नारदपुराणम्- उत्तरार्धः/अध्यायः ७
यम उवाच ।।
प्राप्तं तात मया सार्द्धं वेदांघ्रिनमने हितम् ।।
नाहं गच्छामि योगांतं पुनरेव जगत्पते ।। ७-१ ।।
प्रशासति महीं भूपेहाटकांगदसंज्ञके ।।
तमेकं देवताश्रेष्ठं संप्राप्ते हरिवासरे ।। ७-२ ।।
यदि चालयसे धैर्यात्ततोऽहं तव किंकरः ।।
स मे शत्रुर्महान्देव तेन लुप्तः पटो मम ।। ७-३ ।।
तमेकं भोजयित्वा तु कार्ष्णेऽहनि महीपतिम् ।।
कृतकृत्यो भविष्यामि गयापिंडप्रदो यथा ।। ७-४ ।।
अद्य प्रभृति देवेशोयैर्नरैः संस्मृतो हरिः ।।
उपोषितः स्तुत्वोपि न नियम्या मया हि ते ।। ७-५ ।।
हरिरिति सहसा ये संगृणंतिच्छलेन जननिजठरमार्गात्ते विमुक्ते विमुक्ता हि मर्त्याः ।।
मम पटविलिपिं ते नो विशंति प्रवीणा दिविचरवरसंघैस्ते नमस्या भवन्ति ।। ७-६ ।।
सौतिरुवाच ।।
वैवस्वतस्य कार्येण तत्सम्मानचिकीर्षया ।।
चिंतयामास देवेशो विरिंचिः कुशलांछनः ।। ७-७ ।।
चिंतयित्वा क्षणं देवः सर्वभूतैश्च भूषितः ।।
भूतत्रासनमात्रं तु रूपं स जगृहे विभुः ।। ७-८ ।।
तस्मिन्नुत्पादयामास प्रमदां लोकमोहिनीम् ।।
सर्वयोषिद्वरा देवीमनसा निर्भिता बभौ ।। ७-९ ।।
सा बभूवाग्रतस्तस्य सर्वालंकारभूषिता ।।
दृष्ट्वा पितामहस्तां तु रूपद्रविणसंयुताम् ।। ७-१० ।।
प्राहेमान् पश्यतो ह्येतां स्वकान्वै काममोहितान् ।।
प्रत्यवायभयाद्ब्रह्या चक्षुषी संन्यमीलयत् ।। ७-११ ।।
सरागेणेह मनसा सरागेणेह चक्षुषा ।।
चिंतयेद्वीक्षयेद्वापि जननीं वा सुतामपि ।। ७-१२ ।।
वधूं वा भ्रातृजायां वा गुरोभार्यां नृपस्त्रियम् ।।
स याति नरकं घोरं संचिंत्य श्वपचीमपि ।। ७-१३ ।।
दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः ।।
तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा ।। ७-१४ ।।
प्रसंगे दशसाहस्रं पुण्यमायाति संक्षयम् ।।
पुण्यस्य संक्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम् ।। ७-१५ ।।
तस्मान्न चिंतयेत्प्राज्ञो ह्येता रागेण चक्षुषा ।।
जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः ।। ७-१६ ।।
सुतैस्त्वभ्यंगकरणे पुनर्यौवनसंस्थितैः ।।
षष्ट्यतीतां सुतोऽभ्यंगे नियुञ्जीत विचक्षणः ।। ७-१७ ।।
वृद्धो वापि युवा वापि न पादौ धावयेद्वधूम् ।।
उभयोः पतनं प्रोक्तं रौरवेऽङ्गारसंचये ।। ७-१८ ।।
या वधूर्दर्शयेदंगं विवृतं श्वशुरस्य हि ।।
पाणिपादाहता राजन् क्रिमिभक्ष्या भवेत्तु सा ।।
वधूहस्तेन यः पापः पादशौचं करोति हि ।। ७-१९ ।।
स्नानं वाप्यथवाभ्यंगं तस्याप्येवंविधा गतिः ।।
सूचीमुखैः कृष्णवक्रैःर्भुज्यते कल्पसंस्थितिम् ।। ७-२० ।।
तस्मान्न वीक्षयेन्नारीं सुतां वापि वधूं नरः ।।
साभिलाषेण मनसा तत्क्षणात्पतते नरः ।। ७-२१ ।।
एवं संचिंतयित्वा च सूक्ष्मां दृष्टिं चकार ह ।।
यदिदं वर्तुलं वक्त्रं सोन्नतं दृश्यते शुभम् ।। ७-२२ ।।
अस्थिपंजरमेतद्धि चर्ममांसावृतं त्विति ।।
वसा मेदोऽथ नयने सोज्वले स्त्रीषु संस्थिते ।। ७-२३ ।।
अत्युच्छ्रितमिदं मांसं स्तनयोः समवस्थितम् ।।
निम्नांशतां दर्शयति त्रिवली जठरस्थिता ।। ७-२४ ।।
पुनरेवाधिकं क्षिप्तं मांसं जघनवत्मनि ।।
मूत्रद्वारमिदं गुह्यं यत्र मुग्धं जगत्त्रयम् ।। ७-२५ ।।
अपानवायुना जुष्टं सदैव प्रतिकुत्सितम् ।
भस्त्रावर्गाधिकं क्षिप्तं मांसं जघनवर्त्मनि ।। ७-२६ ।।
कृतं यद्विद्द्विधा काष्ठं तद्वज्जंघा द्विधा ध्रुवम् ।।
शुक्रास्थिपूरितं मांसैः कथं सुन्दरतां व्रजेत् ।। ७-२७ ।।
मांसमेदोवसासारे किं सारं देहिनां वद ।।
विष्ठामूत्रमलैः पुष्टे को देहे रज्यते नरः ।। ७-२८ ।।
एवं विचार्य बहुधा विरिंचिर्ज्ञानचक्षुषा ।।
धैर्यं कृत्वा च नारीं तामुवाच गजगामिनीम् ।। ७-२९ ।।
यथाहि मनसा सृष्टा मया त्वं वरवर्णिनी ।।
तथा भूतासि चार्वंगि मानसोन्मादकारिणी ।। ७-३० ।।
तमुवाच तदा सा तु प्रणम्य चतुराननम् ।।
पश्य मूर्छान्वत्नांथ जगत्स्थावरजंगमम् ।। ७-३१ ।।
मोहितं मम रूपेण सयोगि यदकल्मषम् ।।
स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात् ।। ७-३२ ।।
भवंतमादितः कृत्वा न क्षोभं याति पद्मज ।।
आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता ।। ७-३३ ।।
स्तवनान्नरकं याति विशुद्धोऽपि च मानवः ।।
तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना ।। ७-३४ ।।
साहं सृष्टा त्वया ब्रह्मन् कस्यचित्क्षोभणाय वै ।।
तमादिश जगन्नाथ क्षोभयिष्ये न संशयः ।। ७-३५ ।।
मां दृष्ट्वापि क्षितौ देव भूधरश्चापि मुह्यति ।।
किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति ।। ७-३६ ।।
तथा चोक्तं पुराणेषु नारीवीक्षणवर्णनम् ।।
उन्मादकरणं नॄणां दुश्चरव्रतनाशनम् ।। ७-३७ ।।
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेंद्रियाणां लज्जां तावद्विधत्ते विनयमपि समालंबते तावदेव ।।
भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतंति ।। ७-३८ ।।
धिक्तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति ।।
भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशांके ।। ७-३९ ।।
पीतं हि मद्यं मनुजेन नाथ करोति मोहं सुविचक्षणस्य ।।
स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि ।। ७-४० ।।
मोहनार्थं त्वया सृष्टा नराणां प्रपितामह ।।
तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम् ।। ७-४१ ।।
ब्रह्मोवाच ।।
सत्यमुक्तं त्वया देवि नासाध्यं भुवनत्रये ।।
नागनासोरु सुभगे मत्तमातंगगामिनि ।। ७-४२ ।।
या त्वं दूषयसे चेतो ममापि वरवर्णिनि ।।
तन्मया सुगृहीतं तु कृतं ज्ञानांकुशेन हि ।। ७-४३ ।।
सा त्वं कथं न लोकानां चेतांस्यपहरिष्यसि ।।
सत्यमेतद्विशालाक्षि तव रूपं विमोहनम् ।। ७-४४ ।।
सामरं हि जगत्सर्वं निश्चेष्टमपि लक्षये ।।
यन्निमित्तं मया सृष्टा तत्साधय वरानने ।। ७-४५ ।।
वैदिशे नगरे राजा नाम्ना रुक्मांगदः क्षितौ ।।
यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे ।। ७-४६ ।।
यस्यां धर्मांगदो जातो पितुरत्यधिकः सुतः ।।
दशनागायु तबलः प्रतापेन रविर्यथा ।। ७-४७ ।।
यः क्षांत्या धरया तुल्यो गांभीर्ये सांगरोपमः ।।
तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः ।। ७-४८ ।।
त्यागे वैरौचनिर्यद्वद्गतौ हि पवनोपमः ।।
सौम्यत्वे शशितुल्यस्तु रूपवान् मन्मथो यथा ।। ७-४९ ।।
जीवभार्गवयोस्तुल्यो यो नीतौ राजनन्दनः ।।
पित्रा भुक्तं समस्तैकं जंबूद्वीपं वरानने ।। ७-५० ।।
धर्मांगदेन द्वीपानि संजितान्यपराण्यपि ।।
पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम् ।। ७-५१ ।।
स्वयं प्राप्ताः परित्यक्ता येन भार्याः सहस्रशः ।।
यो न वाक्याद्विचलते सहैव हि पितुर्गृहे ।। ७-५२ ।।
यस्य वै त्रीणि सुभगे मातॄणां चारुहासिनि ।।
शतानि कनकाभासे त्वविशेषेण पश्यति ।।७-५३ ।।
तस्य धर्मप्रधानस्य पुत्ररत्नांचितस्य च ।।
समीपं गच्छ चार्वंगि मंदरे पर्वतोत्तमे ।। ७-५४ ।।
तत्र वत्स्यति राजा वै तुरगेणातिवाहितः ।।
तव गीतेन चार्वंगि मोहितोऽश्वं विहाय च ।। ७-५५ ।।
अधिरुह्य गिरेः पृष्ठं स संगं यास्यति त्वया ।।
तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह ।। ७-५६ ।।
अहं भार्या भविष्यामि तव राजन्न संशयः ।।
यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम् ।। ७-५७ ।।
मोहितस्तव रूपेण तथैव प्रतिपद्यते ।।
यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै ।। ७-५८ ।।
वाच्यः कतिपयैः सुभ्रु दिनैरपगतैस्त्विति ।।
सुरते तव चार्वंगि यदा मुग्धो हि लक्ष्यते ।। ७-५९ ।।
तदा प्रहस्य राज्ञो वै स्मारणीयं पुरा वचः ।।
यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने ।। ७-६० ।।
तत्पालयमहीपाल मन्येऽहं समयस्त्विति ।।
एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात् ।। ७-६१ ।।
पालयामि न संदेहो ब्रूहि किं ते ददाम्यहम् ।।
एवमुक्ते तु वचने त्वया वाच्यो वरानने ।। ७-६२ ।।
रुक्मांगदो महीपालो धर्मांगदपिता शुभे ।।
नोपवासस्त्वया कार्यो जातु वै हरिवासरे ।। ७-६३ ।।
सुरतस्रं सकारी मे ह्युपवासो भवेत्प्रिय ।।
सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते ।। ७-६४ ।।
पर्वापेक्षी दुराचारः स याति नरकं ध्रुवम् ।।
त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात् ।। ७-६५ ।।
नाहं निमेषमप्येकं स्थातुं शक्ता त्वया विना ।।
श्राद्धकाले तु संप्राप्ते उपाविष्टैर्द्विजैः किल ।। ७-६६ ।।
याचते संगमं भार्या यदि भोग्या तदैव सा ।।
एवं संबोध्यमानोऽपि यदा राजा वचस्तव ।। ७-६७ ।।
न करिष्यति चार्वंगि तदा वाच्यं परं वचः ।।
यदि न त्यजसे राजन्नुपवासं हरेर्दिने ।। ७-६८ ।।
स्वहस्तेन शिरश्च्छित्वा स्वपुत्रस्य वरासिना ।।
धर्मांगदस्य राजेंद्र ममोत्संग्क्षिप स्वयम् ।। ७-६९ ।।
यद्येतन्मत्प्रियं त्वं हि न करोषि महीपते ।।
धर्मक्षीणो भवान् गंता नरके नात्र संशयः ।। ७-७० ।।
श्रुत्वा त्वदीयं वचनं वरांगने न हिंस्यते प्राणसमं च पुत्रम् ।।
संगृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरेऽसौ ।। ७-७१ ।।
ततो जनो यास्यति पूर्ववच्च यमांतिकं किंकरपाशबद्धः ।।
लिपिप्रमाणं नरकाधिवासी भविष्यते साधु कृतं त्वया हि ।। ७-७२ ।।
अथ यदि निहंति तनयं राजा सत्येन संयुतः श्रीमान् ।।
निःशेषामरपूज्यं व्रजति पदं पद्मनाभस्य ।। ७-७३ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीं प्रति ब्रह्मवाक्यं नाम सप्तमोऽध्यायः ।। ७ ।।