प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसुरुवाच ।।
योऽसौ निरंजनो देवश्चित्स्वरूपी जनार्दनः ।।
ज्योतीरूपो महाभागे कृष्णस्तल्लक्षणं श्रृणु ।। ५९-१ ।।

गोलोके स विभुर्नित्यं ज्योतिरभ्यंतरे स्थितः ।।
एक एव परं ब्रह्म दृश्यादृष्यस्वरूपधृक् ।। ५९-२ ।।

तस्मिँल्लोके तु गावो हि गोपा गोप्यश्च मोहिनि ।।
वृन्दावनं पूर्वतश्च शतश्रृंगस्तथा सरित् ।। ५९-३ ।।

विरजा नाम वृक्षाश्च पक्षिणश्च पृथग्विधाः ।।
यावत्कालं तु प्रकृतिर्जागर्ति विधिनंदिनि ।। ५९-४ ।।

तावत्कालं तु गोलोके दृश्य एव विभुः स्थितः ।।
लये सुप्ता गवाद्यास्तु न जानंति विभुं परम् ।। ५९-५ ।।

ज्योतिःसमूहांतरतः कमनीयवपुर्द्धरः ।।
किशोरो जलदश्यामः पीतकौशांबरावृतः ।। ५९-६ ।।

द्विभुजो मुरलीहस्तः किरूटादिविभूषितः ।।
आस्ते कैवल्यनाथस्तु राधावक्षस्थलोज्ज्वलः ।। ५९-७ ।।

प्राणाधिकप्रियतमा सा राधाराधितो यया ।।
सुवर्णवर्णा देवी सा चिद्रूपा प्रकृतेः परा ।। ५९-८ ।।

तयोर्देहस्थयोर्नास्ति भेदो नित्यस्वरूपयोः ।।
धावल्यदुग्धयोर्यद्वत्पृथिवीगंधयोर्यथा ।। ५९-९ ।।

तत्कारणं कारणानां निर्द्देष्टुं नैव शक्यते ।।
वेदानिर्वचनीयं यत्तद्वक्तुं नैव शक्यते ।। ५९-१० ।।

ज्योतिरंतरतः प्रोक्तं यद्रूपं श्यामसुंदरम् ।।
शिवेन दृष्टं तद्रूपं कदाचिद्ध्यानगोचरम् ।। ५९-११ ।।

ततः प्रभृति जानंति गोलोकाख्यानमीप्सितम् ।।
नारदाद्या विधिसुते सनकाद्याश्च योगिनः ।। ५९-१२ ।।

श्रुतं ध्यायंति तं सर्वे न तैर्दृष्टं कदाचन ।।
साक्षाद्द्रष्टुं तु तपते शिवोऽद्यापि सनातनः ।। ५९-१३ ।।

नैव पश्यति तद्रूपं ध्यायति ध्यानगोचरम् ।।
कदाचित्क्रीडतोर्देवि राधामाधवयोर्वपुः ।। ५९-१४ ।।

द्विधाभूतमभूत्तत्र वामांगं तु चतुर्भुजम् ।।
समानरूपावयवं समानांबरभूषणम् ।। ५९-१५ ।।

तद्वद्राधास्वरूपं च द्विधारूपमभूत्सति ।।
ताभ्यां दृष्टं तत्स्वरूपं साक्षात्तावपि तत्समौ ।। ५९-१६ ।।

चतुर्भुजं तु यद्रूपं लक्ष्मीकांतं मनोहरम् ।।
तद्दृष्टं तु शिवाद्यैश्च भक्तवृन्दैरनेकशः ।। ५९-१७ ।।

सकृत्तु ब्रह्मणा दृष्टं देवि रूपं चतुर्भुजम् ।।
सृष्टिकार्यप्रमुग्धेन दर्शितं कृपया स्वयम् ।। ५९-१८ ।।

लक्ष्म्या सनात्कुमाराय वर्णितं विधिनंदिनि ।।
विष्वक्सेनाय तूद्दिष्टं स्वरूपं तत्त्वमूर्तये ।। ५९-१९ ।।

नारायणेन विधिजे ततो ध्यायंति सर्वशः ।।
धर्मपुत्रेण देवेशि नारदाय समीरितम् ।। ५९-२० ।।

गोलोकवर्णनं सर्वं राधाकृष्णमयं तथा ।।
या तु राधा विधिसुते देवी देववरार्चिता ।। ५९-२१ ।।

सा स्वयं शिवरूपाभूत्कौतुकेन वरानने ।।
तदृष्ट्वा सहसाश्चर्यं कृष्णो योगेश्वरेश्वरः ।। ५९-२२ ।।

मूलप्रकृतिरूपं तु दध्रे तत्समयोचितम् ।।
विपरीतं वपुर्धृत्वा वामदेवो मुदान्वितः ।। ५९-२३ ।।

ध्यायेदहर्निशं देवं दुर्गारूप धरं हरिम् ।।
या राधा सैव लक्ष्मीस्तु सावित्री च सरस्वती ।। ५९-२४ ।।

गंगा च ब्रह्मतनये नैव भेदोऽस्ति वस्तुतः ।।
पंचधा सा स्थिता विद्याकामधेनुस्वरूपिणी ।। ५९-२५ ।।

यः कृष्णो राधिकानाथः स लक्ष्मीशः प्रकीर्तितः ।।
स एव ब्रह्मरूपश्च धर्मो नारायणस्तथा ।। ५९-२६ ।।

एवं तु पंचधा रूपमास्थितो भगवानजः ।।
कार्यकारणरूपोऽसौ ध्यांयंति जगतीतले ।। ५९-२७ ।।

तेन वै प्रेमसंबद्धो विषयी यः शिवः स तु ।।
राधेशं राधिकारूपं स्वयं सच्चित्सुखात्मकम् ।। ५९-२८ ।।

देवतेजः समुद्भूता मूलप्रकृतिरीश्वरी ।।
कृष्णरूपा महाभागे दैत्यसंहारकारिणी ।। ५९-२९ ।।

सती दक्षसुता भूत्वा विषयेशं शिवं श्रिता ।।
भर्तुर्विनिंदनं श्रुत्वा सती त्यक्त्वा कलेवरम् ।। ५९-३० ।।

जज्ञे हिमवतः क्षेत्रे मेनायां पुनरेव च ।।
ततस्तप्त्वा तपो भद्रे शिवं प्राप शिवप्रदा ।। ५९-३१ ।।

वस्तुतः कृष्णराधासौ शिवमोहनतत्परा ।।
जगदंबास्वरूपा च यतो माया स्वयं विभुः ।। ५९-३२ ।।

अत एव ब्रह्मसुते स्कंदो गणपतिस्तथा ।।
स्वयं कृष्णो गणपतिः स्वयं स्कंदः शिवोऽभवत् ।। ५९-३३ ।।

शिवमेवं वदंत्येके राधारूपं समाश्रितम् ।।
कृष्णवक्षःस्थलस्थानं तयोर्भेदो न लक्ष्यते ।। ५९-३४ ।।

कृष्णो वा मूलप्रकृतिः शिवो वा राधिका स्वयम् ।।
एवं वा मिथुनं वापि न केनापीति निश्चितम् ।। ५९-३५ ।।

अनिर्देश्यं तु यद्वस्तु तन्निर्देष्टुं न च क्षमम् ।।
उपलक्षणमेतद्धि यन्निदेशनमैश्वरम् ।। ५९-३६ ।।

शास्त्रं वेदाश्च सुभगे वर्णयंति यदीश्वरम् ।।
तत्सर्वं प्राकृतं विद्धिनिर्देष्टुं शक्यमेव च ।। ५९-३७ ।।

अनिर्देश्यं तु यद्देवि तन्नेतीति निषिध्तयते ।।
निषेधशेषः स विभुः कीर्तितः शरणागतैः ।। ५९-३८ ।।

शास्त्रं नियामकं भद्रे सर्वेषां कर्मणां भवेत् ।।
कर्मी तु जीवः कथित ईश्वरांशो विभुः स्वयम् ।। ५९-३९ ।।

प्रकृतेस्तु परो नित्यो मायया मोहितः शुभे ।।
यस्तु साक्षी स्वयं पूर्णः सहानुशयिता स्थितः ।। ५९-४० ।।

न वेत्ति तं चानुशयी वेदानुशयिनं स तु ।।
शंखचक्रगदापद्मैरलंकृतभुजद्वयाः ।। ५९-४१ ।।

प्रपन्नास्ते तु विज्ञेयाः द्विविधा विधिनंदिनि ।।
आर्तदृप्तविभेदेन तत्रार्ता असहा मताः ।। ५९-४२ ।।

दृप्ता जन्मांतरसहा निर्भयाः सदसज्जनाः ।।
ये प्रपन्ना महालक्ष्म्यां सखिभावं समाश्रिताः ।। ५९-४३ ।।

तेषां मंत्रं प्रवक्ष्यामि प्रयांति विधिबोधितम् ।।
गोपीजनपदस्यांते वल्लभेति समुच्चरेत् ।। ५९-४४ ।।

चरणञ्च्छरणं पश्चात्प्रपद्ये पदमीरयेत् ।।
षोडशार्णो मंत्रराजः साक्षाल्लक्ष्म्या प्रकाशितः ।। ५९-४५ ।।

पूर्वं सनत्कुमाराय शंभवे तदनंतरम् ।।
सखिभावं समाश्रित्य गोपिकावृंदमध्यगम् ।। ५९-४६ ।।

आत्मानं चिंतयेद्भद्रे राधामाधवसंज्ञकम् ।।
गुरुष्वीश्वरभावेन वर्त्तेत प्रणतः सदा ।। ५९-४७ ।।

वैष्णवेषेु च सत्कृत्य तथा समतयान्यतः ।।
दिवानिशं चिंतनं च स्वामिनोः प्रेमबंधनात् ।।
कुर्यांत्पर्वस्वपि सदा यात्रापर्वमहोत्सवान् ।। ५९-४८ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्यं नाम एकोनषष्टितमोऽध्यायः ।। ५९ ।।