प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

यम उवाच ।।
विबुधेश जगन्नाथ चराचरगुरो प्रभो ।।
मोहिनी निष्फला जाता वंध्या स्त्री जनने यथा ।। ३५-१ ।।

रुक्मांगदप्रणीतेन मार्गेण कुशलांछन ।।
लोकः प्रयाति वैकुंण्ठं न मां कश्चित्प्रपद्यते ।। ३५-२ ।।

गतेऽपि भूमिनाथेशे देहं देवस्य चक्रिणः ।।
तथापि सर्वभूतानां न बुद्धिः परिवर्तते ।। ३५-३ ।।

उपोष्य वासरं विष्णोराकुमारात्तु मानवाः ।।
प्रयांति परमं लोकं लुप्तपापाः पितामह ।। ३५-४ ।।

पुत्री ते व्रीडिता देवी मोहिनी मोहमागता ।।
नायाति तव सामीप्यं न भुंक्ते लोकगर्हिता ।। ३५-५ ।।

निर्व्यापारस्त्वहं जातः किं करोमि प्रशाधि माम् ।।
रविपुत्रवचः श्रुत्वा प्रोवाच कमलासनः ।। ३५-६ ।।

गच्छामः सहिताः सर्वे मोहिनीं प्रतिबोधितुम् ।।
मोहिन्यां प्रतिबुद्धायां करिष्यामो दिवाकरे ।। ३५-७ ।।

तव कार्यं न संदेहः संभ्रमस्त्यज्यतामयम् ।।
ततो देव गणाः सर्वे शतक्रतुपुरोगमाः ।। ३५-८ ।।

ब्रह्मणा सहिताः पृथ्वीं विमानैः सूर्यसप्रभैः ।।
समायाता महीपाल नारीं तां प्रतिबोधितुम् ।। ३५-९ ।।

ते विमानैः समंतात्तु परिवार्य शुभाननाम् ।।
तेजोहीनां निरानंदां शुष्कतोयां नदीमिव ।। ३५-१० ।।

शशिहीनां निशां भूप ऋत्विग्घीनां क्रियामिव ।।
पराजितो यथा मर्त्यः प्रम्लानकुसुमं यथा ।। ३५-११ ।।

निवृत्तोत्सववेदीव विद्रुमं धवलं यथा ।।
गतशालिस्तु केदारो निष्प्र यथा ।। ३५-१२ ।।

मंड वा गतोद्वा यथा सरः ।।
मंथानं नवनीते वा उद्धृते धरणीपते ।। ३५-१३ ।।

असंस्कृता यथा वाणी मर्दिता च यथा चमूम् ।।
हत नाथां तु युवतीं धान्यहीनां प्रजां यथा ।। ३५-१४ ।।

मंत्रहीनविधिं युद्धं धर्मं च दयया विना ।।
पृथ्वीं भूपालहीना वा मंत्रही नोयथा नृप ।। ३५-१५ ।।

धनधान्यविहीनं वा गृहं नृपवरोत्तम ।।
जलहीनं यथा कुंभं पंकस्थं गोपतिं यथा ।। ३५-१६ ।।

गृहस्थं भार्यया हीनं राष्ट्रभ्रष्टं च भूपतिम् ।।
भग्नक्रियं यथा वैद्यं भग्नशाखं यथा द्रुमम् ।। ३५-१७ ।।

तेजोहीनं यथागारं निर्जलं वा घनं यथा ।।
विधूम इव सप्तार्चिर्विरश्मिरिव भास्करः ।। ३५-१८ ।।

मतिभ्रष्टो यथा मर्त्यः पर्वसंगी यथा नरः ।।
अतृप्तः कांतया कांतः पन्नगश्च विषोज्झितः ।। ३५-१९ ।।

लूनपक्षो यथा पक्षी वृत्तिहीनो यथा द्विजः ।।
शिरोभ्रष्टा यथा माला पर्वतो धातुवर्जितः ।। ३५-२० ।।

प्रभ्रष्टलिपि शास्त्रं वा ऋग्यजुर्विस्वरं यथा ।।
स्वरहीनं यथा साम पद्महीनं यथा सरः ।। ३५-२१ ।।

यथा मार्गं तृणै रुद्धं पद्मं पत्रविवर्जितम् ।।
ज्ञानं ममत्वसंयुक्तं पुमांसं प्रकृतिं विना ।। ३५-२२ ।।

सांख्यानि तत्त्वहीनानि धर्मं दंभान्वितं यथा ।।
तेजोहीनां तथापश्यन् मोहिनीं ते दिवौकसः ।। ३५-२३ ।।

ध्यायमानां निरुत्साहां दृश्यमानां जनैः प्रभो ।।
आक्रोशवचनैः क्रूरैः पुत्रहत्यासमन्विताम् ।। ३५-२४ ।।

दुःशीलां धर्मसंत्यक्तां तद्वाक्यपरिमोषिताम् ।।
स्ववाक्यपालनां चंडामुचुर्देवाः समागताः ।। ३५-२५ ।।

मां शोकं कुरु वामोरु पौरुषं हि त्वया कृतम् ।।
नहि माधवभक्तानां विद्यते मानखण्डनम् ।। ३५-२६ ।।

सा त्वं हरिणशावाक्षि देवकार्यार्थमागता ।।
तन्न सिद्धं वरारोहे स प्रयातोऽधुनाभवम् ।। ३५-२७ ।।

विघ्नविध्वंसिनीं पूर्वं कृता रुक्मांगदेन हि ।।
एकादशी महापुण्या मोहिनी माधवे सिते ।। ३५-२८ ।।

संवत्सरं विशालाक्षि कृच्छ्रपादप्रपूजिता ।।
तस्यैवाध्युष्टिरतुला यत्सत्याचच्चलितो न हि ।। ३५-२९ ।।

विघ्नराज्ञी तु वै नारी लोकेषु परिगीयते ।।
कर्मणा मनसा वाचा पुत्रव्यापादने मतिम् ।। ३५-३० ।।

कृत्वा चोद्धृत्य खङ्गं च त्यक्त्वा स्नेहं सुदूरुरतः ।।
तादृशं निकषं प्रोक्ष्य भगवान्मधुसूदनः ।। ३५-३१ ।।

हनिष्यति प्रियं पुत्रं न भुङ्क्ते हरिवासरे ।।
पुत्रस्य च प्रियायाश्च भावं प्रेक्ष्य नृपस्य च ।। ३५-३२ ।।

विष्णुना परेतुष्टेन नीताः स्वभवने त्रयः ।।
सदेहाः क्षीणकर्माणोह्यंगारोऽग्निरिवाहितः ।। ३५-३३ ।।

फलं कर्मणि चारब्धे यदि देवी न सिद्ध्यति ।।
सर्वयत्नेन सुभगे दोषः कोऽत्र तवाधुना ।। ३५-३४ ।।

एतस्माद्वरदाः सर्वे संप्राप्ता विबुधाः शुभे ।।
सिद्धौ वाप्यथ वासिद्धौ कर्मकृत्स्याद्दृथा न हि ।। ३५-३५ ।।

भर्तव्यो भृत्यवर्गश्च भूभुजा धर्ममिच्छता ।।
सद्भावे घटमानस्य यदि कर्म न सिद्ध्यति ।। ३५-३६ ।।

देयं वेतनमात्रं तु न च तुष्टिफलं भवेत् ।।
यो न तस्मै प्रयच्छेत जीवनं जीवनाय वै ।। ३५-३७ ।।

गोवधं समवाप्नोति स नरो नात्र संशयः ।।
तस्माद्देयं वरारोहे अभीष्टं वरसुन्दरि ।। ३५-३८ ।।

सद्भावेन कृते सम्यग्विघ्नं कार्यं दिवौकसाम् ।।
किं न कुर्वंति विबुधास्त्वया सह वरानने ।। ३५-३९ ।।

द्वादश्यास्तेजसा भग्ना यामाहुर्विघ्रनाशिनीम् ।।
विबुधैरेवमुक्ता तु मोहिनी लोकमोहिनी ।। ३५-४० ।।

उवाच सा निरानन्दा पतिहीनातिदुःखिता ।।
धिगिदं जीवितं मह्यं येन कार्यं न साधितम् ।। ३५-४१ ।।

न कृतो जनसंबाधो यममार्गोऽमराधिपाः ।।
न तु लुप्तं हरिदिनं न भुक्तं हरिवासरे ।। ३५-४२ ।।

भूभुजा तेन वीरेण कृतः पुत्रवधो मुदा ।।
गतो मूर्ध्नि पदं दत्वा मम रुक्माङ्गदो हरिम् ।। ३५-४३ ।।

अप्रमेयगुणं विष्णुं निर्मलं निर्मलाश्रयम् ।।
हंसं शुचिपदं व्योम प्रणवं बीजमव्ययम् ।। ३५-४४ ।।

निराकारं निराभासं निष्प्रपंचं निरंजनम् ।।
शून्यं वियत्स्वरूपं च ध्येयध्यानविवर्जितम् ।। ३५-४५ ।।

अस्ति नास्तीति यं प्राहुर्न दूरे नापि चान्तिके ।।
परं धाम मनोग्राह्यं पुरुषाख्यं जगन्मयम् ।। ३५-४६ ।।

हृत्पंकजसमासीनं तेजोरूपंसनातनम् ।।
तस्मिँल्लयमनुप्राप्ते किं नु मे जीविते फलम् ।। ३५-४७ ।।

असाधिते तु यः कार्ये नरो गृह्णाति वेतनम् ।।
स्वामिनं तु परित्यज्य प्रयाति नरकं ध्रुवम् ।। ३५-४८ ।।

न साधयंति ये कार्यं स्वामिनां तु दिवौकसः ।।
भृत्या वेतनभोक्तारो जायंते भूतले हयाः ।। ३५-४९ ।।

असाधिनीयं कार्यस्य भर्तृपुत्रविनाशिनी ।।
कथं वरं तु गृह्णामि भवतां नाकवासिनाम् ।। ३५-५० ।।

देवा ऊचुः ।।
ब्रूहि मोहिनि दास्यामि यत्ते हृदि समीहितम् ।।
अनृणास्तु भविष्यामः कृत्वा चोपकृतिं तव ।। ३५-५१ ।।

परिश्रमः कृतो देवि त्वया राजप्रयोजने ।।
तस्य त्वं फलभाग्देवि तादृशार्थे कृतस्य तु ।। ३५-५२ ।।

एवमुच्चरमाणानां देवतानां महीपते ।।
नृपतेराजगामाथ पुरोधाः पावकप्रभः ।। ३५-५३ ।।

उषितो जलमध्ये तु प्राणायामरतो मुनिः ।।
द्वादशाब्दे ततः पूर्णे निर्गतो जलमध्यतः ।। ३५-५४ ।।

निर्गतेन श्रुतं तेन मोहिनीचेष्टितं नृप ।।
सक्रोधो मुनिशार्दूलो देववृंदमुपागतः ।। ३५-५५ ।।

उवाच विबुधान्सर्वान्मोहिनीवरदायिनः ।।
धिगिमां धिग्देवसंघं कर्म धिक्पापसंज्ञितम् ।। ३५-५६ ।।

भवतां भावनाशाय पुरुषार्थे प्ररोहकम् ।।
भवंतो यच्च दातारो मोहिन्या वांछितं वरम् ।। ३५-५७ ।।

हत्यायुता भर्तृसुतोपघातिनी विहिनवृत्तिश्च नराशिरूपा ।।
नास्या हि लोके भवतीह शुद्धिः समिद्धवह्नौ पतनेऽपि देवाः ।। ३५-५८ ।।

"हत्यायुतं भर्तृवधो निरर्थकमेतत्समं विप्रवरैः पुराकृतम् ।।
न चापि चास्या भवतीह शुद्धिः समिद्भवह्नौ पतनेऽपि देवाः" ।। ३५-५९ ।।

विमोयित्वा वचनैः सुधामयैरुक्माङ्गदं धर्मंविभूषणं च ।।
प्रियायुतं मोक्षपदं निहत्य चकार भूमिं नृपवर्जितां च ।। ३५-५९ ।।

न चापि वासो नरकेषु देवा अस्याः स्थितिः क्क त्रिदिवेऽल्पबुद्धेः ।।
न चापि राज्ञो निकटे च देवा नाप्येतु विष्णोः पदमव्ययं यत् ।। ३५-६० ।।

न लोकवादेन विदूषिताया लोकेषु कुत्रापि भवेच्च वासः ।।
धिग्रजीवनं कर्ग्मविगर्हिताया देवाः सदा पापसमारतायाः ।। ३५-६१ ।।

पतिं हत्वा सुतं हत्वा सपत्नीं जननीसमाम् ।।
हत्वा धरां समस्तां वा कां गतिं यास्यते सुराः ।। ३५-६२ ।।

इयं पापतरा देवा धर्मविध्वंसिनी हरेः ।।
सर्वदाप्यनया प्रोक्तं भुज्यतां हरिवासरे ।। ३५-६३ ।।

प्राणसंवर्द्धनार्थाय तेषामेवाप्यधोगतिः ।।
भुज्यतां वासरे विष्णोर्हन्यतां गौर्द्विजान्विता ।। ३५-६४ ।।

अपेयं पीयता मुक्त्वा कथं वासं लभेद्दिवि ।।
एतदज्ञानिनां प्रोक्तं ज्ञाननां तु न निर्णयः ।। ३५-६५ ।।

अज्ञानाव्द्याहृते वाक्ये भुज्यतां हरिवासरे ।।
तस्यापि शुद्धिर्गदिता प्राणायामशतेन हि ।। ३५-६६ ।।

अथवाप्युपवासेन एकादश्या दिवौकसः ।।
ऋक्षेण संयुतायास्तु ज्येष्ठकुंडाप्लवेन वा ।। ३५-६७ ।।

शौकरस्पर्शनाद्वापि नरो देवार्चनेन वा ।।
व्याहृते कथितं विप्रैः सेयमद्य सुनिष्ठुरा ।। ३५-६८ ।।

भोजने पापनिरता दिने विष्णोर्दुरासदे ।।
भर्तुर्वाक्यं व्यपोह्यैव घातयित्वा सुतं प्रियम् ।। ३५-६९ ।।

वाक्यज्ञं वाक्यनिरतं मातॄणां तु हिते रतम् ।।
विष्णुधर्मप्रलोप्त्रीयं बहुपापसमन्विता ।। ३५-७० ।।

नैषा स्पृश्यास्ति देवेशाः कथमस्या वरप्रदाः ।।
भवंतो न्याययुक्तेषु धर्मयुक्तेषु तत्पराः ।। ३५-७१ ।।

पालनं पापयुक्तस्य न कुर्वंति दिवौकसः ।।
धर्माधाराः स्मृता देवा धर्मो वेदेसमास्थितः ।। ३५-७२ ।।

वेदैः शुश्रूषणं भर्तुः स्त्रीणां धर्मः प्रकीर्तितः ।।
यद्ब्रवीति पतिः किंचित्तत्कार्यमाविशंकया ।। ३५-७३ ।।

शुक्लं शुक्लमिति ब्रूयात्कृष्णं कृष्णेति चामराः ।।
शुश्रूषा सा हि विज्ञेया न शुश्रूषा हि सेवनम् ।। ३५-७४ ।।

भर्तुराज्ञा हता देवा आत्माज्ञास्थापनेच्छया ।।
तस्मात्पापा न संदेहो मोहिनी सर्वयोषिताम् ।।
सत्यस्य साधनार्थाय शपथैर्यंत्रितो नृपः ।। ३५-७५ ।।

उवाच विविधं वाक्यं सा नैच्छत्पुत्रघातिनी ।।
तेन मोक्षं गतो राजा पापमस्यां विसृज्य च ।। ३५-७६ ।।

सेयं पापशरीरा हि हत्यायुतसमन्विता ।। ३५-७७ ।।

दातारं सर्वदानानां ब्रह्मण्यं हरिदैवतम् ।।
प्रजारंजनशीलं च हरिवासरसेविनम् ।। ३५-७८ ।।

परदारेषु निःस्नेहं विषये विगतस्पृहम् ।।
परार्थत्यक्तकामं च सदा मखनिषेविणम् ।। ३५-७९ ।।

सदैव दुष्टदमने वर्तमानं धरातले ।।
व्यसनैः सप्तभिर्घोरैरनाक्रांतं महीपतिम् ।। ३५-८० ।।

संनिरस्य दुराचारा वरयोग्या कथं भवेत् ।।
योऽस्याः पक्षेतु वर्तेत देवो वा दानवोऽपि वा ।। ३५-८१ ।।

तं चापि भस्मसात्कुर्यां क्षणेन सुरसत्तमाः ।।
मोहिन्या रक्षणे यस्तु प्रयत्नं कुरुते सुराः ।। ३५-८२ ।।

तस्य तज्जायते पापं यन्मोहिन्यां व्यवस्थितम् ।। ३५-८३ ।।

स एवमुक्त्वा नृपते द्विजेंद्रः संगृह्य पाणौ सलिलं च तीव्रम् ।।
क्रोधेन संवीक्ष्य विधिप्रसूतां चिक्षेप तन्मूर्घ्न्यनलप्रकाशम् ।। ३५-८४ ।।

निक्षिप्तमात्रे सलिले महीप सद्यः प्रजज्वाल च तच्छरीरम् ।।
संपश्यतां नाकनिवासिनां तु तृण्या यथा वह्निशिखावलीढा ।। ३५-८५ ।।

कोपं विभो संहर संहरेति यावद्गिरः खे मरुतां बभूवुः ।।
तावत्स वह्निर्द्विजवाक्यमृष्टो भस्मावशेषां प्रमदां चकार ।। ३५-८६ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी चरिते शापप्राप्तिर्नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।।