नारदपुराणम्- उत्तरार्धः/अध्यायः ६८
अथ कामोदामाहात्म्यम् ।।
मोहिन्युवाच ।।
कामोदायास्तु माहात्म्यं ब्रूहि मे द्विजसत्तम ।।
यच्छ्रुत्वाहं तव मुखात्प्रसन्ना स्यां कृतार्थवत् ।। ६८-१ ।।
वसुरुवाच ।।
श्रृणु देवि प्रवक्ष्यामि कामोदाख्यानकं शुभम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ६८-२ ।।
कामोदाख्यं पुरं देवि गंगातीरे व्यवस्थितम् ।।
कामोदा यत्र वर्तंते सार्द्धं देवैर्हरिप्रियाः ।। ६८-३ ।।
यदा सुरासुरैर्देवि मथितः क्षीरसागरः ।।
कामोदा सा तदोत्पन्ना कन्यारत्नचतुष्टये ।। ६८-४ ।।
कन्या रमाख्या प्रथमा द्वितीया वारुणी स्मृता ।।
कामोदाख्या तृतीया तु चतुर्थी तु वराभिधा ।। ६८-५ ।।
तत्र कन्यात्रयं प्राप्तुं विष्णुना प्रभविष्णुना ।।
वारुणी त्वसुरैर्नीता विष्णुदेवाज्ञया सति ।। ६८-६ ।।
ततः प्रभृति लक्ष्मीस्तु विष्णोर्वक्षस्थले स्थिता ।।
बभूव विष्णुपत्नी सा सपत्नीरहिता शुभे ।। ६८-७ ।।
भविष्यकार्यं विज्ञाय देवा विष्णुसमाज्ञया ।।
कामोदाख्ये पुरे देवीं कामोदां पूजयंति हि ।। ६८-८ ।।
सा तत्र वर्तते नित्यं विष्णुसंयोगकाम्यया ।।
भार्यात्वं भावतः प्राप्ता विष्णुध्यानपरायणा ।। ६८-९ ।।
स तत्र भावगम्यो वै विष्णुः सर्वगतो महान् ।।
अनयापि तया नित्यं वर्तते तत्समीपतः ।। ६८-१० ।।
स देवैर्वासुरैर्देवि मुनिभिर्मानवैस्तथा ।।
अलक्ष्यदेहो विश्वात्मा वर्तते ध्यानगोचरः ।। ६८-११ ।।
ध्यानेनैव प्रपश्यंति देवाश्च मुनयो विभुम् ।।
कामोदा सा महाभागा यदा हसति मोहिनि ।। ६८-१२ ।।
हर्षेण तु समाविष्टा तदाश्रूणि पतंति च ।।
आनंदाश्रूणि गंगायां पतितानि सुरेश्वरि ।। ६८-१३ ।।
कामोदाख्यानि पद्मानि तानि तत्र भवंति च ।।
पीतानि च सुगंधीनि महामोदप्रदानि च ।। ६८-१४ ।।
यस्तु भाग्यवशाल्लब्ध्वा तानि तैः पूजयेच्छिवम् ।।
स लभेद्वांछितान्कामानित्याज्ञा पारमेश्वरी ।। ६८-१५ ।।
दुःखजानि तथाश्रूणि कदाचित्प्रपतंति हि ।।
तेभ्यश्च तानि पद्मानि विगंधीन्युद्भवंति च ।। ६८-१६ ।।
तैस्तु यः पूजयेद्देवं शंकरं लोकशंकरम् ।।
स युज्येताखिलैर्दुःखैः पूर्वपापैर्विमोहितः ।। ६८-१७ ।।
गंगाद्वारादुपरि च दशयोजनके स्थितम् ।।
कामोदं तत्र वर्षैकं यो जपेद्द्वादशाक्षरम् ।। ६८-१८ ।।
वर्षांते चैत्रमासस्य द्वादश्यां विधिनंदिनि ।।
वासतौ च श्रियं दृष्ट्वा सा हसेद्धर्षतः सदा ।। ६८-१९ ।।
तानि पद्मानि स लभेन्नान्यदा कोऽपि कर्हिचित् ।।
तत्र यः स्नाति मनुजां विष्णुभक्तिपरायणः ।। ६८-२० ।।
ध्यात्वा पुरं च कामोदं स भवेद्विष्णुवल्लभः ।।
देवतानां पितॄणां च वल्लभो नात्र संशयः ।। ६८-२१ ।।
यो द्वादश समास्तत्र तिष्ठेज्जपपरायणः ।।
स लभेद्दर्शनं साक्षात्कामोदायाः शुभानने ।। ६८-२२ ।।
यं यं चिंतयते कामं तत्र तीर्थे नरः शुचिः ।।
स्नानमात्रेण लभते तं तमैहिकमंगने ।। ६८-२३ ।।
एतद्धि परमं तीर्थं लभ्यं भाग्यवशाद्भवेत् ।।
हिमात्ययादगे भद्रे दुर्गभं विकटस्थलम् ।। ६८-२४ ।।
एतत्ते सर्वमाख्यातं कामोदाख्यानकं शुभम् ।।
यः श्रृणोति नरो भक्त्या सोऽपि पापैः प्रमुच्यते ।। ६८-२५ ।।
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनी संवादे कामोदाख्यानं नामाष्टषष्टितमोऽध्यायः ।। ६८ ।।
इति कामोदामाहात्म्यं समाप्तम् ।।