प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ट उवाच ।।
व्याहृते शोभने वाक्ये मोहिन्या नृपतिस्तदा ।।
उन्मील्य नेत्रे राजेंद्र शतपत्रनिभे तथा ।। १२-१ ।।

सगद्गदमुवाचेदं मुग्धो मोहिनिदर्शनात् ।।.
मया बाले सुबहुशः पूर्णचंद्रनिभाननाः ।। १२-२ ।।

दृष्टास्तथानुभूताश्च नेदृग्दृष्टं वपुः क्वचित् ।।
यादृशं त्वं धारयसे रूपं लोकविमोहनम् ।। १२-३ ।।

सोऽहं दर्शनमात्रेण त्वदीयेन वरानने ।।
मनोभवशरैर्विद्धः पतितः सहसा क्षितौ ।।
अजल्पितवचो देवि मोहितस्तव तेजसा ।। १२-४ ।।

कुरु प्रसादं करभोरु मह्यं दास्यामि सर्वं तव चित्तसंस्थम् ।।
नादेयमस्तीह जगत्त्रयेऽपि तवानुरागेण निबद्धचेतसः ।। १२-५ ।।

इमां धरां भूधरभूषितांगीं समुद्रवस्त्रां शशिसूर्यनेत्राम् ।।
घनस्तनीं व्योमसुबद्धदेहां निष्काननां सुंदरि वामशीलाम् ।। १२-६ ।।

पातालगुह्यां बहुवृक्षरोम्णीं सप्ताधरां सुभ्रु तवास्मि दाता ।।
सकोशबद्धां गजवाजिपूर्णां समन्त्रिहृद्यां नगरैः समेताम् ।। १२-७ ।।

आत्मानमपि दास्यामि तवा चार्वंगि संगमे ।।
किं पुनर्द्धनरत्नादि प्रसीद मम मोहिनि ।। १२-८ ।।

नृपस्य वचनं श्रुत्वा मोहिनी मधुराक्षरम् ।।
समुवाच स्मितं कृत्वा तमुत्थाप्य नृपं तदा ।। १२-९ ।।

न धरां भूधरोपेतां वरये वसुधाधिप ।।
यद्विदिष्याम्यहं काले तत्कार्यमविशंकया ।। १२-१० ।।

भजिष्यामि न संदेहः कुरुष्व समयं मम ।।

राजोवाच ।।
येन संतुष्यसे देवि समयं तं करोम्यहम् ।। १२-११ ।।

दशावस्थां गतो देहो मम त्वत्संगमं विना ।। १२-१२ ।।

मोहिन्युवाच ।।
दीयतां दक्षिणो हस्तो बहुधर्मकरस्तव ।।
येन मे प्रत्ययो राजन् वचने तावके भवेत् ।। १२-१३ ।।

राजा त्वं धर्मशीलोऽसि सत्यकीर्तिर्जगत्त्रये ।।
न वक्तास्यनृतं काले मार्गाऽयं लौकिकः कृतः ।। १२-१४ ।।

एवं ब्रवाणां राजेंद्रो मोहिनीं हृच्छयातुरः ।।
अब्रवीन्नृपतिस्तां तु सुप्रसन्नमना नृप ।। १२-१५ ।।

जन्मप्रभृति वामोरु नानृतं भाषितं मया ।।
स्वैरेष्वपि विहारेषु कदापि वरवाणिंनि ।। १२-१६ ।।

अथवा व्याहृतैर्वाक्यैः किमेभिः प्रत्ययाक्षरैः ।।
दतो ह्येष मया हस्तो दक्षिणः पुण्यलांछनः ।। १२-१७ ।।

यन्मया सुकृतं किंचित्कृतमाजन्म सुन्दरि ।।
तत्सर्वं तव वामोरु यदि कुर्यान्न ते वचः ।। १२-१८ ।।

अन्तरे ह्येष दत्तो मे धर्मो भार्या भवांगने ।।
तव रूपेण मे क्षोभः सहसा प्रत्युपस्थितः ।। १२-१९ ।।

ऋतध्वजसुतश्चाहं नाम्ना रुक्मां गदो नृपः ।।
इक्ष्वाकुवशसंभूतः सुतो धर्मांगदो मम ।। १२-२० ।।

मृगव्याजेन गहनं प्रविष्टश्चारुलोचने ।।
ततो दृष्टो वने हृद्यो वामदेवाश्रमो मया ।। १२-२१ ।।

मुनिना जल्पितं तत्र किंचित्तेन विसर्जितः ।।
आरुह्य वाहनश्रेष्ठंमन्दरं द्रष्टुमागतः ।। १२-२२ ।।

भ्रममाणो गिरिवरं कुतूहलमनास्तदा ।।
प्राप्तं मच्छ्रवणे गीतं तव वक्त्रविनिर्गतम् ।। १२-२३ ।।

तेन गीतेन चाकृष्टस्त्वत्समीपमुपागतः ।।
दृष्टेः पथमनुप्राप्ता मम त्वं चारुलोचने ।। १२-२४ ।।

ततोऽहं मूर्च्छितो देवि विसंज्ञः पतितः क्षितौ ।।
सांप्रतं चेतनायुक्तस्तव वाक्यामृतेन हि ।। १२-२५ ।।

पुनर्जातमिवात्मानं मन्येऽहं लोकमोहिनि ।।
प्रत्युत्तरप्रदानेन प्रसादं कर्त्तुमर्हसि ।। १२-२६ ।।

नृपेणैव समुद्दिष्टा मोहिन्याहोत्तरं वचः ।।
अहं ब्रह्मभवा राजंस्त्वदर्थं समुपागता ।। १२-२७ ।।

श्रुत्वा कीर्ति स्मरोपेता मंदरं कनकाचलम् ।।
परित्यज्य सुरान्सर्वान्विश्वंभरपुरोगमान् ।। १२-२८ ।।

समाहितमनास्त्वत्र तपस्यानिरता स्थिता ।।
संपूजयंती देवेशं गीतदानेन शंकरम् ।। १२-२९ ।।

गीतदानमहं मन्ये सुराणामतिवल्लभम् ।।
सर्वदानाधिकं भूप ह्यनंतगतिदायकम् ।। १२-३० ।।

येन तुष्टः पशुपतिः सद्यः प्रत्युपकारकः ।।
ईप्सितोऽयं मया प्राप्तो भवानवनिपालकः ।। १२-३१ ।।

अभिप्रीतोऽसि मे राजन्नभिप्रीता ह्यहं तव ।। १२-३२ ।।

तमेवं मुक्त्वा द्विजराजवक्त्रा करं गृहीत्वा नृपतेस्तु वेगात् ।।
उत्थापयामास धराशयानमिंद्रस्य यष्टीमिव मोहिनी सा ।। १२-३३ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे समयकरणं नाम द्वादशोऽध्यायः ।। १२ ।।