नारदपुराणम्- उत्तरार्धः/अध्यायः १८
राजोवाच ।।
नाधिकारो मया मीरु कृतो नृपपरिग्रहे ।।
श्रमातुरस्य निद्रा मे प्रवृत्ता मुखदायिनी ।। १८-१ ।।
धर्मांगदं समाभाष्य मोहिनीं नय मंदिरम् ।।
पूजयस्व यथान्या ममेषा पत्नी प्रिया मम ।। १८-२ ।।
निजं कमलपत्राक्ष सर्वरत्नविभूषितम् ।।
निर्वातवातसंयुक्तं सर्वर्तुसुखदायकम् ।। १८-३ ।।
एवमादिश्य तनयमहं निद्रामुपागतः ।।
शयनं प्राप्य कष्टात्ते अभाग्यो हि धनं यथा ।। १८-४ ।।
विबुद्धमात्रः सहसा त्वत्समीपमुपागतः ।।
यद्व्रवीषि वचो देवि तत्करोमि न संशयः ।। १८-५ ।।
मोहिन्युवाच ।।
परिसांत्वय राजेंद्र इमान्दारान्सुदुःखितान् ।।
ममोद्वाहेन निर्विण्णान्निराशान्कामभोगयोः ।। १८-६ ।।
ज्येष्ठानां रूपयुक्तानां कलत्राणां विशांपते ।।
मूर्घ्नि कीलं कनिष्ठाख्यं यो हि राजन्निखानयेत् ।। १८-७ ।।
न सद्गतिर्भवेत्तस्य न त सा विंदते परम् ।।
पतिव्रताश्रुदग्धायाः का शांतिर्मे भविष्यति ।। १८-८ ।।
जनितारं हि मे भस्म कुर्य्युर्देव्यः पतिव्रताः ।।
किं पुनः प्राकृतं भूप त्वादृशीं तथा ।। १८-९ ।।
संध्यावलीसमा नारी त्रैलोक्ये नास्ति भूमिप ।।
तव स्नेहनिबद्धांगी संभोजयति षड्रसैः ।। १८-१० ।।
प्रियाणि चाटुवाक्यानि वदती तव गौववात् ।।
एवंविधा हि शतशो नार्यः संति गृहे तव ।। १८-११ ।।
यासां न पादरजसा तुल्याहं भूपते क्वचित् ।।
मोहिनी वचनं श्रुत्वा व्रीडितो ह्यभवन्नृपः ।। १८-१२ ।।
सपुत्रायाः समीपे तु ज्येष्ठाया नृपतिस्तदा ।।
इंगितज्ञः सुतो ज्ञात्वा दशावस्थागतं नृपम् ।। १८-१३ ।।
पितरं कामसंतप्तं मोहिन्यर्थे विमोहितम् ।।
मातृः सर्वाः समाहूय संध्यावलिपुरोगमाः ।। १८-१४ ।।
कृतांजलिपुटो भूत्वा एवमाह प्रिय वचः ।।
विमोहिनी मे जननी नवोढा ब्राह्मणः सुता ।। १८-१५ ।।
सा च प्रार्थयते देव्यो राजानं रहसिस्थितम् ।।
आत्मना सह खेलार्थं तन्मोदध्वं सुहर्षिताः ।। १८-१६ ।।
मातर ऊचुः ।।
कोऽनुमोदयते पुत्र सर्पभक्षणमात्मनः ।।
को हि दीपयते वह्निं स्वदेहे देहिनां वर ।। १८-१७ ।।
को भक्षयेद्विषं घोरं कश्छिंद्यादात्मनः शिरः ।।
कस्तरेत्सागरं बद्ध्वा ग्रीवायां दारुणां शिलाम् ।। १८-१८ ।।
को गच्छेद्द्वीपिवदनं कः केशान्सुहरेर्हरेत् ।।
को निषीदति धारायां खङ्गस्या काशभासिनः ।। १८-१९ ।।
कानुमोदयते भर्त्रा सपत्न्याः क्रीडनं किल ।।
सर्वस्यापि प्रदानेन नैतन्मनसि वर्तते ।। १८-२० ।।
वरं हि छेदनं मूर्ध्नस्तत्क्षणात्तु वरासिना ।।
का दृष्ट्या दयितं कांतं निरीक्षेदन्ययाहृतम् ।। १८-२१ ।।
का सा सीमंतिनी लोके भवेदेतादृशी क्वचित् ।।
आत्मप्राणसमं कांतमन्यस्त्रीकुचपीडनम् ।। १८-२२ ।।
संश्रुत्य सहते या तु किं पुनः स्वेन चक्षुषा ।।
सर्वेषामेव दुःखानां दुःखमेतदनन्तकम् ।। १८-२३ ।।
यद्भर्तान्यांगनासंक्तो दृश्यते स्वेन चक्षुषा ।।
वरं सर्वा मृताः पुत्र युगपन्मातरस्तव ।। १८-२४ ।।
न तु मोहिनिसंयुक्तो दृश्योऽयं नृपतिः पतिः ।।
धर्मांगद उवाच ।।
यदि मे न पितुः सौख्यं करिष्यथ शुभाननाः ।। १८-२५ ।।
विषमालोड्य पास्यामि युष्मत्सौख्यं मृते मयि ।।
कर्मणा मनसा वाचा या पितुर्दुःखमाचरेत् ।। १८-२६ ।।
सा मे शत्रुर्वधार्हास्ति यदि संध्यावली भवेत् ।।
सर्वासां साधिका देवी मोहिनी जनकप्रिया ।। १८-२७ ।।
क्रीडार्थमागता बाला मन्दराचलमन्दिरात् ।।
तत्पुत्रवचनं श्रुत्वा वेपमाना हि मातरः ।। १८-२८ ।।
ऊचुः सगद्गदां वाचं हितार्थं तनयस्य हि ।।
अवश्यं तव वाक्यं हि कर्तव्यं न्यायसंयुतम् ।। १८-२९ ।।
किं तु दानप्रदो भूत्वा मोहिनीं यातु ते पिता ।।
यो भार्यामुद्वहेद्भर्ता द्वितीयामपरामपि ।। १८-३० ।।
ज्येष्ठायै द्विगुणं तस्या दद्यच्चैवान्यथा ऋणी ।।
अनुज्ञाप्य यदा भर्ता ज्येष्ठामन्यां समुद्वहेत् ।। १८-३१ ।।
तदा ज्येष्ठाभिलषितं देयमाहुः पुराविदः ।।
ज्येष्ठया सहितः कुर्यादिष्टापूर्तं नरोत्तमः ।। १८-३२ ।।
एष धर्मोऽन्यथाऽन्यायो जायते धर्मसंक्षयः ।।
श्रुत्वा तु मातृवचनं प्रहष्टेनान्तरात्मनो ।। १८-३३ ।।
एकैकस्यै ददौ साग्रां कोटिं कोटिं सुतस्तदा ।।
सहस्रं नगराणां च ग्रामाणां प्रददौ तथा ।। १८-३४ ।।
चतुरश्वतरीभिश्चपृथग्युक्ता नृपात्मजः ।।
एकैकस्य ददावष्टौ रथान्कांचनमालिनः ।। १८-३५ ।।
वाससामयुतं प्रादाद्येषां मूल्यं शताधिकम् ।।
शुद्धस्य मेरुजातस्य अक्षयस्य नुपात्मजः ।। १८-३६ ।।
कांचनस्य ददौ लक्षमेकैकं प्रतिमातरम् ।।
दासानां च शतं साग्रं दासीनां च नृपात्मजः ।। १८-३७ ।।
धेनूनां घटदोग्ध्रीणामेकैकस्यै तथायुतम् ।।
युगंधराणां भद्राणां शतानि दश वै पृथक् ।। १८-३८ ।।
दशप्रकारं नृपते धान्यं च प्रददौ सुतः ।।
वाटीनां तु सहस्राणां शतं प्रादाद्धसन्निव ।। १८-३९ ।।
कुंभायुतं सर्पिषस्तु तैलस्य च पृथग्ददौ ।।
अजाविकमसंख्यातमेकैकस्यै न्यवेदयत् ।। १८-४० ।।
सहस्रेण सहस्रेण सुवर्णस्य व्यभूषयत् ।
आखंडलास्त्रयुक्तस्य भूषणस्य सुभक्तिमान् ।। १८-४१ ।।
धात्रीप्रमाणैर्हरैश्च मौक्तिकैर्दीप्तिसंयुतैः ।।
प्रददौ संहतान्कृत्वा वलयान्पंच सप्त च ।। १८-४२ ।।
पंचाशच्च शते द्वे तु भौक्तिकानि महीपते ।।
संध्यावल्यां स्थितानीह शीतांशुप्रतिमानि च ।। १८-४३ ।।
एकैकस्यै ददौ पुत्रो हारयुग्मं मनोहरम् ।।
कुंकुमं चंदनं भूरि कर्पूरं प्रस्थसंख्यया ।। १८-४४ ।।
कस्तूरिकां तथा ताभ्यो भूयसीं प्रददौ सुतः ।
मातॄणामविशेषेण पितुः सुखमभीप्सयन् ।। १८-४५ ।।
भाजनानि विचित्राणि जलपात्राण्यनेकशः ।।
घृतक्षीरस्य पात्राणि पेयस्य विविधस्य च ।। १८-४६ ।।
चतुर्द्दशशतं प्रादात्सहस्रेण समन्वितम् ।।
स्थालीनां कांचनीनां हि सकुंभानां नृपात्मजः ।। १८-४७ ।।
एकैकस्यै ददौ भूप शतानि त्रीणि पंच च ।।
करेणूनां सवेगानां मांसविक्रांतकंधराम् ।। १८-४८ ।।
विंशतिं विंशतिं प्रादादुष्ट्रीणां च शतं शतम् ।।
शिबिकानां सवेषाणां पुंसां पीवरगामिनाम् ।। १८-४९ ।।
प्रददौ दश सप्ताश्वान्मातॄणां सुखयायिनः ।।
एवं दत्वा बहुधनं बह्वीभ्यो नृपनंदनः ।। १८-५० ।।
धन्यो धनपतिप्रख्यश्चक्रे तासां प्रदक्षिणाः ।।
कृतांजलिपुटो भूत्वा इदं वचनमब्रवीत् ।। १८-५१ ।।
ममोपरोधात्प्रणतस्य मूर्ध्नापतिं समुद्दिश्य यथा भवत्यः ।।
ब्रुवंतु सर्वाः पितरं ममाद्य स्वैरेण संभुंक्ष्व नरेश मोहिनीम् ।। १८-५२ ।।
न चास्मदीया भवता किलेर्ष्या स्वल्पापि कार्या मनसि प्रतीता ।।
विमोहिनीं ब्रह्मसुतां सुशीलां रमस्व सौख्येन रहः शतानि ।। १८-५३ ।।
तत्पुत्रवाक्यं हि निशम्य सर्वाः संहृष्टलोम्न्यो नृपनाथमूचुः ।।
स्वभूदुहित्रा सुचिरं रमस्व विदेहपुत्र्येव रघुप्रवीरः ।। १८-५४ ।।
न शल्यभूता कुशकेतुपुत्री त्वत्संगमाद्विद्धि न संशयोऽत्र ।।
पुत्रौजसा दुःखविमुक्तभावात्समीरितं वाक्यमिदं प्रतीहि ।। १८-५५ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मातृसन्मानं नाम अष्टादशोऽध्यायः ।। १८ ।।