प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

काष्ठीलोवाच ।।
भार्यायास्तद्वचः श्रुत्वा राक्षस्या धर्मसंमितम् ।।
पृष्ठात्करोणुरूपिण्याः सकन्योऽवातरद्द्विजः ।। ३०-१ ।।

अवतीर्णे द्विजे साभूत्सुरूपा प्रमदा पुनः ।।
क्षपाचरी क्षपानाथवक्त्रा पीनोन्नतस्तनी ।। ३०-२ ।।

सा कुमारी ततः प्राप्य नगरं स्वपितुः शुभम् ।।
बाह्यरक्षास्थित प्राप्तं पुरपालमुवाच ह ।। ३०-३ ।।

गच्छ त्वं नृपतेः पार्श्वं पितुर्मम पुराधिप ।।
ब्रूहि मां समनुप्राप्तां रत्नशालां पुरा हृताम् ।। ३०-४ ।।

रत्नावलिं रत्नभूतां सुद्युम्नस्य महीक्षितुः ।।
तल्पथा रक्षसा रात्रौ स्वपुरस्था हृता द्विज ।। ३०-५ ।।

पुनः सा समनुप्राप्ता जीवमानाऽक्षता पितः ।।
समाश्वसिहि शोकं त्वं मा कृथा मत्कृते क्वचित् ।। ३०-६ ।।

अविप्लुतास्मि राजेंद्र गांगा आप इवामलाः ।।
तव कीर्तिकरी तद्वन्मातुः सौशील्यसूचिका ।। ३०-७ ।।

तत्कुमारीवचः श्रुत्वा पुरापालस्त्वरान्वितः ।।
अबाहुरिति विख्यातः प्राप्तः सुद्युम्रसन्निधौ ।। ३०-८ ।।

कृतप्रणामः संपृष्टः प्राह राजानमादरात् ।।
राजन्नुपागता नष्टा दिहिता तव मानद ।। ३०-९ ।।

रत्नावलीति विख्याता सस्त्रीकद्विदजसंयुता ।।
पुरबाह्ये स्थिता दृष्टा मया ज्ञाता न चाभवत् ।। ३०-१० ।।

तयाहं प्रेरितः प्रागां त्वां विज्ञापयितुं प्रभो ।।
अविप्लुताहं वदति मां जानातु समागताम् ।। ३०-११ ।।

पितरं मम सत्कृत्यै नात्र कार्या विचारणा ।।
तदद्भुतं वचः श्रुत्वा पुरपालस्य तत्क्षणात् ।। ३०-१२ ।।

सामात्यः सकलत्रस्तु सद्विजो निर्ययौ नृपः ।।
स तु गत्वा पुराद्ब्राह्ये गंगातीरे व्यवस्थिताम् ।। ३०-१३ ।।

अपश्यद्भास्कराकारां सस्त्रीकद्विजसंयुताम् ।।
सहजे नैव वेषेण भूषितां भूषणप्रियाम् ।। ३०-१४ ।।

अम्लानकुसुमप्रख्यां तत्पकांचनसुप्रभाम् ।।
दूराद्दृष्ट्वांतिकं गत्वा पर्यष्वजत भूपतिः ।। ३०-१५ ।।

पितरं सापि संहृष्टा समाश्लिष्य ननाम ह ।।
ततश्च मात्रा संगम्य हृष्टया हर्षितांतरा ।। ३०-१६ ।।

प्राह वाक्यं विशालाक्षी संबोध्य पितरं नृपम् ।।
सुप्ताहं रत्नशालायां सखीभिः परिवारिता ।। ३०-१७ ।।

उदकूकृत्वा शिरस्ताताधौतांघ्रिर्मंचकोपरि ।।
चिंतयत्नी भर्तृयोगं निशीथे रक्षसा हृता ।। ३०-१८ ।।

स मां गृहीत्वा स्वपुरं प्रागादर्णवगे गिरौ ।।
नानारत्नमये तत्र गुहायां स्थापिता ह्यहम् ।। ३०-१९ ।।

स तत्रोद्वहनोपायचिंतयांतर्व्यवस्थितः ।।
तस्य भार्या त्वियं सुभ्रूर्या तिष्ठति सुमध्यमा ।। ३०-२० ।।

बिभ्रती मानुषं रूपं राक्षसी राक्षसप्रिया ।।
अनया बुद्धियोगेन शक्त्या शक्रस्य भूपते ।। ३०-२१ ।।

घातितो विप्रहस्तेन क्रूरकर्मा पतिः स्वकः ।।
पुरैव मम तं शैलं प्राप्तो देवेन भूसुरः ।। ३०-२२ ।।

इयं तु राक्षसी दृष्ट्वा पतिं स्वं धर्मदूषकम् ।।
विप्रेण संविदं कृत्वा दांपत्ये निजकर्मणा ।। ३०-२३ ।।

रूपेणाप्यस्य संमुग्धा घातयामास राक्षसम् ।।
एवं कृत्वा पतिं विप्रं हस्तिनीरूपधारिणी ।। ३०-२४ ।।

गृहीत्वा वास्तुकं वित्तं पृष्ठमारोप्य मामपि ।।
समायातात्र भूपाल मामत्तुं तव मंदिरम् ।। ३०-२५ ।।

अनया रक्षिता राजन् राक्षस्याराक्षसात्ततः ।।
तस्मादिमां पूजयस्व सत्कृत्याग्रजसंयुताम् ।। ३०-२६ ।।

अस्या एवामुमत्या मां देह्यस्मै ब्राह्मणाय हि ।।
अनेनैकासनगता जाता भर्ता स मे भवत् ।। ३०-२७ ।।

येनैकासनगा नारी भवेद्भर्ता स एव हि ।।
नान्य इत्थँ पुराणेषु श्रूयते ह्यागमेष्वपि ।। ३०-२८ ।।

अस्याः पृष्ठे निविष्टाहं प्रीत्या सह द्विजन्मना ।।
धर्मत स्तेन मद्भर्ता भवेदेषा मतिर्मम ।। ३०-२९ ।।

तस्मादिमां सांत्वयित्वा शास्त्रागमविधानतः ।।
देहि विप्राय मां तात पितमन्यं वृणे न च ।। ३०-३० ।।

तच्छ्रुत्वा दुहितुर्वाक्यं सुद्युम्नो भूपतिस्तदा ।।
सांत्वयामास तन्वंगीं राक्षसीं प्रश्रयानतः ।। ३०-३१ ।।

सुतैषा धर्मभीता मे त्वामेव शरणं गता ।।
यदर्थं निहतः कांतस्त्वया पूर्वतरः सति ।। ३०-३२ ।।

त्वदधीना ततो भद्रे जातेयं मत्सुता किल ।।
इममिच्छति भर्तारं योऽयं भर्ता कृतस्त्वया ।। ३०-३३ ।।

मया प्रणामदानाभ्यां याचिता त्वं निशाचरि ।।
अनुमोदय साहाय्ये सुतां मम सुलोचने ।। ३०-३४ ।।

त्वद्वाक्याद्भवतु प्रेष्या मत्सुता ब्राह्मणस्य तु ।।
सापत्नभावं त्यक्त्वा तु सुतां मे परिपालय ।। ३०-३५ ।।

सुताया मम भार्याया मद्बलस्य जनस्य च ।।
पुरस्य विषयस्यापि स्वामिनी त्वं न संशयः ।। ३०-३६ ।।

तव वाक्ये स्थिता ह्येषा सदैवापि भविष्यति ।।
एतच्छ्रुत्त्वा तु वचनं सुद्युम्नस्य निशाचरी ।। ३०-३७ ।।

अन्वमोदत शुद्धेन चेतसा सहचारिणी ।।
उवाच च धरापालं प्रदानाय कृतोद्यमम् ।। ३०-३८ ।।

यदर्थं प्रणतस्त्वं मां सद्भावेन नृपोत्तम ।।
तस्माद्द्वितीया भार्येयं भवत्वस्य द्विजन्मनः ।। ३०-३९ ।।

अहं च भवता पूज्या कृत्वार्चां देवमंदिरे ।।
सर्वैश्च नागरैः सार्द्धं फाल्गुने धवले दले ।। ३०-४० ।।

सप्ताहमुत्सवः कार्यो ह्यष्टम्या आचतुर्दशीम् ।।
नटनर्तकयुक्तेन गीतवाद्येन भूरिणा ।। ३०-४१ ।।

मैरेयमांसरक्तादिबलिभिश्चापि पूजया ।।
एवं प्रकुर्वते तुभ्यं सदा क्षेमकरी ह्यहम् ।। ३०-४२ ।।

भवेयं नृपशार्दूल स्वं वचः प्रतिपालय ।।
तच्छ्रुत्वा वचनं तस्याः सुद्युम्नो नृपतिस्तदा ।। ३०-४३ ।।

अंगीचकार तत्सर्वं यदुक्तं प्रीतया तया ।।
प्रतिपन्ने तु वचसि राज्ञा तुष्टा तु राक्षसी ।। ३०-३४ ।।

उवाच ब्राह्मणं प्रेम्णा कुरु भार्यामिमामपि ।।
राजकन्यां द्विजश्रेष्ठ गृह्योक्तविधिना शुभाम् ।। ३०-४५ ।।

ईर्ष्यां त्यक्त्वा विशालाक्ष्या भवाम्येषा सहोदरी ।।
राक्षस्या वचनेनेह परिणीय नृपात्मजाम् ।। ३०-४६ ।।

बहुवित्तयुतां विप्रो महोदयपुरं ययौ ।।
आरुह्य करिणीरूपां राक्षसीं क्षणमात्रतः ।। ३०-४७ ।।

ततो मया श्रुतं देवि भर्ता ते समुपागतः ।।
धनरत्नसमायुक्तो भार्याद्वयसमन्वितः ।। ३०-४८ ।।

ततोऽहं बंधुवर्गेण पितृभ्यां च सखीगणैः ।।
बहुशो भर्त्सिता रूक्षैर्वचनैर्मर्मभेदिभिः ।। ३०-४९ ।।

कथं यास्यसि भर्तारं धनलुब्धे श्रिया वृतम् ।।
यस्त्वया निर्द्धनः पूर्वं परित्यक्तः सुदीनवत् ।। ३०-५० ।।

चंचलानीह वित्तानि पित्र्याणि किल योषिताम् ।।
कांतार्जितानि सुभगे स्थिराणीति निगद्यते ।। ३०-५१ ।।

परुषैर्वचनैर्यस्तु क्षिप्तस्तद्भाषणं कथम् ।।
भविष्यति प्रवेशोऽपि दुष्करस्तस्य वेश्मनि ।। ३०-५२ ।।

गताया अपि ते तत्र शयनं पतिना सह ।।
भविष्यति दुराचारे सुखदं न कदाचन ।। ३०-५३ ।।

लोकापवादाद्यदि चेद्ग्रहीष्यति पतिस्तव ।।
त्वां स्नेहहीनचित्तस्तु न कदाचिन्मिलिष्यति ।। ३०-५४ ।।

नेदृशं दुःखदं किंचिद्यादृशं दूरचित्तयोः ।।
दंपकत्योर्मिलनं लोके वैकल्यकरणं महत् ।। ३०-५५ ।।

एवं बहुविधा वाचः श्रृण्वाना बंधुभाषिताः ।।
अधोमुख्यस्रुपूर्णाक्षी बभूवाहं सुदुःखिता ।। ३०-५६ ।।

चेतसार्चितयं चाहं पूर्वलोभेन मुह्यती ।।
न दत्तं कंकणं पाणेर्न दत्तं कटिसूत्रकम् ।। ३०-५७ ।।

न चापि नूपुरे दत्ते येन तुष्टिं व्रजेत्पतिः ।।
धनजीवितयोः स्वामी भर्ता लोकेषु गीयते ।। ३०-५८ ।।

तन्मयापहृतं वित्तं भवित्री का गतिर्मम ।।
कथं यास्यामि तद्वेश्म कथं संभाषये पुनः ।। ३०-५९ ।।

यो मया दुष्टया त्यक्तः स प्रत्येति कथं हि माम् ।।
एवं विचिंये यादद्धृदयेन विदूयता ।। ३०-६० ।।

वेष्टिता बंधुवर्गेण तावद्दोला समागता ।।
छत्रेण शशिवर्णेन शोभमाना सुकोमला ।। ३०-६१ ।।

आस्तृता रांकवैः पीनैः पुरुषोर्विधृतांसकैः ।।
ते समागत्य पुरुषाः प्रोचुर्मामसकृच्छभे ।। ३०-६२ ।।

आकारितासि पत्या ते व्रज शीघ्रं मुदान्विता ।।
धनरत्नयुतो भर्ता सद्धिभार्यः समागतः ।। ३०-६३ ।।

प्रविष्टमात्रेण गृहे त्वामानेतुं वरानने ।।
प्रेषिताः सत्वरं पत्या संस्थितां पितृवेश्मनि ।। ३०-६४ ।।

ततोऽहं व्रीडिता देवि भर्तुस्तद्वीक्ष्य चेष्टितम् ।।
नैवोत्तरमदां तेभ्यः किंचिन्मौनं समास्थिता ।। ३०-६५ ।।

ततोऽहं बंधुवर्गेण भूयोभूयः प्रबोधिता ।।
आहूता स्वामिना गच्छ सम्मानेन तदंतिकम् ।। ३०-६६ ।।

स्वामिनाकारिता पत्नी या न याति तदंतिकम् ।।
सा तु ध्वांक्षी भवेत्पुत्रि जन्मानि दश पंच च ।। ३०-६७ ।।

एवमुक्त्वा समाश्वास्य मां गृहीत्वा त्वरान्विताः ।।
दोलामारोप्य गच्छेति प्रोचुः स्निग्धा मुहुर्मुर्हुः ।। ३०-६८ ।।

ततस्ते पुरुषा दोलां निधायांसेषु सत्वरम् ।।
जग्मुर्महोदयपुरं यत्र तिष्ठति मे पतिः ।। ३०-६९ ।।

दृष्टं मया गृहं तस्य सर्वतः कांचनावृतम् ।।
आसनीयैश्च भोज्यैश्च धनैर्वस्त्रैर्युतं ततः ।। ३०-७० ।।

अथ सा राक्षसी देवी सा चापि नृपनंदिनी ।।
प्रीत्या च भक्त्या कुरुतां प्रणतिं मम सुन्दरि ।। ३०-७१ ।।

ततस्ताभ्यामहं प्रेम्णा यथार्हमभिपूजिता ।।
भर्तृवाक्येन संप्रीता स्नात्वाभुजं तथाहृता ।। ३०-७२ ।।

ततोऽस्तसमयात्पश्चाद्भर्ता चाहूय सत्वरम् ।।
परिष्वज्य चिरं दोर्भ्यां पर्यंके संन्यवेशयत् ।। ३०-७३ ।।

ततो निशाचरीं राजपुत्रीं चाहूय सोऽब्रवीत् ।।
भक्त्या युवाभ्यां कर्तव्यमस्याश्चरणसेवनम् ।। ३०-७४ ।।

इयं प्राक्कालिकी भार्या ज्येष्ठा च युवयोर्द्भुवम् ।।
पत्युर्वाक्यात्ततस्ताभ्यां गृहीतौ चरणौ मम ।। ३०-७५ ।।

सापत्नभावजामीर्ष्यां परित्यज्य सुलोचने ।।
ततः प्रेष्यान्समाहूय भर्ता मे वाक्यमब्रवीत् ।। ३०-७६ ।।

यत्किंचिद्रक्षसः पार्श्वान्मया प्राप्तं पुरा वसु ।।
सुतामुद्वहतो राज्ञो यच्च लब्धं मयाखिलम् ।। ३०-७७ ।।

तत्सर्वं भक्तिभावेन समानयत मा चिरम् ।।
इयं हि स्वामिनी प्राप्ता तस्य वित्तस्य किंकराः ।। ३०-७८ ।।

तद्वाक्यात्सहसा प्रेष्यैः समानीतं धनं शुभे ।।
भर्ता समर्पयामास प्रीत्या युक्तोऽखिलं तदा ।। ३०-७९ ।।

सत्कृत्य भूषणैर्वस्त्रैख्यलीकेन चेतसा ।।
उभयोस्तत्र पश्यंत्यो राक्षसीराजकन्ययोः ।। ३०-८० ।।

पर्यंकस्थां परिष्वज्य मां चुंचुबाधरे शुभे ।।
तद्दृष्ट्वा चाद्भुतं भर्तुर्देहवित्तसमर्पणम् ।। ३०-८१ ।।

उल्लासकरण वाक्यं करेण कुचपीडनम् ।।
छिन्ना गौरिव खङ्गेन गताः प्राणा ममाभवन् ।। ३०-८२ ।।

ततोऽहं यमनिर्द्दिष्टां प्राप्ता नरकयातनाम् ।।
तामतीत्य सुदुःखार्ता काष्ठीला चाभवं शुभे ।। ३०-८३ ।।

यास्यामि पुनरेवाहं तिर्यग्योनिं सहस्रशः ।।
या भर्तुर्नापयेद्वित्तं जीवितं च शुभानने ।। ३०-८४ ।।

सापीदृशीमवस्था वै यास्यत्येव न संशयः ।।
एवं ज्ञात्वानिशं रक्षेत्पत्युर्वित्तं च जीवितम् ।। ३०-८५ ।।

पतिर्माता पिता वित्तं जीवितं च गुरुर्गतिः ।। ३०-८६ ।।

प्रयाति नारी बहुभिः सुपुण्यैः सहैव भर्त्रा स्वशरीरदाहात् ।।
विष्णोः पदं वित्तशरीरलुब्धा प्रयाति यामीं च कुयोनिपीडाम् ।। ३०-८७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलाचरितं नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।