।
एतत्कर्मयोगनिष्ठानां साकारस्मरणं विना भगवदर्चनादेः कर्तुमशक्यतया भगवान् स्वयमेव तेषु कृपातिशयेन षाड्गुण्यात्मकं निजाकारं प्रकाशयति। योगिनां तु `सर्वत्र विदितात्मनाम्' इत्युक्तरीत्या तन्नैरपेक्ष्यान्निराकारं [90]संस्मृतोऽपि तद्भक्त्यतिशयसंतुष्टः फलं प्रयच्छतीत्याह- आनीता इति द्वाभ्याम् ।। 38-39 ।।
[88 `कर्मिणा.....शान्त्यर्थं' नास्ति- बख., कर्मणां- मु. बक. उ.।]
[89 त्वथैश्वर्यं- बख. अ.उ.।]
[90 सस्मृतो- अ.।]
तत्र तद्विघ्नशान्त्यर्थं[91] मन्त्रार्थं[92] विद्धि मन्त्रपम् ।
विपर्यये तु नेत्रान्तो मन्त्रो यस्मान्महामते ।। 40 ।।
दृग्दृष्टिशुद्धमार्गाणां क्व विघ्नाः शान्तचेतसाम् ।
स्वकमन्तर्गतं[93] तेजः स्वातन्त्र्याच्च बहिष्कृतम् ।। 41 ।।
ऐश्वर्यप्रधाने कर्मण्यस्य मन्त्रस्याङ्गन्यासादिष्वस्त्रान्तत्वं मोक्षप्रधाने कर्मणि नेत्रान्तत्वं चाह- प्राधान्येनेति द्वाभ्याम्। तत्र तस्मिन् कर्मणि तद्विघ्नशान्त्यर्थं तस्य कर्मणस्तज्जन्यैश्वर्यस्य तदानुषङ्गिकमोक्षस्य च ये विघ्नाः संभवन्ति, तत्तच्छान्त्यर्थमित्यर्थः। विपर्यये तु मोक्षस्य प्राधान्ये ऐश्वर्यस्यानुषङ्गिकत्वे इत्यर्थः। दृग्दृष्टिशुद्धमार्गाणां दृग् नेत्रमन्त्रः, तेन दृष्टिः अवलोकनम्, तेन शुद्धः पावनीकृतो मार्गो येषां तेषां तथोक्तानाम्। नेत्रमन्त्रावलोकनस्य [94]परिशुद्ध्यावहत्वं व्यक्तमुक्तमीश्वरपारमेश्वरयोः-
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ।
तस्मात् स्थानात् समानीय तं कुर्यान्नेत्र[95]मध्यगम् ।।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ।
ततो लोचनयुग्मेन स्तब्धेन [96]मुनिपुङ्गवाः ।।
जपन् लोचनमन्त्रं तु [97]पश्येद् यागोपयोगिनम् ।
[98]संभारमखिलं तेन द्रव्यसंघो विशुध्यति ।। इति ।। 40-41 ।।
(ई. सं. 3/2-5; पा.सं. 6/8-10)
[91 र्थमस्त्राणां - अ. उ.।]
[92 मन्त्रान्तं- बक. बख.।]
[93 र्गते- मु.।]
[94 पारि- म.।]
[95 मन्त्र- अ.।]
[96 द्वि जसत्तम- पा.।]
[97 अवलोक्याखिलं तु तम्- पा.।]
[98 नास्त्येषा पङ्क्तिः- पा.।]
येन येन हि मन्त्रेण स च नेत्रान्वितः स्मृतः ।
स्वप्रकाशस्त्वनुपमो येन येन हृदन्तरे ।। 42 ।।
सितासितः समाकृष्यः[99] स[100] स तद्वाचकोत्थितः[101] ।
अथ मन्त्रवरस्यास्य श्रृणुष्वराधनं यथा ।। 43 ।।
बहिःप्रकटिततेजसां मन्त्राणां तेजोवाचकशब्दसहितत्वम् अन्तर्निगूढतेजसां तु तद्वाचकरहितत्वं चाह- स्वकमिति द्वाभ्याम्। एवं च तेजोवाचकरहितानां मन्त्राणां पञ्चाङ्गत्वमेव बोध्यम्। तदुक्तमीश्वरपारमेश्वरयोर्गरुडार्चनप्रकरणे-
पञ्चाक्षर इति ख्यातो गारुडो मुनि[102]सत्तमाः ।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ।। इति ।
(ई. सं. 8/14;पा. सं.8/14)
पारमेश्वरव्याख्याने त्वेतच्छ्लोकव्याख्यानावसरे- "अत्र पञ्चाङ्गोऽयं मन्त्रः पाद्मसात्वतयोः षडङ्गः प्रतिपादितः। षडङ्गानि पुनः स्वयमिति- "नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते" (11/173) इतीत्युक्तम्, तदसंगतम्। यतः श्रीसात्वतेऽयं गरुडपञ्चाक्षरमन्त्रो वा तदङ्गविचारो वा न दृश्यते। न चैतद् गरुडमन्त्राङ्गविचारादर्शनेऽपि "नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते" (19/173) इति तत्रोक्तत्वात् पञ्चाङ्गमन्त्रसामान्यस्य हृद्बीजयोजनया षडङ्गत्वसिद्धेरस्यापि तथा षडङ्गत्वं सिद्धमिति वाच्यम्, यत एवं हृद्बीजेन सह षडङ्गत्वे संभवति सात्वते पञ्चाङ्गानामित्युक्तिरेव न संभवेत्। किञ्च सात्वतोपबूंहणे ईश्वरे (8/14) पारमेश्वरे (8/14) च गरुडमन्त्रस्य षडङ्गत्वकथनं विना पञ्चाङ्गत्वमात्रोक्तिरपि न घटते। अतस्तदर्थमिदं सावधानं श्रृणु- पञ्चाङ्गानां मन्त्राणां दीक्षा[103]दाविति शेषः। नेत्रकर्मणि नेत्रमन्त्रेण कर्तव्ये कर्मणि,
[104]पाचयेत् मूलमन्त्रेण दृष्ट्वा नेत्रेण संस्कृतम् । (18/102) इति,
वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ।।
सुतृप्तिमथ नेत्रेण कुर्यात्तेनैव तत्स्थितिम्[105] । (19/88-89)
इति चैवमादिके हृद्बीजं विधीयते। पञ्चाङ्गानां नेत्रबीजाभावात् तत्स्थाने हृद्बीजं योजयोदिति भावः। एवमेव निरङ्गानां मन्त्राणामङ्गमन्त्रसामान्याभावात् तत्साध्येषु कर्मसु प्रणवो नियोक्तव्य इति च सात्वते उक्तम्-
निरङ्गानां तु मन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ।।
प्रणवो विनियोक्तव्यः सह कर्मपदेन तु । इति ।
(19/173-174)
नैतावता पञ्चाङ्गानां षडङ्गत्वं निरङ्गानां साङ्गत्वं च सिध्यतीति बोध्यम्।। 42-43 ।।
[99 कृष्टिः- मु.।]
[100 स तु तद्वाचकोऽसितः- मु.।]
[101 न्वितः- बक. बख., जितः- उ.ष]
[102 सत्तम- पा.।]
[103 क्षितानामिति- अ.।]
[104 वाच- अ.।]
[105 तम्- म.।]
सबाह्याभ्यन्तरावस्थं समा[106]सादमलेक्षण[107] ।
परिच्युतमलः स्नातः शुद्धवासा जितेन्द्रियः ।। 44 ।।
एतावदन्तं मन्त्रस्वरूपमुक्त्वा इतः परमर्चनप्रकारं श्रृणुष्वेत्याह- अथेति। सबाह्याभ्यन्तरावस्थं मानस[108]बाह्योभयाराधनमित्यर्थः ।। 44 ।।
[106 मार्थम- मु., पाद- बक.।]
[107 क्षणः- अ., उ., क्षणम्- बक. बख.।]
[108 बाह्याराधनोभयात्मकमि-म.।]
वाग्यतः पुष्पदर्भाद्यैर्द्वाराग्रस्थं पतत्रिपम् ।
सचक्रं पूजयित्वादौ संविशेद् भगवद्गृहम् ।। 45 ।।
आदौ पूजकस्य स्नानादिनियममाह- परिच्युतेति सार्धेन। परिच्युतमलः ब्राह्ममुहूर्तसमुत्थानभगवद्ध्याननामसंकीर्तनादिभिः परिहृतान्तरमलः, शौचाचमनदन्तधावनादिभिः परिहृतबाह्यमलश्चेत्यर्थः। स्नातः
[109]दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः ।
एतैः समस्तैर्व्यस्तैर्वा कृतशुद्धिर्यथा[110]बलम् ।।
इत्युक्तरीत्याऽनुष्ठितस्नानः। एतेषामनुष्ठानप्रकारास्तु पारमेश्वरादिषु[111] द्रष्टव्याः। यद्यपि जयाख्योक्तं[112] पारमेश्वरे चोपबृंहितमौदकस्नानं ग्राह्यम्, तथापि स्वसूत्रोक्तस्नानाद्यनुष्ठानपारम्पर्ये सति तत्परित्यज्यान्यन्न ग्राह्यमिति निर्णीतं पञ्चरात्ररक्षायाम्[113]। अत्र स्नात इत्यनेनैव पार्थिवस्नानरूपमूर्ध्वपुण्ड्रधारणमपि संगृहीतम्, सन्ध्यावन्दनादिकमप्युपलक्षितम्। शुद्धवासा इत्यनेन
गन्धैः स्रग्भिरलङ्कारैः सोत्तरीयैश्च भूषितः ।
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः ।।
इत्याद्यर्थः संगृहीतः। क्षिप्तः[114]। जितेन्द्रिय इत्यनेनाभिगमनं सूचितं भवति। यतः-
जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुक्तैः ।।
अभिगच्छेज्जगद्योनिं [115]तच्चाभिगमनं स्मृतम् ।
(ज. सं. 22/68-69)
इत्युक्ताभिगमनेन हीन्द्रियजयः सिद्ध्यति। पुष्पदर्भा(दी?द्यैरि)त्यनेनोपादानमुक्तं भवति। आदौ द्वाराग्रस्थं सचक्रं पतत्रिपं पूजयित्वेत्यनेनानयोः सर्वद्धारपालमुख्यत्वं सूच्यते। अत एवेश्वरपारमेश्वरयोश्चण्डादिषु जागरूकेष्वपि- "नियोज्य तत्र रक्षार्थं चक्रं च [116]पतगेश्वरम्" (ई. सं. 6/116; पा. सं. 7/523) इत्युक्तम्। किञ्च, यागगेहद्वारार्चनप्रकरणेऽपि चण्डनादीनामप्यर्चनाशक्तौ "सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः" (ई. सं. 9/300; पा. सं. 11/303) इत्युक्तम्। अर्चनस्थानं च तत्रैव व्यक्तमुक्तम्- "ध्यायेद् द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम्" (ई. सं. 9/22; पा. सं. 11/21) इति प्रक्रम्य,
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे ।
संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ।। इति ।
(ई. सं. 9/25- 26; पा. सं. 11/25)
बलिमण्डलाभावस्थले गोमयादिना सद्यः कल्पिते[117]नाऽर्चनमुक्तं तत्रैव-
स्थिते वा कल्पिते तत्र पूजयेद् बलिमण्डले ।
सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम् ।। इति ।
(ई. सं. 2/9-10)
अस्मिन्नवसरे गर्भगेहद्वारपालार्चनमपि कार्यम्। तदत्रैव वक्ष्यति नृसिंहकल्पपरिच्छेदे-
स्नातो बद्धकचो मौनी शुद्धवासोऽर्घ्यपुष्पधृक् ।
कृत्वा द्वार्स्थार्चनाद्यं तु उपविश्यासने ततः ।। (17/16) इति।
इदमेवोपबृंहितमीश्वरेऽपि-- "वास्तुपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम्" (2/11) इति। संविशेद् भगवद्गृहमित्यत्र ईश्वरे द्वारविभाग उक्तः-
प्रासादान्तः प्रवेशार्थं ततो द्वारं तु चेतसा ।
त्रिभागीकृत्य तन्मध्यभागमेकं द्विधा पुनः ।। [118] ।।
विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः ।
शनैः शनैः प्रविश्यान्तः...... ....... ...... ।। (2/14-15) इति।
अन्ये चात्र तत्र तत्रापेक्षिता बहवो विशेषा एतदुपबृंहणयोरीश्वरपारमेश्वरयोरेव संगृहीता ग्राह्याः ।। 44-45 ।।
[109 पाञ्चरात्ररक्षायां (पृ. 105) समुद्धृतोऽयं श्लोकः।]
[110 यदा- अ.।]
[111 पारमेश्वरे द्वितीयाद्याये।]
[112 जयाख्यसंहितायां नवमे पटले ।]
[113 अत्र 97-105 पृष्ठेषु स्नानप्रकरणं द्रष्टव्यम्।]
[114 उभयोर्मातृकयोर्दृश्यतेऽप्रासङ्गिकमेतत् पदम् ।]
[115 तच्छान्ति- अ.।]
[116 विहगे- मु.।]
[117 ते वा अर्चन - अ.।]
[118 पुरः- अ.।]
उपार्जितं [119]पुरा यद्वै यागोपकरणं महत् ।
तत्सर्वं दक्षिणे कृत्वा वामे तु करकं न्यसेत् ।। 46 ।।
गालितेनाम्भसा पूर्णं मध्ये भद्रासनं न्यसेत् ।
मृत्काष्ठोपलघातूत्थमेकद्वित्रिशमं[120] तु वा ।। 47 ।।
चतुरश्रमथाष्टाश्रं चतुरश्रायुतं[121] तु वा ।
चतुष्पादसमायुक्तं चतुरावरणाङ्कितम् ।। 48 ।।
मकरास्यप्रणालं तु प्रमाणेनोपलक्षितम् ।
तदधश्चोत्तरस्यां वै चलं वा [122]क्ष्मातलाश्रितम् ।। 49 ।।
शङ्खचक्राङ्कितं कुर्याज्जलाधारं[123] सुलक्षणम् ।
अथोपविश्य वै दार्भे काष्ठजे वाऽजिनासने ।। 50 ।।
[119 पुरस्ताद्वै- मु. अटी.।]
[120 शतं- मु. बक.बख., दशं-अ. उ.।]
[121 रश्रयुतं- मु. अटी.।]
[122 पक्ष्मान्तरा- मु. अटी.।]
[123 वासं- अ.।]
बद्धपद्मासनः कुर्यान्न्यासं मन्त्रवरेण तु ।
अभिन्नं[124] मस्तके तावदादित्या[125]तपवन्न्यसेत् ।। 51 ।।
व्यापकत्वेन तदनु विन्यसेद् भिन्नलक्षणम् ।
अङ्गुष्ठद्वितयाद् यावत् कनिष्ठाद्वितयावधिः ।। 52 ।।
ज्ञानाद्यं वीर्यपर्यन्तं विन्यसेदङ्गपञ्चकम् ।
मूलवद् व्यापकत्वेन नेत्रमू[126]र्ध्वाङ्गुलीषु च ।। 53 ।।
आब्रह्मरन्ध्रात् पादान्तमथ मन्त्रं तु विग्रहे ।
ततस्तु हृदये ज्ञानं यतो [127]व्यज्येत तत्र तत् ।। 54 ।।
ऐश्वर्यं शिरसो देशे यस्मादुपरि तिष्ठति ।
प्राकृतं तात्त्विकं वापि सर्वत्र कमलेक्षण ।। 55 ।।
हार्दाग्नेरूर्ध्वगायां नु शिखायां शक्तिमन्त्रराट् ।
बलं चाखिलगात्राणां [128]तद्गतं वायुना सह ।। 56 ।।
मूर्च्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ।
अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत् ।। 57 ।।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ।
[129]चतुश्चक्रे[130] नवद्वारे देहे देवगृहे पुरा ।। 58 ।।
इदानीमेवं भद्रासनन्यासोक्तिश्चलबिम्बादीनां तदुपरि स्थापनार्थं वा बिम्बादिकं विना तत्रैवार्चनार्थं वेति ज्ञेयम्। स्थिरबिम्बानां पीठस्तु प्रतिष्ठाकाल एव स्थाप्यते।
स्वासनोपवेशनपूर्वकं मन्त्रन्यासविधिमाह- अथोपविश्येत्यादिभिः। अत्र न्यासात् पूर्वं प्राणायामभूतशुद्धेः, मन्त्रन्यासानन्तरं भूषणादिन्यासस्य चानुक्तावपि नृसिंहकल्पे[131] वक्ष्यमाणरीत्या ग्राह्यम् ।। 50-58 ।।
[124 न्नमस्तयोस्ता- म. उ., न्नहस्तस्योता- बक. बख।]
[125 दप- मु., दपरं न्य- अटी.।]
[126 मूर्ध्वे- मु. अटी. उ.।]
[127 भज्येत- मु.।]
[128 त्वद्गतं- बक. बख., तत्कृतं- अ.।]
[129 नास्त्येषा पङ्क्तिः- अ.।]
[130 चतुःपञ्च- मु.।]
[131 सप्तदशे परिच्छेदे 17श्लोकादितः प्रकरणमेतद् द्रष्टव्यम्।]
[132]न्यस्यैवमभिमानं तु मन्त्राख्यमवलम्ब्य च ।
मनस्युपरतं कुर्यादक्षग्रामं बहिःस्थितम् ।। 59 ।।
एवमाधारनाभिहृत्कण्ठचतुश्चक्रविशिष्टे नवद्वारान्विते स्वशरीरे भगवन्मन्दिरत्वबुद्ध्या पूर्वं मन्त्रान् विन्यस्य "नादेवो देवमर्चयेत्" इति न्यायेन स्वस्मिन् [133]देवत्वाभिमानावलम्बनं च कुर्यादित्याह- चतुश्चक्र इति। मन्त्राख्यमभिमानं[134] स्वस्मिन् मन्त्रनाथत्वाहङ्कारमित्यर्थः। वक्ष्यति च- "देवोऽहमिति भावयेत्" (17/36) इति। जयाख्येऽपि व्यक्तमुक्तम्-
अहं स भगवान् विष्णुरहं नारायणो हरिः ।
वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ।।
एवं रूपमहङ्कारमासाद्य सुदृढं मुने । (11/41-42) इति ।। 59 ।।
[132 पूर्वं मन्त्राराधनां- अ.।]
[133 देवत्वावलम्बनं हि मानावलम्बनं - अ.।
[134 भिगमनं- अ.।]
चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे ।
ज्ञानभावनया कर्म कुर्याद् वै पारमार्थिकम् ।। 60 ।।
अथ मानसिकयागमुपदिशन् निरन्तरायभगवज्ज्ञानभावनासिद्ध्यर्थं बाह्येन्द्रियादीनामन्तर्नियमनमाह- मनसीति सार्धेन। एवं ज्ञानभावनया क्रियमाणस्य कर्मणः शुद्धसत्त्वम(यं? यत्वं) ब्राह्यस्य त्रिगुणमयत्वात् [135]शुद्ध्यपेक्षत्वं चोक्तं लक्ष्मीतन्त्रे-
मानसीर्निर्वपेत् सर्वाः क्रिया ज्ञानसमाधिना ।।
ज्ञानेन क्रियते यद्यत् कर्म ब्रह्मसमाधिना ।
शुद्धसत्त्वमयं तत्तदक्षय्यं भवति ध्रुवम् ।।
बाह्या[136] द्रव्याश्रिता[137] यस्माद् दोषा राजसतामसाः ।
ततस्त[138]च्छोधनमपि कर्मणा मनसा गिरा ।।
तस्मादेकान्तनिर्दोषं भावना[139]वासितं तथा ।
तस्माज्ज्ञानं समास्थाय शुद्धं[140] संवित्समुद्भवम् ।।
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् । (34/137-141)
इति।। 59-60 ।।
[135 शुद्ध्यु- अ.।]
[136 बाह्यद्र-मु.।]
[137 कृता- अ.।]
[138 च्चोदन-अ. म.।]
[139 भावनापदं त्रुटितमुभयोर्मातृकयोः।]
[140 शुद्धसं- अ. म.।]
चतुश्चक्रे नवद्वारे देहे देवगृहे पुरा ।
कण्ठकूपधरारूढं ह्यत्पद्मं यदधोमुखम् ।। 61 ।।
तत्कर्णिकावनेर्मध्ये रूढमूर्ध्वमुखं तु यत् ।
शब्दव्यक्तिस्तदूर्ध्वे तु स्थितार्केन्द्वग्निलक्षणा ।। 62 ।।
स्वहृदये भगवदभिव्यक्तिस्थाननिरूपणार्थं प्रथमतः शब्दब्रह्मावस्थानमाह- चतुश्च (क्रिमि? क्र इ)ति द्वाभ्याम्। कण्ठकूपधरारूढं गलकूपस्थलसमुत्पन्नमधोमुखं यद् हृत्पद्मं तत्कर्णिकावनेर्मध्ये रूढं समुत्पन्नं यद् हृत्पद्ममित्यनुषज्यते। तदूर्ध्वे तत्कमलद्वयसंपुटमध्ये अधःकमलोपरीत्यर्थः। अर्केन्द्वग्निलक्षणा ज्योतिःस्वरूपा शब्दव्यक्तिः शब्दब्रह्म स्थिता वर्तत इत्यर्थः ।। 61-62 ।।
त्रिदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा ।
व्यक्तं चक्रत्रयस्योर्ध्वे वर्तते या महामते ।। 63 ।।
निस्सृता ब्रह्मरन्ध्रेण गता सूर्यपथात् परम् ।
[141]वायुद्वारेण पातालं भित्वा याता [142]सुगोचरम् ।। 64 ।।
सङ्कल्पविषयः सर्वः सम्बन्धः[143] प्रतितिष्ठति ।
सूत्रे मणिगणो[144] यद्वन्मध्यनाडी ह्यतः स्मृता ।। 65 ।।
[145]लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै ।
सम्पुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ।। 66 ।।
तत्रार्कं चाब्जमालम्ब्य परा वाग्भ्रमरी स्थिता ।
या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ।। 67 ।।
[146]नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् ।
अकारपूर्वो हान्तश्च धारासन्तानरूपधृक् ।। 68 ।।
एवं संग्रहेण शब्दब्रह्मावस्थानमुक्त्वा पुनः सुषुम्नानाडीस्वरूपकथनपूर्वकं तदेव विशदयति- त्रिदी(प्ती)ति षड्भिः। अस्या त्रिदीप्तिभास्वरत्वं तेजस्त्रयात्मकशब्दब्रह्माधारत्वात्। अव्यक्तध्वनिविग्रहा अव्यक्तध्वनिः शब्दब्रह्म
शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि ।
मुक्तयेऽखिलजीवानामुदेमि परमेश्वरात् ।।
तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः । (20/7-8)
इति लक्ष्मीतन्त्रोक्तेः, [147]स विग्रहो यस्याः सा तथोक्ता। चक्रत्रयस्योर्ध्व आधारनाभिक(ण्ठ)चक्रत्रयोपरि प्रकाशमाना ब्रह्मरन्ध्रेण निःसृता सूर्यपथान् [148]परं गता [149] वायुद्वारेण पातालं भित्वा स्वगोचरं याता, [150]आमूलाग्रं यावदन्तं व्याप्तेत्यर्थः। अत एव भगवत्संकल्पविषयः सर्वोऽपि सूत्रे मणिगण इव सुषुम्नानाडीसंबन्धः प्रतितिष्ठति, अतो मध्यनाडीति स्मृता प्रसिद्धा। तस्यामभ्यन्तरे पूर्वोक्ते[151] लक्ष्यस्थाने, हृदयकमलस्थान इत्यर्थः। निमेषोन्मेषलक्षणे निमीलनोन्मीलनविशिष्टे शशिमूर्याख्ये, निमीलितोर्ध्वकमलस्य शशिसंज्ञत्वम्, उन्मीलनोन्मीलनविशिष्टे शशिसूर्याख्ये, निमीलितोर्ध्वकमलस्य शशिसंज्ञत्वम्, उन्मीलिताधःकमलस्य सूर्याख्यत्वम्। तत्र संपुटे कमलद्वयसंपुटे, आर्कम् अर्कसंबन्धि, अब्जम् अधःकमलमित्यर्थः। आलम्ब्य आश्रित्य, परा सूक्ष्मा, वाग्भ्रमरी वागेव भ्रमरी स्थिता। तां विशिनष्टि- या वाग्भ्रमरी सर्वमन्त्रजननी शान्तात्मनः सूक्ष्मस्य परस्येति यावत्, विभोः शक्तिरित्यनेन इयमपि तथा सूक्ष्मेत्यर्थः। अकारपूर्वो हान्तः अकारादिहकारान्तः, धारासन्तानरूपधृक् तैलधारावदविच्छिन्नः शब्दब्रह्मेति [152]यत् यो नादः, तं वर्णजं नादं नदन्तीति। एवमेव नादस्वरूपमुक्तं लक्ष्मीतन्त्रेऽपि-
पृथग्वर्णात्मना याति स्थितयेऽनेकधा स तु ।।
सूक्ष्मवर्णस्वरूपोऽसौ धारासन्तानरूपधृक् ।
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य विवेकिनः ।।
[153]सोऽनुभूतिपदं याति प्रसादात् परमात्मनः । (20/8-10) इति।
एतादृशं नादं नदन्त्या वाक्शक्तेः स्वरूपमपि त(त्राप्यु?त्रैवो)क्तम्-
प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा ।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता ।।
व्यापकं [154]यत् परं ब्रह्म नारायणसमाह्वयम्[155] ।
शान्तता नाम याऽवस्था साहं शान्ताखिलप्रसूः ।। (18/18-19) इति।। 63-68 ।।
[141 पायु- उ.।]
[142 स्व- बख. उ., ख-अ.।]
[143 र्वस्तद्बन्धं- मु.।]
[144 गणा- मु.।]
[145 लक्ष- मु.।]
[146 वदन्ति- मु.।, नन्दती- अ.।]
[147 `स विग्र' न दृश्यते- अ.।]
[148 पारं- अ.।]
[149 पायु- म.।]
[150 आमलोग्रं- अ.।]
[151 पूर्वोक्त- अ.।]
[152 `यतः' इत्युभयमातृकास्थः पाठः। मूलानुसारी पाठोऽत्र स्थापितः।]
[153 अनु- मु.।]
[154 धर्म- अ.।]
[155 मनामयम्- मु.।]
नादाव[156]सानगगने देवोऽनन्तसमन्वितः ।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ।। 69 ।।
अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां[157] गतः ।
विश्वमाप्याययन् कान्त्या पूर्णेन्द्वयुततुल्यया ।। 70 ।।
[158]वरदाभयदेनैव शङ्खचक्राङ्कितेन तु ।
त्रैलोक्योद्धृतिदक्षेण युक्तः पाणिद्वयेन तु ।। 71 ।।
रश्मिभिर्भास्करो[159] यद्वत् समुद्र इव चोर्मिभिः ।
[160]स्वमूर्तिभिर[161] मूर्तीभिरच्युताद्याभि[162]रन्वितः ।। 72 ।।
दीप्तिमद्भिर[163]मूर्तैस्तु सुधाकल्लोलसङ्कुलैः[164] ।
पूर्ण आभरणैः सर्वैर्निर्विकाराङ्घ्रिविग्रहः ।। 73 ।।
एवं हृदयकमले शब्दब्रह्मावस्थानमुक्त्वा तदन्ते द्योतमानपरब्रह्मस्वरूपमाह- नादावसानेति पञ्चभिः। नादावसानगगने नादो नाम नादबिन्दुमध्यमावैखर्याख्ये शब्दब्रह्मणोऽवस्थाचतुष्टये प्रथमावस्था पूर्वोक्तलक्षणा, तदवसानं तत्पराकाष्ठा, तत्र यद् गगनं गगनात्मिका शक्तिः, तत्रेत्यर्थः। तथा च लक्ष्मीतन्त्रे-
नादस्य या परा काष्ठा साऽहन्ता परमेश्वरी ।।
शक्तिः सा परमा [165]सूक्ष्मा नादान्तगगनाह्वया ।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ।।
विरामे सति नादस्य यः स्फुटीभवति [166]ध्रुवम् ।
ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणात्मकम्[167] ।। (24/9-11) इति।
शङ्खचक्राङ्कितेनेत्यत्र पाणिद्वये केवलरेखारू(पा?प)शङ्खचक्राङ्कितत्वं ज्ञेयम्। यतोऽन्यथा पाणिद्वयमात्रस्य वरदाभयमुद्रान्वितत्वमपि न संभवति, तथा चोपबृंहितं लक्ष्मीतन्त्रे-
व्यापको भगवान् देवो भक्तानुग्रहकाम्यया ।।
अनौपम्यमनिर्देश्यं [168]वपुः स भजते परम् ।
विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुततुल्यया ।।
वरदाभयहस्तं च द्विभुजं पद्मलोचनम् ।
रेखामयेन चक्रेण शङ्खेन च करद्वये ।।
अङ्कितं निर्विकाराङ्घ्रिस्थितं परमशोभनम् ।
अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्भिरलङ्कृतम् ।।
समं समविभक्ताङ्गं सर्वावयवसुन्दरम् ।
पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः ।।
[169]रश्मिभूतैरमूर्तैः स्वैरच्युताद्यैरविच्युतम् ।
एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा ।।
योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम् । (10/11-17) इति।
स्वमूर्तिभिरच्युता(द्या)भिरन्वित इत्यत्राच्युताद्या मूर्तयस्तिस्र इति ज्ञेयम्। तदुक्तं पारमेश्वरे प्रतिष्ठाध्याये-
तथा च सर्वजगतामेकबीजात्मकस्य च ।।
सदोदितस्वरूपस्य वासुदेवस्य वै विभोः ।
त्रयाणामच्युतादीनां तद्भेदानां तथैव च ।। (15/22-23) इति(च?)।
एवं च संकर्षणप्रद्युम्नानिरुद्धानामेवाच्युतसत्यपुरुषापरनामधेयत्वं बोध्यम्। ननु-
पुरुषं [170]च ततः सत्यमच्युतं च युधिष्ठिर ।।
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः ।
अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः ।।
वासुदेवं च राजेन्द्र संकर्षणमथापि च ।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं [171]प्रचक्षते ।।
(महा. आश्व. 92 अ.। पृ. 6342)
इति वासुदेवादीनां पुरुषादिशब्दवाच्यत्वं दृश्यते। भवता व्युत्क्रमेणानिरुद्धादीनां पुरुषादिशब्दवाच्यत्वं कथं व्याख्यातमिति चेत्, सत्यम्। अत्र वैखानसानां तथा व्यवहार इत्युक्त्या नास्मद्व्याख्याविरोधः। अपि त्वनिरुद्धादीनां पुरुषादिशब्दवाच्यत्वमत्रैव वक्ष्यति पञ्चमे परिच्छेदे मन्त्रोद्धारप्रकरणे "अप्ययावसरे" (5/68) इत्यादिभिः। एवमात्र परात्परदशायामच्युतादिसमन्वितत्वेऽपि वासुदेवस्यैव प्राधान्यं बोध्यम्, तत्रैकमूर्तिप्राधान्यात्।
ननु तर्हि शान्तोदितापरनामधेयतुर्यव्यूहचतुर्मूर्तिप्राधान्यं किमिति चेन्न, "अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत्" (5/81) इति वक्ष्यमाणानुसारेण परसंज्ञस्य तद्व्यूहस्य परात्परवासुदेवाद्यभिन्नत्वात्। अत एव सुषुप्त्यादिव्यूहवत् प्रत्येकं तद्व्यूहवाचकमन्त्राणामनुक्तत्वात् परात्परमन्त्रेणैव तस्यापि चारितार्थ्याच्च [172] परात्परत्वदशायामिव परत्वेऽपि वासुदेवस्यैकस्यैव प्राधान्यं ज्ञेयम्। तर्हि एवमभिन्नत्वे पुनः केन तयोर्भेद इति चेत्, नित्योदितत्वेन चेति बोध्यम्। नित्योदितत्वं नाम [173]स्वविभूत्यनुभवदशाविशिष्टत्वम्। शान्तोदितत्वं नाम स्वात्ममात्रानुभवदशाविशिष्टत्वम् ।
ननु चैवं शान्तोदितव्यूहेऽप्येकमूर्तिप्राधान्ये व्यूहशब्दस्य स्वारस्यं न संभवतीति चेदुच्यते- किं व्यूहशब्दमात्रेण चतुर्णां प्राधान्यमङ्गीकार्यम्? तथा सति परात्परत्वदशायामपि व्यूहशब्दो जागर्त्येव। तथाहि ईश्वरे (8/52) पारमेश्वरे (8/51) च गरुडार्चनप्रकरणे - "नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च" इति, सिद्धान्तलक्षणनिरूपणप्रकरणेऽपि- "यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम्" (ई. सं. 20/198;पा. सं. 19/533) इति। पारमेश्वरे प्रतिष्ठाध्याये-
परात्परस्वरूपस्य परस्य चतुरात्मनः ।
शान्तोदितादिव्यूहानां केशवाद्यखिलस्य च ।। (15/21) इति,
तथा च सर्वजगतामेकबीजात्मकस्य च ।।
सदोदितस्वरूपस्य वासुदेवस्य वै विभोः ।
त्रयाणामच्युतादीनां तद्भेदानां तथैव च ।।
शान्तोदितस्वरूपस्य परस्य चतुरात्मनः । (15/22-24)
इत्येवं सर्वत्र परात्परत्वसंज्ञायां नित्योदितत्वदशायां परत्वसंज्ञायां शान्तोदितत्वदशायां च वासुदेवादिचातुरात्म्यसद्भावाद् व्यूहशब्दचातुरात्म्यशब्दौ स्वरसावेव। किन्तु परत्वदशाद्वयेऽपि वासुदेवस्यैव प्राधान्यम्, एक एव मन्त्रः, तदर्चनेनैवोपसर्जनभूतानामन्येषामप्यर्चनसिद्धिरित्यादिकं बोध्यम् ।। 69-73 ।।
[156 स्थान- मु.।]
[157 मागतः- अ.।]
[158 वरदाभयेत्यादिकः श्लोकः शान्तः संविदित्यतः पूर्वं पठितः- बक. बख. उ.।]
[159 सुरो- उ., स्वरो- अटी.।]
[160 स- मु., सु-बक. अ.।]
[161 मुक्ता- बक., मूर्ती-मु. बख. अ.।]
[162 रच्युतः- बख. अ. उ., रच्युतम्- मु.।]
[163 मुक्तै- बक.।]
[164 लः- बक. बख.।]
[165 रूपा- अ. म.।]
[166 स्वयम्- मु.।]
[167 ह्वयम्- मु.।]
[168 पुनः- अ. म.।]
[169 श्रीभूतैः रम्यमूर्तैः- अ.।]
[170 तु- अ.।]
[171 प्रवक्ष्यते- मु.।]
[172 `परात्' नास्ति- अ.।]
[173 `स्वविभू..... नाम' नास्ति- अ.।]
ततः खाब्जकमध्यात्तु [174]ह्यूर्ध्वस्थात् संस्मरेच्च्युताम् ।
गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ।। 74 ।।
अर्घ्याद्यखिलभोगानां[175] कार्या वै [176]शुभकल्पना ।
तैः क्रमात् प्रीणयेद् देवमाद्यं तुर्यपदे स्थितम्[177] ।। 75 ।।
अर्घ्यादिपरिकल्पनार्थं गङ्गावतरणभावनाप्रकारमाह- तत इति सार्धेन। ऊर्ध्वस्थादित्यब्जविशेषणम्, [178]हृदयकमलद्वयसंपुटे ऊर्ध्वकमलादित्यर्थः। ऊर्ध्व(स्थादि?स्थितामि)ति पाठे गङ्गाविशेषणं सुस्पष्टम्। इममर्थं विस्तरेण वक्ष्यति [179]नृसिंहकल्पपरिच्छेदे आप्यायनप्रकरणे। अत्रापेक्षितं पीठकल्पनं नृसिंहकल्पे वक्ष्यति-
अथ प्रणवपूर्वेण स्वनाम्ना नतिना सह ।।
शेषपूर्वं तु वह्न्यन्तमासनं परिकल्पयेत् ।
तथाक्रम्याथ तस्यैव कार्या स्वहृदि कल्पना ।। (17/36-37) इति ।। 74-75 ।।
[174 च्युतामूर्ध्वस्थितां स्मरेत्- मु.।]
[175 न्ता- अ. उ.।]
[176 शुद्ध- उ.।]
[177 स्थितः- अ.।]
[178 `हृदय....विशेषणं' नास्ति- अ.।]
[179 सप्तदशे परिच्छेदे।]
प्रणवद्वितयं चोक्त्वा प्रीयतां मे परः प्रभुः ।
अथ कर्मात्मतत्त्वे तु कृतकृत्ये सति प्रभुः ।
[180]आस्ते विलाप्य स्वं रूपं नित्यं व्यक्तीकृतं च यत् ।। 76 ।।
अर्घ्यादिभिर्भगवत्प्रीणनं प्रति मन्त्रं चाह- तैरिति। आद्यं परव्यूहविभवाख्यरूपत्रये प्रथमं तुर्यपदे स्थितं जाग्रत्स्वप्नसुषप्तितुर्याख्यपदचतुष्टये परिशुद्धये तुर्यपदारूढमित्यर्थः। जाग्रदादिपदार्थविवरणं तु लक्ष्मीतन्त्रे सुस्पष्टमुक्तम्-
जाग्रत्स्वप्नं[181] सुषुप्तिश्च तुर्यं चेति चतुष्टयम् ।।
ज्ञेयं पदाध्वनो रूपं जाग्रद्बाह्येन्द्रियक्रमः ।
बाह्येन्द्रियाणां तमसाऽभिभूते[182] विभवे सति ।।
अन्तःकरणवृत्तिर्या संस्कारपरिशेषिणी ।
सा स्वप्न इति विज्ञेया तदभावे सुषुप्तिका[183] ।।
तमसाऽनभिभूतस्य सत्त्वस्थस्य विपश्चितः ।
बाह्यान्तःकरणस्थाया वृत्तेरुपरमे सति ।।
शुद्धसत्त्वस्वभावस्य[184] सन्ततिस्तुर्यसंज्ञिता ।
एवं चतुर्विधे मार्गे निर्दिष्टेऽस्मिन् पदाभिधे ।।
तुर्यवर्जं[185] सुषुप्त्यादिरशुद्धां भजते गतिम् । (22/22-27) इति।
अत्र ॐ ॐ प्रीयतां मे परः प्रभुरिति परस्य भगवतोऽर्चनप्रकरणात् परशब्द[186]घटितोऽयं मन्त्रः। व्यूहाद्यर्चनप्रकरणे तु परशब्दस्थाने व्यूहादिशब्दो योज्यः। अथवा सर्वसाधारण्येन नारायणवासुदेवविष्णुशब्देष्वन्यतमो योज्यः। तथा च लक्ष्मीतन्त्रे "ॐ ॐ प्रीयतां भगवान् वासुदेव इति ब्रुवन्" (36/110) इति। अत्रैवं प्रीतिमन्त्रमात्रमुक्तम्। संकल्पभोगदानमन्त्रावप्यपेक्षितावन्यतो ग्राह्यौ, प्रतिभोगसमर्पणमेतन्मन्त्रत्रयस्याप्यावश्यकत्वात्। तथोक्तं लक्ष्मीतन्त्रे-
संकल्पश्च प्रदानं च प्रीतिश्चेति त्रयं त्रयम् ।।
कुर्यात् सर्वेषु भोगेषु देशकालाद्यपेक्षया । (36/107-108) इति।
अत एव सात्त्वतोपबृंहणे ईश्वरे (7/147-149) सुदर्शनार्चनप्रकरणे जयाख्योक्तो भोगदानमन्त्रः संगृहीतः। संकल्पमन्त्रस्तु लक्ष्मीतन्त्रे उक्तः-
समाहितोऽञजलिं कृत्वा तत ॐ भग[187]वन्निति ।।
आसनेनार्चयिष्यामीत्युक्त्वा दद्यादथासनम् । (36/108-109)
इति ।। 75-76 ।।
एवं मानसाराधने संपन्ने सत्य[188]व्यक्तस्य गुणमात्रलक्ष्यस्य "अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत्" (5/81) इति वक्ष्यमाणरीत्या भगवानेव भक्तानुग्रहकाम्यया व्यक्तीकृतं निजस्वरूपमुसंहरतीत्याह- अथेति। एवमेव वक्ष्यत्युत्तरत्रापि- "विसर्जनं[189] तु बोद्धव्यं संपन्ने तु क्रिया[190]क्रमे" (17/40) इति।। 76 ।।
[180 आत्मनोऽपि यथा रूपं-अ.।]
[181 स्वप्नौ- मु.।]
[182 संजाते विफले- अ. म.।]
[183 प्तिता- म., प्तिद- अ.।]
[184 प्रसादस्य-मु.।]
[185 वर्ज्यं- म.।]
[186 `शब्द' नास्ति- अ.।]
[187 वानिति- अ. म.।]
[188 `अव्यक्त.... वक्ष्यमाणरीत्या' नास्ति- म.।]
[189 र्जने- अ. म.।]
[190 क्रमः- अ. म.।]
इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां
द्वितीयः परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये द्वितीयः परिच्छेदः ।।