नारदपुराणम्- उत्तरार्धः/अध्यायः ३
ऋषय ऊचुः ।।
विस्तरेण समाख्या हि विष्णोराराधनक्रियाम् ।।
यया तोषं समायाति प्रददाति समीहितम् ।। ३-१ ।।
लक्ष्मीभर्ताजगन्नाथोह्यशेषाघौघनाशनः ।।
कर्मणा केन स प्रीतो भवेद्यः सचराचरः ।। ३-२ ।।
सौतिरुवाच ।।
भक्तिग्राह्यो हृषीकेशो न धनैर्द्धरणीधर ।।
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ।। ३-३ ।।
तस्माद्विप्राः सदा भक्तिः कर्त्तव्या चक्रपाणिनः ।।
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ।। ३-४ ।।
परितोषं व्रजत्याशुतृषितस्तु जलैर्यथा ।।
अत्रापि श्रूयते विप्रा आख्यानं पापनाशनम् ।। ३-५ ।।
रुक्मांगदस्य संवादमृषिणा गौतमेन हि ।।
आसीद्ग्रुक्मांगदो राजा सार्वभौमः क्षमान्वितः ।। ३-६ ।।
क्षीरशायिप्रियो भक्तो हरिवासरतत्परः ।।
नान्यं पश्यति देवेशात्पद्मनाभान्महीपतिः ।। ३-७ ।।
पटहं वारणे धृत्वा वादयेद्धरि वासरे ।।
अष्टवर्षाधिको यस्तु पञ्चाशीत्यूनवर्षकः ।। ३-८ ।।
भुनक्ति मानवो ह्यद्य विष्णोरहनि मंदधीः ।।
स मे दंड्यश्च वध्यश्च निर्वास्यो नगराद्बहिः ।। ३-९ ।।
पिता च यदि वा भ्राता पुत्रो भार्या सुहृन्मम ।।
पद्मनाभदिने भोक्ता निग्राह्यो दस्युवद्भवेत् ।। ३-१० ।।
ददघ्वंम विप्रमुख्यभ्यो मज्जध्वं जाह्नवीजले ।।
ममेद वचनं श्रृत्वा राज्यं भुंजीत मामकम् ।। ३-११ ।।
वासरे वासरे विष्णोः शुक्लपक्षे महीपतिः ।।
अशुक्ले तु विशेषेण पटहे हेमसंपुटे ।। ३-१२ ।।
एवं प्रघुष्टे भूपेन सर्वभूमौ द्विजोत्तमाः ।।
गच्छिद्भिः संकुलो मार्गः कृतो कृतो लोकैर्हरेर्द्विजाः ।। ३-१३ ।।
ये केचिन्निधनं यांति भूपालविषये नराः ।।
ज्ञानात्प्रमादतो वापि ते यांति हरिमन्दिरम् ।। ३-१४ ।।
अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्विजाः ।।
व्याजेनापि प्रकुर्वाणैर्द्वादशीं पापनाशिनीम् ।। ३-१५ ।।
सोऽश्नाति पार्थिवं पापं योऽश्नाति हरिवासरे ।।
स प्राप्नोति धराधर्मं यो नाश्नाति हरेर्दिने ।। ३-१६ ।।
ब्राह्मणो नैव हंतव्य इत्येषा वैदिकी स्मृतिः ।।
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ।। ३-१७ ।।
वैलक्ष्यमगमद्राजा रविसूनुर्द्विजोत्तमाः ।।
लेख्यकर्मणि विश्रांतश्चित्रगुप्तोऽभवत्तदा ।। ३-१८ ।।
संमार्जितानि लेख्यानि पूर्वकर्मोद्भवानि च ।।
गच्छंति वैष्णवं लोकं स्वधर्मैर्मानवाः क्षणात् ।। ३-१९ ।।
शून्यास्तु निरयाः सर्वे पापप्राणिविवर्जिताः ।।
भग्नो याम्योऽभवन्मार्गो द्वादशादित्यतापितः ।। ३-२० ।।
सर्वे हि गरुडारूढा जना यांति हरेः पदम् ।।
देवा नामपि ये लोकास्ते शून्या ह्यभवँस्तथा ।। ३-२१ ।।
उत्सन्नाः पितृदेवेज्यास्तीर्थदानादिसत्क्रियाः ।।
मुक्त्वैकां द्वादशीं मर्त्या नान्यं जानंति ते व्रतम् ।। ३-२२ ।।
शून्ये त्रिविष्टपे जाते शून्ये च नरके तथा ।।
नारदो धर्मराजानं गत्वा चेदमुवाच ह ।। ३-२३ ।।
नारद उवाच ।।
नाक्रंदः श्रूयते राजन् प्रांगणे नरकेष्वथ ।।
न चापि क्रियते लेख्यं किंचिद्दुष्कृतकर्मणाम् ।। ३-२४ ।।
चित्रगुप्तो मुनिरिव स्थितोऽयं मौनसंयुतः ।।
कारणं किं न चायांति पापिनो येन ते गृहम् ।। ३-२५ ।।
मायादंभसमाक्रांता दुष्टकर्मरतास्तथा ।।
एवमुक्ते तु वचने नारदेन महात्मना ।। ३-२६ ।।
प्राह वैवस्वतो राजा किंचिद्दैन्यसमन्वितः ।।
यम उवाच ।।
योऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः ।। ३-२७ ।।
स हि भक्तो हृषीकेशे पुराणपुरुषोत्तमे ।।
प्रबोधयति राजेंद्रः स जनं पटहेन हि ।। ३-२८ ।।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ।।
ये केचिद्भुञ्जते मर्त्यास्ते मे दंडेषु यांति हि ।। ३-२९ ।।
तद्भयाद्धि जनाः सर्वे द्वादशीं समुपासते ।।
व्याजेनापि मुनुश्रेष्ठ द्वादश्यां समुपोषिताः ।। ३-३० ।।
प्रयांति वैष्णवं लोकं दाहप्रलयवर्जितम् ।।
द्वादशीसेवनाल्लोकाः प्रायांति हरिमंदिरम् ।। ३-३१ ।।
तेन राज्ञा द्विजश्रेष्ठ मार्गा लुप्ता ममाधुना ।।
कृत हि नरकाः शून्या लोकाश्चापि दिवौकसाम् ।। ३-३२ ।।
विश्रांतं लेखकेर्लेख्यं लिखितं मार्जितं जनैः ।
एकादश्युपवासस्य माहात्म्येन द्विजोत्तम ।। ३-३३ ।।
ब्रह्महत्यादिपापानि अभुक्त्वैव जना द्विज ।।
समुपोष्य दिनं विष्णोः प्रयांति हरिमंदिरम् ।। ३-३४ ।।
सोऽहं काष्टमृगेणैव तुल्यो जातो महामुने ।।
नेत्रहीनः कर्णहीनः संध्याहीनो द्विजो यथा ।। ३-३५ ।।
स्त्रीजितो वा पुमान्यद्वत्षंढो वा प्रमदापतिः ।।
त्यक्तकामस्त्वहं ब्रह्मंल्लोकपालत्वमीदृशम् ।। ३-३६ ।।
यास्यामि ब्रह्मलोके वै दुःखं ज्ञापयितुं स्वकम् ।।
निर्व्यापारो नियोगी तु नियोगे यस्तु तिष्ठति ।। ३-३७ ।।
स्वामिवित्तं समश्नाति स याति नरकं ध्रुवम् ।।
सौतिरुवाच ।।
एवमुक्त्वा यमो विप्रा नारदेन समन्वितः ।। ३-३८ ।।
ययौ विरंचिसदनं चित्रगुप्तेन चान्वितः ।।
स ददर्श समासीनं मूर्तामूर्तजनावृतम् ।। ३-३९ ।।
वेदाश्रयं जगद्बीजं सर्वेषां प्रपितामहम् ।।
स्वभवं भूतनिलयमोंकाराख्यमकल्मषम् ।। ३-४० ।।
शुचिं शुचिपदं हंसं ब्रह्माणं दर्भलांछनम् ।।
उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः ।। ३-४१ ।।
इतिहासपुराणैश्च वेदौर्वेग्रहसंस्थितैः ।।
मूर्तिमद्भिः समुद्रैश्य नदीभिश्च सरोवरैः ।। ३-४२ ।।
देहधृग्भिस्तथा वृक्षैरश्वत्थाद्यैर्विशेषतः ।।
वापीकूपतडागाद्यैर्मूर्तिमद्भिश्च पर्वतैः ।। ३-४३ ।।
अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैर्द्विजाः ।।
कलाकाष्ठानिमेषैश्च ऋतुभिश्चायनैर्युगैः ।। ३-४४ ।।
मन्वंतरैस्तथा कल्पैर्निमेषैरुन्मिषैरपि ।
ऋक्षैर्योगैश्च करणैः पौर्णमासेंदुसंक्षयैः ।। ३-४५ ।।
सुखैर्दुःखैस्तथा द्वंद्वैर्लाभालाभैर्जयाजयैः ।।
सत्यानृतैश्च देवेशो वेष्टितो धर्मपावकः ।। ३-४६ ।।
कर्मविद्भिश्च पुरुषैरनुरुपैरुपास्यते ।।
सत्त्वेन रजसा चैव तमसा च पितामहः ।। ३-४७ ।।
शांतमूढातिघोरैश्च विकारैः प्राकृतैर्विभुः ।।
वायुना श्लेष्मपित्ताभ्यां मूर्तैरातंकनामभिः ।। ३-४८ ।।
आनंदेन च विश्वात्मा परधर्मं समाश्रितः ।।
अनुक्तैरपि भूतैश्च संवृतो लोककृत्स्वयम् ।। ३-४९ ।।
दुरुक्तैः कटुवाक्याद्यैर्मूर्तिमद्भिरुपास्यते ।।
तेषां मध्येऽविशत्सौरिः सव्रीडेव वधूर्यथा ।। ३-५० ।।
विलोकयन्नधोभागं नम्रवक्त्रो व्यदर्शयत् ।।
ते प्रविष्टं यमं दृष्ट्वा सकायस्थं सनारदम् ।। ३-५१ ।।
विस्मिताक्षा मिथः प्रोचुः किमयं भास्करिस्त्विह ।।
संप्राप्तो हि लोककरं द्रष्टुं देवं पितामहम् ।। ३-५२ ।।
निर्व्यापारः क्षणं नास्ति योऽयं व्यग्रो रवेः सुतः ।।
सोऽयमभ्यागतः कस्मात्कञ्चित्क्षेमं दिवौकसाम् ।। ३-५३ ।।
आश्चर्यातिशयं मन्ये यन्मार्जितपटस्त्वयम् ।।
लेखकः समनुप्राप्तो दैन्येन महतान्वितः ।। ३-५४ ।।
न केनचित्पटो ह्यस्य मार्जितोऽभूच्च धर्मिणा ।।
यन्न दृष्टं श्रुंत वापि तदिहैव प्रदृश्यते ।। ३-५५ ।।
एवमुच्चरतां तेषां भूतानां कृतशासनः ।।
निपपाताग्रतो विप्रा ब्रह्मणो रविनन्दनः ।। ३-५६ ।।
मूलच्छिन्नो यथा शाखी त्राहि त्राहीति संरुदन् ।।
परिभूतोऽस्मि देवेश यन्मार्जितपटः कृतः ।। ३-५७ ।।
त्वया नाथेन विधुरं पश्यामि कमलासन ।।
एवं ब्रुवन्स निश्चेष्टो बभूव द्विजसंत्तमाः ।। ३-५८ ।।
ततो हलहलाशब्दः सभायां समवर्तत ।।
योऽर्थं रोदयते लोकान्सर्वान्स्थावरज गमान् ।। ३-५९ ।।
सोऽयं रोदिति दुःखार्तः कस्माद्वैवस्वतो यमः ।।
अथवा सत्यगाथेयं लौकिकी प्रतिभाति नः ।। ३-६० ।।
जनसन्तापकर्ता यः सोऽचिरेणोपतप्यते ।।
नहि दुष्कृतकर्मा हि नरः प्राप्नोति शोभनम् ।। ३-६१ ।।
ततो निवारयामास वायुस्तेषां वचस्तदा ।।
लोकानां समचित्तानां मतं ज्ञात्वा हि वेधसः ।। ३-६२ ।।
निवार्य शंकां मार्तंडिं शनैरुत्थापयन् विभुः ।।
भुजाभ्यां साधुपीनाभ्यां लोकमूर्तिरुदारधीः ।। ३-६३ ।।
विह्वलं तं पलायंतमासने संन्यवेशयत् ।।
सकायस्थमुवाचेदं व्योममूर्तिं रवेः सुतम् ।। ३-६४ ।।
केन त्वमभिभूतोऽसि केन स्थानाद्विवासितः ।।
केनापमार्जितो देवपटो लोकपटस्तव ।। ३-६५ ।।
ब्रूहि सर्वमशेषेण कुशकेतुर्वदत्वयम् ।।
यः प्रभुस्तात सर्वेषां स ते कर्ता समुन्नतिम् ।।
अपनेष्यति मार्तंडे दुःखं हृदयसंस्थितम् ।।। ३-६६ ।।
स एवमुक्तस्तु प्रभंजनेन दिनेशसूनुस्तमथो बभाषे ।।
विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं मंदमुदीरयन्वचः ।। ३-६७ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरे भागे यमस्य ब्रह्मलोकगमनं नाम तृतीयोऽध्यायः ।। ३ ।।