नारदपुराणम्- उत्तरार्धः/अध्यायः २६
राजोवाच ।।
कीर्तिर्नश्यतु मे पुत्र ह्यनृती वा भवाम्यहम् ।।
गतो वा नरकं घोरं कथं भोक्ष्ये हरेर्दिने ।। २६-१ ।।
ब्रह्मणो निलयं यातु देवीयं मोहिनी सुत ।।
भूयो भूयो वदति मां दुर्मेधाश्च सुबालिशा ।। २६-२ ।।
नापरं कामये राज्यं वसुधां वसु किंचन ।।
मुक्त्वैवं वासरे विष्णोर्भोजनं पापनाशने ।। २६-३ ।।
यद्यहं कुत्सितां योनिं व्रजेयं क्रिमिसंज्ञिताम् ।।
तथापि नैव कर्ताहं भोजनं हरिवासरे ।। २६-४ ।।
एषा गुरुतरा भूत्वा लोकानां शिक्षयान्विता ।।
दुंदुभी कुर्वती नादं सा कथं वितथा भवेत् ।। २६-५ ।।
अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा ।।
अपेयं चैव पीत्वा तु किं जीवेच्छरदः शतम् ।। २६-६ ।।
असत्यं वापि कृत्वाहं त्यक्तराज्यनयः क्षितौ ।।
धिक्कृतोऽपि जनैः सर्वैर्न भोक्ष्ये हरिवासरे ।। २६-७ ।।
वियोगे चपलापांग्या यदि चेन्मरणं मम ।।
तच्चापि वरमेवात्र न भोक्ष्ये हरिवासरे ।। २६-८ ।।
कथं हर्षमहं कर्ता मार्तंडतनयस्य वै ।।
व्रजद्भिर्मनुजैर्मार्गे निरयस्यातिदुःखितैः ।। २६-९ ।।
यास्तु शून्याः कृतास्तात मया नरकपंक्तयः ।।
जनैः पूर्णा भविष्यंति मयि भुक्ते तु ताः सुत ।। २६-१० ।।
मास्म सीमन्तिनी पुत्र कुक्षौ संधारयेत्सुतम् ।।
समर्थो यस्तु शत्रूणां हर्षं संजनयेद्भुवि ।। २६-११ ।।
भोजनं वासरे विष्णोरेतदेव हियाचते ।।
तन्न दास्यामि मोहिन्या याचितोऽपि सुरासुरैः ।। २६-१२ ।।
पिबेद्विषं विशेद्वह्निं निपतेत्पर्वताग्रतः ।।
आकाशभासा स्वशिरश्छिंद्यादेव वरासिना ।। २६-१३ ।।
न भोक्ष्यते हरिदिने राजा रुक्मांगदः क्षितौ ।।
रुक्मांगदेति मन्नाम प्रसिद्धं भुवनत्रये ।। २६-१४ ।।
एकादश्युपवासेन तन्मया संचितं यशः ।।
स कथं भोजनं कृत्वा नाशये स्वकृतं यशः ।। २६-१५ ।।
म्रियते यदि वा गच्छति निपतति नश्येच्च खंडशो वापि ।।
विरमति तदपि न चेतो मामकमिति मोहिनीहेतोः ।। २६-१६ ।।
परित्यजाम्येष निजं हि जीवितं लोकैः समेतः सहदारभृत्यैः ।।
न त्वेव कुर्यां मधुसूदनस्य दिने सुपुण्येऽन्ननिषेवणं हि ।। २६-१७ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षड्वविंशोऽध्यायः ।। २६ ।।