← अध्यायः १४ सात्त्वतसंहिता
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →
सात्त्वतसंहितायाः अध्यायाः


पञ्चदशः परिच्छेदः
श्रीभगवानुवाच[1]

तपोदानव्रतानां च विहितस्याह्निकस्य च ।
निश्शेषयागभोगानां कृत्वा सम्पूरणक्रियाम् ।। 1 ।।

अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमे तु वा ।
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशे[2] च सङ्गमे ।। 2 ।।

नद्यां समुद्रगामिन्यां देवखाते ह्रदे[3] तु वा ।
प्रीतये परमेशस्य[4] त्वात्मनो दुःखशान्तये ।। 3 ।।

आह्लादायामराणां च पितॄणां तृप्तये तु वै ।
आप्यायनार्थं भूतानां भुवनानां च भूतये ।। 4 ।।

देश[5]दोषप्रशान्त्यर्थं गोब्राह्मणहिताय च ।
अथ पञ्चदशपरिच्छेदो व्याख्यास्यते। एवं सर्वच्छिद्रपूरकं पवित्रारोपणाख्यं कर्म कृत्वा तदवरोपणदिने तदनन्तरं देवस्यार्वभृथं कार्यमित्याह- तप इत्यादिभिः ।। 1-5 ।।
[1 भगवानित्येव- मु. अटी. बक. बख.।]
[2 शेऽथ- अ.।]
[3 ह्रदे तथा- मु. अटी., तेऽथवा तटे- अ., तवातले- उ.।]
[4 शाय - बक. बख. अ. उ.।]
[5 देशे - बख.।]

बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ।। 5 ।।

प्राङ्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः[1] ।
ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम् ।। 6 ।।

तस्य मध्यमनालं यन्न्यग्भूतमवतिष्ठते ।
आराध्य मन्त्रनाथेन स्मरेद् व्याप्तं महात्मना ।। 7 ।।

विवर्तं परमात्मी[1]यमध्य[2]क्षाख्यं च विद्धि तम् ।
अनेकगर्भमुच्चं यत्काण्डं काण्डेषु चोत्तमम् ।। 8 ।।

अणिमादिगुणैर्युक्तं [3]पुंस्तत्त्वं तेन कल्प्यते ।
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ।। 9 ।।

बहिःकाण्डचतुष्केण चित्तपूर्वं[4] चतुष्टयम् ।
ग्रथ[5]नीयमधोवक्त्रमव्यक्तान्तं स्वकैः पदैः ।। 10 ।।

प्रणवादिनमोऽन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ।
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत् तथा ।। 11 ।।

कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ।
पञ्चकं त्वथ भूतानां बद्ध्वा वै क्ष्माऽवसानिकम् ।। 12 ।।

अव[6]शिष्टैस्तु तत्काण्डैर्बध्नीयात् तत् [7]तरण्डवत् ।
विना शिखासमूहेन समुत्ता[8]नावधेरथ ।। 13 ।।

किञ्चित् तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ।
बहुधा काण्डसंघस्तु[9] कल्पितस्तत्त्वसंख्यया ।। 14 ।।

विभिन्नानां च काण्डानां भङ्गादेकतमस्य च ।
उत्पद्यतेऽन्यथात्वं च तस्मात् तद्[10] ग्रथयेद् दृढम् ।। 15 ।।
तदर्थं कुशकूर्चनिर्माणप्रकारमाह- बहुशाखमित्यादिभिः। बहुशाखम् अनेककाण्डान्वितमित्यर्थः। तेनैव प्रणवेन, तन्मूलं दर्भमञ्जरीमूलम्, अधिष्ठितं कुर्याद् व्याप्तं भावयेदित्यर्थः। परमात्मीयं विवर्तं भगवदाकारान्तमित्यर्थः। अध्यक्षाख्यमिति विवर्तस्य विशेषणम्। अध्यक्षं नाम भगवत्सूक्ष्मरूपभेदः। तथा चोक्तं जयाख्ये-
तन्महा[11]विग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ।
प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे[12] ह्युभयात्मके ।।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ।।
[13]सिद्धिमार्गेण[14] हृत्पद्मे संप्रविष्टं तु भावयेत् । (15/235-237) इति।
प्रस्तत्त्वं जीवात्मेत्यर्तः। तस्य वाचकं जीवमन्त्रमित्यर्थः। हंसयुक्तं हंसाक्षरयुक्तमित्यर्थः। द्विलक्षणं पदद्वयात्मकमित्यर्थः। तथा च तन्मन्त्रोद्धारो जयाख्ये-
अप्रमेयेण [15]सूत्रेण व्योमाख्येनामृतेन च ।
[16]परमेश्वरयुक्तेन [17]त्रितारोक्तात्मना तु वा ।। (7/25) इति।
अयमेवार्थः सुस्पष्टमुपबृंहितो लक्ष्मीतन्त्रे- "प्रत्यगात्मपरामर्शि[18]शब्दः सोमोऽथ सर्गवान्" (33/47) इति। एवं च `अहं सः' इति जीववाचकमन्त्रो ज्ञेयः। चित्तपूर्वकमव्यक्तान्तं चतुष्टयं मनोबुद्ध्यहङ्कारप्रकृत्याख्यं तत्त्वचतुष्टयमित्यर्थः। प्रणवादिनमोन्तैः स्वकैः पदैः ॐकारनमस्कारसंपुटितैश्चतुर्थ्यन्तैस्तत्तन्नामभिरित्यर्थः। कर्मेन्द्रियाणि वाक्पाणिपादवायूपस्थानि। तन्मात्रपञ्चकं शब्दतन्मात्रादिपञ्चकम्। भूतानां पञ्चकम् आकाशादिभूतपञ्चकम्। क्ष्मावसानि(का?कं)पृथिव्यन्तमिति तद्विशेषणम्। अवशिष्टैस्तत्काण्डैः पञ्चविशतिकाण्डेभ्योऽतिरिक्तैः कुशकाण्डैरित्यर्थः ।। 5-15 ।।
[1 क्षितैः - बक. बख., क्षिते- अ.।]
[2 पार- मु. अटी., परमार्थी- बक.।]
[3 ध्यक्षं चापि- मु. अटी.।]
[4 पुंस्कत्वं- मु., पूतत्वं- बक.।]
[5 पूर्व- मु. अटी. बक. बख.।]
[6 कथ- मु. अटी.।]
[7 अथ- अ. उ.।]
[8 तदण्ड- मु. बक., तत्र दण्ड- अटी.।]
[9 त्थाना- अ. उ.।]
[10 संघः संक- अ., संघः स क- उ.।]
[11 तं ग्रथ- अ. उ.।]
[12 विद्धि- अ.।]
[13 मार्गण- मु.।]
[14 सूर्येण- मु.।]
[15 पार- अ. ।]
[16 धारो- अ.।]
[17 मर्श- अ., मर्शी- मु.।]

दर्भमञ्जरिजं त्वेवं[1] स्पाद्यादौ पवित्रकम् ।
अनुसन्धीयते तत्र मन्त्रध्यानं यथास्थितम् ।। 16 ।।

पूजयित्वाऽर्घ्यपुष्पाद्यैरलङ्कृत्य पठेदिदम् ।
एवंविधं पवित्रं परिकल्प्य तत्र ध्यानपूर्वकं भगवन्तमभ्यर्च्य प्रार्थयेदित्याह- दर्भमञ्जरिजमिति सार्धेन। तीर्थबिम्बाद्यभावे त्वेवं दर्भपवित्रकल्पनं कार्यम्। तत्सत्त्वे तस्यैव तीर्थस्नानं बोध्यम्। तथा चेश्वरपारमेश्वरयोः-
यथावत् स्नपनं कुर्यात् तीर्थबिम्बे विशेषतः ।
नित्यस्नपनबिम्बे वा कुर्यात्तत्तदसन्निधौ ।।
नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ।
तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे ।। इति ।। 16-17 ।।
(ई. सं. 14/280-281; पा. सं. 12/535-537)
[1 देवं- अ.।]

त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम् ।। 17 ।।

त्वय्येवाधिष्ठितं सर्वमिति जानामि तत्त्वतः ।
तत्रापि च त्वयाऽऽदिष्टं क्रियाकाण्डं शुभप्रदम् ।। 18 ।।

यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया ।
प्रार्थनाश्लोकद्वयमाह- त्वमिति ।। 17-19 ।।

एवं [1]विज्ञाप्य भगवन्! मन्त्रमूर्तिं परावरम् ।। 19 ।।

तं पत्रपात्रगं कृत्वा ब्रह्मयानगतं तु वा ।
वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम् ।। 20 ।।

नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च ।
पूर्वामुखं च तं यानमथादाय पवित्रकम् ।। 21 ।।

वामहस्ततले[2] कुर्यात् क्ष्मामण्डलगतं त्विव[3] ।
विधृयान्मध्यभागाच्च पाणिना दक्षिणेन तु ।। 22 ।।

अवतीर्याम्भसो मध्ये निमज्जेत् सह तेन वै ।
एवं विज्ञाप्य तत्पवित्रं पात्रे ब्रह्मयाने वा समारोप्य वेदवाद्यघोषैः सह तीर्थसमीपं नीत्वा तत्र प्राङ्मुखमवरोप्य पवित्रमादाय वामकरतले भूमण्डलगतमिव निधाय तन्मध्यं दक्षिणपाणिना गृहीत्वा तीर्थमध्येऽवतीर्य तेन सह स्नायादित्याह- एवमिति चतुर्भिः ।। 19-23 ।।
[1 विज्ञाप्य एव भगवान् मन्त्रमूर्तिः परावरः- मु. अटी.।]
[2 हस्ते- मु. अटी. बक. बख.।]
[3 त्विह- अटी.।]

सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात् तु वै ।। 23 ।।

निश्शेषाणि च तीर्थानि लोकत्रयगतानि च ।
मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये ।। 24 ।।

तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः ।
किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः ।। 25 ।।

साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया ।
तत्काले तत्तीर्थे सर्वतीर्थसान्निध्यप्रभावमाह- सन्निधिमिति त्रिभिः ।। 23-26 ।।

विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्त्ववित् ।। 26 ।।

स्नापयेद् [1]बन्धुमित्रादीन् प्राप्नुवन्त्यचिराच्च ते ।
तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः ।। 27 ।।
एवं कूर्चद्वारा दूरदेशगतानां जनानामपि तीर्थस्नानं फलाधायकमित्याह- विद्वानिति सार्धेन। बान्धवादीनामिति कर्मणि षष्ठी। ते बान्धवादय इत्यर्थः ।। 26-27 ।।
[1 बान्धवादीनामिति भाष्यकारसंमतः पाठः।]

किन्तु तद्यानवादित्रवर्जितस्तु भवेद् विधिः ।
इमं विद्धि महाबुद्धे विशेषं चात्र कर्मणि ।। 28 ।।
अत्र विशेषमाह- किन्त्विति। यानारोपणं मङ्गलवाद्यान्वितत्वं च भगवत एवार्हम्, नान्यस्येति भावः ।। 28 ।।

सामान्यमविनाशं यच्चिन्मयं रूपमैश्वरम् ।
विशेषसंज्ञासम्बन्धं[1] जीवहंसं विभाव्य[2] तम् ।। 29 ।।

पवित्रकं तदाकारं[3] स्मृत्वा स्नाप्यस्ततो[4]ऽम्भसा ।
एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा ।। 30 ।।
अस्य शरीरस्य[5] भगवच्छरीरभूतत्वादेनमपि भगवदात्मकं स्मृत्वा पवित्रद्वारा स्नानं कारयेदित्याह- सामान्यमिति सार्धेन ।। 29-30 ।।
[1 सम्बन्ध- अ. उ.।]
[2 विभाव्यताम्- मु. अटी.।]
[3 तथा- मु. अटी. बक. बख.।]
[4 स्नाप्यस्त- मु. अटी. बक. बख. उ.।]
[5 चेतनस्य- अ.।]

सम्पाद्यं विष्टरैः स्नानं दूरस्थानां सदैव हि ।
सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते ।। 31 ।।
तेनैकेनैव पवित्रेण बहूनां बान्धवादीनां यद्वा पृथक् पवित्रैः स्नानं कारयेदित्याह- एवमिति। दूरस्थानां ग्रामान्तरगतानां लोकान्तरगतानां वेत्यर्थः ।। 31 ।।

सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते ।। 31 ।।

रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ।
यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम् ।। 32 ।।

सनृत्तगेयवादित्रं जागरेण समन्वितम् ।
एकरात्रं द्विरात्रं वा त्रिरात्रं भक्तिपूर्वकम् ।। 33 ।।
एवमवभृथानन्तरं ब्रह्मरथे पवित्रस्थं देवमारोप्याभ्यर्च्य तदीयाराधनपूर्वकं ग्रामप्रादक्षिण्येन यात्रोत्सवं कुर्यादित्याह- सम्पन्न इति सार्धद्वाभ्याम्। उत्सवानन्तरं तद्रात्रौ जागरणं च कार्यमिति भावः। द्विरात्रं त्रि[1]रात्रमावृत्तिरुत्सवस्यैव न तु स्नानस्य ।। 31-33 ।।
[1 त्रिरात्रं त्रिरात्र- मु.।]

सकृत् संवत्सरस्यान्ते उत्सवं[1] स्नपनादिकम् ।
कुर्याद् यो मन्त्रनाथस्य स सिद्धिं लभते पराम् ।। 34 ।।
पवित्रोत्सवप्रकरणे फलमाह- सकृदिति ।। 34 ।।
[1 षूत्सव- मु., उत्सव- अटी., ह्युत्सवं- बक. बख. उ.।]

इति श्रीपाञ्चरात्रे[1] श्रीसात्वतसंहितायां पवित्रस्नानविधिर्नाम पञ्चदसः परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये पञ्चदशः परिच्छेदः ।।
[1 पञ्च- उ.।]