प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

अथ गौतमाश्रममाहात्म्यं प्रारभ्यते ।।

मोहिन्युवाच ।।
श्रुतं पुष्करमाहात्म्यं वसो पापप्रणाशनम् ।।
गौतमाश्रममाहात्म्यमधुना कीर्तय प्रभो ।। ७२-१ ।।

वसुरुवाच ।।
श्रणु देवि प्रवक्ष्यामि गौतमाश्रममुत्तमम् ।।
यत्र गत्वा नरो भक्त्या न भूयोऽर्हति यातनाः ।। ७२-२ ।।

गौतमस्याश्रमं पुण्यं देवर्षिगणसेवितम् ।।
सर्वपापप्रशमनं सर्वोपद्रवशांतिदम् ।। ७२-३ ।।

सेवते द्वादशाब्दं यो भक्तिभावसमन्वितः ।।
स शैवं लभते धाम यत्र गत्वा न शोचति ।। ७२-४ ।।

मायादेवीसुतो यत्र तपस्युग्रे समास्थितः ।।
तत्र गोदावरी गंगा सर्वपातकनाशिनी ।। ७२-५ ।।

तपस्यतो मुनेस्तस्य द्वादशाब्दमवर्षणम् ।।
बभूव घोरं विधिजे सर्वसत्त्वक्षयंकरम् ।। ७२-६ ।।

तस्मिन्नुग्रे तु दुर्भिक्षे क्षुत्क्षामामुनयोऽखिलाः ।।
नानादेशेभ्य आयाता गौतमस्याश्रमं शुभे ।। ७२-७ ।।

चक्रुर्विज्ञापनं तस्य गौतमस्य तपस्यतः ।।
देहि नो भोजनं येन प्राणास्तिष्ठंति वर्मसु ।। ७२-८ ।।

एवं विज्ञापितस्तैस्तु मुनिभिर्गौतमो मुनिः ।।
जातानुकंपस्तानाह विश्वस्तांस्तपसो बलात् ।। ७२-९ ।।

गौतम उवाच ।।
तिष्ठध्वं मुनयः सर्वे ममाश्रमसमीपतः ।।
भोजनं वः प्रदास्यामि यावद्दुर्भिक्षमादृतः ।। ७२-१० ।।

विश्वास्यैवमृषीन्सर्वान्गौतमस्तपसो बलात् ।।
दध्यौ प्रसन्नमनसा गंगां सर्वार्थसाधिनीम् ।। ७२-११ ।।

स्मृतमात्रा तु सा देवी तत्रोद्भूता धरातलात् ।।
तां तु दृष्ट्वा मुनिर्गंगां संप्लावितधरातलाम् ।। ७२-१२ ।।

प्रातरुप्त्वा क्षितौ शालीन्पक्वान्मध्याह्नकेऽलुनात् ।।
शाल्यन्नेनन ततस्तेन तानृषीन्समभोजयत् ।। ७२-१३ ।।

ततस्ते मुनयः प्रीता भुक्त्वान्नं तृप्तिमागताः ।।
निवासं चक्रिरे तत्र गौतमाश्रमके मुदा ।। ७२-१४ ।।

एवं प्रतिदिनं भद्रे शालिभिः पक्वतां गतैः ।।
आतिथ्यं विदधे तेषां भक्तिभावसमन्वितः ।। ७२-१५ ।।

ततस्तस्य मुनींद्रस्य द्विजान्भोजयतोऽन्वहम् ।।
व्यतीयाय च दुर्भिक्षं द्वादशाब्दांतकालतः ।। ७२-१६ ।।

ततस्ते मुनयः सर्वे सुभिक्षे काल आगते ।।
विज्ञाप्य तं मुनिश्रेष्ठं जग्मुदेंशान्स्वकान्पुनः ।। ७२-१७ ।।

एवंप्रभावः स मुनिर्गौतमस्तत्र मोहिनि ।।
तपस्तेपे बहुतीथं कालं नियमितेंद्रियः ।। ७२-१८ ।।

ततस्तत्तपसा तुष्टो भगवानंबिकापतिः ।।
सगणो दर्शनं यातो वरं ब्रूहीत्युवाच ह ।। ७२-१९ ।।

ततो मुनिवरो दृष्ट्वा देवदेवमुमापतिम् ।।
त्र्यंबकं स नमश्चक्रे निपत्य भुवि तत्पुरः ।। ७२-२० ।।

तत उत्थाय सहसा कृतांजलिरुपस्थितः ।।
प्रोवाच देहि मे भक्तिं पादयोस्तव नित्यदा ।। ७२-२१ ।।

ममाश्रमसमीपेऽत्र पर्वतोपरि शंकर ।।
त्वामेवं संस्थितं पश्याम्येष एव वरो मम ।। ७२-२२ ।।

इत्युक्तः पार्वतीनाथो भक्तानां वांछितप्रदः ।।
तत्र दत्त्वा स्वसान्निध्यं सद्यः प्रीतं चकार तम् ।। ७२-२३ ।।

तेन रूपेण तत्रैव न्यवसत्त्र्यंबकः सति ।।
स गिरिरत्त्र्यंबकाख्यस्तु ततः प्रभृति कीर्त्यते ।। ७२-२४ ।।

ये तु गोदावरीं गंगां प्राप्य भक्तियुता नराः ।।
स्नानं कुर्वंति सुभगे ते स्युर्मुक्ता भवार्णवात् ।। ७२-२५ ।।

स्नात्वा गोदावरीतोये त्र्यंबकं ये गिरिस्थितम् ।।
उपचारैः पूजयंति ते स्युः साक्षान्महेश्वराः ।। ७२-२६ ।।

त्र्यंबकस्य तु माहात्म्यं संक्षेपाद्वर्णितं मया ।।
ब्रह्मापि विस्तराद्वक्तुं तव तातः क्षमो नहि ।। ७२-२७ ।।

ततो गोदावरी यावत्साक्षाद्दर्शनतां गता ।।
तावदप्याश्रमाः पुण्यास्तत्र संति ह्यनेकशः ।। ७२-२८ ।।

तेषु स्नात्वा विधानेन संतर्प्य पितृदेवताः ।।
नरोऽभिलषितान्कामान्प्राप्नुयान्नात्र संशयः ।। ७२-२९ ।।

प्रकाशा तु क्वचिद्भद्रे क्वचिद्गुप्ता ततः परम् ।।
प्लावयामास धरणीं पुण्या गोदावरी नदी ।। ७२-३० ।।

यत्र प्रकटतां याता नृणां भक्त्या महेश्वरी ।।
तत्र तीर्थं महत्पुण्यं स्नानमात्रादघापहम् ।। ७२-३१ ।।

ततः पंचवटीं प्राप्य सा देवी नियतव्रता ।।
सुप्रकाशमनुप्राप्ता लोकानां गतिदायिनी ।। ७२-३२ ।।

गोदावर्यां पञ्चवट्यां यः स्नायान्नियतव्रतः ।।
स नरः प्राप्नुयात्कामानभीष्टान्विधिनन्दिनि ।। ७२-३३ ।।

यदा त्रेतायुगे रामः पंचवट्यामुपागतः ।।
सभार्यः सानुजस्तत्र वसन्पुण्यतरां व्यधात् ।। ७२-३४ ।।

इत्येत्सर्वमाख्यातं गौतमाश्रमजं शुभे ।।
श्रृण्वतां पठतां पुण्यं पापघ्नं वांछितप्रदम् ।। ७२-३५ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे बृहदुपाख्याने वसुमोहिनीसंवादे गौतमाश्रममाहात्म्ये गौतमतपश्चर्याप्रभाववर्णनं नाम
द्वासप्ततितमोऽध्यायः ।। ७२ ।।

इति गौतमाश्रममाहात्म्यम् ।।