नारदपुराणम्- उत्तरार्धः/अध्यायः ३९
वसुरुवाच ।।
श्रृणु मोहिनि वक्ष्यामि गंगाया दर्शने फलम् ।।
यदुक्तं हि पुराणेषु मुनिभिस्तत्त्वदर्शिभिः ।। ३९-१ ।।
भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दशनात् ।।
गंगासंदर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ।। ३९-२ ।।
सप्तावरान् सप्तपरान् पितृंस्तेभ्यश्च ये परे ।।
पुमांस्तारयते गंगां वीक्ष्य स्पृष्ट्वावगाह्य च ।। ३९-३ ।।
दर्शनात्स्पर्शनात्पानात्तथा गंगेति कीर्तनात् ।।
पुमान्पुनाति पुरुषाञ्छतशोऽथ सहस्रशः ।। ३९-४ ।।
ज्ञानमैश्वर्यमतुलं प्रतिष्ठायुर्यशस्तथा ।
शुभानामाश्रमाणां च गंगादर्शनजं फलम् ।। ३९-५ ।।
सर्वेन्द्रियाणां चांचल्यं व्यसनानि च पातकम् ।।
निर्घृणत्वं च नश्यंति गंगादर्शन मात्रतः ।। ३९-६ ।।
परहिंसा च कौटिल्यं परदोषाद्यवेक्षणम् ।।
दांभिकत्वं नृणां गंगादर्शनादेव नश्यति ।। ३९-७ ।।
मुहुर्मुहुस्तथा पश्येत्स्पृशेद्वापि मुहुर्मुहुः ।।
भक्त्या यदिच्छति नरः शाश्वतं पदमव्ययम् ।। ३९-८ ।।
वापीकूपतडागादिप्रपासत्रादिभिस्तथा ।।
अन्यत्र यद्भवेत्पुण्यं तद्गंगादर्शनाद्भवेत् ।। ३९-९ ।।
यत्फलं जायते पुंसां दर्शने परमात्मनः ।।
तद्भवेदेव गंगाया दर्शनाद्भक्तिभावतः ।। ३९-१० ।।
नैमिषे च कुरुक्षेत्रे नर्मदायां च पुष्करे ।।
स्नानात्संस्पर्शना सेव्य यत्फलं लभते नरः ।। ३९-११ ।।
तद्गंगादर्शनादेव कलौ प्राहुर्महर्षयः ।।
अथ ते स्मरणस्यापि गंगाया भूपभामिनि ।। ३९-१२ ।।
प्रवक्ष्यामि फलं यत्तु पुराणेषु प्रकीर्तितम् ।।
अशुभैः कर्मभिर्युक्तान्मज्जमानान्भवार्णवे ।। ३९-१३ ।।
पततो नरके गङ्गा स्मृता दूरात्समुद्धरेत् ।।
योजनानां सहस्रेषु गंगां स्मरति यो नरः ।। ३९-१४ ।।
अपि दुष्कृतकर्मा हि लभते परमां गतिम् ।।
स्मरणादेव गंगायाः पापसंघातपंजरम् ।। ३९-१५ ।।
भेदं सहस्रधा याति गिरिर्वज्रहतो यथा ।।
गच्छंस्तिष्ठन्स्वपन्ध्यायञ्जाग्रद्भुंजन् हसन् रुदन् ।। ३९-१६ ।।
यः स्मरेत्सततं गंगां स च मुच्येत बंधनात् ।।
सहस्रयोजनस्थाश्च गंगां भक्त्या स्मरंति ये ।। ३९-१७ ।।
गंगागंगेति चाक्रुश्य मुच्यंते तेऽपि पातकात् ।।
ये च स्मरंति वै गंगां गंगाभक्तिपराश्च ये ।। ३९-१८ ।।
तेऽप्यशेषैर्महापापैर्मुच्यंते नात्र संशयः ।।
भवनानि विचित्राणि विचित्राभरणाः स्त्रियः ।। ३९-१९ ।।
आरोग्यं वित्त्रसंपत्तिर्गंगास्मरणंज फलम् ।।
मनसा संस्मरेद्यस्तु गंगां दूरस्थितो नरः ।। ३९-२० ।।
चांद्रायणसहस्रस्य स फलं लभते ध्रुवम् ।।
गङ्गा गङ्गा जपन्नाम योजनानां शते स्थितः ।। ३९-२१ ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति ।।
कीर्तनान्मुच्यते पापाद्दर्शनान्मंगलं लभेत् ।। ३९-२२ ।।
अवगाह्य तथा पीत्वा पुनात्यासप्तमं कुलम् ।।
सप्तावपरान्परान्सप्त सप्ताथ परतः परान् ।। ३९-२३ ।।
गंगा तारयते पुंसां प्रसंगेनापि कीर्तिता ।।
अश्रद्धयापि गंगाया यत्तु नामानुकीर्तनम् ।। ३९-२४ ।।
करोति पुण्यवाहिन्याः सोऽपि स्वर्गस्य भाजनम् ।।
सर्वावस्थां गतो वापि सर्वधर्मविवर्जितः ।। ३९-२५ ।।
गंगायाः कीर्तनेनैव शुभां गतिमवाप्नुयात् ।।
ब्रह्महा गुरुहागोघ्नः स्पृष्टो वा सर्वपातकैः ।। ३९-२६ ।।
गंगातोयं नरः स्पृष्ट्वा मुच्यते सर्वपातकैः ।।
कदा द्रक्ष्यामि तां गंगां कदा स्नानं लभे ह्यहम् ।। ३९-२७ ।।
इति पुंसाभिलषिता कुलानां तारयेच्छतम् ।।
अथ स्नानफलं देवि गंगायाः प्रवदामि ते ।। ३९-२८ ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।।
स्नातस्य गंगासलिले सद्यः पापं प्रणश्यति ।। ३९-२९ ।।
अपूर्वपुण्यप्राप्तिश्च सद्यो मोहिनि जायते ।।
स्नातानां शुचिभिस्तोयैर्गांगेयैः प्रयतात्मनाम् ।। ३९-३० ।।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ।।
अपहत्य तमस्तीव्रं यथा भात्युदये रविः ।। ३९-३१ ।।
तथापहत्य पाप्मानं भाति गंगाजलोक्षितः ।।
एकेनैवापि विधिना स्नानेन नृपसुन्दरि ।। ३९-३२ ।।
अश्वमेधफलं मर्त्यो गंगायां लभते ध्रुवम् ।।
अनेकजन्मसंभूतं पुंसः पापं प्रणश्यति ।। ३९-३३ ।।
स्नानमात्रेण गंगायाः सद्यः स्यात्पुण्यभाजनम् ।।
अन्यस्थानकृतं पापं गंगातीरे विनश्यति ।। ३९-३४ ।।
गंगातीरे कृतं पापं गङ्गास्नानेन नश्यति ।।
रात्रौ दिवा च संध्यायां गंगायां तु प्रयत्नतः ।। ३९-३५ ।।
स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः ।।
सर्वतीर्थेषु यत्पुण्यं सर्वेष्टायतनेषु च ।। ३९-३६ ।।
तत्फलं लभते मर्त्यो गङ्गास्नानान्न संशयः ।।
महापातकसंयुक्तो युक्तो वा सर्वपातकैः ।। ३९-३७ ।।
गङ्गास्नानेन विधिवन्मुच्यते सर्वपातकैः ।।
गङ्गा स्नानात्परं स्नानं न भूतं न भविष्यति ।। ३९-३८ ।।
विशेषतः कलियुगे पापं हरति जाह्नवी ।।
निहत्य कामजान्दोषान्कायवाक्चित्तसंभवान् ।। ३९-३९ ।।
गङ्गास्नानेन भक्त्या तु मोदते दिवि देववत् ।।
वर्षं स्नाति च गंगायां यो नरो भक्तिसंयुतः ।। ३९-४० ।।
तस्य स्याद्वैष्णवे लोके स्थितिः कल्पं न संशयः ।।
आमृत्युं स्नाति गंगायां यो नरो नित्यमेव च ।। ३९-४१ ।।
समस्तपापनिमुक्तः समस्तकुलसंयुतः ।।
समस्तभोगसंयुक्तो विष्णुलोके महीयते ।। ३९-४२ ।।
परार्द्धद्वितयं यावन्नात्र कार्या विचारणा ।।
गंगायां स्नाति यो मर्त्यो नैरंतर्येण नित्यदा ।। ३९-४३ ।।
जीवन्मुक्तः स चात्रैव मृतो विष्णुपदं व्रजेत् ।।
प्रातःस्नानाद्दशगुणं पुण्यं मध्यंदिने स्मृतम् ।। ३९-४४ ।।
सायंकाले शतगुणमनन्तं शिवसन्निधौ ।।
कपिलाकोटिदानाद्धि गंगास्नानं विशिष्यते ।। ३९-४५ ।।
कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता ।।
हरिद्वारे प्रयागे च सिंधुसंगे फलाधिका ।। ३९-४६ ।।
ये मदीयांशुसंतप्ते जले ते स्नांति जाह्नवि ।।
ते भित्वा मंडलं यांति मोक्षं चेति रवेर्वचः ।। ३९-४७ ।।
यो गृहे स्वे स्थितोऽपि त्वां स्नाने संकीर्तयिष्यति ।।
सोऽपि यास्यति नाकं वै इत्याह वरुणश्च ताम् ।। ३९-४८ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते गंगास्नानमाहात्म्यं नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।