नारदपुराणम्- उत्तरार्धः/अध्यायः ४१
वसुरुवाच ।।
अथावगाहनादीनां कर्मणां फलमुच्यते ।।
सावधाना श्रृणुष्व त्वं ब्रह्मपुत्रि नृपप्रिये ।। ४१-१ ।।
यैः पुण्यवाहिनी गंगा सकृद्भक्त्यावगाहिता ।।
तेषां कुलानां लक्षं तु भवात्तारयते शिवा ।। ४१-२ ।।
सामान्यस्थानतो देवि तत्र संध्या ह्युपासिता ।।
पुण्यं लक्षगुणं कर्तुं समर्था द्विजपावनी ।। ४१-३ ।।
दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः ।।
अक्षयां तु प्रकुर्वंति तृप्तिं मोहिनि दुर्लभाम् ।। ४१-४ ।।
यावंतश्च तिला मर्त्यार्गृहीताः पितृकर्मणि ।।
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः ।। ४१-५ ।।
पितृलोकेषु ये केचित्सर्वेषां पितरः स्थिताः ।।
तर्प्यमाणाः परां तृप्तिं यांति गंगाजलैः शुभैः ।। ४१-६ ।।
य इच्छेत्सफलं जन्म संततिं वा शुभानने ।।
स पितॄंस्तर्पयेद्गंगामभिगम्य सुरांस्तथा ।। ४१-७ ।।
ये मता दुर्गता मर्त्यास्तर्पितास्तत्कुलोद्भवैः ।।
कुशैस्तिलैर्गांगजलैस्ते प्रयांति हरेः पदम् ।। ४१-८ ।।
स्वर्गसस्थाश्च ये केचित्पितरः पुण्यशीलिनः ।।
ते तर्पिता गांगजलैर्मोक्षे यांति विधेर्वचः ।। ४१-९ ।।
मासं तर्पणमात्रेण पिंडसंपातनेन च ।।
गंगायां पितरः सर्वे सुप्रीताः सूर्यवर्चसः ।। ४१-१० ।।
अप्सरो गणणसंयुक्तान्हेमरत्नविभूषितान् ।।
मुक्ताजालपरिच्छन्नान्वेणुवीणानिनादितान् ।। ४१-११ ।।
भेरीशंखमृदंगादिनिर्घोषान्स्रग्विभूषितान् ।।
गन्धर्वदेहरुचिरान्दिव्यभोगसमन्वितान् ।। ४१-१२ । ।
आरुह्य तु विमानाग्र्यान्ब्रह्यलोकं प्रयांति हि ।।
गंगायां तु नरः स्नात्वा यो नित्यं लिंगमर्चयेत् ।। ४१-१३ ।।
एकेन जन्मना मोक्षं परमान्पोति स ध्रुवम् ।।
अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः ।। ४१-१४ ।।
गंगायां लिंगपूजायाः कोट्यंशेनापि नो समाः ।।
पितॄनुदिश्य वा देवान्गंगांभिभिः प्रसिंचयेत् ।। ४१-१५ ।।
तृप्ताः स्युस्तस्य पितरो नरकस्थाश्च तत्क्षणात् ।।
मृत्कुंभात्ताम्रकुंभैस्तु स्नानं दशगुणं स्मृतम् ।। ४१-१६ ।।
रौप्यैः शतगुणं पुण्यं हेमैः कोटिगुणं स्मृतम् ।।
एवमर्घे च नैवेद्ये बलिपूजादिषु क्रमात् ।। ४१-१७ ।।
पात्रां तरविशेषेण फलं चैवोत्तरोत्तरम् ।।
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् ।। ४१-१८ ।।
न स तत्कर्मफलभाग्देवद्रोही प्रकीर्त्यते ।।
देवानां दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम् ।। ४१-१९ ।।
स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् ।।
प्राहुर्गंगाजलैः स्नानं घृतस्नानसमं बुधाः ।। ४१-२० ।।
अर्घ्यं द्रव्यविशेषेण गंगातोयेन यः सकृत् ।।
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ।। ४१-२१ ।।
देवताभ्यः प्रदद्यात्तु स्वकीयपितृभिः सह ।।
पुत्रपौत्रैश्च संयुक्तः स च वै स्वर्गमाप्नुयात् ।।
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु ।। ४१-२२ ।।
रक्तानि करवीराणि तथा वै रक्तचन्दनम् ।।
अष्टाङ्गैरेष युक्तोऽर्घो भानवे परिकीर्तितः ।। ४१-२३ ।।
विष्णोः शिवस्य सूर्य्यस्य दुर्गाया ब्रह्मणस्तथा ।।
गंगातीरे प्रतिष्ठां तु यः करोति नरोत्तमः ।। ४१-२४ ।।
तथैवायतनान्येषां कारयत्यपि शक्तितः ।।
अन्यतीर्थेषु करणात्कोटिगुणं भवेत् ।। ४१-२५ ।।
गंगातीरसमुद्भूतमृदा लिगानि शक्तितः ।।
सलक्षणानि कृत्वा तु प्रतिष्ठाप्य दिने दिने ।। ४१-२६ ।।
मंत्रेश्च पत्रपुष्पाद्यैः पूजयित्वा च शक्तितः ।।
गंगायां निक्षिपेन्नित्यं तस्य पुण्यमनंतकम् ।। ४१-२७ ।।
सर्वानंदप्रदायिन्यां गंगायां यो नरोत्तमः ।।
अष्टाक्षरं जपेद्भक्त्य मुक्तिस्तस्य करे स्थिता ।। ४१-२८ ।।
नमो नारायणायेति प्रणवाद्यं नियम्य च ।।
षण्मासं जपतः सर्वा ह्युपतिष्ठंति सिद्धयः ।। ४१-२९ ।।
नमः शिवायेति मंत्रं सतारं विधिना तु यः ।।
चतुर्विशतिलक्षं वै जपेत्साक्षात्सशंकरः ।। ४१-३० ।।
पंचाक्षरी सिद्धविद्या शिव एव न संशयः ।।
अपवित्रः पवित्रो वा जपन्निष्पातको भवेत् ।। ४१-३१ ।।
पूजितायां तु गंगायां पूजिताः सर्व देवताः ।।
तस्मात्सर्वप्रयत्नेन पूजयेदमरापगाम् ।। ४१-३२ ।।
चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् ।।
रत्नकुंभसितांभोजवराभयकरं शुभाम् ।। ४१-३३ ।।
श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् ।।
सुप्रसन्नां सुवदनां करुणार्द्रहृदंबुजाम् ।। ४१-३४ ।।
सुधाप्लावितभूपृष्ठां त्रैलोक्यनमितां सदा ।।
ध्यात्वा जलमयीं गंगां पूजयन्पुण्यभाग्भवेत् ।। ४१-३५ ।।
मासार्द्धमपि यस्त्वेवं नैरंतर्येण पूजयेत् ।।
स एव देवसदृशो बहुकाले फलाधिकः ।। ४१-३६ ।।
वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी पुरा ।।
क्रोधात्पीता पुनस्त्यक्ता कर्णरंघ्रात्तु दक्षिणात् ।। ४१-३७ ।।
तां तत्र पूजयेद्देवीं गंगां गगनमेखलाम् ।।
अक्षयायां तु वैशाखे कार्तिकेऽपि शुभानने ।। ४१-३८ ।।
रात्रौ जागरणं कृत्वा यवान्नैश्च तिलैस्तथा ।।
विष्णुं गंगां च शंभुं च पूजयेद्भक्ति भावतः ।। ४१-३९ ।।
तथा सुगंधैः कुसुमैः कुंकुमागरुमंदनैः ।।
तुलसीबिल्वपत्राद्यैर्मातुलुंगफलादिभिः ।। ४१-४० ।।
धूपैर्दीपैश्च नैवेद्यैर्यथा विभवविस्तरैः ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।। ४१-४१ ।।
दिव्यं विमानमास्थाय विष्णुलोके महीयते ।।
ततो महीतलं प्राप्य राजा भवति धार्मिकः ।। ४१-४२ ।।
भुक्त्वा विविधसौख्यानि रूपशीलगुणान्वितः ।।
देहांते ज्ञानवान्भूत्वा शिवसायुज्यमाप्नुयात् ।। ४१-४३ ।।
यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम् ।।
गंगायां तु कृतं सर्वं कोटिकोटिगुणं भवेत् ।। ४१-४४ ।।
यस्त्वक्षयतृतीयायां गंगातीरे ददाति वै ।।
घृतधेनुं विधानेन तस्य पुण्यफलं श्रृणु ।। ४१-४५ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
सहस्रादित्यसंकाशः सर्वकामसमन्वितः ।। ४१-४६ ।।
हेमरत्न मये चित्रे विमाने हंसभूषिते ।।
स्वकीयपितृभिः सार्द्धं ब्रह्मलोके महीयते ।। ४१-४७ ।।
ततस्तु जायते विप्रो गंगातीरे धनान्वितः ।।
अंते तु ब्रह्मविद्भूत्वा मोक्षमाप्नोत्यसंशयः ।। ४१-४८ ।।
तथैव गोप्रदानं च विधिना कुरुते तु यः ।।
गोलोमसंख्यवर्षाणि स्वर्गलोके महीयते ।। ४१-४९ ।।
जायते च कुले पश्चाद्धनधान्यसमाकुले ।।
रत्नकांचनभूपूर्णे शीलविद्यायशोन्विते ।। ४१-५० ।।
स भुक्त्वा विपुलान्भोगान्पुत्रपौत्रसमन्वितः ।।
मोक्षभागी भवेन्नृनं नात्रकार्या विचारणा ।। ४१-५१ ।।
कपिला यदि दत्ता स्याद्विधिना वेदपारगे ।।
नरकस्थान्पितॄन्सर्वान्स्वर्गं नयति वै तदा ।। ४१-५२ ।।
भूमिं निवर्तनमितां गंगातीरे ददाति यः ।।
भूमिरेणुप्रमाणाब्दं ब्रह्मविष्णुशिवातिगः ।। ४१-५३ ।।
जायते च पुनर्भूमौ सप्तद्वीपपतिर्भवेत् ।।
भेरीशंखादिनिर्घोषैर्गीतवादित्रनिःस्वनैः ।। ४१-५४ ।।
स्तुतिभिर्मागघानां च सुप्तोऽसौ प्रतिबुध्यते ।।
सर्वसौख्यान्यवाप्येह सर्वधर्मपरायणः ।। ४१-५५ ।।
नरकस्थान्पितॄन्सर्वान्प्रापयित्वा दिवं तथा ।।
स्वर्गस्थितान्मोक्षयित्वा स्वयं ज्ञानी च मोहिनि ।। ४१-५६ ।।
अंते ज्ञानासिना छित्वा अविद्यां पंचपर्विकाम् ।।
परं वैराग्यमापन्नः परं ब्रह्माधिगच्छति ।। ४१-५७ ।।
सप्तहस्तेन दंडेन त्रिंशद्दंडा निवर्तनम् ।।
त्रिभागहीनं गोचर्म मानमाह विधिः स्वयम् ।। ४१-५८ ।।
ग्रामं गंगातटे यो वै ब्राह्मणेभ्यः प्रयच्छति ।।
ब्रह्मविष्णुशिवप्रीत्ये दुर्गाया भास्करस्य च ।। ४१-५९ ।।
सर्वदानेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।।
तपोव्रतेषु पुण्येषु यत्फलं परिकीर्तितम् ।। ४१-६० ।।
सहस्रगुणितं तत्तु विज्ञेयं ग्रामदायिनः ।।
सूर्यकोटिप्रतीकाशे विमाने वैष्णवे पुरे ।। ४१-६१ ।।
क्रीडते शांकरे वापि स्तुतो देवादिभिर्मुदा ।।
भूमिरेण्वब्दसंख्याकं कालं स्थित्वा च तत्र सः ।। ४१-६२ ।।
अणिमादिगुणैर्युक्ते योगिनां जायते कुले ।।
अक्षयायां तु यो देवि स्वर्णं षोडशमासिकम् ।। ४१-६३ ।।
ददाति द्विजमुख्याय सोऽपि लोकेषु पूज्यते ।।
अन्नदानाद्विष्णुलोकं शैवं वै तिलदानतः ।। ४१-६४ ।।
ब्राह्मं रत्नप्रदानेन गोहिरण्येन वासवम् ।।
गांधर्वं स्वर्णवासोभिः कीर्तिं कन्याप्रदानतः ।। ४१-६५ ।।
विद्यया मुक्तिदं ज्ञानं प्राप्य यायान्निरंजनम् ।।
गंगातीरे नरो यस्तु नानावृक्षैः समन्वितम् ।। ४१-६६ ।।
आरामं कारयेद्भक्त्या गृहं चोपवनान्वितम् ।।
कदलीनारिकेरैश्च कपित्थाशोकचंपकैः ।। ४१-६७ ।।
पनसैर्बिल्ववृक्षैश्च कदंबाश्वत्थपाटलैः ।।
आम्रैस्तालैर्नागरंगैर्वृक्षैरन्यैश्च संयुतम् ।। ४१-६८ ।।
जातीविजयसंयुक्तं तथा पाटलराजितम् ।।
निचितं कारयित्वैवमावासं पुष्पशोभितम् ।। ४१-६९ ।।
शिवाय विष्णवे वापि दुर्गायै भास्कराय च ।।
प्रयच्छति तथा भक्त्या सर्वार्थं परिकल्प्य च ।। ४१-७० ।।
तस्य पुण्यफलं वक्ष्ये संक्षेपान्नतु विस्तरात् ।।
यावंति तेषां वृक्षाणां पुष्पमूलफलानि च ।। ४१-७१ ।।
बीजानि च विचित्राणि तेषां मूलानि वै तथा ।।
तावत्कल्पसहस्राणि तेषां लोकेषु संस्थितिः ।। ४१-७२ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये दानादिविधिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ।। ४१ ।।