प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
मोहिनी मोहमुत्सृज्य गता विबुधमंदिरम् ।।
भर्त्सिता देवदूतेन स्थितिस्तेऽत्र न पापिनी ।। ३६-१ ।।

पापशीले सुदुर्मेधे भर्तृनिंदापरायणे ।।
हरिवासरलोपिन्यां वासस्ते न त्रिविष्टपे ।। ३६-२ ।।

धर्मतो विमुखानां च नरके वास इष्यते ।।
एवमुक्त्वा तु तां वायुः क्रूरं वचनपद्भुतम् ।। ३६-३ ।।

ताडयित्वा च दंडेन प्रेरयामास यातनाम् ।।
एवं संताडिता राजन् देवदूतेन मोहिनी ।। ३६-४ ।।

ब्रह्मदंडपराभूता संप्राप्ता नरकं नृप ।।
तत्र धर्माज्ञया सा तु दूतैः संताडिता चिरम् ।। ३६-५ ।।

सर्वेषु क्रमशो गत्वा नरकेषु निपातिता ।।
पापे धर्मांगदः पुत्रो घातितः पतिपाणिना ।। ३६-६ ।।

त्वया यतस्ततो भुंक्ष्व कृतकर्मफलं त्विह ।।
प्रजाहितं स्थिरप्रज्ञं महेंद्रवरुणोपमम् ।। ३६-७ ।।

सप्तद्वीपाधिपं पुत्रं हत्वेदृक्फलभोगिनी ।।
प्राकृतस्यापि पुत्रस्य हिंसायां ब्रह्महा भवेत् ।। ३६-८ ।।

किं पुनर्द्धर्मयुक्तस्य पापे धर्मांगदस्य च ।।
एवं निर्भत्सिता दूतैर्यमस्य नृपसत्तम ।। ३६-९ ।।

बुभुजे यातनाः सर्वाः क्रमशः शमनोदिताः ।।
ब्रह्मदंडहतायास्तु देहस्पर्शेन यातनाः ।। ३६-१० ।।

ज्वलितांगा बभूवुस्ता धारणाय न तु क्षमाः ।।
ततस्ते नरका राजन् धर्मराजमुपागताः ।। ३६-११ ।।

प्रोचुः प्रांजलयो भीतास्तदंगस्पर्शपीडिताः ।।
देवदेव जगन्नाथ धर्मराज दयां कुरु ।। ३६-१२ ।।

इमां निःसारयाशु त्वं यातनाभ्यः सुखाय नः ।।
यस्याः स्पर्शनतो नाथ भस्मभूताः क्षणादहो ।। ३६-१३ ।।

भविष्यामस्ततस्त्वेनां नरकेभ्यो विवासय ।।
तच्छ्रुत्वा वचनं तेषां धर्मराजोऽतिविस्मितः ।। ३६-१४ ।।

दूतान्स्वान्प्रत्युवाचेयं निःसार्या मम मंदिरात् ।।
यो ब्रह्मदंडनिर्दग्धः पुमान् स्त्री वा च तस्करः ।। ३६-१५ ।।

तस्य पापस्य संस्पर्शं नेच्छति यातना मम ।।
तस्मादिमां महापापां भर्तुर्वचनलोपिनीम् ।। ३६-१६ ।।

पुत्रघ्नीं धर्महंत्रीं च ब्रह्मदंडहतामपि ।।
निःसारयत मे बापि देहो ज्वलति दर्शंनात् ।। ३६-१७ ।।

इत्युक्तास्ते तदा दूता धर्मराजेन भूपते ।।
प्रहरंतोऽस्त्रशस्त्रैश्च बहिश्चक्रुर्यमक्षयात् ।। ३६-१८ ।।

ततः सा दुःखिता राजन् मोहिनी मोहसंयुता ।।
पातालं प्रययौ तत्र पातालस्थैर्निवारिता ।। ३६-१९ ।।

ततस्तु व्रीडितात्यर्थः मोहिनी ब्रह्मणः सुता ।।
जनकस्यांतिकं गत्वा दुःखं स्वं संन्यवेदयत् ।। ३६-२० ।।

तात तन्नास्ति मे स्थानं त्रैलोक्ये सचराचरे ।।
यत्र यत्र तु गच्छामि तत्र तत्र क्षिपंति माम् ।। ३६-२१ ।।

अहं निर्वासिता लोकैर्घातयित्वायुधैर्दृढम् ।।
भवदाज्ञां समादाय गता रुक्मविभूषणम् ।। ३६-२२ ।।

मया व्यवसितं चेदं सर्वलोकविगर्हितम् ।।
क्लेशयित्वा तु भर्तारं पुत्रं हत्वा वरासिना ।। ३६-२३ ।।

संध्यावलीं क्षोभयित्वा पितः प्राप्ता दशामिमाम् ।।
न गतिर्विद्यते देव पापाया मम सांप्रतम् ।। ३६-२४ ।।

विशेषाद्द्विजशापेन जाताहं दुःखभागिनी ।।
विप्रवाक्यहताना च दग्धानां चित्रभानुना ।। ३६-२५ ।।

दिवाकीर्तिहतानां च भक्षितानां मृगादिभिः ।।
शतह्रदाविपन्नानां मुक्तिदा स्वर्णदीपितः ।। ३६-२६ ।।

यदि त्वं त्रिदशैः सार्द्धं विप्रं तं शापदायिनम् ।।
प्रसादयसि मत्प्रीत्या तर्हि मे विहिता गतिः ।। ३६-२७ ।।

तां तथावादिनीं राजन् ब्रह्मा लोकपितामहः ।।
शिवेंद्रधर्मसूर्याग्निदेवेशैर्मुनिभिर्युतः ।। ३६-२८ ।।

मोहिनीमग्रतः कृत्वा जगाम द्विजसन्निधौ ।।
तत्र गत्वा महीपाल ब्रह्मा देवादिभिर्वृतः ।। ३६-२९ ।।

महता गौरवेणापि नमश्चक्रे स्वयं विधिः ।।
भूप रुद्रादिदेवैस्तु पूज्यो मान्यः पितामहः ।। ३६-३० ।।

मोहिनीप्रीतये मुग्धः स्वयं चक्रे नमस्क्रियाम् ।।
कार्ये महति संप्राप्ते ह्यसाध्ये भुवनत्रये ।। ३६-३१ ।।

न दूषितं भवेद्भूप यविष्ठस्याभिवादनम् ।।
स द्विजो वेदवेदांगपरगस्तपसि स्थितः ।। ३६-३२ ।।

संप्रेक्ष्य लोककर्तारं देवैः सह समागतम् ।।
समुत्थाय नमश्चक्रे ब्रह्माणं तान्मुनीन्सुरान् ।। ३६-३३ ।।

वासयामास भक्त्या च स्तुतिं चक्रेऽब्जजन्मनः ।।
ततः प्रसन्नो भगवान् लोककर्त्ता जगद्गुरुः ।। ३६-३४ ।।

ते द्विजं प्रार्थयामासुर्मोहिन्यर्थे नृपार्चितम् ।।
तात विप्र सदाचार परलोकोपकारक ।। ३६-३५ ।।

कृपां कुरु कृपासिंधो मोहिनीगतिदो भव ।।
मया संप्रेषिता ब्रह्मन् रुक्मांगदविमोहने ।। ३६-३६ ।।

सुता मे यमलोकं तु शून्यं दृष्ट्वा च मानद ।।
वैकुंठं संकुलं प्रेक्ष्य लोकैः सर्वैर्निराकुलैः ।। ३६-३७ ।।

मनसोत्पादिता देवी देवानां हितकारिणी ।।
निशामय धरादेव यद्ब्रवीमि तवाग्रतः ।। ३६-३८ ।।

गतिं धर्मस्यातिसूक्ष्मां लोककल्याणकारिणीम् ।।
अनया निकषाश्यांग्या परीक्ष्य स्वर्णभूषणः ।। ३६-३९ ।।

सदारः ससुतो ब्रह्मन्प्रापितो हरिमंदिरम् ।।
राज्ञाऽप्रहतया भक्त्या हरिवासरपालनात् ।। ३६-४० ।।

कृतं शून्यं यमस्थानं लिपिमार्जनकर्मणा ।।
देवापकारो विप्रर्षे न क्षमो बाहुजन्मना ।। ३६-४१ ।।

भूसुराणां विशेषेणं यातास्ते तत्सहायकाः ।। ३६-४२ ।।

न प्राप्यते साङ्घ्यविदा तु यच्च नाष्टांगयोगेन तु भक्तिगम्यम् ।।
तत्प्रापितं भूसुर भूपभर्तुर्निजस्य पुत्रस्य तथा सपत्न्याः ।। ३६-४३ ।।

यत्पुण्यशीलस्य नृपस्य भूपशिरोमणेराचरितं प्रतीपम् ।।
तत्पापवेगेन बभूव विद्रुता भस्मावशेषा तव शापदग्धा ।। ३६-४४ ।।

देवार्थमेषा भववर्द्धनार्थँ नृपोपकाराय च संप्रवृत्ता ।।
न स्वार्थकामा लभतेऽवमानं कथं द्विजातोऽपकृतिं क्षमस्व ।। ३६-४५ ।।

दयां कुरुष्व प्रशमं भजस्व पिष्टस्य पेषो नहि नीतियुक्तः ।।
शापप्रदानेननिपातितेयं कुरु प्रसादं गतिदो भवत्वम् ।।
यस्मिन्कृते ब्राह्मण मोहिनीयं बुद्धिं त्यजेत्क्रूरतरां त्वयीज्ये ।। ३६-४६ ।।

स एवमुक्तः कमलासनेन विमृश्य बुद्ध्या विससर्ज कोपम् ।।
उवाच देवं त्रिदशाधिनाथं विमोहिनीदेहकृतं द्विजेंद्रः ।। ३६-४७ ।।

बहुपापयुता देव मोहिनी तनया तव ।।
न लोकेषु स्थितिस्तस्मात्प्राणिभिः संकुलेषु च ।। ३६-४८ ।।

मया विमृश्य सुचिरं मोद्दिन्यर्थँ विचिंतितम् ।।
तद्दास्यमि तव प्रीत्या त्वं हि पूज्यतरो मम ।। ३६-४९ ।।

यथा तव वचः सत्यं मम चापि सुरेश्वर ।।
देवकार्यं च भविता मोहिनीकृतत्यमेव च ।। ३६-५० ।।

यन्नाक्रांतं हि भूतौघैस्तत्स्थाने मोहिनीस्थितिः ।।
जंगमाजंगमैर्भूमिर्व्याप्ता द्वीपवती सदा ।। ३६-५१ ।।

तलानि चापि दैत्याद्यैराकाशः पक्षिपूर्वकैः ।।
नाकः सुकृतिभिर्जीवैर्नरकाः पापकर्मभिः ।। ३६-५२ ।।

झषाद्यैः सागरा व्याप्ता नैष्वस्पृष्यास्थितिस्ततः ।।
ततो ब्रह्मा सुरैः सर्वैः संमंत्र्य नृपसत्तम ।। ३६-५३ ।।

उवाच मोहिनीं देवीं नास्ति स्थानं तव क्वचित् ।।
तच्छ्रुत्वा मोहिनी वाक्यं पितुराज्ञाविधायिनी ।। ३६-५४ ।।

उवाच प्रणता सर्वान् हरिवासरनाशिनी ।।
पुरोधसा समेतानो देवानां लोकसाक्षिणाम् ।। ३६-५५ ।।

भवतां त्रिदशश्रेष्ठा एष बद्धो मयांजलिः ।।
प्रणिपातशतेनापि प्रसन्नेन हृदा सुराः ।। ३६-५६ ।।

दातव्यं याचितं मंह्यं सर्वेषां प्रीतिकारकम् ।।
एकादश्याः प्रभावेण सर्वेषां पापिनां गतिः ।। ३६-५७ ।।

साध्यते तां सुरश्रेष्ठा वर्धितुं मे प्रयोजनम् ।।
पतिः सपत्नी पुत्रश्च मया वैकुंठगाः कृताः ।। ३६-५८ ।।

भूर्लोके विधवाद्याहं वर्तामि भवतां कृते ।।
यथा हरिदिनं दुष्टं जायते मम मानदाः ।। ३६-५९ ।।

एतत्प्रयाचे ददत स्वार्थार्थं तद्धि नान्यथा ।। ३६-६० ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षट्त्रिंशत्तमोऽध्यायः ।। ३६ ।।