नारदपुराणम्- उत्तरार्धः/अध्यायः ८१
वसुरुवाच ।।
यदेतत्कीर्तितं देवि तीर्थमाहात्म्यमुत्तमम् ।।
तल्लभस्व महाभागे चरित्वा तीर्थमंडलम् ।। ८१-१ ।।
अहं ब्रह्माणमामंत्र्य पितरं ते नरेश्वरि ।।
वृन्दावनमुपागम्य चरिष्यामि मृगैः सह ।। ८१-२ ।।
सूत उवाच ।।
इत्युक्त्वा मोहिनीं विप्रा वसुस्तस्याः पुरोहितः ।।
सत्कृत्य पूजितोऽभीक्ष्णं ब्रह्मलोकं ययौ तथा ।। ८१-३ ।।
स गत्वा तत्र धातारं ब्रह्मणं जगतां विधिम् ।।
प्रणम्य मोहिनीवृत्तं तं कार्त्स्न्येन न्यवेदयत् ।। ८१-४ ।।
तच्छ्रुत्वा वचनं ब्रह्मा ब्राह्मणस्य वसोर्द्विजाः ।।
प्रसन्नः प्राह तं वत्स सुकृतं हि त्वया कृतम् ।। ८१-५ ।।
या मया मोहिनी विप्र देवकार्यार्थमात्मजा ।।
नियुक्ताऽकृतकार्या सा त्वया शप्ता क्षयं गता ।। ८१-६ ।।
भूयो ममाज्ञया वत्सत्वया सजीविताधुना ।।
नीता कृतार्थतां तस्मात्कोऽन्यस्त्वत्तोऽधिकः कृती ।। ८१-७ ।।
यत्त्वया मह्ममाख्यातं मोहिनीवृत्तमुत्तमम् ।।
प्रसन्नस्तेन दास्यामि ब्रूहि तुभ्यं वरं द्विज ।। ८१-८ ।।
इत्युक्तः स द्विजस्तेन ब्रह्मणा लोकभाविना ।।
प्रणम्य वव्रे स वरं वृन्दारण्यनिवासनम् ।। ८१-९ ।।
तच्छ्रुत्वा जगतां धाता स्मयमानचतुर्मुखः ।।
प्राह प्रप्रन्नार्तिहरस्तथास्त्विति मुनीश्वराः ।। ८१-१० ।।
स प्रणम्य विधातारं वसुर्हृष्टमनास्ततः ।।
वृन्दावनमुपाव्रज्य तपश्चक्रे समाहितः ।। ८१-११ ।।
तपतस्तस्य तु वसोः संवत्सरगणा द्विजाः ।।
व्यतीयुः पंचसाहस्रास्ततस्तुष्टो हरिः स्वयम् ।। ८१-१२ ।।
गोपैः प्रियसखैर्द्वित्रैर्युतोऽभ्याह द्विजोत्तमम् ।।
ब्रूहि किं वृणुषे विप्र तुष्टोऽहं तपसा तव ।। ८१-१३ ।।
ततः स वसुरुत्थाय अष्टांगालिंगितावनिः ।।
प्राह वृन्दावने देव वासमिच्छामि सर्वदा ।। ८१-१४ ।।
अथ विष्णुर्द्विजश्रेष्ठा वरं तद्वांछितं ददौ ।।
तेनाभिवंदितो भूयो ह्यंतर्धानमुपागतः ।। ८१-१५ ।।
स द्विजस्तत्प्रभृत्येवं स्वेच्छारूपधरः स्थितः ।।
चिंतयन्सततं देवं वृन्दारण्यकुतूहलम् ।। ८१-१६ ।।
कदाचिद्यमुनातीरे निविष्टस्तं विचिंतयन् ।।
ददर्श नारदं प्राप्तं वृन्दारण्यं विधेः सुतम् ।। ८१-१७ ।।
स तं दृष्ट्वा नमस्कृत्य परमं गुरुमात्मनः ।।
प्रपच्छ विविधान्धर्मान् भगवद्भक्तिवर्द्धनान् ।। ८१-१८ ।।
स तेनैवं सुसम्पृष्टो नारदोऽध्यात्मदर्शनः ।।
तस्मै प्रोवाच निखिलं भविष्यच्चरितं हरेः ।। ८१-१९ ।।
एकदाहं गतो विप्र देवं कैसासवासिनम् ।।
द्रष्टुं प्रष्टुं भविष्यच्च वृंदावन रहस्यकम् ।। ८१-२० ।।
ततः प्रण्यम्य देवेशं ततः सिद्धैः समावृतम् ।।
महेशं स्वमहिव्याप्तसर्वब्रह्मांडगोलकम् ।। ८१-२१ ।।
अपृच्छमीप्सितं भद्रं स मां प्राह स्मयन्हरः ।।
वैधात्र यत्त्वया पृष्टं हरेर्वृत्तमनागतम् ।। ८१-२२ ।।
तत्ते ब्रवीमि यत्पूर्वं श्रुतं सुरभिवक्त्रतः ।।
एकदा सुरभिर्दृष्टा मया गोलोकमध्यगा ।। ८१-२३ ।।
स्वसंतानसमायुक्ता सुप्रीना स्निग्धमानसा ।।
ततः पृष्टा भविष्यार्थे गवां माता पयस्विनी ।। ८१-२४ ।।
मह्यं प्रोवाच देवर्षे भविष्यच्चरितं हरेः ।।
सुखमास्तेऽधुना देवः कृष्णो गधासमन्वितः ।। ८१-२५ ।।
गोलोकेऽस्मिन्महेशान गोपगोपीसुखावहः ।।
स कदाचिद्धरालोके माथुरे मंडले शिव ।। ८१-२६ ।।
आविर्भूयाद्भुतां क्रीडां वृंदाग्ण्ये करिष्यति ।।
वृपभानुसुता राधा श्रीदामानं हरेः प्रियम् ।। ८१-२७ ।।
सखायं विरजागेहद्वाःस्थं क्रुद्धा शपिष्यति ।।
ततः सोऽपि महाभाग राधां प्रतिशपिष्यति ।। ८१-२८ ।।
याहि त्वं मानुषं लोकं मिथः शापाद्धरां ततः ।।
प्राप्स्यत्यथ हरिः पश्चाद्ब्रह्मणा प्रार्थितः क्षितौ ।। ८१-२९ ।।
भूभारहरणायैव वासुदेवो भविष्यति ।।
वसुदेवगृहे जन्म प्राप्य यादवनंदनः ।। ८१-३० ।।
कंसासुरभिया पश्चाद्व्रजं नन्दस्य यास्यति ।।
तत्र यातो हरिः प्राप्तां पूतनां बालघातिनीम् ।। ८१-३१ ।।
वियोजयिष्यति प्राणैश्चक्रवातं च दानवम् ।।
वत्सासुरं महाकायं हनिष्यति सुरार्द्दनम् ।। ८१-३२ ।।
दमित्वा कालियं नागं यम्या उच्चाटयिष्यति ।।
दुःसहं धेनुकं हत्वा वकं नद्वदघासुरम् ।। ८१-३३ ।।
दावं प्रदावं च तेथा प्रलंबं च हनिष्यति ।।
ब्रह्मणमिंद्रं वरुणं प्रमत्तौ धनदात्मजो ।। ८१-३४ ।।
विमदान्स विधायेषो हनिष्यति वृपासुरम् ।।
शंखचू डंकेशिनं च व्योमं हत्वा व्रजे वसन् ।। ८१-३५ ।।
एकादश समास्तत्र गोपीभिः क्रीडायिष्यति ।।
ततश्च मथुरां प्राप्य रजकं संनिहत्य च ।। ८१-३६ ।।
कुब्जामृज्वीं ततः कृत्वा धनुर्भंक्त्वा गजोत्तमम् ।।
हत्वा कुवलयापीडं मल्लांश्चाणूरकादिकान् ।। ८१-३७ ।।
कंसं स्वमातुलं कृष्णो हनिष्यति ततः परम् ।।
विमुच्य पितरौ बद्धौ यवनेशं निहत्य च ।। ८१-३८ ।।
जरासंध भयात्कृष्णो द्वारकायां समुष्यति ।।
रुक्मिणीं सत्यभामां च सत्यां जाम्बवतीं तथा ।। ८१-३९ ।।
कैकेयीं लक्ष्मणां मित्रविंदां कालिंदिकां विभुः ।।
दारान्षोडशसाहस्रान्भौमं हत्वोद्वहिष्यति ।। ८१-४० ।।
पौंड्रकं शिशुपालं च दंतवक्त्रं विदूरथम् ।।
शाल्वं च हत्वा द्विविदं बल्वलं घातयिष्यति ।। ८१-४१ ।।
वज्रनाभं सुनाभं च सार्द्धं वै षट्पुरालयैः ।।
त्रिशरीरं ततो दैत्यं हनिष्यति वरोर्ज्जितम् ।। ८१-४२ ।।
कौखान्पांडवांश्चापि निमित्तमितरेतरम् ।।
कृत्वा हनिष्यति शिव भूभारहरमोत्सुकः ।। ८१-४३ ।।
यदून्यदुभिग्न्योन्यं संहबृत्य स्वकुलं हरिः ।।
पुनरेतन्निजं धाम समेष्यति च सानुगः ।। ८१-४४ ।।
एतत्तेऽभिहितं शंभो भविष्यच्चरितं हरेः ।।
गच्छ द्रक्ष्यसि तत्सर्वं जगतीतलगे हरौ ।। ८१-४५ ।।
तच्छ्रुत्वां सुरभेर्वाक्यं भृशं प्रीतो विधातृज ।।
स्वस्थानं पुनरायातस्तुभ्यं चापि मयोदितम् ।। ८१-४६ ।।
त्वं च द्रक्ष्यसि कालेन चरितं गोकुलेशितुः ।।
तच्छ्रुत्वा शूलिनो वाक्यं वसुर्दृष्टतनूरुहः ।। ८१-४७ ।।
गायन्माद्यन् विभुं तंत्र्या रमयाम्यातुरं जगत् ।।
एतद्भविष्यत्कथितं मया तुभ्यं द्विजोत्तम ।। ८१-४८ ।।
यथा तु गौतमस्तद्वदहं चापि हिते रतः ।।
सूत उवाच ।।
इत्युक्त्वा नारदस्तस्मै वसवे स द्विजन्मने ।। ८१-४९ ।।
जगाम वीणा रणयंश्चिन्तयन्यदनंदनम् ।।
स वसुस्तद्वचः श्रुत्वा व्रजे सुप्रीतमानसः ।। ८१-५० ।।
उवास सर्वदा विप्राः कृष्णक्रीडेक्षणोत्सुकः ।। ८१-५१ ।।
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे वसुचरित्रनिरूपणं नामैकाशीतितमोऽध्यायः ।। ८१ ।।