नारदपुराणम्- उत्तरार्धः/अध्यायः ३४
वसिष्ठ उवाच ।।
तत्पुत्रवचनं श्रुत्वा राजा रुक्मांगदस्तदा ।।
संध्यावलीमुखं प्रेक्ष्य प्रहृष्टकमलोपमम् ।। ३४-१ ।।
मोहिनीवचनं श्रृण्वन्भुंक्ष्व मा हन देहजम् ।।
मा भुंक्ष्व तनयं हिंस चेत्याग्रहसमन्वितम् ।। ३४-२ ।।
एतस्मिन्नेव काले तु भगवान्कमलेक्षणः ।।
अंतर्द्धानगतस्तस्थौ व्योम्नि धैर्यावलोककः ।। ३४-३ ।।
त्रयाणां नृपशार्दूल मेघश्यामो निरञ्जनः ।।
धर्मांगदस्य वीरस्य तस्य रुक्मांगदस्य तु ।। ३४-४ ।।
संध्यावल्या समेतस्य वीशसंस्थो जनार्दनः ।।
वचने भुंक्ष्व भुंक्ष्वेति मोहिन्या व्याहृते तदा ।। ३४-५ ।।
जग्राह विमलं खङ्गं हंतुं धर्मांगदं सुतम् ।।
सुप्रहर्षेण मनसा प्रणम्य गरुडध्वजम् ।।
तं दृष्ट्वा खङ्गहस्तं तु पितरं धर्म्मंभूषणः ।। ३४-६ ।।
प्रणम्य मातापितरौ देवं चक्रधरं तथा ।।
वदनं प्रेक्ष्य चादीनं जनन्या नृपपुंगवः ।। ३४-७ ।।
वृषांगदेन तु तदा स्वग्रीवोर्वीतले कृता ।।
कंबुग्रीवां समानां तु सुवर्णा सुकोमलाम् ।। ३४-८ ।।
बहुरेखमथ स्थूलां खङ्गमार्गे ज्यदर्शयत् ।।।
पितृभक्त्या युतेनैव मातृभक्त्याधिकेन वै ।। ३४-९ ।।
ग्रीवाप्रदाने तनयस्य भूप हर्षाकुले चारुसुधांशुवक्त्रे ।।
गृहीतखङ्गे जगदीशनाथे चचाल पृथ्वीं सनगा समग्रा ।। ३४-१० ।।
सिंधुः प्रवृद्धश्च बभूव सद्यो निमज्ज नार्थं भुवनत्रयस्य ।।
निपेतुरुल्काः शतशो धरायां निर्घातयुक्ताः सतडित्खमध्यात् ।। ३४-११ ।।
विवर्णरूपा च बभूव मोहिनी न देवकार्यं हि कृतं मयेति ।।
निरर्थकं जन्म ममाधुनाभूत्कृतं तु दैवेन दजगद्विधायिना ।। ३४-१२ ।।
विमोहनं रूपमिदं विडंबनं यद्भूमिपालेन न भुक्तमन्नम् ।।
हरेर्दिने पापभयापहे तु तृणैः समाहं भविता त्रिविष्टपे ।। ३४-१३ ।।
सत्वाधिको यास्यति मोक्षमार्गं गंतास्मि पाप नरकं सुदारुणम् ।। ३४-१४ ।।
समुद्यते तदा खङ्गे नृपेण नृपपुंगव ।।
मोहिनी मोहसंयुक्ता पपात धरणीतले ।। ३४-१५ ।।
राजापि तेन खङ्गेन भ्राजमानः समुद्यतः ।।
ग्रीवायाश्छेदनार्थाय वृषांगदसुतस्य तु ।। ३४-१६ ।।
सकुंडलं चारु शशिप्रकाशं भ्राजिष्णु वक्त्रं तनयस्य भूपः ।।
प्रचिच्छिदे यावदतीव हर्षाद्धैर्यान्वितो रुक्मविभूषणोऽसौ ।। ३४-१७ ।।
तावद्गृहीतः स्वकरेण भूपः क्षीराब्धिकन्यापतिना महीपः ।।
तुष्टोऽस्मि तुष्टोऽस्मि न संशयोऽत्र गच्छस्व लोकं मम लोकनाथ ।। ३४-१८ ।।
प्रियान्वितश्चात्मजसंयुतश्च कीर्तिं समाधाय महीतले तु ।।
त्रैलोक्यपूज्यां विमलां च शुक्लां कृत्वा पदं मूर्ध्नि यमस्य भूप ।। ३४-१९ ।।
प्रयाहि वासं मम देहसंज्ञं स चक्रिणो भूमिपतिः करेण ।।
संस्पृष्टमात्रो विरजा बभूव प्रियासमेतस्तनयेन युक्तः ।। ३४-२० ।।
उपेत्य वेगेन जगाम देहं देवस्य दिव्यं स नृपो महात्मा ।।
विहाय लक्ष्मीमवनीप्रसूतां विहाय दासीःसुधनं स कोशम् ।। ३४-२१ ।।
विहाय नागांस्तुरगान्रथांश्च स्वदारवर्गं स्वजनादिकांश्च ।।
जगाम देहं मधुसूदनस्य ततोंऽबरात्पुष्पचयः पपात ।। ३४-२२ ।।
संहृष्टसिद्धैः सुरलोकपालैः संताडिता दुंदुभयो विनेदुः ।।
राजन् जगुर्गीतमतीव रम्यं देवांगनाः संननृतुर्मुदान्विताः ।। ३४-२३ ।।
गन्धर्वकन्या नृपकर्मतुष्टास्तदद्भुतं प्रेक्ष्य दिनेशसूनुः ।।
हरेस्तनौ भूमिपतिं प्रविष्टं सदारपुत्रं स्वलिपिं प्रमार्ज्य ।। ३४-२४ ।।
लोकांश्च सर्वान्नृपदिष्टमार्गे कृत्वा कृतज्ञान्हार्रलोकमार्गान् ।।
भीतः पुनः प्राप्य पितामहांतिकं प्रोवाच देवं चतुराननं रुदन् ।। ३४-२५ ।।
नाहं नियोगी भविता हि देव आज्ञाविहीनः सुरलोकनाथ ।।
विधेहि चान्यत्प्रकरोमि तात निदेशनं मास्तु मदीय दण्डम् ।। ३४-२६ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सुतवधोद्यतस्य रुक्मांगदस्य भगवद्दर्शनं नाम चतुस्त्रिंशत्तमोऽध्यायः ।। ३४ ।।